Jump to content

Dwadasha

From Anandamakaranda
(Redirected from Dwadasha/C9)
द्वादशस्तोत्रम्

प्रथमाध्यायः

वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादिवरदेश वरप्रदम् ॥1॥

नमामि निखिलाधीशकिरीटाघृष्टपीठवत् । हृत्तमःशमनेर्काभं श्रीपतेः पादपङ्कजम् ॥2॥

जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः । स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया ॥3॥

उदरं चिन्त्यमीशस्य तनुत्वेप्यखलिम्भरम् । वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया ॥4॥

स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः । अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥5॥

शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोनिशम् ॥6॥

सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम् । वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेनिशं यतः ॥7॥

स्मरेत यामिनीनाथसहस्रामितकान्तिमत् । भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥8॥

पूर्णानन्दसुखोद्भासि मन्दस्मितमधीशितुः । गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥9॥

स्मरामि भवसन्तापहानिदामृतसागरम् । पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥10॥

ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥11॥

सन्ततं चिन्तयेनन्तमन्तकाले विशेषतः । नैवोदापुर्गृणन्तोन्तं यद्गुणानामजादयः ॥12॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे प्रथमोध्यायः ।

द्वितीयोध्यायः

सुजनोदधिसंवृद्धिपूर्णचन्द्रो गुणार्णवः । अमन्दानन्दसान्द्रो नः प्रीयतामिन्दिरापतिः ॥1॥

रमाचकोरीविधवे दुष्टदर्पोदवह्नये । सत्पान्थजनगेहाय नमो नारायणाय ते ॥2॥

चिदचिद्भेदमखलिं विधायादाय भुञ्जते । अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥3॥

अमन्दागुणसारोपि मन्दहासेन वीक्षितः । नित्यमिन्दिरयानन्दसान्द्रो यो नौमि तं हरिम् ॥4॥

वशी वशे न कस्यापि योजितो विजिताखिलः । सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥5॥

अगुणाय गुणोद्रेकस्वरूपायादिकारिणे । विदारितारिसङ्घाय वासुदेवाय ते नमः ॥6॥

आदिदेवाय देवानां पतये सादितारये । अनाद्यज्ञानपाराय नमो वरवराय ते ॥7॥

अजाय जनयित्रेस्य विजिताखलिदानव । अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥8॥

इन्दिरामन्दसान्द्राग्य्रकटाक्षप्रेक्षितात्मने । अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥9॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे द्वितीयोध्यायः ।

तृतीयोध्यायः

कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् । हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥1॥

न ततोस्त्परं जगतीड्यतमं परमात् परतः पुरुषोत्तमतः । तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥2॥

यततोपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति । स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥3॥

श?ृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् । न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् ॥4॥

यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत् । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥5॥

न कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥6॥

व्यवहारभिदापि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् । बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत् स्वयमेव हरिः ॥7॥

चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा । नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥8॥

आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा । कृतं हर्यष्टकं भक्त्या पठतः प्रियते हरिः ॥9॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे तृतीयोध्यायः ।

चतुर्थोध्यायः

निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः । अजरारमरणः सकलार्तिहरः कमलापतिरीड्यतमोवतु नः ॥1॥

यदसुप्तिगतोपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः । स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥2॥

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः । सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥3॥

स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् । विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥4॥

विमलैः श्रुतिशाणनिशाततमैः सुमनोसिभिराशु निहत्य दृढम् । बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥5॥

स हि विश्वसृजो विभुशम्भुपुरन्दरसूर्यमुखानपरानमरान् । सृजतीड्यतमोवति हन्ति निजं पदमापयति प्रणतान्सुधिया ॥6॥

परमोपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च । क्वचिदद्यतनोपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥7॥

इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थापदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥8॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे चतुर्थोध्यायः ।

पञ्चमोध्यायः

वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त । धराधरधारणवेधुरधर्तः सौधृतिदीधितिवेधृविधातः ॥1॥

अधिक बन्धं रन्धय बोधाच्छिन्धि पिधानं बन्धुरमद्धा । केशव केशव शासक वन्दे पाशधरार्चित शूरवरेश ॥2॥

नारायणामल कारण वन्दे कारण कारण पूर्णवरेण्य । माधव माधव साधक वन्दे बाधक बोधक शुद्धसमाधे ॥3॥

गोविन्द गोविन्द पुरन्दर वन्दे स्कन्दसुनन्दनवन्दितपाद । विष्णो सृजिष्णो ग्रसिष्णो विवन्दे कृष्ण सदुष्णवधिष्णो सुधृष्णो ॥4॥

मधुसूदन दानवसादन वन्दे दैवतमोदित वेदितपाद । त्रिविक्रम निष्क्रम विक्रम वन्दे सङ्क्रम सुक्रम हुङ्कृतवक्त्र ॥5॥

वामन वामन भामन वन्दे सामन सीमन सामन सानो । श्रीधर श्रीधर शन्धर वन्दे भूधर वार्धर कन्धरधारिन् ॥6॥

हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश । पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे । दामोदर दूरतरान्तर वन्दे दारितपारगपाद परस्मात् ॥7॥

आनन्दतीर्थमुनीन्द्रकृता हरिगीतिरियं परमादरतः । परलोकवलिोकनसूर्यनिभा हरिभक्तिविवर्धनशौण्डतमा ॥8॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे पञ्चमोध्यायः ।

षष्ठोध्यायः

मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य । कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥1॥

सूकररूपक दानवशत्रो भूमिविधारक यज्ञवराङ्ग । देव नृसिंह हिरण्यकशत्रो सर्वभयान्तक दैवतबन्धो ॥2॥

वामन वामन माणववेष दैत्यवरान्तक कारणरूप । राम भृगूद्वह सूर्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥3॥

राघव राघव राक्षसशत्रो मारुतिवल्लभ जानकिकान्त । देवकिनन्दन सुन्दररूप रुक्मिणिवल्लभ पाण्डवबन्धो ॥4॥

देवकिनन्दन नन्दकुमार वृन्दावनाञ्चन गोकुलचन्द्र । कन्दफलाशन सुन्दररूप नन्दितगोकुलवन्दितपाद ॥5॥

इन्द्रसुतावक नन्दकहस्त चन्दनचर्चित सुन्दरिनाथ । इन्दीवरोदरदलनयन मन्दरधारिन् गोविन्द वन्दे ॥6॥

चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण । दैत्यविमोहक नित्यसुखादे देवसुबोधक बुद्धस्वरूप ॥7॥

दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धन मूलयुगादे । नारायणामलकारणमूर्ते पूर्णगुणार्णव नित्यसुबोध ॥8॥

आनन्दतीर्थमुनीन्द्रकृता हरिगाथा । पापहरा शुभा नित्यसुखार्था ॥9॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे षष्ठोध्यायः ।

सप्तमोध्यायः

विश्वस्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥1॥

ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्वगीर्वाणसन्ततिरियं यदपाङ्गलेशम् । आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥2॥

धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् । आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥3॥

षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् । आश्रित्य यानपि समेत्य न याति दुःखं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥4॥

शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्मरचनं यदपाङ्गलेशम् । आश्रित्य विश्वमखलिं विदधाति धाता श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥5॥

शक्रोग्रदीधितिहिमाकरसूर्यसूनुपूर्वं निहत्य निखलिं यदपाङ्गलेशम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥6॥

तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् । आश्रित्य नागपतिरन्यसुरैर्दुरापां श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥7॥

नागारिरुग्रबलपौरुष आप विष्णोर्वाहत्वमुत्तमजवो यदपाङ्गलेशम् । आश्रित्य शक्रमुखदेवगणैरचिन्त्यं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥8॥

आनन्दतीर्थमुनिसन्मुखपङ्कजोत्थं साक्षाद्रमाहरिमनःप्रियमुत्तमार्थम् । भक्त्या पठत्यजितमात्मनि सन्निधाय यः स्तोत्रमेतदभियाति तयोरभीष्टम् ॥9॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे सप्तमोध्यायः ।

अष्टमोध्यायः

वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् । इन्दिराचञ्चलापाङ्गनीराजितं मन्दरोद्धारिवृत्तोद्भुजाभोगिनम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥1॥

सृष्टिसंहारलीलावलिासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् । दुष्टनिश्शेषसंहारकर्मोद्यतं हृष्टपुष्टानुशिष्टप्रजासंश्रयम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥2॥

उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् । भिन्नकर्माशयप्राणिसम्प्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥3॥

विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितिशेश्वरैश्चार्चितम् । अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानन्दरूपं परम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥4॥

अत्ययो यस्य केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः । सत्यसङ्कल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥5॥

पश्यतां दुःखसन्ताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् । नश्यतां दूरगं सर्वदाप्यात्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥6॥

अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि । उग्र आद्योपि यस्यात्मजाग्य्रात्मजः सद्गृहीतः सदा यः परं दैवतम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥7॥

अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोशेषदोषैः सदा पूर्तितः । उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेन्द्रपूर्वैः सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥8॥

धार्यते येन विश्वं सदाजादिकं वार्यतेशेषदुःखं निजध्यायिनाम् । पार्यते सर्वमन्यैर्न यत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥9॥

सर्वपापानि यत्संस्मृतेः सङ्क्षयं सर्वदा यान्ति भक्त्या विशुद्धात्मनाम् । शर्वगुर्वादिगीर्वाणसंस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥10॥

अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यान्ति दुःखानि यन्नामतः । अक्षरो योजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाजादिकम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥11॥

नन्दितीर्थोरुसन्नामिनो नन्दिनः सन्दधानाः सदानन्ददेवे मतिम् । मन्दहासारुणापाङ्गदत्तोन्नतिं नन्दिताशेषदेवादिवृन्दं सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥12॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे अष्टमोध्यायः ।

नवमोध्यायः

अतिमत तमोगिरिसमितिविभेदन पितामहभूतिद गुणगणनलिय । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥1॥

विधिभवमुखसुरसततसुवन्दित रमामनोहर भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥2॥

अगणितगुणगणमयशरीर हे विगतगुणेतर भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥3॥

अपरिमितसुखनिधिविमलसुदेह हे विगतसुखेतर भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥4॥

प्रचलितलयजलविहरणशाश्वत सुखमय मीन हे भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥5॥

सुरदितिजसुबलवलिुलितमन्दरधर परकूर्म हे भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥6॥

सगिरिवरधरातलवह सुसूकर परम विबोध हे भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥7॥

अतिबलदितिसुतहृदयविभेदन जय नृहरेमल भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥8॥

बलिमुखदितिसुतविजयविनाशन जगदवनाजित भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥9॥

अविजितकुनृपतिसमितिविखण्डन रमावर वीरप भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥10॥

खरतरनिशिचरदहन परामृत रघुवर मानद भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥11॥

सुललिततनुवर वरद महाबल यदुवर पार्थप भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥12॥

दितिसुतमोहन विमलविबोधन परगुणबुद्ध हे भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥13॥

कलिमलहुतवह सुभग महोत्सव शरणद कल्कीश हे भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥14॥

अखलिजनिवलिय परसुखकारण परपुरुषोत्तम भव मम शरणम् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥15॥

इति तव नुतिवरसततरतेर्भव सुशरणमुरुसुखतीर्थमुनेर्भगवन् । शुभतमकथाशय परम सदोदित जगदेककारण राम रमारमण ॥16॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे नवमोध्यायः ।

दशमोध्यायः

अवनः श्रीपतिरप्रतिरधिकेशादिभवादे । करुणापूर्णवरप्रद ज्ञापय मे ते ॥1॥

सुरवन्द्याधिप सद्वर भरिताशेषगुणालम् । करुणापूर्णवरप्रद ज्ञापय मे ते ॥2॥

सकलध्वान्तविनाशक परमानन्दसुधाहो । करुणापूर्णवरप्रद ज्ञापय मे ते ॥3॥

त्रिजगत्पोत सदार्चितचरणाशापतिधातो । करुणापूर्णवरप्रद ज्ञापय मे ते ॥4॥

त्रिगुणातीत विधारक परितो देहि सुभक्तिम् । करुणापूर्णवरप्रद ज्ञापय मे ते ॥5॥

शरणं कारणभावन भव मे तात सदालम् । करुणापूर्णवरप्रद ज्ञापय मे ते ॥6॥

मरणप्राणद पालक जगदीशाव सुभक्तिम् । करुणापूर्णवरप्रद ज्ञापय मे ते ॥7॥

तरुणादित्यसवर्णकचरणाब्जामलकीर्ते । करुणापूर्णवरप्रद ज्ञापय मे ते ॥8॥

सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे । करुणापूर्णवरप्रद ज्ञापय मे ते ॥9॥

खजतूणीनिभपावनवरजङ्घमितशक्ते । करुणापूर्णवरप्रद ज्ञापय मे ते ॥10॥

इभहस्तप्रभशोभनपरमोरुस्थरमाले । करुणापूर्णवरप्रद ज्ञापय मे ते ॥11॥

असनोत्फुल्लसुपुष्पकसमवर्णावरणान्ते । करुणापूर्णवरप्रद ज्ञापय मे ते ॥12॥

शतमोदोद्भवसुन्दरवरपद्मोत्थितनाभे । करुणापूर्णवरप्रद ज्ञापय मे ते ॥13॥

जगदागूहकपल्लवसमकुक्षे शरणादे । करुणापूर्णवरप्रद ज्ञापय मे ते ॥14॥

जगदम्बामलसुन्दरगृलवक्षोवरयोगिन् । करुणापूर्णवरप्रद ज्ञापय मे ते ॥15॥

दितिजान्तप्रद चक्रदरगदायुग्वरबाहो । करुणापूर्णवरप्रद ज्ञापय मे ते ॥16॥

परमज्ञानमहानिधिवदनश्रीरमणेन्दो । करुणापूर्णवरप्रद ज्ञापय मे ते ॥17॥

निखिलाघौघविनाशक परसौख्यप्रददृष्टे । करुणापूर्णवरप्रद ज्ञापय मे ते ॥18॥

परमानन्दतीर्थमुनिराजो हरिगाथाम् । कृतावान्नित्यसुपूर्णैकपरमानन्दपदैषी ॥19॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे दशमोध्यायः ।

एकादशोध्यायः

उदीर्णमजरं दिव्यममृतस्यन्द्यधीशितुः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥1॥

सर्ववेदपदोद्गीतमिन्दिरावासमुत्तमम् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥2॥

सर्वदेवादिदेवस्य विदारितमहत्तमः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥3॥

उदारमादरान्नित्यमनिन्द्यं सुन्दरीपतेः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥4॥

इन्दीवरोदरनिभं सुपूर्णं वादिमोहदम् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥5॥

दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥6॥

दूराद् दूरतरं यत्तु तदेवान्तिकमन्तिकात् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥7॥

पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् ॥8॥

आनन्दतीर्थमुनिना हरेरानन्दरूपिणः । कृतं स्तोत्रमिदं पुण्यं पठन्नानन्दतामियात् ॥9॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे एकादशोध्यायः ।

द्वादशोध्यायः

आनन्द मुकुन्द अरविन्दनयन । आनन्दतीर्थपरानन्दवरद ॥1॥

सुन्दरीमन्दिर गोविन्द वन्दे । आनन्दतीर्थपरानन्दवरद ॥2॥

चन्द्रकमन्दिरनन्दक वन्दे । आनन्दतीर्थपरानन्दवरद ॥3॥

चन्द्रसुरेन्द्रसुवन्दित वन्दे । आनन्दतीर्थपरानन्दवरद ॥4॥

मन्दारस्यन्दकस्यन्दन वन्दे । आनन्दतीर्थपरानन्दवरद ॥5॥

वृन्दारकवृन्दसुवन्दित वन्दे । आनन्दतीर्थपरानन्दवरद ॥6॥

मन्दारस्यन्दितमन्दिर वन्दे । आनन्दतीर्थपरानन्दवरद ॥7॥

मन्दिरस्यन्दनस्यन्दक वन्दे । आनन्दतीर्थपरानन्दवरद ॥8॥

इन्दिरानन्दकसुन्दर वन्दे । आनन्दतीर्थपरानन्दवरद ॥9॥

आनन्दचन्द्रिकास्यन्दन वन्दे । आनन्दतीर्थपरानन्दवरद ॥10॥