ऐतरेयोपनिषत्

change script to

एष पन्था एतत्कर्म एतद्ब्रह्मैतत्सत्यम् । तस्मान्न प्रमाद्येत्तन्नातीयान्न ह्यत्यायन् पूर्वे येऽत्यायंस्ते परा बभूवुः ।
बृहदारण्यकोपनिषद्भाष्यम् नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम् । प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम् ॥
प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः । तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत् ॥
तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ । दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥
शृण्वत्सु तेषु भगवानवदद्रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम् । सा बह्वृचैः प्रपठिता चतुराननास्याद्यस्यां रहस्यमुदितं परमं हि विष्णोः ॥
महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः । विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः ॥
इति ऋक्संहितायाम् । एष एव सदा पन्था भगवान् पुरुषोत्तमः । नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः ॥
ब्रह्मैव गुणपूर्णत्वात् सत्यं साधुस्वरूपतः । क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत् ॥
पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः । मुक्ता श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका ॥
तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयुर्न्य१न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति । प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः । न्य १ न्या अर्कमभितो विविश्र इति । ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम् । बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः पवमानो हरित आ विविशेति । वायुरेव पवमानो दिशो हरित आविष्टः ॥
प्रथमः खण्डः ॥
विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः । वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा ॥
अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः । राक्षसा असुरा ईरपादा इति समीरिताः ॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः । वायुर्देवोऽत्रासुराणामैश्वर्यं गुण एव हि ॥
ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन् । पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः ॥
देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः । आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम् ॥
अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम् । आजनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः ॥
अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः । कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा ॥
आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ । तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि ॥
आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः । मुच्यन्ते ऋषयो नित्यं नान्यथा तु कथञ्चन ॥
वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम् । संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम् ॥
पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च । आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः ॥
आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः ॥
१ ॥
उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवी तो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्याग्निरर्कोन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति । तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । असावेव द्यौरुक्थममुतःप्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । इत्यधिदैवतम् । अथाध्यात्मम् । पुरुष एवोक्थमयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात् । तस्य मुखमेवोक्थं यथा पृथिवी तथा । तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । नासिके एवोक्थं यथाऽन्तरिक्षं तथा । तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । तदेतद् ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव । ललाटमेवोक्थं यथा द्यौस्तथा । तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । समानमशीतयोऽध्यात्मं चैवाधिदैवतं चान्नमेव । अन्नेन हीमानि सर्वाणि भूतानि समनन्तीग्ं ३ । अन्नेनेमं लोकं जयत्यन्नेनामुम् । तस्मात् समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव । तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । यद्ध किञ्चेदं प्रेता३ इ तदसौ सर्वमत्ति । यदु किञ्चातः प्रैती३ तदियं सर्वमत्ति । सेयमित्याद्याऽत्री । अत्ता ह वा आद्यो भवति । न तस्येशे यं नाद्याद्यद्वैनं नाद्युः ॥
२ ॥
उत्थापनादुक्थनामा स एव पृथिवीस्थितः । प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः ॥
अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात् । अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः ॥
पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च । अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥
पृथक्पृथक्च तस्याङ्गान्युक्थानि जगदीशितुः । अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् ॥
वदनं नासिका नेत्रमित्येतानि परात्मनः । तृचाऽशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः ॥
विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम् । अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता ॥
सोम एव ततश्चान्नमशीतय इतीरितम् । अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः ॥
मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम् । अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः ॥
श्येन एव तदाकारा चितिरर्कपदोदिता । सुपर्णप्रतिमा सा यत्तदारूढो जनार्दनः ॥
तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः । योऽसौ चितिगतो वीन्द्रः सोऽग्निवातरविष्वपि ॥
तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः । तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक् ॥
स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः । व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम् ॥
नासयोर्नासिका विष्णोरक्ष्णोरेव तदक्षिणी । जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः ॥
विष्णोर्वाग्भार्गवो रामो प्राणोऽस्य नरकेसरी । चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम् ॥
जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः । अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः ॥
अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः । स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः ॥
सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः । अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः ॥
अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः । अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः ॥
तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः । पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः ॥
परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः । निहितश्चैव तल्लोको नासिकायां नतस्थले ॥
पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः । पतितं सर्वमेवात्ति तथा दिवि च संस्थितः ॥
इतो गतं सर्वमत्ति द्युनामा भगवान् परः । भोग्यत्वादाद्य इत्युक्तः एवमाद्यात्तृरूपवान् ॥
एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः । आद्यो भवति चान्येषां नोपजीव्यो भवेद्यथा ॥
हरिः स सर्वजीवानां न भुज्यन्ते यथाऽमुना । सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥
२ ॥
अथातो रेतसः सृष्टिः । प्रजापते रेतो देवाः । देवानां रेतो वर्षम् । वर्षस्य रेत ओषधयः । ओषधीनां रेतोऽन्नं अन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाक् वाचो रेतः कर्म । तदिदं कर्म कृतम् । अयं पुरुषो ब्रह्मणो लोकः । स इरामयो यद्धीरामयस्तस्मात् हिरण्मयः । हिरण्मयो ह वा अमुष्मिं ल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद ॥
३ ॥
-स एष भगवान् विष्णुः प्रजापतिरितीरितः । तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च ॥
वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन् । ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च ॥
सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः । प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा ॥
विकल्पाद्वाक्प्रचारश्च वाचा नामादिवेदनात् । कर्म सञ्जायते तस्मात् कर्मणश्च जगत्पुनः ॥
कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः । आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥
इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम् । इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥
हिरुक्सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग्यतः । आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥
उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः । एवं नारायणं जानन् सर्वलोकैककारणम् ॥
तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः ॥
३ ॥
तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम् । यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात् प्रपदे तस्मात् प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्वमुदसर्पत् । ता ऊरू अभवताम् । उरु गृणीहीत्यब्रवीत् । तदुदरमभवत् । उर्वेव मे कुर्वित्यब्रवीत् । तदुरोऽभवत् । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता ३ ई । ऊर्ध्वं त्वेवोदसर्पत् । तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत् । तच्छिरसः शिरस्त्वम् । ता एताः शीर्षच्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः । श्रयन्तेऽस्मिञ्च्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद ।
तमिमं प्रथमज्ञानिपुरुषं चतुराननम् । वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥
यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् । तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥
चतुर्मुखाकारवतां नृणां पादतलोपरि । प्रपदाख्या वर्ततेऽतो न तु पश्वादिनां क्वचित् ॥
अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च । स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥
किंिचदूर्ध्वं ततो गत्वा वायुना सह केशवः । वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥
उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा । तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥
उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् । तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः ॥
उरोमध्ये च हृदयं तत्रावासो हरेः सदा । सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥
उदरे ते परं ब्रह्म वासुदेवमुपासते । हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥
उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् । एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥
तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः । स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥
तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः । शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥
अहम्भावमनो रुद्रः शेषोऽसौ पाञ्चरात्रकम् । वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥
श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः । एते देवास्तदन्ये च सर्वप्राणिषु संस्थिताः ॥
उपासते महाविष्णुं परमात्मानमच्युतम् ।
ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति । ता अब्रुवन् । हन्तास्माच्छरीरादुत्क्रामाम तद्यस्मिन् न उत्क्रान्त इदं शरीरं पत्स्यति तदुक्थं भविष्यतीति ॥
वागुदक्रामदवदन्नन् अश्नन् पिबन्नास्तैव । चक्षुरुदक्रामदपश्यन्नश्नन् पिबन्नास्तैव । श्रोत्रमुदक्रामत् अशृण्वन् अश्नन् पिबन्नास्तैव । मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तैव । प्राण उदक्रामत् प्राण उत्क्रान्तेऽपद्यत तदशीर्यताशारीतीं३ । तच्छरीरमभवत् । तच्छरीरस्य शरीरत्वम् । शीर्यते ह वा अस्य द्विषन् पाप्मा भ्रातृव्यः पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ।
-वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥
ते विष्णोराज्ञयाऽवोचन्नुत्क्रमाम पृथक् पृथक् । देहादब्जभवस्यास्माद्यस्मिन्नुत्क्रान्त एव हि ॥
शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् । ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः । निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित् ॥
वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ । उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः ॥
तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः ।
ता अहिंसन्तैवाहमुक्थमस्महमुक्थमस्मीति । ता अब्रुवन् हन्तेदं पुनः शरीरं प्रविशाम तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति । वाक्प्राविशदशयदेव । चक्षुः प्राविशदशयदेव । श्रोत्रं प्राविशदशयदेव । मनः प्राविशदशयदेव ॥
प्राणः प्राविशत् । तत्प्राणे प्रपन्न उदतिष्ठत् । तदुक्थमभवत् । तदेतदुक्थं प्राण एव । प्राण उक्थमित्येव विद्यात् । तं देवा अब्रुवन् त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसीति । तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति ॥
४ ॥
पुनस्ते प्राविशन् सर्वे वह्निसूर्यौ शशी शिवः ॥
नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः । वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च ॥
उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः । उच्चत्वं च गुणाधिक्यं त्वमुच्चोऽसीति तेऽब्रुवन् ॥
भृत्या वयं तवैव स्मः त्वमस्माकं पतिः सदा । स्पर्धामहे त्वद्बलेन त्वया नान्येन केनचित् ॥
इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् । वायुः स संस्तुतस्तैश्च प्रसन्नोभूद् दिवौकसाम् ॥
४ ॥
तं देवाः प्राणयन्त । स प्रणीतः प्रातायत । प्रातायीती३ तत्प्रातरभवत् । समागादिती३ तत्सायमभवत् । अहरेव प्राणो रात्रिरपानः ।
तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम् । शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् ॥
वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः । ये ये गुणान् विजानन्तिवायोस्तानाविशन् मरुत् ॥
तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह । प्रततत्वात् प्रातरिति तस्य नामाऽभवद्विभोः ॥
सङ्गतश्चाभवज्जीवचिता रूपान्तरेण सः । सङ्गतत्वात् सायमिति तद्रूपं नामतोऽभवत् ॥
वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।
वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत् तदुक्तं भवति ।
अध्यात्ममग्निर्वागाख्यश्चक्षुः सूर्यः प्रकीर्तितः ॥
यज्ञादिसाधने यत्तु मनश्चन्द्रः प्रकीर्तितः । मित्रो यमश्च वरुणः कुबेरश्च दिगीश्वराः ॥
श्रोत्राभिमानिनः सर्वे वैदिकश्रवणोचितम् । श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम् ॥
यम एव षडङ्गानां विषयश्रवणोचितम् । श्रोत्रं तु वरुणः काम्यशास्त्रार्थं मित्र एव च ॥
श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरश्च प्रकीर्तितः । विष्णुना प्रहितानां हि संयोगोऽध्यात्ममेष हि ॥
शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरा । एतास्सर्वा देवता हि ब्रह्मवायुसुपर्णकाः ॥
शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि । अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः ॥
अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः । देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः ॥
पूर्णज्ञानस्वरूपत्वादेतावत् कथितं भवेत् । तात्पर्यात् सर्ववेदैश्च ...
एतद्धस्म वै तद्विद्वानाह हिरण्यदन् वैदो न तस्येशेऽयं मह्यं न दद्युरिति ॥
प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध । तदनीशानानि ह वा अस्मै भूतानि बलिं हरन्ति य एवं वेद ॥
-... तज्जानन्नवदन् मुनिः ॥
हिरण्यदन्नाम वैदो भूतेषु हि सुरानृते । मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा ॥
विष्णुना प्रहितानां हि देवानामहमुत्तमम् । वेद संयोगमाध्यात्मं ततो मुक्तो यथेष्टभुक् ॥
स्यान्नैवात्रास्ति सन्देहः स्वेच्छाविहृतिरेव च । मन्निषेधे न शक्तोऽस्ति प्रीता देवा हि मे सदा ॥
अधिदैवेन सहिता विष्णुना प्रभविष्णुना । एतदि्ध तेन कथितं मुनिना तत्त्ववेदिना ॥
विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा । वेद तं च नियोक्तारमुपास्ते विष्णुमव्ययम् ॥
एतादृशोपासनाया योग्यः सन् सततं सुधीः । स्वस्वाम्यन्यानि भूतानि हरेयुर्बलिमस्य हि ॥
मुक्तस्य वैष्णवे लोके मुक्तानि च न संशयः । इत्येतद्ध्यानयोगाश्च मुनयो देवतास्तथा ॥
मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः । मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः ॥
तत्सत्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत् त्रिवृत् । त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति । स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं भवति य एवमेतत् सत्यस्य सत्यत्वं वेद ॥
५ ॥
स एष भगवान् विष्णुः सत्यमित्यभिधीयते । सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च ॥
देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते । शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि ॥
वायुः सदिति सम्प्रोक्तो जीवेषु तु सुपूर्णतः । तीति ब्रह्मा समुदि्धष्टः स एवान्नाभिमानवान् ॥
अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत । अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः ॥
यमित्यादित्य उद्दिष्टो यमयेद् यत्प्रकाशनात् । देवतात्त्रयमेतत्तु सहितं सत्यमुच्यते ॥
शुक्लकृष्णकनीनासु चक्षुषोऽप्येत आस्थिताः । एवं सत्यपदार्थं हि विज्ञायोपास्त आदरात् ॥
योग्यस्तस्या उपासाया नैवासत्येन दुष्यति । देवता मुनयश्चैव योग्या अस्या अपि स्फुटम् ॥
मनुष्याणां ज्ञानमात्राद्दोषो नातितरां भवेत् ॥
५ ॥
तस्य वाक् तन्तिर्नामानि दामानि । तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् । सर्वं हीदं नामानी ३ । सर्वं वाचाऽभिवदति । वहन्ति ह वा एनं तन्तिसम्बद्धा य एवं वेद ।
तस्य नारायणस्यैव सर्ववेदात्मिका हि वाक् । तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत् ॥
विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु । दाम तेनैव बध्नाति सकलं जगदच्युतः ॥
सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि । वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम् ॥
य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः । ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ॥
तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः । बलिं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च ॥
योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः । भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः ॥
मुक्तः संश्च तदन्येषां ज्ञानमात्राद्विमुक्तिगैः । स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्वचित् क्वचित् ॥
तथैव वायुना बद्धं जगदेतत् ततोऽवरम् । सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥
तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुप् मांसमनुष्टुप् स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती । स च्छन्दोभिश्छन्नो यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते । छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणो यस्यां कस्यांिचद्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद ।
विष्णोर्वायोश्च लोमादौ छन्दांस्येवाश्रितानि च । विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम् ॥
लोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि । छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा ॥
छन्दांसीत्येव तेषां हि य एवंविदुपासकः । निवारयंित पापेभ्यश्छन्दांसि किमु केशवः ॥
योग्या अस्याश्च विद्यायाः भृग्वाद्या देवतास्तथा । छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदम् ॥
तदुक्तमृषिणा अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति । अनिपद्यमानमिति न ह्येष कदाचन संविशति । आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति । स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः । आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति ॥
मन्त्रोऽप्यर्थमिमं प्राहापश्यं गोपामिति स्म ह । एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः ॥
छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः । वायुश्च वायुसंस्थश्च कदाचिन्नैव तिष्ठतः ॥
वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान् । चोदितः केशवेनैव तत्स्थेनामितशक्तिना ॥
आसमन्तात् पराक्चापि पञ्चभूतेभ्य ईश्वरः । वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः ॥
सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि । नित्यदा वसतः कोणदिक्ष्वथाऽसु विषूचिषु ॥
अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ ।
अथो आवृतासोऽवतासो न कर्तृभिरिति ॥
सर्वं हीदं प्राणेनाऽऽवृतम् । सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धः । तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्यापिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात् ॥
६ ॥
हस्तयोरेतयोरेव नित्याक्षीणं वसु स्थितम् ॥
तद्ध्यसह्यं बलं वायोरनन्तं किमु तद्धरेः । वायोराधारभूतस्य ताभ्यां हि क्रतुनामकाः ॥
आवृताः सर्वजीवा हि यथैव कनकावटाः । आच्छाद्यन्ते वित्तवदि्भस्ताभ्यामेवं च चेतनाः ॥
आवृता महदाद्यास्तु देहे तिष्ठन्ति चैतयोः । विष्टब्धाश्चैव सर्वेऽपि जीवा आकाश एव च ॥
स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि । बृहत्वात् बृहतीत्येव तयोर्नाम प्रकीर्तितम् ॥
वायुकेशवयोः प्राणनाम सर्वप्रणायनात् । विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः ॥
इति विद्यात् ... ॥
६ ॥
अथाऽतो विभूतयोऽस्य पुरुषस्य । तस्य वाचा सृष्टौ पृथिवी चाग्निश्च । अस्यामोषधयो जायन्ते । अग्निरेनाः स्वदयतीदमाहरतेदमाहरतेति । एवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च । यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद ।
... तस्य विष्णोरङ्गानामथ वैभवम् । उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥
शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः । ताः पचत्यग्निरुद्युक्तः आहृता आहृताः पुनः ॥
आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः । मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥
आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा । सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥
तद्भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतस्सदा । विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥
योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः । समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥
अनष्टलोको वसति समीपे केशवस्य च । योग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये ॥
योग्यास्ते वै मुख्यतया तदन्ये तत्र तौ स्थितौ । तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यथेच्छया ॥
कादाचित्कोपासने तु तावत्येषां च योग्यता । वेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा ॥
एकदेशविदो यस्मात् परोक्षज्ञानिनोऽखिलाः । आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्वचित् ॥
तस्मादुपासापूर्वं तु योऽपरोक्षं प्रपश्यति । स एव वेद नान्यस्तु योग्यस्यैवापरोक्षदृक् ॥
तस्माद्योग्यस्योक्तफलमन्येषां किंिचदेव हि ।
प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति । वायुरस्मै पुण्यं गन्धमावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च । यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यतेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद । चक्षुषा सृष्टौ द्यौश्चादित्यश्च । द्यौर्हास्मै वृष्टिमन्नाद्यं सम्प्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चादित्यश्च । यावदनु द्यौः यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते ॥
यावदेतयोर्न जीर्यते दिवश्चादित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद । श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च । दिग्भ्यो हैनमायान्तीं ३ । दिग्भ्यो विशृणोति ॥
चन्द्रमा अस्मै पूर्वपक्षापरपक्षान् विचिनोति पुण्याय कर्मणे । एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च । यावदनु दिशो यावदनु चन्द्रमास्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिं वेद । मनसा सृष्टा आपश्च च वरुणश्च । आऽऽपो हास्मै श्रद्धां सन्नमन्ते पुण्याय कर्मणे । वरुणोऽस्य प्रजां धर्मेण दाधारैवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च । यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद ॥
७ ॥
प्राणादिभ्यश्च वाय्वाद्या एवं विष्णोः प्रजज्ञिरे ॥
ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः । ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः ॥
वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः । प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोऽधिपः ॥
एवं हि सर्वदेवा हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे । स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक् पृथक् ॥
विष्णोः विषयधर्मेषु ज्ञानादिषु चतुर्मुखः । श्रद्धां ददाति भूतानां वैदिकश्रवणे विपः ॥
तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि । वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा ॥
भूतानां तस्य विषये त्वन्तरिक्षं च कर्मणः । तदीयस्यैव भोगार्थं जीवानां श्रुतिचारदम् ॥
अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये । भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी ॥
७ ॥
आपाः ३ इत्यापः इति । तदिदमाप एवेदं वै मूलमदस्तूलमयं पितैते पुत्रा यत्र ह क्वच पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत् तदुक्तं भवति तद्धस्म वै तद्विद्वानाह महिदास ऐतरेय आहं मां देवेभ्यो वेदा ओमद्देवान् वेदेतः प्रदाना ह्येत इतः सम्भृता इति ।
आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् । नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ॥
आप इत्येव नामैषां भवतीत्याह स प्रभुः । इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ॥
आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च । तूलभूतं तदन्यत् तु पिता ह्येष जनार्दनः ॥
पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूलवत् । स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः ॥
तन्नामाऽऽप इति ह्येतद्ब्रह्मरुद्रादिनां भवेत् । यथा यदव इत्येव रघवः कुरवस्तथा ॥
पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि । यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥
तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः । आप इत्येव देवानां सर्वेषां प्रददौ हरिः ॥
स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः । नारायणादिनामानि ददौ नान्यस्य केशवः ॥
एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः । जानन्नित्योदितज्ञानादाह देवीमिदं वचः ॥
देवपर्यन्तमा व्याप्तिं वेदाहं मम सर्वदा । मत्पर्यन्तं यथा व्याप्तिं देवानामपि सर्वशः ॥
मयि देवास्तेषु चाहमिति विदि्धवरानने । मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः ॥
अधितिष्ठन्ति सत्ताद्या अप्येतेषां मदाज्ञया । ज्ञानकर्मबलेहाद्या मद्दत्ता इति किं वदे ॥
सम्भृता मत्त एवैते ... .. ....
स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते । गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥
..... स एष भगवान् गिरिः । गिरणात् सर्वभूतानां चक्षुर्नामास्य दर्शनात् ॥
सर्वश्रोतृत्वतः श्रोत्रं मनो मन्तृत्वहेतुतः । प्राणनामा प्रणेतृत्वात् तमेनं गुणपूर्तितः ॥
गिरणाच्चाखिलस्यास्य प्राहुर्ब्रह्मगिरिं प्रभुम् । य एवं वेद तं विष्णुमापरोक्ष्येण शाश्वतम् ॥
गिरत्येवाखिलं पापं भ्रातृवत् सह संस्थितम् । पराभवति पाप्माऽस्य द्वेष्टा निरयगः सदा ॥
स एषोऽसुः । स एष प्राणः । स एष भूतिश्चाभूतिश्च तं भूतिरिति देवा उपासाञ्चक्रिरे । ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसिति । अभूतिरित्यसुरास्ते ह पराबभूवुर्भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥
असनाद्भगवान् सोऽसुः सर्वस्यापि जनार्दनः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥
स एष भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः । अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः ॥
सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् । उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः ॥
बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः । देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः ॥
स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति । भूःशब्दार्थो भूतिरिति वैपरीत्येन चासुराः ॥
अभूतिकारकोऽस्माकमैश्वर्यादिगुणोज्झितः । इत्येवोपासते तस्मात् पराभूताश्च सर्वशः ॥
ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ । य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम् ॥
भावाभावं च देवानां दैत्यानां चैवमेव तु । ज्ञानैश्वर्यादिभिः सोऽपि भवेत् तस्य परात्मनः ॥
प्रसादात् तस्य पाप्मा च पराभवति सर्वशः ।
स एष मृत्युश्चैवामृतं च । तदुक्तमृषिणा– अपाङ्प्राङेति स्वधया गृभीत इति । अपानेन ह्ययं यतः प्राणो न पराङ्भवति । अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि मर्त्यानि हीमानि शरीराणी३ । अमृतैषा देवता । ता शश्वन्ता विषूचीना वियन्ता न्य१ न्यं चिक्युर्न निचिक्युरन्यमिति, निचिन्वन्ति हैवेमानि शरीराणी३ । अमृतैवैषा देवता । अमृतो ह वा अमुष्मिं ल्लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद य एवं वेद ॥
८ ॥
स एष भगवान् विष्णुर्मृत्युदो मोक्षदस्तथा ॥
स एव जीवनकरो यदाऽपानेन संयुतम् । प्राणं नियमयत्यस्मिञ्च्छरीरे पुरुषोत्तमः ॥
शरीराद् बहिरेतौ तु यदा निःसारयत्यजः । तदा मृत्युप्रदश्चायं मुक्तानामपि जीवनम् ॥
प्राणादेव हि तत्रापि प्राणाधारो जनार्दनः । अर्वाक्प्राक्च सदा गच्छेद्वायुरानन्दरूपिणा ॥
अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः । अनेन हरिणा यस्मान्नियतो न पराग्भवेत् ॥
अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः । अनित्या अपि देहास्ते शश्वत् सन्त्याविमोक्षतः ॥
स्थूलसूक्ष्मविभागेन किमु वायुर्जगत्प्रभुः । नानागती तु तावेतौ वायुः प्राप्नोति केशवम् ॥
शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति । जडं तज्जडतामेति चेतना वायुदेवता ॥
चेतनेशं हरिं याति विरुद्धगमनौ च तौ । ऊर्ध्वं गच्छति देवः स देहोऽधः पतति क्षितौ ॥
दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता । य एवं वेद तं वायुममृतं सर्वनायकम् ॥
पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा । स मुक्तो लोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते ॥
इति च । ब्रह्मपन्थाः सत्यं कर्मेति तस्य नारायणस्य वासुदेवाद्याः क्रमेण चतस्रो मूर्तयः । नासिकायां यन्नेत्रयोर्मध्ये विनतमिव किंिचन्नतस्थानं तत्सूर्यलोकस्थानीयं विद्यात् । तथेति निर्णयः । इरामया इति दैर्घ्यमवधारणार्थम् । दैर्घ्यं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे इति शब्दनिर्णये । ब्रह्मा हैवं ता३ ईते । देशतः कालतोऽर्थाच्च बलतो गुणतस्तथा । स्वरूपतोऽपि नैव स्याद् भेदोऽत्यल्पोपि यत्र हि ॥
केवलैश्वर्ययोगेन यत्र सङ्ख्यादिवद्भवेत् । स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु ॥
अचिन्त्यात् तु तथैश्वर्यादेकोऽपि बहुरूपवान् । प्रकाशयेद्यतो विष्णुः सर्वत्राप्यविशेषवान् ॥
न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन । नैश्वर्ये न बले चैव नानन्दादिगुणेष्वपि ॥
इत्यादिशब्दनिर्णयवचनात् द्विवचनमत्र व्यवहारमात्रमिति दर्शयितुं ता इत्युक्तम् । संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥
इत्यतो ब्रह्माहेति दैर्घ्यमपि परब्रह्मत्वविवक्षया । अद उ एव नारायणाख्यमधिदैवतं अन्यानि दैवतमात्राणि । स्थानान्तरेऽन्येषामप्यधिदैवत्वकथनम् । कर्मजदेवाद्यपेक्षया । मुख्याधिदैवतं नारायण एव । तस्योष्णिग्लोमानीत्यादि लोमसूष्णिगित्याद्यर्थे । सप्तसु प्रथमा इति सूत्रात् । सच्छन्दोऽभिश्छन्न इति वाक्यशेषात् । ब्राह्मणोऽस्य मुखमासीत् इत्यादिवच्च । अङ्गेषु यस्य छन्दांसि देवा लोका मखा अपि । तद्वशा नियता नित्यं नमस्तस्मै परात्मने ॥
इति स्कान्दे । अस्मै पुण्याय कर्मण इत्येतमुद्दिश्य जीवानां पुण्यकर्म कर्तुम् । तैर्हि स्तुत्यादिकर्माणि कृतानि श्रोत्रेण शृणोति भगवान् । दिग्भ्योऽप्यन्य एव विशृणोति जीवः । अन्येषां जीवानां श्रवणजं भोगं स्वश्रोत्रेण दिग्भिरननुगृहीतेनैव भगवान् भुङ्क्ते । न च जीववागादिना पृथिव्यग्नादिकं सृष्टमित्यत्र किंिचन्मानमस्ति । मुखादिन्द्रश्चाग्निश्चेत्यादिना भगवतः सकाशादि्ध सर्वेषां सृष्टिः प्रसिद्धा । सृष्टिभेदादन्यथावचनम् । न च मुख्यकारणाङ्गीकारेऽविरोधे औपचारिकं कारणमङ्गीकर्तुं युक्तम् । अतिप्रसङ्गात् । न हि यत्किंिचत् कारणत्वमस्तीत्येतावता ब्राह्मणस्य चण्डालः पितेत्युच्यते । पितृत्वं चात्रोक्तं वाचं पितरमित्यादिना । मनुष्याणां तु यत्कर्म न देवोत्पत्तिकारणम् । दैवतैरुपकारस्तु क्रियते नरकर्मणाम् ॥
देवानां कर्मणैवैते जायन्ते सर्वमानुषाः । प्रधानत्वान्न देवानां नृकर्मोत्पत्तिकारणम् ॥
इति च ब्रह्माण्डे । आह महिदास ऐतरेय इति तु सर्वस्य वचनस्य तदीयत्वज्ञापनार्थं न तु सन्निहितस्यैव । यथेन्द्रं कुत्स इत्यादि । यथा च पूर्वं तु बादरायणो हेतुव्यपदेशात् इति ॥
८ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके प्रथमोऽध्यायः ॥
एष इमं लोकमभ्यार्चत् पुरुषरूपेण य एष तपति । प्राणो वाव तदभ्यार्चत् । प्राणो ह्येष य एष तपति ।
एष नारायणो देवो वायुना सहेमं लोकमभ्यार्चत् । ब्रह्मादिशरीरेषु प्रविवेश । पुरुष इत्यन्तर्यामिरूपस्याख्या पुरि शेत इति । प्रसिद्धत्वाच्च पञ्चरात्रेषु । य एष सूर्यमण्डले स्थित्वा तपति स भगवान् नारायणः । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद इत्यादिश्रुतिभ्यः । य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्युक्त्वा तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्युक्तत्वान्न शिवादयः । शिवो हि विरूपाक्षः । प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान्नारायणः । यमादित्यो न वेदेत्युक्तत्वान्नादित्यः । भेदव्यपदेशाच्चान्यः इति भगवद्वचनम् । वृत्रं यदिन्द्र शवसावधीरहिमादित् सूर्यं दिव्यारोहयो दृशे । यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥
सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि । चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत । यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः । उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य । येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः । तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
इति नारसिंहपुराणे । तापनी पाचिका चैव शोषणी च प्रकाशनी । नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य सा ॥
इति पाद्मे । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विदि्ध मामकम् ॥
इति च । न च विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित् । उत्पत्तिस्तु प्रादुर्भावापेक्षया । एको नारायण आसीन्न ब्रह्मा न च शङ्करः इति महाप्रलये तस्यैवावस्थानश्रुतेः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वं मम योनिरप्स्वं१तः समुद्रे । ततो वितिष्ठे भुवना नु विश्वा परो दिवा पर एना पृथिव्या इत्याह । अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं सुवे पितरमस्य मूर्धन् इति ब्रह्मरुद्रयोर्देव्यास्सकाशात् सृष्टिसंहारौ चोक्तौ । अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च । तमेताः सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः इत्यादिना शिवादिसर्वदेवोपास्यस्य वायोः अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति मध्यमशब्दोक्तस्य प्राणः स्थूणा इति प्राणशब्दोदितो नारायण आश्रय उक्तः । तस्मात् सर्वोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्यमण्डलस्थस्तपतीत्यादि सिद्धम् । क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥
शक्रश्चोमा च रुद्रश्च भारती वायुरेव च । मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥
विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः । तस्माद्रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥
नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्वचित् । कुत एवाधिकोऽन्यः स्याद्यन्मुक्ता अपि तद्वशाः ॥
रमापि तद्वशा नित्यं स नान्यस्य वशे प्रभुः । न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥
कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥
इति च महासंहितायाम् ॥
तं शतं वर्षाण्यभ्यार्चत् । तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति । तं यच्छतं वर्षाण्यर्भ्याचत् तस्मात् शतर्चिनस्तस्मात् शतर्चिन इत्याचक्षते एतमेव सन्तम् । स इदं सर्वं मध्यतो दधे यदिदं किञ्च । स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मात् मध्यमास्तस्मात् मध्यमा इत्याचक्षते एतमेव सन्तम् ।
स पुरुषेषु शतवर्षं गत इति शतर्चिनामा । बहुरूपत्वाद् बहुवचनम् । एतमेव तथासन्तं मुख्यत आचक्षते । ऋषींस्तूपचारतः । आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च ।
प्राणो वै गृत्सोऽपानो मदः । स यत्प्राणो गृत्सोऽपानो मदस्तस्मात् गृत्समदस्तस्माद् गृत्समद इत्याचक्षते एतमेव सन्तम् । तस्येदं विश्वं मित्रमासीद् यदिदं किञ्च । तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किञ्च । तस्मात् विश्वामित्रस्तस्माद्विश्वामित्र इत्याचक्षते एतमेव सन्तम् । तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति । तस्माद्वामदेवस्तस्माद् वामदेव इत्याचक्षते एतमेव सन्तम् । स इदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च । स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च तस्मादत्रयस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम् ॥
१ ॥
प्राणस्थः प्राणनामासावपानेऽपाननामकः । नेतृत्वाच्चापनेतृत्वाद्भगवान् पुरुषोत्तमः ॥
इति च । वामो भद्रः ॥
१ ॥
एष उ एव बिभ्रद्वाजः । प्रजा वै वाजस्ता एष बिभर्ति । यद्बिभर्ति तस्मात् भारद्वाजस्तस्मात् भारद्वाज इत्याचक्षते एतमेव सन्तम् । तं देवा अब्रुवन् अयं वै नः सर्वेषां वसिष्ठ इति तस्माद्वसिष्ठस्तस्मात् वसिष्ठ इत्याचक्षते एतमेव सन्तम् । स इदं सर्वमभिप्रागाद्यदिदं किञ्च । स यदिदं सर्वमभिप्रागाद् यदिदं किञ्च तस्मात् प्रगाथास्तस्मात् प्रगाथा इत्याचक्षते एतमेव सन्तम् । स इदं सर्वमभ्यपवयत यदिदं किञ्च । स यदिदं सर्वमभ्यपवयत यदिदं किञ्च तस्मात् पावमान्यस्तस्मात् पावमान्य इत्याचक्षते एतमेव सन्तम् ।
वसिष्ठो वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् ।
सोऽब्रवीत् अहमिदं सर्वमसानि यच्च क्षुद्रं यच्च महदिति ॥
ते क्षुद्रसूक्ताश्चाभवन् महासूक्ताश्च । तस्मात् क्षुद्रसूक्तास्तस्मात् क्षुद्रसूक्ता इत्याचक्षते एतमेव सन्तम् ।
सूक्तं बतावोचतेति तत्सूक्तमभवत् । तस्मात् सूक्तं तस्मात् सूक्तमित्याचक्षते एतमेव सन्तम् ।
तद्विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकमभवत् । बतेत्यास्वादने । स्वात्मनैव स्वयं सुष्टूक्तमिति वा । इदं सर्वं परिपूर्णं सन्नहमल्पप्राणिषु प्रविश्य सूक्ष्मरूपो महाप्राणिषु महारूपश्च भवानीति स भगवानब्रवीत् । तस्मात् क्षुद्रोऽसानीत्युक्तत्वात् क्षुद्रसूक्तास्ते क्षुद्रप्राणिषु स्थिताः भगवद्रूपसङ्घाः । महानसानीत्युक्तत्वात् महासूक्ता महाप्राणिषु स्थिताः । सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः । न तु सामर्थ्याऽल्पत्वात् । न हि सामर्थ्यादिगुणेषु कश्चिद्विशेषो भगवद्रूपेषु ।
एव वा ऋगेष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत । स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत तस्मात् ऋक् । तस्माद् ऋगित्याचक्षते । एतमेव सन्तम् । एष वा अर्धर्चः । एष ह्येभ्यः सर्वेभ्योऽर्द्धेभ्योऽर्चत । स यदेभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत । तस्मात् अर्धर्चस्तस्मादर्धर्च इत्याचक्षते । एतमेव सन्तम् । एष वै पदमेष हीमानि सर्वाणि भूतानि पादि स यदिमानि सर्वाणि भूतानि पादि । तस्मात् पदं तस्मात् पदमित्यचक्षते । एतमेव सन्तम् । एष वा अक्षरमेष ह्येभ्यः सर्वेभ्यो भूतेभ्यः क्षरति । न चैनमतिक्षरन्ति । स यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरति तस्मात् अक्षरं तस्मादक्षरमित्याचक्षते एतमेव सन्तम् । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव । प्राण ऋच इत्येव विद्यात् ॥
२ ॥
एभ्यः प्राणिभ्यो गतवानिति ऋक् । गच्छति हि मरणकाले । ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते बुधैः इति हि भारते । म्रियमाणमिमं जीवं वासुदेवादिदेवताः । त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥
गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये । भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥
इति च ॥
अर्च गतिपूजनयोः ऋ गतौ इति धातोः । सर्वेभ्योऽर्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानित्यर्धर्चः । सर्वाणि भूतान्यपादि । पद गतौ । तस्मात् पदं नाम । अधिकं क्षरतीत्यक्षरम् । क्षरणं नाम सन्ततदानम् । क्षर विनाशसन्ततदानयोः इति धातोः । एवमृषिषु शब्देषु च व्यवह्रियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः । किमु देवतानामानि । यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या । इन्द्रं मित्रं वरुणमग्निमाहु रथो दिव्यः स सुपर्णो गरुत्मान् । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥
इत्यादिश्रुतिभ्यः । न केवलमृष्यादीनां नाम भगवतः । सर्वे वेदा अपि तस्यैव नामानि । किमु च वेदाः । समुद्रमेघवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि । एकमेव व्याहरणम् । एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव । नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति । प्राणे नारायणे एवेति विद्यात् । उक्तं च बृहत्संहितायाम्– हंुकारेण सहैवाब्धिः सर्वाभिभवशक्तिताम् । विष्णोर्वक्ति यतो हंु च पराभिभववाचकः ॥
ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः । बलवन्नादसंयुक्तो ह्यधिकोच्चत्वमस्य तु ॥
ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च । नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ॥
अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः । तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥
उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकः स्वरः । विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः ॥
एकप्रकारतां विष्णोः सदाचाल्यां वदत्यपि । इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ॥
वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा । मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत् ॥
तेन मार्जार उद्दिष्टो मोषणान्मूषको हरिः । वर्षणाद् वृष उद्दिष्टो बलनाद्बलिनामकः ॥
तारणात् तृणनामाऽसावित्याद्येकोऽभिधीयते । सर्वनामापि भगवान् सर्वशक्तिश्च सर्ववित् ॥
ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु । व्यतिरिक्तः सदानन्तसान्द्रानन्दैकरूपकः ॥
तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि । उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ॥
तथैव सर्वनामानि प्रवर्तन्ते च मारुते । न तावन्मुख्यवृत्त्यैव मुख्यतोऽन्यव्यपेक्षया ॥
मुख्यतः सर्वनामा तु विष्णुरेको न चापरः । तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ॥
अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते । वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ॥
आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥
इत्यादि च । न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं प्राणो ह्येष य एष तपतीत्युक्तम् । प्राणाद्वा एष उदेति प्राणेऽस्तमेति इति श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । प्राणस्य प्राणः इति श्रुतेरुभयोरपि प्राणशब्दः प्रसिद्ध एव । अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् । द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ । अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ॥
तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च । अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ॥
मध्यमो वायुरेवैक उत्तमः केवलो हरिः । सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः ॥
अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित् । श्रीरप्यखिलशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥
तस्मादमितनामानावपि तौ मितनामवत् । श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥
अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः । पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥
इत्यादि ब्रह्माण्डे ॥
२ ॥
विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनिषसाद । स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस । तेनेन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः । स वा ऋषे द्वितीयं शंसेति स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस  । तेनेन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः । स वा ऋषे तृतीयं शंसेति । स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस । तेनेन्द्रस्य प्रियं धामोपेयाय । तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः वरं ते ददामीति । स होवाच त्वामेव जानीयामिति तमिन्द्र उवाच प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि । प्राणो ह्येष य एष तपति । स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि ॥
तस्य मेऽन्नं मित्रं दक्षिणम् । तद्वैश्वामित्रमेष तपन्नेवास्मीति होवाच ॥
३ ॥
अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः । तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम् । तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेत इति दर्शयति विश्वामित्रं ह्येतदहः शंसिष्यन्तमित्यादिना ॥
वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये । महाव्रतं कर्म चक्रे हौत्रं चक्रेऽत्र कौशिकः ॥
भृगुरध्वर्युरभवद् ब्रह्मा ब्रह्माऽभवत् स्वयम् । उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः ॥
सादस्यमकरोत् तत्र तदन्येऽन्येऽपि चर्त्विजः । बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ॥
वायुना सह देवेशस्तदा वासवमाविशत् । आविष्टो विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ॥
शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः । ऋक्सहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः ॥
तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः । द्वितीयवारं शंसेति प्राह तं च जनार्दनः ॥
प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत् । अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ॥
तृतीयं च शशंसास्मै विष्णोरन्नं प्रकल्प्य तत् । ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् ॥
ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः । प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च ॥
वरं ददानीत्युक्तः सन् मुनिः प्राह जनार्दनम् । सम्यक्त्वामेव जानीयामिति मोक्षे सुखोच्चताम् ॥
इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः । सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ॥
यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु । न हि दोषाभिधायीनि विष्णोर्नामानि कानिचित् ॥
अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि । सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ॥
सर्वोत्तमगुणानेव नामान्याचक्षते हरेः । यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ॥
अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये । जानीयां त्वामिति प्राह तस्मा आह स केशवः ॥
इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥
ओयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि । ततो वेत्तीति च त्वं स पूर्णत्वात् सर्वनामकः ॥
सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः । प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ॥
बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः । सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ॥
स एव सूर्यसंस्थः सन् लोकं तपति केशवः । सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ॥
अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा । साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ॥
दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते । तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ॥
यस्याभिमानिन्यन्नस्य लक्ष्मीः सा देवतोत्तमा । वैश्वामित्रं तदन्नं तु ऋक्सहस्रात्मकं मतम् ॥
विश्वामित्रेण दृष्टत्वाद् वैश्वामित्रमितीर्यते । इन्द्राविष्टः कोऽयमिति शङ्कां परिहरन् हरिः ॥
आदित्यसंस्थितो विष्णुस्तपन्नस्मीति चोचिवान् । त्वां जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः ॥
अभिप्रायद्वयं ह्यस्ति शक्राविष्टो न चापरः । हरेरिति तु मे तर्कस्तेजोबाहुल्यतोऽजनि ॥
तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मया । द्वितीयं यदि विष्णुः स्याज्ज्ञातव्यो मे विशेषतः ॥
इत्यभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः । अभिप्रायद्वयस्यापि परिहारं हरिर्ददौ ॥
प्राणो वा अहमित्यादि नामसन्दर्भमुक्तवान् । विशेषज्ञानसिद्ध्यर्थं नाम्नामुक्तिः परात्मनः ॥
इन्द्राविष्टः कोऽयमिति शङ्कानुत्यर्थमेव च । तपन्नेवास्मीत्यवदत् तपन्तं वेद सोऽपि हि ॥
नारायणं सूर्यगतं गायत्र्योपासको हि सः ॥
इति ब्रह्माण्डे । उपनिषण्णमिन्द्रं दृष्ट्वापि त्वामेव जानीयामिति वरस्वीकारादिन्द्रादेव चेन्द्राविष्टो भगवानत्रोक्त इति ज्ञायते । इन्द्रं तु जानात्येव हि विश्वामित्रः । भगवन्तमपि स्वरूपत आगतं जानात्येव । विशेषज्ञानप्रार्थने प्राणो वा अहमस्म्यृष इत्यादिकमेव पूर्यते । एष तपन्नेवास्मीति व्यर्थम् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । स एतेन रूपेण सर्वा दिशो विष्टोऽस्मीत्यादिनाप्याविष्टस्य विष्णुत्वं किंिचज्ज्ञायते । तथाप्येतेनेति तृतीयात्वात् करणत्वाशङ्का भवति । तस्य म इति वैयधिकरण्यमिति च । अतो भगवन्नामानि पृथगुक्त्वाऽहं विष्णुरित्येव तपन्नेवास्मीत्युवाच । इन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किंिचज्जानत इति ज्ञायते । न चेन्द्रस्य प्राणशब्दः सर्वशब्दाभिधेयत्वं च विद्यते । अजस्य नाभावध्येकमर्पितम् इत्युक्तस्य पद्मनाभस्य हि यो देवानां नामधा एक एव इति सर्वदेवाभिधानत्वमुक्तम् । इन्द्रे हीन्द्रशब्दोऽपि न मुख्यतो वर्तते । परमैश्वर्याभावात् । इन्द्रशब्दोऽपि विष्णावेव वर्तते । स हि परमेश्वरः । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः ॥
इति श्रुतेश्च । इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । इत्यादिश्रुतेश्च । सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि इत्यादिना विष्णुरेव हि तत्र प्रस्तुतः । नामानि विश्वाभि न सन्तिलोके यदाविरासीदनृतस्य सर्वम् । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥
इति श्रुतिः । यो देवानां नामधा एक एवेत्यवधारणान्नान्यस्य सर्वनामत्वम् । स च विष्णोर्नान्यः । पद्मनाभत्वादेव । श्रियो वायोरपि न नारायणादिनामवत्वम् । एको वासुदेवस्तत्सदृशपरौ न स्तः इति श्रुतिः । एको नारायणस्तत्समो वाऽधिको वा नास्ति इति च । येनावृतं खं च दिवं च महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः ॥
इत्युक्तस्य समुद्रशायिन एव नारायणस्य तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् इति परब्रह्मत्वावधारणाच्च विष्णोः परं सदृशं वा नास्त्येव । अतस्तदत्रोच्यत इत्यपि न वक्तव्यम् । परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ॥
इत्यादेश्च । नकिरिन्द्र त्वदुत्तरो न ज्यायान् अस्ति वृत्रहन् । नकिरेवा यथा त्वम् । इत्याद्यपि सर्वनामकत्वात् तस्यैव । किमेकं दैवतं लोके किं वाप्येकं परायणम् इत्यादिप्रश्नस्यापि, परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रम्... ॥
इत्येव भारते परिहाराच्च । मेऽन्नं दक्षिणमित्युक्तत्वाच्च विष्णुरेवेति ज्ञायते । स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्यपर्वणि । दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत्सदा । धन्याश्चर्योहमेवैको मित्रं मे दक्षिणा रमा ॥
इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया ॥
इति नारदवचनम् । न च बृहतीसहस्राभिमानिनीं देवीं विना चेतनमात्रस्य मुख्यमित्रत्वं युज्यते । मिनोति त्रायते चेति मित्रमित्यभिधीयते । तस्माद्योऽयं विजानाति स मित्रं तस्य नान्यथा ॥
इति भारते । उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते । बृहतीसहस्रं ह्युक्थनामकं मुख्यतः । महाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् । तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥
तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते । तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥
इति गारुडे । विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते । यज्ञेष्वन्य इन्द्रः पृथक्चोच्यते । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः इत्युक्त्वा तस्मै त्वा तेभ्यस्त्वा इति भेदवचनाच्च । सत्य इति वायुः । सदिति प्राण इति श्रुतेः । सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः । साधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः ॥
इति शब्दनिर्णये । प्रियधाम्न उप समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः । अन्यथोपशब्दो व्यर्थः स्यात् । न च तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम् । बृहतीसहस्रे प्रथमे सालोक्यं प्रददौ हरिः । द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च ॥
तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥
इति च गारुडे । न चेन्द्रादिभिरैक्यमत्रोच्यते । प्राणस्तथाऽनुगमाद् इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् इति वक्तुः बृहतीसहस्रं शंसितुर्विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो हि भगवता सूत्रेषु । अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता । अन्येष्वन्तर्यामिरूपेण सम्बन्धोऽस्त्येव । अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः । अधिकात्मनः परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः । न हि स्वात्मना स्वस्य सम्बन्धो भवति । यद्यध्यात्ममात्रमत्रोच्यत इति विवक्षितं तर्ह्यध्यात्मभूमेत्येव स्यात् सम्बन्धशब्दो व्यर्थः । तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः । शास्त्रदृष्ट्या तूपदेशो वामदेववत् इति शास्तुरन्तर्यामिणो विष्णोः सर्वशरीरस्थितत्वात् सर्वनामाभिधेयत्वं चोक्तम् । अहं मनुरभवं सूर्यश्चेत्यादिवत् । न हि मनुसूर्यादिर्भवति वामदेवस्तेषां पक्षेऽपि । सर्वप्रवृत्तिहीनतां हि ते मोक्षं वदन्ति । अत्र चाहं भूमिमददामार्याय इत्यादिना प्रवृत्तिरेवोच्यते । न च वामदेवेन मन्वादिकर्म क्रियते कदापि । अतीतार्थश्चायं दृश्यते भूमिमददामित्यादिना । न हि पूर्वं वामदेवेन तानि कर्माणि कृतानि । भगवान् विष्णुर्हीन्द्राय भूमिमददात् । स एव च सर्वेष्वन्तर्यामित्वेन स्थित्वा नामप्रवृत्तिनिमित्तानि सर्वकर्माणि कुर्वन्नवबोधसूरिनियमनादिभिर्मनुसूर्यादिसर्वनामा भवति । यदि भेदस्य पूर्वमपि मिथ्यात्वमङ्गीक्रियते तर्हि भूमिदानादिसर्वकर्मणां मन्वादित्वस्यापि मिथ्यात्वादहं मनुरभवमित्यादिकं सर्वमनर्थकमेव भवति । जीवेश्वरभिदा चैव जीवभेदः परस्परम् । जडेश्वरभिदा चैव जडभेदस्तथैव च ॥
जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः । न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव वा ॥
य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥
इति भविष्यत्पर्वणि । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥
इत्यादि च । न च प्राणो वा अहमस्मृष इत्यादावहमस्म्यादिशब्दोऽस्मच्छब्दाद्यर्थः । एष तपन्नेवास्मीत्युपरितनस्य वैयर्थ्यात् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । अतोऽहमस्मीत्यादि च भगवन्नामैव । न च जीवैक्यवचनमत्र प्रस्तुतम् । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एवेति सर्वनामाभिधेयत्वं भगवत उक्त्वा तत्रैव प्रमाणत्वेन – विश्वामित्रं ह्येतदहरित्याद्याख्ययिकोक्ता । तस्मात् सर्वान्तर्यामित्वात् सर्वगुणत्वात् सर्वशक्तित्वाच्च सर्वनामवत्वमेव विष्णोरुच्यते न तु सर्वस्वरूपत्वम् । उक्तं च भारते । स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् । सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः ॥
इति । पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पुरुषेणैवेदं सर्वं व्याप्तं यद्भूतं यच्च भाव्यम् । आ तृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा इति च श्रुतिः । हिरण्मयो ह वा अमुष्मिंल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । अमृतो ह वा अमुष्मिंल्लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । स एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत् समभवत् इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च । न हि भेदाभावे भूतेभ्यो ददृश इति युज्यते । न चामुक्तैः सर्वभूतैर्मुक्तो दृश्यते । एकत्वे तु ददृश इत्येतावता पूर्यते सर्वेभ्यो भूतेभ्य इति व्यर्थम् । न च तेषां पक्षे स्वयमपि स्वात्मानं पश्यति । कर्तृकर्मविरोध इति हिते वदन्ति । अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे । न च कर्तृकर्मविरोधो नामास्तीत्यत्र किंिचन्मानम् । श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः । न च तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना सर्वकामावाप्तिर्नामाङ्गीक्रियते शरीरादुत्क्रान्तस्य ज्ञानिनः । तस्माद् वेदविरुद्धवादिन एव तेऽपि । न च शून्यवादिनः कश्चिद्विशेषो दृश्यते । न हि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद्विशेषः । केनापि शब्देनावाच्यस्य लक्षणायामपि प्रमाणं नास्ति । क्षीरमाधुर्यादयोऽपि तैरेव शब्दैरुच्यन्ते । विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां निर्हारीत्यभिधीयते ॥
इति शब्दनिर्णये । न च सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचित् दृष्टम् । अतः शून्यवादिन एव तेऽपि । अस्तीत्येवोपलब्धस्य तत्त्वाभावः प्रसीदति इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते । यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः इत्यादिना कर्माणि च । तस्मिन् देवाः श्रिताः सर्वे इत्यादिगुणाश्च तत्रैवोक्ताः । अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
इति मुक्तानामपि तारतम्यं चोक्तम् । श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः । अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥
तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा । क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरे ह्रदे केचिदपि देवा एव परं हरिम् ॥
नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥
इति ब्रह्मसारे । यत्र ब्रह्मा पवमान छन्दस्यां ३ वाचं वदन् । ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परिस्रव ॥
यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् । तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परिस्रव ॥
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । यत्राभूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । लोका यत्र ज्योतिष्मन्त स्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
यत्र तत्परमं पदं विष्णोर्लोके महीयते । देवैस्सुकृतकर्माभि स्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामा स्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवो देव्या अवरोधभूतानां सर्वदेवानां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं कामचरणं च मुक्तानां भेदेनावस्थितानामुच्यते । मुक्ताश्चात्रोच्यन्त इति प्रतीयते । अमृतं कृधीति वचनात् । अमुक्तानां स्वे स्वे लोकेऽवस्थानं हि तेषाम् । मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम् । मुक्तः प्रतिज्ञानात् सङ्कल्पादेव च तच्छ्रुतेः जगद्व्यापारवर्जम् भोगमात्रसाम्यलिङ्गाच्च अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् इत्यादिसूत्रेभ्यश्च मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते । ग्राव्णा सोमे महीयते इति ब्रह्मणोऽन्यमुक्तैः पूज्यत्वं च प्रतीयते । न च सूत्रेषु निश्चितार्थस्यौपचारिकत्वं वक्तुं युज्यते । निर्णयात्मकत्वात् तेषाम् । अतिप्रसङ्गश्चोपचारादिकल्पने । ब्रह्मसूत्रपदैश्चैव हेतुमदि्भर्विनिश्चितैः इति हि विनिश्चितानि ब्रह्मसूत्राणि । बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥
इति आदित्यपुराणे । न च निर्णयकानि भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादि कल्प्यम् । न च भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किंिचन्मानम् । भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥
विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः । न तु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥
बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन । विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥
इति स्कान्दे । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
इति भगवद्वचनम् । तस्मात् मुक्तैरपीज्यमानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यते इति सिद्धम् ॥
३ ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नम् तस्य यानि व्यञ्जनानि तच्छरीरम् । यो घोषः स आत्मा । य ऊष्माणः स प्राणः । एतद्धस्य वै तद्विद्वान् वसिष्ठो वसिष्ठो बभूव । तत एतन्नामधेयं लेभे । एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचा । एतदु हैवेन्द्रो भरद्वाजाय प्रोवाच । तस्मात् स तेन बन्धुना यज्ञेषु हूयते । तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षटि्त्रंशतमक्षराणां सहस्राणि भवन्ति । तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति । व्यञ्जनैरेव रात्रीराप्नुवन्ति । स्वरैरहानि । तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य परस्तात् प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति य एवं वेद । तद्योऽहं सोऽसौ । योऽसौ सोऽहं । तदुक्तमृषिणा सूर्य आत्मा जगतस्थस्थुषश्चेति । एतदु हैवोपेक्षेतोपेक्षेत ॥
४ ॥

इति श्रीमन्महैतरेयोपनिषत्सु द्वितीयारण्यके द्वितीयोऽध्यायः ॥
यावतीभिर्ऋग्भिः शंसिताभिः षटि्त्रंशत्सहस्राण्यक्षराणि भवन्ति यस्मात् कस्मादपि छन्दसस्तावत्यः शंसनीयाः । तदा सम्पादितं बृहतीसहस्रं भवति । तत्र या व्यञ्जनाभिमानिदेवता सैव सर्वप्राणिनां शरीराभिमानिदेवता स्वायम्भुवो मनुः । घोषाभिमानिदेवता सर्वजीवाभिमानी ब्रह्मा । ऊष्माभिमानी वायुः । व्यञ्जनानां शरीरस्य चाभिमानी मनुः स्मृतः । घोषाणां सर्वजीवानामभिमानी चतुर्मुखः ॥
ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः । एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम् ॥
उपास्यैव वसिष्ठोऽभूद् वसिष्ठः शक्र एव च । एतां विद्यां कौशिकाय भरद्वाजाय चादरात् ॥
एतद्विद्याबलेनैव विद्याधीशेन बन्धुना । यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः ॥
षटि्त्रंशद्रूपवान् विष्णुर्व्यञ्जनेषु च संस्थितः । तान्येव विष्णुरूपाणि रात्रीनामपि देवताः ॥
एकैकं च सहस्रं तद्व्यञ्जनेषु च रात्रिषु । रूपं विष्णोः स्थितं व्यूह्य षटि्त्रंशतिसहस्रधा ॥
षटि्त्रंशतिसहस्राणि स्वरगाणि हरेरपि । तान्येवाह्नां दैवतानि रूपाणि परमात्मनः ॥
द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः । शताब्दानामहोरात्रदैवतान्युत्तमानि च ॥
बृहतीसहस्रवर्णानामपि ध्यात्वाऽखिलान्यपि । शतवर्षहरिध्यानफलमाप्नोति पूरूषः ॥
एवं ज्ञात्वापि सम्पाद्य बृहतीनां सहस्रकम् । ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः ॥
स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः । प्राधान्यं मयशब्दोऽयं वक्ति विष्णोः सदैव हि ॥
प्रधानोऽस्य हरिर्यस्मात् प्रज्ञारूपोऽधिदेवता । ब्रह्मामृतं च तेनायं ब्रह्मादिमय उच्यते ॥
सर्वोत्तमस्वरूपत्वाद्विष्णुरुक्तः स देवता । ब्रह्म पूर्णगुणत्वाच्च नित्यत्वादमृतं तथा ॥
एतादृशं तु यो विष्णुं प्रधानं वेत्ति सर्वदा । प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाधिकम् ॥
प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः । प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च ॥
एति मारुतपर्यन्तान्मारुतेन च केशवम् । सम्पादनाच्च विद्यायः अस्याः परत एव च ॥
द्वासप्ततिसहस्राणि रूपाणि हि रमापतेः । बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः ॥
तान्येव पुरुषस्थानि यस्मात् पुरुषसंस्थितम् । बृहतीसहस्रं तच्छंस्यं व्यज्यते न ह्यृते नरम् ॥
द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च । विष्णुरूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम् ॥
तस्माद्योऽयमहं नामा सदाऽहेयत्वहेतुतः । स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः ॥
योऽसौ सूर्यगतो विष्णुः सोऽहेयो भास्करादिभिः । एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः ॥
एक एव परो विष्णुरिति जीवसमीपगम् । ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम् ॥
इत्यैतरेयसंहितायाम् । सम्पन्नस्य परस्तादेवानन्तरमेव । न पुनः कर्मान्तरेण शरीरारम्भ एवंविदो भवति । प्रज्ञामयो देवतामय इत्यादिपृथक् पृथङ्मयशब्दोऽनिरुद्धादिचतुर्मूर्तीनामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यं ज्ञातव्यमिति दर्शयितुम् । अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः । प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥
अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः । सङ्कर्षणोऽमृतं तस्माद् वासुदेवस्तु बृंहणात् ॥
जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः । एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः ॥
इत्यादि चातुरात्म्ये । सम्भूयेत्यत्र समित्युपसर्गात् बृहतीसहस्रसम्पादनानन्तरं भगवदाधिक्यं पुनराधिक्येन ज्ञायत इत्युक्तं भवति । भगवदाधिक्यमधिकं ज्ञात्वा देवता अपि क्रमेण प्राप्नोति । द्वासप्ततिसहस्राणां रूपाणां पर्युपासनात् । आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनः पुनः ॥
प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु । योग्या अस्याश्च विद्यायाः देवा ऋषय एव च ॥
इत्यादि सत्तत्त्वे । बृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषे स्थितानि । पुरुषैरहेयत्वादहंनामकानि तान्येव सूर्ये स्थितानि यान्येव सूर्ये स्थितानि तान्यपि सूर्यादिभिरहेयत्वादहंनामकानि । एतदेवोक्तं नारायणाख्यं परं ब्रह्मैव सर्वदा उप समीपे ईक्षेत । नात्र जीवेश्वराभेदो विवक्षितः । उप समीपे ईक्षेतेति समीपे दर्शनवचनात् । न च निरर्थकत्वमुपसर्गस्याङ्गीकर्तुं युक्तम् । न ह्यार्षेषु वेदादिषु व्याकरणनिरुक्तादिषु चोपसर्गाणां वैयर्थ्यमङ्गीकृतं कुत्रचित् । उक्तं च भगवता व्यासेन– नानर्थकः स्वरो वापि वर्णो वा कुत्रचिद् भवेत् । पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित् ॥
उच्चाराद्यर्थमपि वा नास्ति किंिचत् स्वरादिकम् । महार्थमेव सर्वं हि वेदे वा वैदिकेऽपि वा ॥
इति । सुकरं च सर्वपदानामनर्थकत्वकल्पनम् । यैश्च वाक्यैरर्थवत्वं प्रतीयते तेषामप्यनर्थकत्वमेव स्याद् विशेषाभावात् । न च मानुषवाक्येन वेदपदानामानर्थक्यं कल्प्यम् । जीवेश्वरैक्यङ्गीकारे योऽहं सोऽसावित्येव पूर्यते पुनर्योऽसौ सोऽहमिति व्यर्थम् । न ह्यस्य तेनैक्ये तस्यानेन भेदशङ्का भवति । अस्य तस्येति भेदाङ्गीकारे नाभेदो मुख्यः । किन्तु तदधीनत्वमेवान्यस्य भवति स्नेहविशेषो वा । चैत्रो मैत्रो मैत्रश्चैत्र इतिवत् । तत्र ह्युभयस्नेहापेक्षया पुनर्वचनं युज्यते । अभ्यासत्वे ह्येकप्रकारेण प्रयोगो दृष्टः । अत्र हि प्रयोगद्वैविध्यं दृश्यते । एकप्रकारा बहुशो वागभ्यास इतीरितः । अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥
इति गारुडे । अहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यते इति न वैयर्थ्यम् । अः इति ब्रह्म तत्रागतमहमिति, न वा अहमिमं विजानाति, तस्योपनिषदहम् इत्यादौ विष्णोरेवाहेयत्वेनाहंनामकत्वप्रसिद्धेः । अहंशब्दस्यास्मच्छब्दार्थकत्वेऽहमिमं न जानातीति न युज्यते । तस्य भूरिति शिरो भुव इति बाहू इत्यादिनाऽक्षिसंस्थो भगवानेव ह्यहंशब्दोदितः । न हि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदि स्थितमेव हि तस्य स्वरूपम् । जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वालोकवत् इति च सूत्रात् । आदित्ये हिरण्मयः पुरुषस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वाऽक्षिस्थितस्यापि तस्यैतस्य तदेव रूपमिति कथनाच्च । स एष एवैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे इत्यादि लोकाधिपत्यकथनाच्च । न हि कश्चिद् भिक्षुकः पातालाद्यधिपतिरित्यत्र किंिचन्मानम् । तस्माद् भगवानेवाहेयत्वादहं नामा । चक्षुर्मित्रस्य वरुणस्याग्नेः जगतस्तस्थुषश्चात्मा इत्यादि जीवेभ्यो भेददर्शनाच्च । यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति कथ्यते ॥
इति भारते । देवता अप्येति प्राप्नोतीत्येव चार्थः । लयश्चेद्देवतास्वप्येतीति स्यात् । न च विनाशः पुरुषार्थः । मयट्शब्दस्य भगवत्प्राधान्यार्थत्वानङ्गीकारे सम्भूय देवता अप्येतीति ल्यप् न युज्यते । उपासनायास्तु सम्पन्नस्य परस्तादित्युक्तत्वात् पूर्वमेव सिदि्धः । सर्वस्मादि्भन्नमीशेशं जीवाभेदेन यः स्मरेत् । स यात्यन्धतमो घोरं नित्यातिशयदुःखदम् ॥
सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः । नित्यानन्दमसौ याति वासुदेवप्रसादतः ॥
इति चैतरेयसंहितायाम् । अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम् । सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः । अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे ॥
इति शब्दनिर्णये ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके द्वितीयोऽध्यायः ॥
ॐ यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्माद्धीदं सर्वमुत्तिष्ठति स सम्प्रतिवित् ।
योऽसौ नारायणो देवः परमात्मा सनातनः । नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ ॥
नारायणादिरूपेण पञ्चधाऽवस्थितः सदा । सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते ॥
बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः । पञ्चभेदं हि तच्छस्त्रं तृचाशीतित्रयं च यत् ॥
पूर्वापरं तृचीशीत्या इति पञ्चात्मकं हि तत् । प्रथमे पञ्चकाद्भागे स्थितो नारायणः स्वयम् ॥
ऋक्त्रयाशीतिके पूर्वे गायत्रीच्छन्दआत्मके । वासुदेवः स्थितो नित्यमृगशीतित्रये तथा ॥
द्वितीये बृहतीच्छन्दस्यसौ सङ्कर्षणः स्थितः । यस्यावेशबलेनैव जीवः सङ्कर्षणोऽपरः ॥
पृथिवीं बिभर्ति सततं तत्प्रसादात्तवैभवः । तृतीयायां तृचाशीत्यामुष्णिक्छन्दसि केशवः ॥
प्रद्युम्नरूपी सततं स्थितो यस्यैव सन्निधेः । कामः प्रद्युम्ननामाऽभूत् तत्प्रसादात्तवैभवः ॥
उक्थस्यैवान्त्यभागे तु सोऽनिरुद्धो हरिः स्थितः । कामपुत्रोऽनिरुद्धाख्यं यदावेशेन लब्धवान् ॥
एवं पञ्चात्मकं विष्णुं बृहत्युक्थस्य देवताम् । यो वेद सम्यग्वेत्ता स .......
पृथिवी वायुराकाश आपो ज्योतींषीत्येव वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद ।
.... तानि रूपाणि वै हरेः ॥
स्थितानि पञ्चभूतेषु पृथिव्याद्यभिधानि च । तदावेशात् पृथिव्यादिनाम भूतेषु पञ्चसु ॥
पृथुत्वात् पृथिवीनामा भूमौ नारायणः स्थितः । बलज्ञानस्वरूपत्वाद् वायुनामा स एव च ॥
वायौ सङ्कर्षणो नित्यं स्थित आकाशनामकः । व्याप्तत्वाद्वासुदेवस्तु सदाकाशे स्थितः प्रभुः ॥
अनिरुद्धस्तथैवाप्सु बहुरूपो व्यवस्थितः । अम्नामा पालनान्नित्यं प्रद्युम्नो ज्योतिषि स्थितः ॥
ज्योतिर्नामा द्योतनाच्च बहुरूपः पृथक् पृथक् । यद्यप्यस्य हरेः सर्वरूपाण्यप्यखिलैर्गुणैः ॥
पूर्णान्यथापि चैकैकरूपेषु स पृथग्गुणैः । व्यवहारान्पृथग्देवः करोतीव हि लीलया ॥
तस्मात् पृथगिवास्येति नाम विष्णोः परात्मनः । सर्वत्र सर्वनाम्नोऽपि व्यवहारार्थमीर्यते ॥
एतस्मादि्ध हरेर्नित्यं जगदुत्तिष्ठति प्रभोः । मुक्तौ लये च तं याति स च सर्वाश्रयः प्रभुः ॥
य एवं वेत्ति तं विष्णुमुपास्ते चापरोक्षतः । स मुक्तः समजातीनामाश्रयश्च भविष्यति ॥
स्वजातीनामुत्तमत्वपदयोग्या हि ये सुराः । ब्रह्मेन्द्राद्यास्ते हि योग्याः साक्षादस्मिन्नुपासने ॥
अन्येषां ज्ञानमात्रेण योग्यमाधिक्यमाप्यते ।
तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्ननादो जायते । भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ॥
ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद ।
सङ्कर्षणश्च प्रद्युम्नस्तत्र भोक्तृषु संस्थितौ ॥
भोक्तृशक्तिप्रदौ नित्यं भोक्तारौ च विशेषतः । नारायणानिरुद्धौ तौ भोग्यवस्तुषु संस्थितौ ॥
तर्पकौ सर्वलोकानां तस्माद्भोग्यौ न चर्व्यतः । अवकाशप्रदो नित्यं वासुदेवो नभःस्थितः ॥
एवं पञ्चात्मकं विष्णुं य उपास्ते सदैव च । अवकाशप्रदः सोऽपि स्वजातीनां भविष्यति ॥
भोक्ता चाप्यायकश्चैव तस्य विष्णोः प्रसादतः । ब्रह्मेन्द्राद्याः स्वजातीयपदयोग्या अमुष्य च ॥
योग्या उपासनस्य स्युस्तदन्ये ज्ञानमात्रके ।
तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन् हि प्राणभृतोऽदन्ति । तेषां य उभयतोऽदन्ताः पुरुषस्यानुविधां विहितास्तेऽन्नादाः अन्नमितरे पशवस्तस्मात् त इतरान् पशूनधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवत्यधीव ह समानानां जायते य एवं वेद ॥
१ ॥
सङ्कर्षणश्च प्रद्युम्नो जङ्गमेषु व्यवस्थितौ ॥
नारायणानिरुद्धौ तु स्थावरान्तर्गतौ प्रभू । तत्राप्याकाशगो नित्यं वासुदेवो निरञ्जनः ॥
प्राणानां भरणान्नित्यं प्राणभृन्नाम तद्धरेः । न ह्यन्यः प्राणभर्ताऽस्ति तमृते पुरुषोत्तमम् ॥
ओषणाच्च निधानाच्च स एवौषधिनामकः । वननीयपतित्वाच्च स एव हि वनस्पतिः ॥
अन्ने स्थित्वा तृप्तिदत्वं तस्याद्यत्वमपीष्यते । पुरुषस्य हरेर्ये तु सदाकारेण संस्थिताः ॥
देवगन्धर्वमर्त्याद्यास्तेषु सङ्कर्षणो हरिः । प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु ॥
तौ भोक्तारौ च भोग्यानां भोजकावखिलस्य च । नारायणानिरुद्धौ तु तथान्यपशुषु स्थितौ ॥
वृषभाश्वादिरूपेण तृप्तिदावखिलस्य च । वाहनोपानहादीनामारोढारो नरादयः ॥
यतः सङ्कर्षणश्चैव प्रद्युम्नस्तेषु संस्थितौ । ततस्तयोर्हि सञ्चार उपरीव भविष्यति ॥
आकाशगो वासुदेवः पञ्चमोऽत्राप्युपास्यते । वाहनादियुतो मुक्तौ भवेदेतदुपासकः ॥
इत्यैतरेयसंहितायाम् । आत्मशब्दाच्च न भूतमात्रमत्रोच्यते । न च मुख्यार्थं परित्यज्योपचारार्थोऽङ्गीकर्तव्यो विरोधाभावे । सर्वनामवत्वं च भगवतः श्रुत्यैवोपपादितं पूर्वत्र । वपनीरोमकरणावकाशप्रदानबीजवर्धनेषु इति च धातुः । तस्मिन् पञ्चके योऽन्नमन्नादं च वेद सोऽस्मिन् स्वजातियूथे विशेषेणान्नाद आजायते ह । तस्मिन् वेद अस्मिन्नाजायत इति पृथक् पृथक् पुनः पुनर्विशेषणादुपासकस्य स्वजातिसन्निधानाच्च स्वजाताविति ज्ञायते । क्षीराब्धिशयनं विष्णो रूपं यत्पुरुषाभिधम् । सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ ॥
नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥
इति सत्तत्त्वे । गुणवैशेष्याभावेन वाहनादिषु चरणमात्रादधीव चरन्तीत्यादाविवशब्दः ॥
१ ॥
तस्य य आत्मानमाविस्तरां वेदा । अश्नुते हाऽऽविर्भूय ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् । स आत्मानमाविस्तरां वेद । ओषधिवनस्पतिषु हि रसो दृश्यते । चित्तं प्राणभृत्सु । प्राणभृत्सु त्वेवाविस्तरामात्मा । तेषु हि रसोऽपि दृश्यते । न चित्तमितरेषु । पुरुषे त्वेवाविस्तरामात्मा । स हि प्रज्ञानेन सम्पन्नतमः । विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनम् । वेद लोकालोकौ । मर्त्येनामृतमीप्सत्येवं सम्पन्नः । अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानम् । न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ । त एतावन्तो भवन्ति । यथाप्रज्ञं हि सम्भवाः ॥
२ ॥
आविर्भावं तारतम्याद्यो वेद परमात्मनः । स तस्यैव विशेषेण प्रीतियोगाद् भविष्यति ॥
स्थावरं जङ्गमं चैव भूयस्त्वेनाश्नुते हरिः । आविर्भूतस्तेषु सदा सम्यक्स्वात्मानमेव च ॥
तारतम्यात् सन्निहितं सर्वभूतेषु केशवः । वेत्त्येक एव विष्णोर्यद्विशेषावेशनं सदा ॥
जङ्गमेषु च वृक्षेषु नैव तादृक्शिलादिषु । तस्माद् वृक्षादिषु रसश्चित्तं चलनवत्सु च ॥
दृश्यते न शिलाद्येषु सन्निधिर्न हि तादृशी । शिलाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम् ॥
नैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः । विशेषोऽयं पदार्थानां न तु विष्णोः कदाचन ॥
यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद्वरम् । गुणपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः ॥
वृक्षेभ्योऽप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः । तेभ्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः ॥
इत्यादि च । य आत्मानं परमात्मानमाविस्तरां आविर्भावतारतम्येन वेद स तस्य विष्णोरेव । सर्वेषां तदीयत्वेऽपि प्रियत्वात् तदीयत्वविशेषणम् । ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् तत्सर्वं शिलादिभ्यो भूयस्त्वेन तेष्वाविर्भूतोऽश्नुते भगवान् । स एव च नारायणः सम्यक् स्वात्मानमाविस्तरां वेद । अन चेष्टायामिति धातोश्चेष्टावत्त्वमेव प्राणभृत्त्वं पश्वादीनाम् । ज्ञानानुसारेण ह्युत्पत्तयः सम्भवाः ॥
स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेत्येनं मन्यते । यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत ।
योऽस्मिन् पुरुषे पश्वादिभ्य आधिक्येन सन्निहितो भगवान् स एष पुरुषः समुद्रः समुद्रिक्तोऽन्येभ्यः । स जीवो यद्यपि भगवत्प्रसादात् सर्वलोकाधिपो भवति । सर्वलोकानतीत्य यत्किंिचदलौकिकं मोक्षाख्यमप्यश्नुते । तथापि तमेनमात्मशब्देन प्रस्तुतं विष्णुमत्येव मन्यतेऽधिकमेव मन्यते स्वात्मनः सर्वस्माच्च । मुक्तोपि न तेन साम्यं तद्भावं वा मन्यते । कृष्णो मुक्तैरिज्यते वीतमोहैः मुक्तानां परमा गतिः अमृतस्यैष सेतुः इत्यादिवाक्याच्च । यद्यपि देवलोकाधिपत्यं तद्योग्यस्य विष्णुर्ददाति तदप्यश्नुवीतैव । बहुगणिकादिपरिवाररूपमशुचीदं पदमित्यादिबुद्ध्या नापह्नुवीत । एनं भगवन्तमतिमन्येतैव सर्वथा स्वतः सर्वस्माच्चाधिकमेव मन्येत । यद्यमुं लोकमश्नुते प्राप्नोति अश्नुवीत भुञ्जीत । पृथिवीलोकाधिपत्येऽपि विष्णोराधिक्यं सत्पुरुषो मन्यत इति प्रत्यक्षसिद्धत्वान्न पृथगुक्तम् । अतिशब्दाद्यद्ध किञ्चेति प्रथमोक्तो मोक्ष इति सिद्धम् । अन्तरिक्षप्राप्तेरल्पत्वान्मोक्षे स्वतः सिद्धत्वाच्चातिमन्यते इति सिद्धवचनमेव कृतम् । स्वर्गादिप्राप्तेरधिकैश्वर्याद् भगवत्समोऽहं भगवत्स्वरूप इति वा मन्तुं प्राप्तिरस्तीत्येवैनं मन्येतेति सावधारणा विधिः । न च मन्यते इति काममात्रम् । मनु अवबोधन इति धातोः । न ह्यवबोध एव कामः । अन्यथा राज्यं जानन्नपि राज्यकाम इति स्यात् । न च मन्यते मन्येतेति द्विविधः प्रयोगस्तस्मिन् पक्षे युज्यते । न च सर्वलोकमतीत्याश्नतो मुक्तस्य मुक्तेरन्यत्र कामो विद्यते । सर्वलोकाधिकं च मुक्तिं विना नान्यत् । तस्मान्मुक्तैरमुक्तैरपि भगवान् सर्वोत्तमत्वेन चिन्त्य इति सिद्धम् ।
स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपः । यच्छरीरं सा पृथिवी । यः प्राणः स वायुः । स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः । ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति । प्राणस्य ह्यन्वपायमेता अपि यन्ति ।
पुरुषस्थपञ्चभूतेषु पञ्चरूपो हरिः स्थितः । प्रद्युम्नादिस्वरूपेण ज्योतिरादौ पृथक् पृथक् ॥
स एव च पुनर्वायौ पञ्चधाऽवस्थितः प्रभुः । प्राणादिरूपे वसति ह्यनिरुद्धादिरूपवान् ॥
अनिरुद्धः स प्रद्युम्नस्तथा सङ्कर्षणः प्रभुः । वासुदेवो नारायणः पञ्चरूप इति क्रमात् ॥
पञ्चरूपोऽपि भगवान् यस्माद्वायौ विशेषतः । स्थितस्तेन च खादिभ्यो वायुरेव विशिष्यते ॥
अत एव पृथिव्यादिस्वरूपा मनआदयः । देवाः प्राणाश्रिता नित्यं गच्छन्ति प्राणमन्वपि ॥
पृथिवीमयं मनस्तत्र शेषवीन्द्रशिवेन्द्रकाः । कामानिरुद्धौ देवगुरुर्मनोदेवाः सचन्द्रकाः ॥
श्रोत्रमाकाशरूपं च मित्रधर्मजलाधिपाः । कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः ॥
ज्योतीरूपं तथा चक्षुश्चक्षुर्देवो रविः स्मृतः । किंिचत् तेजोयुता वाक्च विशेषेण त्वबात्मिका ॥
उपचीयते ततः साऽदि्भस्तदभावे च शुष्यति । तृषितस्य हि वागेव पूर्वं मन्दा प्रवर्तते ॥
वाग्देवते ततो वह्निरुमा चापि प्रकीर्तिते । चक्षुष्ट्वमग्नेः श्रोत्रत्वं चन्द्रस्यापि सहोच्यते ॥
स्वाहाया अपि वाक्त्वं च पर्जन्यस्य मनःस्थितिः । द्वितीयमेतदास्थानं श्रुतिवाक्यप्रमाणतः ॥
शेषवीन्द्रशिवादीनां मनआदिस्वरूपिणाम् । आश्रयो वायुरेवैकस्तस्य नारायणः स्वयम् ॥
स एष वाचश्चित्तस्योत्तरत्तरिक्रमो यद्यज्ञः । स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः । स एव यज्ञानां सम्पन्नतमो यत्सोमः एतस्मिन् ह्येताः पञ्चविधाः अधिगम्यन्ते यत् प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि, यदूर्ध्वं सा पञ्चमी ॥
३ ॥
तस्माद् वायुवशानां हि वाक्चित्तादिस्वरूपिणाम् । देवानां क्रमवृत्तिभ्यो जाते यज्ञेऽपि केशवः ॥
अग्निहोत्रादिके नित्यमनिरुद्धादिरूपकः । पञ्चधाऽवस्थितः सोमे पञ्चरूपो व्यवस्थितः ॥
सवनत्रयात् पूर्वके च सवनत्रितये परे । अनिरुद्धादिरूपेण क्रमेणैव व्यवस्थितः ॥
तमेतं परमं विष्णुं मुक्तोऽप्यत्येव मन्यते । अधिकं ह्येव तस्मात् तं मन्येतान्योऽपि सर्वदा ॥
इत्यादि च । पञ्चरूपभगवद्ध्यानार्थमेव चैतत्पञ्चविधत्वं सर्वत्रोक्तम् ॥
३ ॥
यो ह वै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यू•ं स सम्प्रतिवित् । एष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यू•ो यदेतन्महदुक्थम् । तदेतत्पञ्चविधम् । त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतः । गायत्रं रथन्तरं बृहद्भद्रं राजनमिति सामतः । गायत्र्युष्णिग्बृहतीत्रिष्टुब्द्विपदेति छन्दस्तः । शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम् ।
यज्ञेषु यज्ञनामानं याज्यत्वात् पुरुषोत्तमम् । अधिरूढं तथाऽहस्सु चाहर्नामानमेव तु ॥
अहार्यत्वादि्ध देवेषु देवं सर्वोत्तमत्वतः । एवं च सर्वनामानं सर्वेषु स्थितमच्युतम् ॥
स्तोमादिषु च यो वेद स सम्यग्विदिति श्रुतः । य एष उक्थनामासौ सर्वोत्थापनको हरिः ॥
महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः । अहरह्नां स यज्ञानां यज्ञो देवाधिकोऽपि सः ॥
अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः । स्तोमसामचितिच्छन्दश्शस्त्रेष्वपि पृथक् पृथक् ॥
एकैकमेव तद्रूपमनिरुद्धादिपञ्चकम् ।
पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयन्ति । तत्स्तोभसहस्रं भवति । एवं ह्येताः पञ्चविधाः अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी ।
प्रस्तावादिष्वपि विभुः पञ्चधैव व्यवस्थितः ॥
प्रस्तावादीन् पञ्चकृत्वस्तस्मादेव प्रकुर्वते । पञ्चरूपं तमेवैकं स्तोतुमेव पृथक् पृथक् ॥
तत्र ये स्तोमशब्दाश्च संस्थिता बहुकोटयः । पृथक् पृथक्तेऽपि विष्णोः प्रादुर्भावान् प्रचक्षते ॥
तदेतत्सहस्रम् ।
अनन्तरूपो हि हरिः शब्दोऽप्येष ह्यनन्तधा । विष्णोः सहस्रनामस्तु यत्तद्रूपसहस्रकम् ॥
बृहतीसहस्रमेतच्च तद्वक्ति हि पृथक् पृथक् । सहस्रशब्दोऽप्यमितं यतो वक्त्यमितान्यतः ॥
नामानि विष्णोरुच्यन्ते सहस्रमिति चाख्यया । अनन्तनामवचने त्वशक्तत्वात् सहस्रकम् ॥
नाम्नां पृथगिदं प्रोक्तमनन्ततनुवाचकम् । विष्णोरनन्तरूपाणामुक्त्वा पञ्चशतद्वये ॥
आसीत् सहस्रमित्याख्या सहस्रं मुख्यतोऽमितम् । ब्रह्म यावत् तावती वागिति वेदप्रमाणतः ॥
सहैवानन्तरूपैस्तु सरणेन सहस्रकम् । नाम्ना सह सृतेरेव रूपाणां वा सहस्रता ॥
बृहतीसहस्रं चैतस्माद्रूपानन्ताभिधायकम् । पृथक् पृथग्घि नामार्था ऋच एताः प्रकीर्तिताः ॥
सर्वनामात्मकं तस्मादृक्सहस्रमिदं हरेः । सर्वरूपाण्यतो विष्णोस्संस्तुतान्यमुनैव हि ॥
४० ॥
तत्सर्वम् । तानि दश
मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः । कृष्णबुद्धौ च कल्कीति रूपाणां दशकं हरेः ॥
पञ्चभेदविभिन्नेन ह्यृक्सहस्रेण शस्यते । रूपाणां पञ्चकं पूर्वमपरं पञ्चकं हरेः ॥
प्रस्तावाद्यैरानिधनैः स्तूयते सामभक्तिभिः । तानि रूपाण्यस्य दश सर्वरूपात्मकानि च ॥
दशनामानि चास्यैव सर्वरूपाभिधान्यपि । पञ्चकं सामभक्तीनामृक्सहस्रं च तद्द्वयम् ॥
स्तावकं सर्वरूपाणामत एव रमापतेः ।
दशेति वै सर्वम् ।
दशेति सर्वनामैतत्प्रथितं मुख्यतः श्रुतौ ॥
शं रूपं भगवन्तं यद्दद्याद् व्यक्त्या समस्तशः । दशेत्यमितनाम्नां तदाख्या रूपेषु शन्ददेः ॥
सर्वनामार्थवचनात् पञ्चकद्वितयस्य च । अभूद्दशेति वै नाम तस्मादेतद्दशाखिलम् ॥
एतावती हि सङ्ख्या । दश दशतस्तच्छतम् । दश शतानि तत्सहस्रम् । तत्सर्वम् ।
दशैव मूलसङ्ख्या च तद्विभेदाः शतादयः । ऋक्सहस्रमिदं तस्मादनन्तगुणमच्युतम् ॥
अनन्तशक्तिममितरूपनामानमेव च । वक्ति ...
तानि त्रीणि च्छन्दांसि भवन्ति । त्रेधा विहितं वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति ॥
४ ॥
.... छन्दस्त्रयं चात्र तृचाशीतित्रयात्मकम् ॥
अशनादित्रिकं तच्च भूत्वा विष्णुमुपैति च । सर्वच्छन्दोऽभिधश्चैव सर्वदेवाभिधस्तथा ॥
सर्वमुन्यभिधश्चैव सर्ववस्त्वभिधो हरिः । अनन्तपूर्णगुणकस्तस्माज्ज्ञेयो रमापतिः ॥
मुख्यतोऽस्यां च विद्यायां योग्य एकश्चतुर्मुखः । एकदेशपरिज्ञाने त्वन्ये योग्याः शिवादयः ॥
इति च । त्रिविधो ह्यनिरुद्धोऽसावध्यात्मादिविभेदतः । अतस्त्रिवृदिति प्रोक्तस्तथा पञ्चदशात्मकः ॥
प्रद्युम्नः पञ्चभूतेषु ह्यध्यात्मादिविभेदतः । लिङ्गसप्तदशस्थत्वात् तावान् सङ्कर्षणः श्रुतः ॥
सप्तधातुषु संस्थः सन्नध्यात्मादिविभेदतः । एकविंशो वासुदेवो मन आदिचतुष्टये ॥
गुणत्रये च प्रकृतावध्यात्मादिविभेदतः । मूलरूपेण च सह पञ्चविंशात्मकः प्रभुः ॥
नारायणस्त्वचिन्त्यात्मा स एकोऽपि ह्यनन्तधा । गायकानां त्राणतोऽसौ गायत्रमनिरुद्धकः ॥
प्रद्युम्नो हि रथारूढस्तेन चोक्तो रथन्तरम् । बृहद्रूपो बृहन्नामा तथा सङ्कर्षणः प्रभुः ॥
भद्रं तु वासुदेवोऽसौ भद्रमोक्षप्रदो यतः । नारायणो राजनं स्याद् राजयत्येष मोक्षिणः ॥
गायत्री त्वनिरुद्धोऽसौ त्रिकाले गीयते यतः । उष्णिगुष्णस्वरूपत्वात् प्रद्युम्नोऽग्न्यादिसंस्थितः ॥
स्त्रीरूपो बृहतीनामा बृहत्सङ्कर्षणः प्रभुः । वासुदेवस्तथा त्रिष्टुप् त्रिवेदैः स्तूयते यतः ॥
नारायणस्तु स्त्रीरूपो द्विधैवासौ व्यवस्थितः । द्विपदेति ततो नाम सर्वच्छन्दोभिधा इमे ॥
वनितातनवः प्रोक्ताः मध्यं नारायणः प्रभुः । वासुदेवोऽस्य पुच्छं च वामदक्षौ च पक्षकौ ॥
सङ्कर्षणश्च प्रद्युम्नः क्रमादेव प्रकीर्तितौ । अनिरुद्धः शिरश्चैव तथैकोऽपि हि पञ्चधा ॥
प्रस्तावनामानिरुद्धो रक्षन् संस्तूयते यतः । सृजन् जगच्च रमया प्रद्युम्नस्तत्र गीयते ॥
उद्गीथनामा तेनासौ जगदुद्गमनेन वा । संहारात् प्रतिहाराख्यस्तथा सङ्कर्षणः प्रभुः ॥
मोचयित्वा समीपं हि द्रावयेद् वासुदेवकः । तेनोपद्रवनामासौ निधीयन्ते यतोऽखिलाः ॥
मुक्ता नारायणे देवे तेनासौ निधनाभिधः ॥
इत्यादि च । स्तूयमानत्वात् स्तोमः । समत्वात् साम । छन्द्यत्वात् छन्दः ॥
४ ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते किमन्यत्सत् । अन्यद् ब्रूयामेति त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके ।
तदिदमुक्तप्रकारेणैव बृहतीसहस्रं सम्पन्नं भवति । तदेके नानाच्छन्दसां सहस्रं शंसितव्यमेव बृहतीसहस्रसम्पादनमविवक्षितमिति प्रतिजानते । केचित् त्रिष्टुप्सहस्रमेव शंसितव्यमिति ।
तदुक्तमृषिणाऽनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति । वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत् तदुक्तं भवति ।
अनुष्टुप्सहस्रमेवेति वदन्तोऽनुष्टुप्प्रशंसात्मिकामृचं दर्शयन्ति । बीभत्सूनां जगद्भर्तुमिच्छूनाम् । अपां सयुजं सहैव चरन्तं चाहुः विष्णुं हंसस्वरूपिणम् । अनुष्टुभं चर्चूर्यमाणं पुनः पुनर्वदन्तं परमेश्वरं ददृशुश्च । मेघसंस्थं हंसरूपं तं विष्णुं परमेश्वरम् । विरिञ्चशिवपूर्वेभ्यो नृसिंहानुष्टुभं पराम् ॥
उच्चारयन्तमर्थांश्च व्याचक्षाणं समन्ततः । ददृशुर्मुनयो दिव्या आचार्यं ब्रह्मशर्वयोः ॥
एवं वायुं च ददृशुस्तत्र हंसस्वरूपिणम् । शिवादिभ्यो व्याहरन्तं तामेवानुष्टुभं पराम् ॥
इत्यादि च । वागाख्यायामनुष्टुभ्युच्चार्यमाणायां हि मुनयो विष्णुं ददृशुः । अतो ब्रह्मादयोऽपि विष्णोः सकाशादनुष्टुभर्थं सर्वदा शृण्वन्तीति ज्ञायतेऽतोऽनुष्टुबेव छन्दसां वरेति चोक्तं भवति ।
स हेश्वरो यशस्वी कल्याणकीतिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माह ।
अनुष्टुभां सहस्रं तु यः शंसीतात एव तु । भवितुं चेश्वरः स स्याद् भावो मुक्तिर्न चान्यथा ॥
यशस्वी स प्रसिद्धः स्याच्छुभकीर्तिश्च सर्वदा । स्वच्छन्दमृत्युता च स्यात् तस्येत्याहैतरेयकः ॥
अकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणेन मनसेस्यमानो वाचा नानुभवति । बृहतीमभि सम्पादयेदेष वै कृत्स्न आत्मा यद्बृहती ।
महैतरेयो भगवान् तन्नेत्याह रमापतिः । नानाच्छन्दःप्रशंसादिप्रमाणरहितत्वतः ॥
परिहाराय चापूर्णमैतरेयमुने शृणु । त्वं तु मन्त्रमुदाहृत्य यस्मादेतदवोचथाः ॥
तस्माद् वक्ष्याम्युत्तरं ते प्रियः शिष्योऽसि मे यतः । उमैव वागिति प्रोक्ता साऽनुष्टुबभिमानिनी ॥
अकृत्स्ना सा ततो नैव ब्रह्मेत्युक्ता कथञ्चन । वागिन्द्रियाभिमानिन्यां न हि ब्रह्मवचः क्वचित् ॥
वायुना प्राणरूपेण मनोरूपशिवेन च । अभ्यस्यमानोऽनुभवेत् पुमान् वाचा तु न क्वचित् ॥
अभिमानी बृहत्यास्तु वायुरेव यतः प्रभुः । तस्मादेषा छन्दसां हि वरिष्टा बृहती स्मृता ॥
पूर्णो हि वायुर्देवानां तस्माद् ब्रह्मेति चोच्यते । माहात्म्याधिक्यतश्चैव बृहतीत्येव नाम तत् ॥
सोयमात्मा सर्वतः शरीरैः परिवृतः । तद्यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता । मध्यं ह्येषामङ्गानामात्मा । मध्यं छन्दसां बृहती । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुरायुषः प्रैतोरिति ह स्माऽऽह । कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद् बृहतीमेवाभिसम्पादयेत् ॥
५ ॥
अङ्गेभ्य एव सम्भूतान्यन्यच्छन्दांसि चाब्जजात् । मध्यात् तु बृहती जाता तस्मात् सा मध्यमुच्यते ॥
पठ्यते तेन मध्ये सा छन्दसां प्रवरा सती । छन्दांस्यन्यान्यङ्गवत् स्युर्मध्यवद् बृहती परा ॥
सप्तछन्दांसि चैवं हि प्रतिमा वैष्णवी मता । गायत्रीदेवतात्वं च लक्ष्म्या यत्राभिधीयते ॥
बृहती देवता तत्र भगवान् पुरुषोत्तमः । आधिक्यं छन्दसां यत्र गायत्र्यास्तु विवक्षितम् ॥
तत्र तत्पुत्रको वायुः बृहतीदेवता मता । ऋचामाधिक्ययोगार्थं नाङ्गीकर्तव्यमत्र तत् ॥
प्रधानत्वाद् बृहत्यास्तु जगत्याद्यं न युज्यते । सम्पादनाद् बृहत्यास्तु मुक्तो भवितुमीश्वरः ॥
स्यात् प्रसिद्धः सुकीर्तिश्च छन्दोमृत्युर्गुणाधिकः । इति प्राह स्वयं विष्णुर्महिदासाभिधः प्रभुः ॥
इत्यादि च । इतोऽन्यत् सत्किमित्याहुर्नानाच्छन्दस्त्ववादिनः । अन्यत् सद्रूपमित्याहुस्त्रिष्टुब्वादिन एव ते ॥
ऐन्द्रं प्राणं परमेश्वरसहितं वायुम् । प्राणेन मनसा च अभि इस्यमानोऽभ्यस्यमानः । तृतीयोऽतिशये इति सूत्रादकारस्येकारः । मथनात् मिथिलो जातः सहनात् सिंह उच्यते । हत्वी दस्यून् इत्यादिवच्च । अभ्यस्यमानः अभितः क्षिप्यमाणो विषयेषु बहुशः । कृत्स्न आत्मा कृत्स्नप्रतिमा विष्णोः । एकापि प्रतिमा विष्णोर्बृहती च्छन्दसां वरा । अन्यच्छन्दोऽभिधा यत्स्यात् प्रतिमा मध्यमैव तत् ॥
इति च । एवं ब्रह्मादिभिः श्रूयमाणानुष्टुबपि बृहत्या अङ्गमिति बृहत्या एवाधिक्यमुक्तं भवति ॥
५ ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्यैकादशानुष्टुभां शतानि भवन्ति । पञ्चविंशतिश्चानुष्टुभः । आत्तं वै भूयसा कनीयः ।
बृहतीसम्पादनेऽनुष्टुप्शंसनमात्रात् पञ्चविंशोत्तरशतानुष्टुबाधिक्यं च भवति । अत आधिक्यात् बृहतीसम्पादनमेव वरम् । तस्यात्रैवान्तर्भावात् । जगत्यादिकं त्वधिकत्वेऽपि बृहतीवन्माहात्म्याभावादेवोपेक्ष्यते ।
तदुक्तमृषिणा ॥
वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति । नवस्रक्तिमिति बृहती सम्पद्यमाना नवस्रक्ति । ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा । एन्द्रात् परि तन्वं मम इति । तद्यदेवैतद्बृहतीसहस्रमनुष्टुप्सम्पन्नं भवति । तस्मात् तदैन्द्रात् प्राणाद् बृहत्यै वाचमनुष्टुभं तन्वं संनिर्मिमीते ।
वाचमष्टापदीमहमित्यनुष्टुभो बृहतीसम्पादनवचनाच्च । अष्टचतुरक्षराण्यनुष्टुप् । तस्या एव बृहतीसम्पादने नव स्रक्तयो भवंित । ऋचा वाक् ऋग्रूपेण वागृतं स्पृष्टा सत्यरूपं विष्णुं स्पृष्टा भवति । इन्द्रस्य परमेश्वरस्य विष्णोः सम्बन्धी नितरां प्रियत्वाद्यः प्राणदेवता वायुः तस्य प्रतिमारूपमिदं बृहतीसहस्रम् । स च वायुर्विष्णोर्मुख्यप्रतिमा । तस्माद् विष्णोरेव प्रतिमा बृहतीसहस्रम् । तस्मात् तस्यैव बृहतीसहस्रत्वेन सम्पन्नस्य पञ्चविंशोत्तरैकादशशतानुष्टुप्त्वेन सम्पादने बृहतीदैवतप्राणरूपाद् वायोरनुष्टुब्देवताया वाग्रूपाया उमाया उत्पत्तिः संस्मृता भवत्येवं जानतः । ततश्चोमाया अपि भगवत्प्रतिमात्वाद् विष्णुप्रतिमास्थापक एव भवत्येतत् सर्वं सम्यग्ध्यायन् । विष्णुरेव बृहत्याः प्राणस्याधिष्ठातृदेवता । प्रतिमाधिष्ठितदेवतावत् । तस्माद् बृहत्याः सकाशादनुष्टुप्सम्पादने तस्यैव विष्णोः प्रतिमान्तरं तस्मादेव निर्मितं भवति । अत एवेन्द्रात् परितन्वं मम इत्युक्तम् । बृहतीस्थविष्णोर्बलादेव तत्सम्पद्यते । स हि तस्याः षटि्त्रंशदक्षरादित्वमपि नियमयति तत्प्रसादाद् वायुश्च । वायुरेव यद्भगवन्नियतो नियमयति तस्मादिन्द्रात् परीत्यस्यैन्द्रात् प्राणादिति व्याख्या कृता । यावत्सहस्रं बृहती तावच्छंसेदनुष्टुभाम् । छन्दसां वा तदन्येषां बृहतीत्वं स्मरेत् ततः ॥
तेन सर्वगतो विष्णुः सर्वस्मादधिकोऽर्चितः । भवेदेवं जानतस्तु कृता च प्रतिमा भवेत् ॥
तथा वायोरपि कृता वायुर्हि प्रतिमा हरेः । तस्माद् वायुकृतं सर्वं क्रियते विष्णुनैव हि ॥
बृहतीसहस्रं सम्पन्नमेकादशशतं पुनः । अनुष्टुभां स्मरेत् पञ्चविंशोत्तरमुदारधीः ॥
तेन वायोरुमोत्पत्तिः सम्यग्ज्ञानात् स्मृता भवेत् । ततो द्वितीयप्रतिमा विष्णोरेव कृता भवेत् ॥
विष्णुनाऽनुप्रविष्टौ यदुमा वायुश्च तद्वशौ ॥
इत्यादि च । स्रक्तयो विभागाः । स्रक्तिरंशो विभागश्च विदलं चेति कथ्यते । इति शब्दनिर्णये ।
स वा एव वाचः परमो विकारो यदेतन्महदुक्थम् ।
स वा एष वाचः परमो विकारः अकाराख्यवाग्विकारेषूत्तमो बृहतीसहस्राख्यः । अकारः प्रथमं नाम विष्णोः सर्वगुणान् ब्रुवन् । सर्वदोषविरुद्धत्वाद् गुणनामन्यतामपि ॥
विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा । अभावं चैव दोषाणां सर्वेषां केशवे वदेत् ॥
सम्यग्वक्तृत्वतस्तस्मादकारो मुख्यनाम हि । तदर्थानेकदेशेन शब्दाः सर्वेऽपि चोचिरे ॥
व्याख्याव्याख्येयरूपत्वं विकारत्वमिहोदितम् । विकारत्वं च नान्यत् स्यान्नित्या वेदा यतोऽखिलाः ॥
वाचकेषु तथा विष्णोः सहस्रबृहतीमयम् । उक्थमुत्तममुद्दिष्टं व्याख्याऽकारस्य सा परा ॥
अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाभिधायिनः । येषां परममुक्थं तत् ....
तदेतत्पञ्चविधम् । मितममितं स्वरः सत्यानृते इति । ऋग्गाथा कुम्ब्या तन्मितम् । यजुर्निगदो वृथावाक्तदमितम् । सामाथो यः कश्च गेष्णः स स्वरः । ओमिति सत्यम् । नेत्यनृतम् । तदेतत्पुष्पं फलं वाचो यत्सत्यम् । सहेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदति । अथैतन्मूलं वाचो यदनृतम् । तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते । तस्मादनृतं न वदेद् । दयेत त्वेनेन । पराग्वा एतद्रिक्तमक्षरं यदेतदोमिति । तद्यत्किञ्चोमित्याहात्रैवास्मै तद्रिच्यते । स यत्सर्वमोङ्कुर्याद्रिच्यादात्मानम् । स कामेभ्यो नालं स्यात् । अथैतत्पूर्णमभ्यात्मं यन्नेति । स यत्सर्वं नेति ब्रूयात् पापिकास्य कीर्तिर्जायेत । सैनं तत्रैव हन्यात् । तस्मात् काल एव दद्यात् । काले न दद्यात् । तत्सत्यानृते मिथुनीकरोति । तयोर्मिथुनात् प्रजायते । भूयान् भवति । यो वै तां वाचं वेद यस्या एषः विकारः स सम्प्रतिवित् । अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति । तस्यै यदुपांशु स प्राणः । अथ यदुच्चैस्तच्छरीरम् । तस्मात् तत्तिर इव । तिर इव ह्यशरीरम् । अशरीरो हि प्राणः । अथ यदुच्चैस्तच्छरीरं तस्मात् तदाविराविर्हि शरीरम् ॥
६ ॥
....तदेतत्पञ्चधा स्थितम् ॥
व्याख्यानमेवाकारस्य सहैवोक्थेन सर्वशः । मितामिते स्वरस्सत्यमनृतं चेति पञ्चधा ॥
तस्मादकार एवायं सर्ववागात्मकः श्रुतः । तस्यैव व्यक्तिरूपोऽयं सर्ववेदादिविस्तरः ॥
तस्मात् सर्वगुणान् विष्णोरकारो वक्ति यत्प्रभोः । तद्व्यक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवाः ॥
अकारस्य तथोपांशोरभिमानी तु मारुतः । देहेन्द्रियान्तःकरणनाम्नोऽस्य द्विविधस्य च ॥
स्थूलसूक्ष्मशरीरस्य सर्वेषामभिमानिनी । भारत्युच्चोदितस्यापि ह्यकारस्याभिमानिनी ॥
तस्मादुच्चादुपांशुर्हि जपादिषु फलाधिकः । वायुः पतिर्हि भारत्या उपांशोर्देवता मतः ॥
अकारस्य विकारोऽयमोङ्कार इति कथ्यते । अधिकोच्चत्वमानं हि तस्यार्थः समुदीरितः ॥
अकारेणैव तत्सर्वमुक्तमाधिक्यवक्तृतः । अधिकोच्चस्वरूपोऽसौ माता चाधिक एव हि ॥
एकार्थत्वादकारोऽसौ नकारत्वमुपागतः । दीर्घीभूतः पुनस्तेनैवाकारेण सह स्थितः ॥
अभाववाच्यकारस्य ह्यर्थो रेफः क्षयं वदन् । सोऽप्यकारेण सहितो दीर्घत्वं समुपागतः ॥
अभाववाच्यकारः स एकार्थाद्गत्यभावयोः । यकारत्वं गतस्तस्मान्नो रेफस्योत्तरत्वतः ॥
णत्वं गतो ह्यकारोऽसौ नो विरुद्धार्थवाचकः । अन्यत्वात् सर्वजीवेभ्यो जडेभ्यश्च सदैव हि ॥
सर्वदोषोज्झितत्वाच्च सर्वतोऽप्यधिकत्वतः । निरासनाच्च दोषाणां स्वभक्तेभ्यः समन्ततः ॥
सर्वदोषविरुद्धोरुगुणपूर्णस्वरूपतः । नारायण इति प्रोक्तो ह्यकारार्थोऽयमेव हि ॥
तस्मादकारबीजेयं विष्णोर्नारायणाभिधा । प्रणवश्च ततोऽकारः प्रधानं नाम चक्रिणः ॥
अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम् । ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः ॥
वर्तन्ते न त्वकारोऽयं वर्तते केशवं विना । नारायणादिनामानि नृणां नामक्रियास्वपि ॥
विहितान्यकारो नैवायं विहितस्तमृते प्रभुम् । वायुर्ब्रह्मापि चाकारदेवते न तु नामिनौ ॥
यथा वेदाभिधेयोऽन्यो वेदाख्या देवता परा । एवं नामाभिमानी तु वायुर्वाच्यो जनार्दनः ॥
तस्माद इति नामेतद्विष्णोः केवलमेव हि । विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम् ॥
तस्मात् प्रीतो भवेद् विष्णुः शंसनादस्य सर्वदा । तस्माद्यज्ञेऽपि वा शंसेदयज्ञेऽपि रहः पुमान् ॥
ध्यात्वा नारायणं देवं विष्णोरन्नं हि तत्परम् ॥
इत्यादि ब्रह्मसारे । परमविकारेण सह विकारमात्रस्यापि प्रस्तुतत्वात् तदेतत्पञ्चविधमिति परामर्शः । स्वराणां नियमो यत्र ह्यृचो नामैव ताः स्मृताः । अन्या मिताक्षरा यास्तु ता गाथाः परिकीर्तिताः ॥
खण्डवाक्यानि कुम्ब्याः स्युरसमानि परस्परम् । यज्ञाङ्गं यजुरुद्दिष्टं निगदं वाक्यमात्रकम् ॥
इत्यादि शब्दनिर्णये । अकारार्थत्वान्नकारस्य किंिचन्मूलमिव । तस्मान्मूलत्वादकारार्थोऽपि ज्ञेय एव । नायोग्यानां सम्यग्वाच्य इति स्वल्प एव प्रकाशितोऽस्माभिः । वाच उद्वर्तनाशक्तेः स्वयमेवोद्वर्तते । यदि्ध देवतासु करोति तदात्मन्यापतति । तस्माद् द्रव्यदानं ज्ञानदानं वा काले पात्राद्यनुसारेणैव कुर्यात् । अकारस्योङ्कारता त्वकारलोपेनैव जातेति सत्यमोङ्कारः । अकारस्यादौ स्थितत्वेन च यथार्थरूपत्वात् । उकारादिविकारसहितत्वात् पुष्पफलात्मकश्च । अकारस्यार्थरूपः सन्नेव च भगवांस्तमेवोङ्कारो वक्ति । अतश्च सत्यमोङ्कारः । यमर्थमकारो वक्ति तमेव वक्तीति । नकारस्त्वच्छिरस्कत्वात् मूलभूतस्याकारस्यान्ते स्थितिरूपत्वादयथास्थितेरसत्यरूपः । तथाप्यकारस्य चैकार्थत्वात् मूलभूतश्च । तस्मादकारस्यैतद् वृथा वागादिकमपि व्याख्यानम् । तस्माद् विजानतः सर्वमपि भगवन्नामैव ॥
६ ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नं तद्यशः । स इन्द्रः स भूतानामधिपतिः । स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात् प्रैतीति ह स्माऽऽह महिदास ऐतरेयः ।
विद्यान्तरोपदेशार्थं तद्वा इदं बृहतीसहस्रमिति पुनः पुनः परामर्शः । तदिदं बृहतीसहस्रं तद्यशस्तस्य नारायणस्य यशः । यस्य नारायणस्यैतद्यशः स भगवानेवेन्द्रनामा । स हि यत्प्रथमत इन्द्रो बभूव स्वेच्छया यज्ञनामा । तस्मात् तमेव वेदा इन्द्रशब्देन वदन्ति मुख्यतः । इदि परमैश्वर्ये इति धातोश्च । तस्यैव हि परमैश्वर्यम् । अन्येषां तु द्वादशानां तेन दत्तमेवेन्द्रत्वं न तु मुख्यतः । अतो विष्णावेवेन्द्रशब्दं प्रयुङ्क्ते श्रुतिः । मत्सि सोमं वरुणं मत्सि मित्रं मत्सीन्द्रिमिन्दो पवमान विष्णुम् इति । न चेन्द्रं विष्णुं चेति पृथगन्वयः क्रियते । तदा वरुणादिषु पृथक् पृथक् मत्सिशब्ददर्शनादत्रापि पृथङ् मत्सिशब्दो दृश्येत । न हि सर्वेषां पृथङ्मत्सिशब्ददर्शने एकस्यैवान्यथात्वं युज्यते । न चात्र द्वित्वगमकं चकारादिकं विद्यते । तस्मात् प्रातर्भगं पूषणं ब्रह्मणस्पतिमित्याद्यप्येकस्यैव विष्णोर्विशेषणम् । यत्र चैवं भूतेष्वेकत्वे विरोधो दृश्यते तत्र तेनैव विरोधेन द्वित्वं भवति । अन्यथैकत्वमेव । यो देवानां नामधा एक एव इति चोक्तम् । बहुरूपत्वाद् बहुवचनं च विष्णोरेव युज्यते । तस्मान्मुख्यतो विष्णावेवेन्द्रादिशब्दा अन्येषामुपचारतः । मत्सि महामिन्द्रमिन्दो मदायेत्यन्येन्द्रस्य पृथगुक्तेश्च मत्सीन्द्रमिन्दो पवमानेति पूर्वोक्त इन्द्रो विष्णुरेवेति सिद्धम् । महत्त्वं च तस्यादितिपुत्रत्वेऽग्रजत्वमात्रम् । न तु सामर्थ्यतः । मह पूजायामिति धातोः । पूज्यो ह्यग्रजो भवति । आयो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । वेधा अजिन्वत् त्रिषधस्थ आर्यमृतस्य भागे यजमानमभजत् ॥
इतीन्द्रस्य परमदैवं जनको यज्ञभागादिप्रदाता विष्णुरेव हि श्रूयते । इन्द्रश्च यजमानः । तस्मात् तत्प्रसादादवताराग्रजत्वमेव तस्य महत्वम् । अन्येन्द्रो ह्यहं प्रथमः पिबेयमहं प्रथमः पिबेयमिति वायुना विवदमान आजौ पराजितो वायुं प्रसादयित्वा चतुर्थे वायुना सह ग्रहमाप । विष्णुस्तु क्रतुं सचन्त मारुतस्य वेधस इति वायोरपि विधाता श्रूयते । डुधाञ् धारणपोषणयोरिति धातोर्विशेषेण धारणपोषणकर्ता हि वेधाः । तस्माद् भगवत एवैतद्यशो बृहदुक्थादिकम् । ऋक्सहस्रात्मकं विष्णोर्यश इन्द्राभिधस्य हि । इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः ॥
तत्प्रसादादथेन्द्रत्वं द्वादशान्ये प्रपेदिरे । पुरन्दरस्त्वेक एव वासुदेवप्रसादतः ॥
द्विवारमिन्द्रतामाप तस्मात् द्वादश ते परे । अग्रजत्वाददित्यां तु महेन्द्रो नाम चाभवत् ॥
महाव्रतं कर्म कृत्वा चैव नाम्ना महेन्द्रकः । महत्त्वं मुख्यतो विष्णोर्न ह्यन्यस्य कदाचन ॥
एवं यो वेद तं विष्णुं विस्रस्तो बन्धतोऽखिलात् । अस्माल्लोकाद्धरेर्लोकमेति नास्त्यत्र संशयः ॥
इत्याह भगवान् विष्णुर्महिदासस्वरूपकः ।
प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति । तदाहुर्यदनेन रूपेणामुं लोकमभिसम्भवती३ । अथ केन रूपेणेमं लोकमाभवती३ ।
श्वेतद्वीपादिकान् प्राप्य स इन्द्राख्यो हरिः स्वयम् ॥
महिदासाभिधो भूत्वा लोकेष्वेषु विराजति । तत्र पृच्छन्ति केचित्तु यद्येष भगवान् हरिः ॥
महिदासादिरूपेण भूमिष्ठो रमते प्रभुः । तदा यदा स्त्रिया विष्णू रमते नित्यसत्सुखः ॥
कया स्त्रिया रतिं कुर्यान्न ह्यन्यरतिरच्युतः । स्त्रीरूपे तत्स्वयं स्वस्मिन् रमतेऽसावितीदृशम् ॥
वाच्यं तत्र च भूमिष्ठरूपेण तु दिवि स्थितम् । स्त्रीरूपं किमसौ गच्छेदथ यद्येवमत्र च ॥
स्त्रीरूपं पृथिवीसंस्थं केन रूपेण संव्रजेत् । न ह्यन्यगम्यो भगवान् स्त्रीरूपोऽपि जनार्दनः ॥
तद्यदेतत् स्त्रियां लोहितं भवत्यग्नेस्तद्रूपम् । तस्मात् तस्मान्न बीभत्सेत । अथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपम् । तस्मात् तस्मान्न बीभत्सेत । सोऽयमात्मेममात्मानममुष्मा आत्मने सम्प्रयच्छति । सावात्माऽमुमात्मानमिममस्मा आत्मने सम्प्रयच्छति । तावन्योन्यमभिसम्भवतः । अनेन अह रूपेणामुं लोकमभिसम्भवत्यमुनो रूपेणेमं लोकमाभवति ॥
७ ॥
इति पृष्ठः स्वशिष्यैः स महिदासोऽवदद्धरिः । स्त्रीषु यल्लोहितं लोके तत्राग्निस्थो जनार्दनः ॥
स्त्रीरूपः सोऽग्निनामैव ज्वलज्ज्वालासमप्रभः । तस्माद्विष्णोः सन्निधानाद्भर्ता भार्याशरीरगात् ॥
न बीभत्सेतैव रक्तात् तथा पुं रेतसि स्थितः । आदित्ये संस्थितो विष्णुरादेरादित्यनामकः ॥
तस्मान्न रेतसो भार्या बीभत्सेत पतिस्थितात् । पुंरूपो भगवान् विष्णू रेतसिस्थो द्युमत्प्रभः ॥
तस्माद्यद्भूमिगं विष्णोः स्त्रीरूपं तत्स्वयं हरिः । प्रादुर्भावगतो दद्याद्दिवि स्थितपुमात्मनः ॥
सूर्यगस्य तथा पुंसो रेतसिस्थस्य चात्मनः । देवीषु यल्लोहितगं स्त्रीरूपं परमात्मनः ॥
तत्स सूर्यगतो विष्णुः पुंरेतःस्थस्य चात्मनः । दद्याद्भूमिगतस्यैव रूपद्वयमिदं ततः ॥
परस्परं सम्भवति विष्णोर्नित्यसुखात्मकम् । प्रादुर्भावस्थितं रूपं यच्च भूमौ पुमात्मकम् ॥
विष्णोस्तदपि देवीषु स्थितस्स्त्रीरूपकात्मना । एवमन्योन्यतो विष्णू रतः स्वस्मिन्न चान्यतः ॥
रमया रममाणोऽपि तत्स्थेनैव स्त्रियात्मना । रमते नान्यतः क्वापि रतिर्विष्णोः सुखात्मनः ॥
रमया रमणं तस्माद्रमाया रतिपात्रता । नैवास्या रतिदातृत्वं विष्णोर्न ह्यन्यतो रतिः ॥
इत्यादि च । स एव महिदास इन्द्रनामा प्राप्येमं लोकमत्र भूत्वा प्रादुर्भूय मनुष्यदृष्टिगोचरतां प्राप्येषु लोकेषु राजति । नात्र प्रेत्यशब्दो मरणवाची । किन्तु प्रेतां यज्ञस्य शम्भुवे त्यादिवत् प्राप्तिवाच्येव । न हि मृतः पुनरेषु लोकेष्वेव राजति । न च यशोमात्रराजनेन स्वस्य राजनं भवति । भिन्नपदार्थत्वात् । यद्वा एति च प्रेति चेत्यादौ प्राप्त्यर्थेऽपि वेदेषु प्रसिद्धत्वाच्च । लक्ष्मणः प्रेत्य सुग्रीवं बभाषे रामचोदितम् इति स्कान्दे । यदनेन रूपेणामुं लोकमभिसम्भवति । अनेन महिदासादिरूपेणामुं लोकं दिविष्ठं स्वरूपम् । लोक्यत इति स्वरूपवाची लोकशब्दः । आत्मानमेव लोकमुपासीत इतिवत् । यच्छब्दः किंशब्दार्थे । अनेन रूपेण तद्रूपमभिसम्भवति किम्? उभयोरपि परिहारदर्शनादस्यापि प्रश्नत्वमवगम्यते । यतश्चोदेति सूर्य इत्यादिवत् । रङ्गस्तु प्रश्नविषयस्य दुरवगमत्वं प्रकाशयति । दुर्गमे प्रश्नविषये प्रश्नो रङ्गयुतो भवेद् इति शब्दनिर्णये । केन रूपेणेमं लोकमाभवति । केन स्वरूपेण भूमिष्ठेनात्मन एव स्त्रीरूपेण विष्णुः सम्बध्यते । सोऽयं महिदासादिप्रादुर्भावरूप इदं भूमिष्ठस्त्रीरूपं लोहितगतं च स्वकीयमेव रूपममुष्यै दिविष्ठाय स्वपुरुषरूपाय प्रयच्छति । देवरेतःस्थिताय च देवीलोहितस्थितमात्मनः स्त्रीरूपं महिदासादिरूपेभ्यो मानुषरेतःस्थितरूपेभ्यश्च दिविष्ठैश्च विष्ण्वादिस्वरूपैः प्रयच्छति च । तानि भूमिष्ठत्वेन दिविष्ठत्वेन द्विविधत्वात् तावित्युच्यन्ते । अग्नेस्तद्रूपमग्निनाम्नो विष्णोः प्रतिमा तत्सन्निधानात् । एवमादित्यनाम्नो विष्णोः । न ह्यग्न्यादिस्वरूपमेव लोहितादि । न च लौकिकस्त्रीपुरुषसम्बन्धमात्रमत्रोच्यते । अप्रस्तुतत्वात् तस्य । भगवानेव ह्यत्र प्रस्तुतः । असावात्मेत्यात्मशब्दाच्च भगवानेवेति ज्ञायते । आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । गुणपूर्त्यभिधायी स नान्यस्य गुणपूर्णता ॥
अमुख्यात्मान एवातो ब्रह्माद्याः सर्व एव हि ॥
इत्यादि च ब्रह्माण्डे । यदक्षरं पञ्चविधं समेति । सत्यस्य सत्यमनु यत्र युज्यत इत्यादिनोक्तार्थविषयोदाहृतैः श्लोकैरपि भगवत एव स्वरूपाणां परस्परयोगस्योक्तत्वात् । गायत्र्युष्णिग्बृहतीत्यादिना भगवत एव पञ्चविधस्य स्त्रीरूपस्य महिदासादिपञ्चपुंरूपाणां च प्रस्तुतत्वाच्च ॥
७ ॥
तत्रैते श्लोकाः–
यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत् संवहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
यन्नारायणादिरूपेण पञ्चविधमक्षरं परं ब्रह्म तत्स्वस्मिन्नेव स्त्रीपुंरूपेण समेति । स्त्रीपुंरूपेण युजो देवा अश्वरूपेण रथे युक्ताः सन्तो यन्नारायणाख्यं परं ब्रह्माभिसंवहन्ति । तदेतत्सत्यस्य सत्यं नारायणाख्यं ब्रह्म यत्रानुयुज्यते यस्मिन् स्वरूप एव स्त्रीपुंरूपेण युज्यते । तत्र तस्मिन् एव परे ब्रह्मणि नारायणाख्ये सर्वदेवा एकीभवन्ति मुक्ताः सन्तो मिलिता भवन्ति । नायमेकीभावो नाम स्वरूपैक्यम् । किन्त्वेकस्थाने वासोऽत्यनुकूलचित्तता च । एकीभूय नृपाः सर्वे ववृषुः पाण्डवं शरैः । एकीभूता तु सा सेना पाण्डवानभ्यवर्तत ॥
इत्यादिवत् । न चैकीभावशब्दः स्वरूपैकत्वविषये प्रयुज्यमानः कुत्रचिद् दृष्टः । एकः पुरुषोऽपि यदा द्विधा भूत्वा एकीभवतीत्युच्यते तदापि स्थानैक्यमेव । स्वरूपैक्यस्य पूर्वमेव सिद्धत्वात् । न चाज्ञात एकत्वे पुनर्ज्ञाते ऐक्यं प्राप्त इति प्रयोगो दृश्यते । किन्तु ज्ञात इत्येव प्रयुज्यते । तस्माद् भावसहित एकशब्दो न स्वरूपवाची । न हि पूर्वं भिन्नस्य पश्चात् स्वरूपैक्यं भवति किन्तु संसर्ग एव भवति । तस्मादत्रापि संसर्ग एव विवक्षितः । यदक्षरं पञ्चविधं समेतीत्युक्तस्य सत्यस्य सत्यमनु यत्र युज्यत इति परामर्शं कृत्वा तत्र देवाः सर्व एकं भवन्तीत्युच्यते । तस्मान्न पुनरुक्तिः ।
यदक्षरादक्षरमेति युक्तं युजो युक्ता अभियत् संवहन्ति ।
सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥
यस्मादक्षरान्नारायणाख्यात् स स्वयमेव भगवान् प्रादुर्भावरूपी स्त्रीपुंरूपेण युक्त आगच्छति । तात्पर्यार्थं तस्यैवार्थस्य पुनरभ्यासः ।
यद्वाचा ओमिति यच्च नेति
यच्चास्याः क्रूरं यदु चोल्बणिष्णु । तद्वियूया कवयोऽन्वविन्दन् आत्मायत्ता समतृप्यञ्च्छृतेऽधि ॥
यस्मिन् नामा समतृप्यञ्च्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति । तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान् ॥
वियूय विचार्य नामायत्तान्येव नामार्थभूतान्येव विष्णोर्माहात्म्यादीन्यन्वविन्दन् । ततश्चाधिकं समतृप्यन् । शृते परिपक्वे सति ज्ञाने । यस्मिन् विष्णौ नामानि ज्ञात्वा तस्मिन् ज्ञाने परिपक्वे समतृप्यन् तस्मिन्नेव देवाः सर्वयुजो भवन्तीत्यवधारणार्थं पुनर्वचनम् । सर्वयुजो भवन्ति मनोवाक्कर्मभिस्तत्रैव युक्ता भवन्ति । अर्थतः कठिनं क्रूरमुल्बणं श्रवणाप्रियम् इति शब्दनिर्णये ।
नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान् ब्रुवन् । पुमांसं न ब्रुवन्नेनं वदन् वदति कश्चन ॥
अस्त्री पुमान् ब्रुवन् अस्त्री पुमांसं ब्रुवन् ।सप्तसु प्रथमा इति सूत्रात् । स्वातन्त्र्ये विभक्तिव्यत्ययः इति च । स्वतन्त्रो हि भगवान् तत्प्रेरित एव तं वदतीत्यभिप्रायः । वदन् वदति वदन्नेव वदति । वदन्नेव न वदति । भवत्येव हि भगवान् स्त्रीरूपः पुंरूपश्च । तस्माद् वदत्येव । अप्रसिद्धत्वान्न वदति च । स्त्रीरूपश्चैव पुंरूपो यस्मान्नारायणः स्थितः । पुमांस्त्री चेति वाच्योऽतो वैलक्ष्ण्यान्न चोच्यते ॥
विष्णोर्नपुंसकाकारो नैवास्ति क्वचन प्रभोः । तथाप्यरागाकृष्टत्वात् तच्छब्दैरपि कथ्यते ॥
इति गारुडे । नारायणादिरूपेण पञ्चधैष हरिः स्थितः । तन्नामभिश्च स्त्रीरूपैः समेति स्वैः स केशवः ॥
यत्स्यन्दनं वहन्त्येते देवा भार्यासमन्विताः । अधिदैवे तथाऽध्यात्मे जीवदेहात्मकं रथम् ॥
स सूर्यः सूर्यभार्या च चक्षुर्द्वयसमाश्रितौ । वहतोऽश्वात्मकौ देहं नारायणरथात्मकम् ॥
सोमश्च रोहिणी चैव दक्षवामश्रुतिस्थितौ । उभयोः पक्षयोः स्थित्वा वहतोऽश्वात्मकौ तयोः ॥
उद्धारणार्थमेतेषामुमा वाचि समास्थिता । नागाकारैव रश्मित्वमगमद्वैष्णवे रथे ॥
मनःस्थितः शिवश्चात्र मनोनामा महाबलः । अभवत् सारथिर्विष्णोर्विष्णुर्वायुश्च तं रथम् ॥
प्रकृष्टानन्दरूपत्वात् प्राणाख्यावधितिष्ठतः । तावेव चाश्विनामानौ हयास्यौ जगदीश्वरौ ॥
इत्यादि गारुडे । तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेष सत्यम् इति च श्रुतिः । सर्वसाधुगुणत्वात् तु वायुः सत्य इतीर्यते । तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः ॥
सत्यस्य सत्य एतस्मात् स्त्रीपुंरूप स केशवः । यस्मिन् स्वात्मनि युक्तः स रमते स्त्रीपुमात्मना ॥
मुनिगन्धर्वपित्राद्यैर्न तत्प्राप्यं कथञ्चन । आप्नुवन्ति सुराः सर्वे तद्रूपं जाज्वलत् सदा ॥
अर्धनारीपुमाकारं तस्य वामस्थितानि च । स्त्रीरूपाणि तु सर्वाणि विष्णोरत्यद्भुतानि च ॥
विष्णोर्यानि तु पुंरूपाण्यास्थितान्यस्य दक्षिणे । तान्यस्यैव तु रूपाणि युज्यन्तेऽत्र परस्परम् ॥
एष नारायणो देवो ह्यर्धनारीपुमात्मकः । सर्वे देवास्सभार्याश्च तं प्राप्य पुरुषोत्तमम् ॥
एकीभावं स्वभार्याभिरर्धनारीपुमात्मना । प्राप्यैवोपासते विष्णुं मुक्ताः संसारसागरात् ॥
मोदन्ते च रमन्ते च विभागं चेच्छयाऽऽप्नुयुः । बहुधा च भवन्त्येते स्त्रीपुमात्मपृथक्त्वतः ॥
प्रसादाद् वासुदेवस्य भागैः स्त्रीपुंस्वरूपिणः । तेनैव नियता नित्यं तद्वशास्तत्परायणाः ॥
रमन्ते नान्यगम्योऽसौ देशो विष्णोः परात्मनः । स्त्रीपुंरूपेण युक्तं तद्विष्ण्वाख्यं परमक्षरम् ॥
अक्षरादेव परमात् पुंसो नारायणाभिधात् । आगच्छन्ति तदैते च देवा भार्यासमन्विताः ॥
वहन्त्यश्वादिरूपेण रथस्थं परमं वपुः । तत्सर्वदेवैः प्राप्यं च नान्यैः कथमपि क्वचित् ॥
मितादिपञ्चरूपं यद्वाक्यं लोकेऽथवा श्रुतौ । नारायणस्य नामैतदिति जानन्ति देवताः ॥
मनोवाक्कर्मभिस्तस्माद् योगमाप्स्यन्ति तत्र ते । सर्वशब्दान् हरौ नेतुं कस्य देवानृते बलम् ॥
वाय्वन्तास्तारतम्येन विष्णुनामार्थवेदिनः । सम्यग्वेत्ता मारुतोऽत्र तस्मान्मुक्तेभ्य एव च ॥
सुरेभ्योऽधिकमानन्दं नित्यं भुङ्क्ते हरेरनु ॥
इत्याद्यर्धनारीनारायणतन्त्रे ।
अ इति ब्रह्म । तत्राऽऽगतमहमिति ।
एवं सर्वे शब्दा भगवद्वाचका इत्युक्त्वा अकारो विशेषतो नारायणवाचक इत्याह– अ इति ब्रह्मेति ॥
इतिशब्दोऽभिधानान्ते यत्र वैशेषिकं हि तत् । नाम स्यादिति मे साक्षान्निर्णयः समुदाहृतः ॥
इति शब्दनिर्णये । तत्रागतमहमिति यस्माद् अः इत्ययं शब्दः प्रस्तुतस्य भावं विरोधिनमन्यं च वदति तस्मात् प्रत्यक्षत्वाज्जीवजडात्मकस्य जगत एवानुक्तावपि प्रस्तुतरूपत्वात् तदन्यस्तद्विरोधी तत्र दृश्यमानदोषवर्जितश्चाकारशब्दार्थ इति सिद्ध्यति । मनसि प्रस्तुतत्वादवचनेऽपि प्रस्तुतमेवेदं सर्वम् । दृष्टसम्बन्धित्वाददृष्टं सर्वमपि प्रस्तुतं भवति । भगवांस्तु अव इति पृथग्विवक्षितत्वादेव न प्रस्तुतसमुदाये । न च शून्यस्याशब्दार्थता । शून्याङ्गीकारे ह्यकारस्याभावताख्य एक एवार्थ इति सिद्ध्यति । विष्णोरङ्गीकारे त्वभावताऽन्यता विरोधितेति त्रयोऽप्यर्थाः सम्यगेव सिद्ध्यन्ति । तस्मादकारस्य भगवानेव मुख्यार्थो न शून्यम् । एकदेशार्थत्वात् । तस्मादमुख्यार्थत्वादन्ययुक्तेनैवाकारेणाभाव इति तदुच्यते । न तु अव इत्येव केनचित् क्वचित् । न च तथा प्रयोगोऽस्ति । तस्मात् पारतन्त्र्याल्पगुणत्वादिसर्ववस्तुस्वभावविरुद्धस्वभावं स्वतन्त्रं पूर्णगुणं सर्वजीवजडेभ्यो अन्यदज्ञानदुःखाल्पत्वपारतन्त्र्योत्पत्तिनाशादिसर्वदोषविवर्जितं ब्रह्मैवाशब्दार्थः । पूर्णं हि ब्रह्मशब्दस्यार्थः । न च दोषयुक्तस्य पूर्णता । न च जीवजडाद्यपूर्णवस्त्वभिन्नस्य पूर्णत्वं भवति । तस्मादकारशब्दार्थ एव ब्रह्मशब्दार्थः । तदेतदुक्तं अः इति ब्रह्मेति । अः इति पृथक्त्वेन वचनं तत्सममधिकं वा किमपि नास्तीति दर्शयितुम् । विवृतावपि सर्गः स्यात् संहितायां च यत्र हि । समानोत्तमहीनत्वमुच्यते वस्तुनोऽञ्जसा ॥
इति शब्दनिर्णये । अः इति ब्रह्म पूर्णं वस्तूच्यते । तत्रागतमहमिति तत्राकारस्य पूर्णवाचित्वेऽहमेव सोऽकारवाच्य इत्याह महिदासरूपो भगवान्नारायणः । अहमेक एव परिपूर्णः । अन्येषां सर्वेषां मदधीनत्वादल्पत्वादिति । मुक्तेभ्यः प्रलये लीनेभ्यश्च सर्ववस्तुभ्यः सदा विभिन्न एव भगवानिति दर्शयितुं च अः इति पृथग्वचनम् । तच्चोक्तं वाक्यनिर्णये– मुक्ता अपि न विष्णुत्वं यान्ति तत्समतामपि । आधिक्यं कुत एव स्यान्मुक्तानां मुक्तिदातृतः ॥
कुत एव प्रलीनानां प्रलये तु तदात्मता । ब्रह्मशर्वेन्द्रपूर्वाणां मुक्तावपि न विष्णुता ॥
यदा तदा तु संसारे क्व तद्रूपत्वमिष्यते । अन्योऽसौ सर्वतो विष्णुः स्वातन्त्र्याद् गुणपूर्तितः ॥
सर्ववस्तुस्वभावस्य विरुद्धोरुस्वभावकः । पारतन्त्र्याल्पताज्ञानजनिनाशादिवर्जितः ॥
अकारेण ततो विष्णुः संहितायां पदात्मना । बह्वृचोपनिषत्प्रोक्तस्तेनैव परमात्मना ॥
महिदासावतारेण सोऽहमेवंविधस्त्विति । मत्तोऽन्यो न हि पूर्णोऽस्ति यतोऽकारश्च पूर्णताम् ॥
वक्ति तस्मादकारोऽयं मामेव वदति स्फुटम् । नाभाववाच्यकारः स्यादर्थत्रययुतो यतः ॥
एकार्थात्मा ह्यभावः स्यान्निषेधैकस्वरूपतः । अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः ॥
अकारार्था ह्यभावस्तु निषेधैकस्वरूपतः । एकदेशस्वरूपत्वान्नाकारेणैव भण्यते ॥
किन्त्वभाव इति त्वेव तेनाकारोदितो हरिः ॥
इति च । न च निषेधस्वरूपे विरुद्धता चान्यता चास्तीत्येतावता पूर्णार्थता भवति । तदाऽर्थत्रयकल्पनस्य वैयर्थ्यात् । उक्तं हि शब्दनिर्णये । विरुद्धता निषेधान्यभावयुक्ते हि केवलः । अकारो वर्तते तेषामेकार्थात्मन्यभावके ॥
वर्ततेऽभाव इत्येव न त्व इत्येव केवलः ॥
इति । तस्मान्नारायणः एवाकारवाच्य इति सिद्धम् । यतोऽकारः सदा विष्णोर्वाचकत्वेन संस्थितः । तस्माद्वर्णत्रयात्माऽयं प्रणवोऽपि त्रयात्मकम् ॥
हरिमेव सदा वक्ति न वाऽन्यं कञ्चन क्वचित् । सृष्टिकर्ता ब्रह्मनामा योऽसृजच्चतुराननम् ॥
अन्तर्यामी विरिञ्चस्य सोऽकारार्थो जनार्दनः । वैकुण्ठलोक आस्ते स द्वितीयवपुषा हरिः ॥
उकारवाच्यः स विभुर्नृसिंहो रुद्रनामकः । रौद्रत्वात् स शिवस्यापि स्रष्टा संहारकारकः ॥
अन्तर्यामी शिवस्यापि मकारार्थः प्रकीर्तितः । एवं त्रियात्मकं विष्णुं प्रणवोऽयं त्रियात्मकः ॥
एवं पृथगिवाचष्टे बिन्दुर्वक्त्यनिरुद्धकम् । प्रद्युम्नाद्यान्नादपूर्वाः सर्वान्नारायणात्मकान् ॥
पद्मनाभादिका एव मूर्तीर्नारायणोत्तराः । प्रणवोऽयं वदत्यष्टौ तस्मान्नान्याभिधायकः ॥
इति तत्त्वसारे ।
तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षटि्त्रंशतमक्षराणां सहस्राणि भवन्ति  । तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति । जीवाक्षरेणैव जीवाहराप्नोति, जीवाह्ना जीवाक्षरमित्यनकाममारः ।
षटि्त्रंशतिसहस्राणि बृहत्युक्थार्णगानि तु । स्त्रीरूपाणि हरेस्तावदह्नामप्यभिमानिषु ॥
सूर्यरूपेषु रूपाणि पुमाकाराणि सर्वशः । एतैः पुरुषगैः रूपैर्बृहत्युक्थव्यवस्थितैः ॥
कदाचिद् भगवान् विष्णुः पुमाकाराणि तानि च । कृत्वा सूर्यगतान्येव स्त्रीरूपाणि विधाय च ॥
तान्याप्नोति च पुंरूपैस्तैरेवाक्षरगानि च । स्त्रीरूपाणि जगन्नाथः प्राप्नोत्यात्मेच्छया प्रभुः ॥
पुंरूपप्रमदारूपस्वरूपै रमते स्वयम् । एकीकृत्य च तान्येव द्विरूपो रमते तथा ॥
स एव रमते मायां स्थितात्मस्त्रीतनौ हरिः । प्राणस्योत्पत्तिकामः सन्ननेच्छामारनामकः ॥
इत्यर्धनारीनारायणतन्त्रे । वायोरुत्पत्तिकामो मायां रमायां रमत इत्यनकाममारः । जीवस्थितेनाक्षरगेनाक्षरनाम्ना स्वरूपेण जीवाख्यसूर्यस्थितमहराख्यं स्वरूपमाप्नोति तेन चाक्षराख्यं स्वरूपमाप्नोति । यदक्षरादक्षरमेति युक्तमित्यस्य व्याख्यानरूपत्वाच्चैतदवसीयते । पुमांसं स्त्रियं च वदन्नेव न वदतीत्युक्तत्वादुभयात्मकं रूपं प्रतीयते । अस्त्रीपुमानिति ब्रुवन्नपि न वदतीत्युक्तत्वाच्च स्त्रीत्वं पुंस्त्वं च प्रतीयते विष्णोः । न च नपुंसकरूपं भगवतः कुत्रचिदुक्तम् । प्रसिद्धमेव च रूपद्वयम् । अतो नपुंसके वदन्नपि न वदतीति न तद्वदनुषज्यते । नपुंसकरूपे प्रमाणाभावादेव लौकिकस्त्रीपुंविलक्षणत्वादस्त्री पुमानित्यपि वदन्निति भवति । स्त्रीपुंरूपद्वयं विष्णोर्न तृतीयं कथञ्चन । साक्षान्नपुंसकस्तस्मान्मुक्तिभागी न तु क्वचित् ॥
इति ब्रह्माण्डे । न च रक्ष इति नपुंसकशब्दमात्रेण रावणादयो नपुंसका भवन्ति । भवतीतिपदाभावादनकाममार इति भगवन्नामैवेति ज्ञायते ।
अथ देवरथः । तस्य वागुदि्धः, श्रोत्रे पक्षसी, चक्षुषी युक्ते, मनः सङ्ग्रहीता । तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा । आतेन यातं मनसो जवीयसा । निमिषश्चिज्जवीयसेति जवीयसेति ॥
८ ॥
ऋष ज्ञान इति ह्यस्माद्धातोः सर्वज्ञ एकराट् । वेदद्रष्टा परमऋषिर्हयास्यः पुरुषोत्तमः ॥
मन्त्राणां प्रथमो द्रष्टा सर्वेषां यत एव तु । ऋषिणोक्तमिति प्राहुर्मन्त्रोक्तं ब्राह्मणान्यतः ॥
तत्प्रसादादि्ध तपसा पश्चान्मन्त्रान् प्रपेदिरे । ब्रह्माद्या ब्राह्मणं पश्चात् तैर्दृष्टमृषिभिः पृथक् ॥
मन्त्राश्चोपनिषच्चैव नाकृत्वा सुमहत्तपः । प्रथमं तद्धयास्येन दृष्टं केनचिदीक्ष्यते ॥
विना पृथक् तपो दृश्येत् ब्राह्मणं मुनिभिर्यतः । मन्त्राश्चोपनिषच्चैव ब्राह्मणादुत्तमास्ततः ॥
तत्राप्युपनिषच्छ्रेष्ठा युक्तावस्थाधिगम्यतः ॥
इत्यादि प्रमाणविवेके । तेन रथेनाध्यात्मशरीराख्येनाधिदैवं रथरूपेण । ऋभव इत्यत्र देवानां साधारणं नाम । आदित्या वसवो रुद्रा विश्वे ऋभव इत्यपि । सर्वदेवसमाख्या च द्वादशाष्टादिकेष्वपि ॥
इति शब्दनिर्णये । निर्मितो दैवतैः सर्वैर्विष्णुना वायुना सह । अधिष्ठितो रथो दिव्यः सोऽध्यात्मं देहनामकः ॥
सम्यग्योगो यदा तस्य मनोवाक्कर्मभिर्भवेत् । देहाख्यस्य रथस्यैव तदा नारायणात् प्रभोः ॥
विविधं वासवत्वात् तु विवस्वन्नामकाच्छुभम् । संसारवारकं ज्ञानं दिवो दुहितृनामकम् ॥
विष्णुतत्त्वापरोक्षाख्यमहनी द्वे च शोभने । ज्ञानावस्था मुक्त्यवस्थेत्युभे एवाहनी परे ॥
जायन्ते देवतास्त्वेषां भारती वायुरेव च । जीवन्मुक्तेश्च मुक्तेश्च दाता रूपद्वयी प्रभुः ॥
सर्वस्त्रीणामुत्तमत्वाद् द्यौर्नामा श्रीरुदाहृता । दुहिताऽस्या भारती तु नित्याहेयस्वरूपतः ॥
अहरित्युच्यते वायुर्ज्ञानात्मत्वात् तथैव च । अधिदैवे रथेऽप्येते विष्णोर्लक्ष्म्यां प्रजज्ञिरे ॥
रथेन तेन देवेशौ विष्णुवायू जगत्पती । आयातमिति हैवैतौ प्रार्थयेद्यज्ञकर्मणि ॥
अन्यथाप्यर्थयेदेतौ ज्ञानेच्छुः पुरुषः सदा । जपेन्मन्त्रद्वयं नित्यमातेन निमिषस्तथा ॥
रक्षणं वां समीपे स्यान्ममेत्यध्यात्ममेव च । हयास्यत्वाच्चाश्विनौ तावित्याह परमा श्रुतिः ॥
ऐन्द्राग्नेयादिकाश्चैवं सर्वे मन्त्रा हरिं परम् । वदन्ति मुख्यतो नान्यं सर्वनामानमच्युतम् ॥
अथवा वायुदेवस्थं पृथक्संस्थं च केशवम् । मन्त्रो द्विवचनो वक्ति तथा बहुवचस्स्वपि ॥
इत्याद्येतरेयसंहितायाम् । सुखं ददत इति सुदिने । विवस्वतो विष्णोः सकाशाद्दिवो दुहिता अहनी च जायन्ते । अहनी इति द्विवचनेन द्वित्वे सिद्धेऽप्युभे इति वचनमध्यात्माधिदैवतयोरुभयोरपि वचनार्थम् । न च सूर्यरथोऽत्र वर्ण्यते । न चाहोरात्रे अहनी इत्युच्येते । सूर्यस्याश्विनामाभावात् सप्ताश्वत्वाच्च तद्रथस्य । चतुरश्वत्वं चात्रोच्यते । श्रोत्रे पक्षसी चक्षुषीयुक्ते इत्यध्यात्मसम्बन्धाच्च । न च रात्रौ सुदिनमिति प्रयोगो दृष्टः । असुदिनस्यापि तत एव जातत्वाद् व्यर्थविशेषणता च । अस्मिन् पक्षे तु लौकिकाहर्व्यावृत्त्यर्थ सुदिने इति युज्यते । जीवन्मुक्तिश्च मुक्तिश्च हि मुख्ये सुदिने । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते इति ज्ञानावस्थायां मुक्तौ भोगबाहुल्यकारणत्वात् सापि मुक्तिवत् सुदिनम् । न हि मुक्तावधिक्यार्जनमस्ति । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते इति वचनात् । अतो ज्ञानोत्पत्तिसमनन्तरमेव मुक्तौ न पुनरार्जनमस्तीति किंिचत् कालं ज्ञानित्वेनावस्थानमपि सुदिनमेव । ज्ञानात् पूर्वं तु पतनसंशयादेव न सुदिनम् । न चाश्विरथो वर्ण्यते । न ह्यश्विरथयोगादहनी जायेते । एकरासभयुक्तो हि तद्रथः । तद्रासभो नासत्या सहस्रम् इति वचनात् । न च विवस्वच्छब्दोऽश्विनोर्विद्यते । यो देवानां नामधा एक एव इति विष्णोः सर्वनामानि प्रसिद्धानि च । युजो युक्ता अभियत्संवहन्ति इत्यादिना तस्यैव प्रस्तावाच्च । अतो विष्णुरेव मुख्यतः सर्वनामोक्त इति सिद्धम् ॥
८ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके तृतीयोऽध्यायः ॥
ॐ आत्मा वा इदमेक एवाग्र आसीत् नान्यत् किञ्चन मिषत् ।
एको नारायणस्त्वासीत् प्रलये रमया सह । नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः ॥
इदं सर्वमपेक्ष्यासौ कालतो गुणतस्तथा । अग्र्य एव समस्तेभ्यस्तद्वशत्वाद् रमापि सा ॥
विद्यमानाऽपि नाग्रस्था गुणैरूना ततो यतः । न ब्रह्मा न शिवश्चासीन्नैवान्यच्च मिषत् क्वचित् ॥
सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः । असुप्ता श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात् ॥
अनुन्मेषा एव तेऽपि स्वतन्त्रोन्मेष एकराट् । नारायणो न चान्योऽस्ति पूर्णोन्मीलद्गुणात्मकः ॥
पराधीनेन वित्तेन भुञ्जन्नपि हि भिक्षुकः । वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि ॥
मिषन्तोऽप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन । सर्वदाऽप्येक एवायं स्वतन्त्रो नापरः क्वचित् ॥
कालाग्र्यत्वं वक्तुमस्य प्रलये स्थितिरुच्यते ।
स ईक्षतेमान् लोकान्नु सृजा इति । स इमांल्लोकान्सृजताम्भो मरीचीर्मरमापः । अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठा । अन्तरिक्षं मरीचयः । पृथिवी मरः । या अधस्तात् ता आपः । स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति । सोऽद्भ्यः एव पुरुषं समुद्धृत्यामूर्च्छयत् ।
स ऐच्छद्भगवान् विष्णुः स्रष्टुं लोकाभिमानिनः ॥
लोकाभिधानवद्देवाञ्जडलोकांश्च शाश्वतः । स लोकेभ्यः पूर्वतनानबाख्यान् महदादिकान् ॥
ब्रह्मशर्वादिकान् सृष्ट्वा जडैस्सह जनार्दनः । दिवमाकाशमुर्वीं च ससृजेऽथ द्विसप्तकान् ॥
इति सृष्ट्वा स लोकांस्तु पुनस्तानेव लोकपान् । अण्डान्तः स्रष्टुमैच्छच्च तेषां पूज्यत्वसिद्धये ॥
अम्नामकेभ्यस्तेभ्यः स पूर्वसृष्टेभ्य एव तु । सर्वजीवाधिकत्वात् तु ब्रह्माणं पुरुषाभिधम् ॥
अंशेनोद्धृत्य रुद्राद्यैः सह चैनमयोजयत् । तथैव चेतनानाञ्च भागानुद्धृत्य पिण्डवत् ॥
चेतनाचेतनं राशिमेकस्थं विदधे प्रभुः ।
तमभ्यतपत् । तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डम् । मुखाद्वाक् वाचोऽग्निः नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः । प्राणाद्वायुः । अक्षिणी निरभिद्येताम् । अक्षिभ्यां चक्षुश्चक्षुषः आदित्यः । कर्णौ निरभिद्येताम् । कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशः त्वङि्नरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयः हृदयं निरभिद्यत । हृदयान्मनो मनसश्चन्द्रमा । नाभिर्निरभिद्यतः । नाभ्या अपानो अपानान्मृत्युः शिश्नं निरभिद्यत । शिश्नाद्रेतो रेतसः आपः ॥
१ ॥
पुनरैच्छञ्जगन्नाथस्तस्याङ्गोत्पत्तिमच्युतः ॥
अण्डवन्मुखमस्यासीत् प्रथमं तु शिरोऽभिधम् । भिन्नमास्यं पुनस्तस्य विष्णोरेवेच्छया प्रभोः ॥
तत्र वाङ्नामकं रूपं वह्नेरासीत् पुरातनम् । तस्यैवाथ द्वितीयं च यदग्निरिति गीयते ॥
तथैव नासिकातोऽभून्मुख्यवायोः सुतो मरुत् । प्राणो वायुरिति द्वेधा चक्षुषोऽभूत् तथा रविः ॥
द्विरूप एव कर्णाभ्यां मित्रधर्माप्यवित्तपाः । दिग्देवता द्विरूपेण बभूवुः सर्व एव च ॥
हृदयाद् गरुडानन्तशिवचन्द्राः पृथक् पृथक् । मनो बुद्ध्यभिमानाश्च तन्नामानश्च जज्ञिरे ॥
त्वचश्च रोमनामानो वृक्षनामान एव च । द्विविधाः पारिजाताद्या बभूवुर्ब्रह्मदेहतः ॥
हस्ताभ्यां द्विविधः शक्रः पद्भ्यां तत्सूनुरेव च । यज्ञस्त्वजनि पायोश्च यमो निर्ऋतिरेव च ॥
रेतोऽम्नामा द्विरूपस्तु शिव एव च गुह्यतः । अपानो मृत्युरिति च मुख्यो नाभेस्तु मारुतः ॥
१ ॥
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन् । तमशनापिपासाभ्यामन्ववार्जत् । ता एनमब्रुवन्नायतनं नः प्रजानीहि । यस्मिन् प्रतिष्ठिता अन्नमदामेति । ताभ्यो गामानयत् ता अब्रुवन्न वै नोऽयमलमिति ताभ्योऽश्वमानयत् ता अब्रुवन् न वै नोऽयमलमिति । ताभ्यः पुरुषमानयत् ता अब्रुवन् सुकृतं बतेति । पुरुषो वाव सुकृतम् ।
एवं रूपद्वयेनापि स्तुवन्तो विष्णुमव्ययम् । दिव्याम्बराः कुण्डलिनः प्राविशन्नुदकार्णवम् ॥
तदाऽशनापिपासाख्यं द्विरूपं मारुतं पुनः । तस्मिन् देवसमूहे तु विष्णुः प्रावेशयत् प्रभुः ॥
तेऽब्रुवन् देहि नो वासं यत्र चान्नमदामहे । गोरूपमेभ्यो ब्रह्माणं ददौ नारायणः प्रभुः ॥
तत्र प्रविश्य ते देवा नालमित्यब्रुवन् पुनः । अश्वरूपं विरिञ्चश्च पुनरेवावदत् प्रभुः ॥
तद्रूपेऽपि प्रविश्यैव नालमित्यब्रुवन् पुनः । पूर्वसृष्टं पुमाकारं ब्रह्मणोऽदात् पुनर्हरिः ॥
तद्दृष्ट्वैवालमित्यूचुः.....
ता अब्रवीत् यथायतनं प्रविशतेति । अग्निः वाग्भूत्वा मुखं प्राविशत् । वायुः प्राणो भूत्वा नासिके प्राविशत् आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत् । दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् । औषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् । चन्द्रमा मनो भूत्वा हृदयं प्राविशत् । मृत्युरपानो भूत्वा नाभिं प्राविशत् । आपो रेतो भूत्वा शिश्नं प्राविशन् ।
... विशतेति स चाब्रवीत् । विविशुश्च यथोत्पन्नाः सर्वे देवाश्चतुर्मुखम् ॥
तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहीति । ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति । तस्माद्यस्मै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः ॥
२ ॥
अशनापिपासामानी तु द्विरूपो मारुतोऽवदत् । कुर्वाज्ञामावयोश्चैव यथा त्वच्छासनानुगौ ॥
नित्यं भवावेति हरिः सर्वत्र प्रविशेत्यमुम् । आह तस्माद् देवतानां सर्वासां भागभुङ् मरुत् ॥
एक एव प्राणनामा नाभिस्थोऽपि स एव तु । अशनापिपासापानश्च मृत्युश्चेति चतुर्विधः ॥
एक एव महान् वायुः सर्वदेवेषु संस्थितः ॥
२ ॥
स ईक्षेतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति । सोऽपोऽभ्यतपत् । ताभ्योऽभितप्ताभ्यो मूर्तिरजायत । या वै सा मूर्तिरजायतान्नं वै तत् । तदेतत्सृष्टं पराङ् अत्यजिघांसत् ।
पुनरैच्छत् केशवोऽसावन्नमेभ्यः सृजा इति । अबाख्याः देवताः पूर्वं सृष्टा ब्रह्मादिकाः पुनः ॥
ददर्श सुविशालाभ्यां नेत्राभ्यां पुष्करेक्षणः । तद्दर्शनात् तदिच्छातस्तासां देहोऽभवत् पृथक् ॥
सर्वासामपि देहैकदेशेभ्यो मिलितं शुभम् । सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः ॥
दिव्यावयवसम्पन्नमेकमेव सुलोचनम् । भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन ॥
ते हि देवाः स्वयं भोग्याः स्वयं भोक्तार एव च । क्रीडन्ते मोदिनो नित्यं तथाऽप्यन्नात्मकस्त्वसौ ॥
क्रीडयाऽपाक्रमत् किंिचत् ...
तद्वाचाऽजिघृक्षत् तन्नाशक्नोद् वाचा ग्रहीतुम् । स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् । तत्प्राणेनाजिघृक्षत् । तन्नाशक्नोत्प्राणेन ग्रहीतुम् । स यद्धैनत् प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत् । तच्चक्षुषाऽजिघृक्षत् । तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषाऽग्रहैष्यद् दृष्ट्वा हैवान्नमत्रप्स्यत् । तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं । स यद्धैनच्छ्रोत्रेणाग्रहैष्यत् श्रुत्वा हैवान्नमत्रप्स्यत् । तत् त्वचाऽजिघृक्षत् तन्नाशक्नोत् त्वचा ग्रहीतुम् । स यद्धैनत् त्वचाऽग्रहैष्यत् स्पृष्ट्वा हैवान्नमत्रप्स्यत् । तन्मनसाऽजिघृक्षत् तन्नाशक्नोत् मनसा ग्रहीतुम् । स यद्धैतन्मनसाऽग्रहैष्यद् ध्यात्वा हैवान्नमत्रप्स्यत् । तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुम् । स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत् । तदपानेनाजिघृक्षत् । तदाऽवयत् । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः ।
... तं तदाऽसौ चतुर्मुखः । अत्तुं वागादिभिः सर्वैरैच्छन्नाप्यशकत् तदा ॥
जानन्नपि क्रीडयैव तारतम्यं प्रकाशयन् । एवं चकार ब्रह्मा स क्वाज्ञानं लोककर्तरि ॥
क्षुत्पिपासदयश्चैव देवानां भोगसाधकाः । न तु पीडाकरास्तेषामैश्वर्यादिगुणोन्नतेः ॥
अन्नमूर्तिं ततो ब्रह्मा प्रधानेनैव वायुना । अपानाख्येनात्तुमैच्छत् तदैवाशकदाशु सः ॥
तस्माद् भोक्तैक एवासौ सर्वस्यान्नस्य मारुतः । तत्प्रसादात् परेऽश्नन्ति किंिचत् किंिचन्न चाखिलम् ॥
आयुरूपोऽखिलानां च देवानां वायुरेव हि । अन्नदेवस्य चायुः स तस्माद्देवोत्तमो मरुत् ॥
आयुःशब्दो ज्ञानवाची गतिवाची च यत्ततः । चेष्टामोक्षज्ञानदाता सुराणां मारुतस्ततः ॥
अन्योन्यगुणदातृत्वात् समानौ ब्रह्ममारुतौ । तस्मान्मोक्षे सुखे ज्ञाने विष्णुभक्त्यादिकेष्वपि ॥
सर्वेभ्यश्चाधिकौ तौ हि तयोर्विष्णुः परस्सदा ।
स ईक्षत कथं न्विदं मदृते स्यादिति । स ईक्षत कतरेण प्रपद्या इति । स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ।
देवतानां प्रवेशात् तु पूर्वमेव जनार्दनः ॥
इत्थमैक्षत देवेशो ब्रह्माद्या यदि मां विना । क्रियादिषु समर्थाः स्युर्न मे विष्ण्वभिधा भवेत् ॥
सर्वचेष्टयितृत्वाच्च विशिष्टबलतस्तथा । विष्णुरित्यभिधा मह्यं सा न युक्ता दिवौकसाम् ॥
स्वतन्त्रत्वे ततः सर्वे मद्वशा एव नान्यथा । तस्मादेषां प्रवृत्त्यर्थं प्रवेक्ष्ये सह वायुना ॥
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वाः । तदेतन्नान्दनम् । तस्य त्रय आवसथाः । त्रयः स्वप्नाः । अयमावसथोऽयमावसथ इति ।
इति मत्वा विरिञ्चस्य शरीरं प्रविवेश सः । मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः ॥
अग्न्यादयस्ततः पश्चात् प्रविष्टास्तन्नियोजिताः । प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश सः ॥
बिभर्ति देहं तेनैव मूर्धाविष्टेन चेष्टयन् । नारायणो वासुदेव इति द्वेधा व्यवस्थितः ॥
मूर्धाविष्टो वासुदेवस्तस्य चावसथास्त्रयः । अक्षि कण्ठो हृदित्येवं त एव स्वप्ननामकाः ॥
आप्नोत्यत्र स्वयं विष्णुरतः स्वप्नाः प्रकीर्तिताः । अनिरुद्धादिरूपेण त्रिधा तेषु व्यवस्थितः ॥
दाताऽवस्थात्रयस्यास्य जीवस्य क्रमशो विभुः । सुषुम्नायां वासुदेवो मूर्धन्येव व्यवस्थितः ॥
तस्यामेव ब्रह्मनाड्यां स्थितो नारायणः प्रभुः ।
स जातो भूतान्यभिव्यैख्यत् । किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्मततममपश्यत् । इदमदर्शमिती३ ॥
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम । तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥
३ ॥
स एव भगवान् विष्णुः प्रादुर्भावात्मना पुनः ॥
जातो मत्स्यादिरूपेण सर्वभूतेषु चाविशत् । असुराणां निहन्तारं ज्ञानादिगुणदं तथा ॥
चेष्टाप्रदं च भूतेषु न मदन्यं वदत्यपि । इति मत्वा जगन्नाथो दैत्यनिग्रहणेच्छया ॥
ज्ञानदानार्थमपि तु प्रादुर्भूतो भुवि प्रभुः । तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया ॥
को ह्यन्यस्तमृते विष्णुमेतत्कर्म करिष्यति । स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम् ॥
एतदेवस्वरूपं स त्वपश्यदवतारगम् । तस्मात् सर्वावताराश्च सर्वजीवेषु संस्थिताः ॥
प्रादुर्भावाः सर्वगुणैः पूर्णा एव सदा स्थिताः । पश्यन्ति च तथा नित्यं निर्दोषोरुस्वसंविदा ॥
गुणपूर्णस्वरूपस्य त्वापरोक्ष्येण दर्शनात् । सर्वदैव ह्यसौ विष्णुरिदन्द्रो नामतो मतः ॥
ब्रह्मादीनां हि सर्वेषां तत्प्रसादेन जायते । जानन्ति न स्वतस्तेन नेदन्द्रास्ते प्रकीर्तिताः ॥
रमापि तत्प्रसादेन जानाति किमुतापरे । अल्पज्ञाना अल्पगुणा अल्पानन्दाश्च तेऽखिलाः ॥
रमाजशङ्करेन्द्राद्यास्तेनानिन्द्राः क्रमेण ते । पापैरज्ञाततां देवा मानयन्ति सदात्मनः ॥
हर्षेण तेन विष्णुः स इन्द्र इत्यभिशब्द्यते । नेदन्द्रताऽसुरादीनां ज्ञायेतेति श्रुतिर्हरिम् ॥
इन्द्र इत्येव वदति पारोक्ष्येणोरुसद्गुणम् ॥
इत्याद्यैतरेयसंहितायाम् । आततगुणत्वादात्मा नारायणः । ब्रह्म पन्थाः सत्यं कर्मेति तस्यैव पञ्चरात्रप्रसिद्धैरेव नामभिरारब्धत्वाच्च । मुख्यतः कर्मनामा तु प्रादुर्भावात्मको हरिः । अनिरुद्धतनुश्चैव तत्र ह्यमितचेष्टितः ॥
कर्माभासा जीवसङ्घाः सत्यं प्रद्युम्ननामकः । सङ्कर्षणो हरिः पन्थाः ब्रह्मोक्तो वासुदेवकः ॥
इत्यादिनामनिर्णये । मत्सीन्द्रमिन्दो पवमान विष्णुम् इत्यादिश्रुतौ तस्मिन्नेव प्रसिद्धस्येन्द्रशब्दस्य बहुशोऽभ्यासाच्च । अकारस्य च विष्णावेव प्रसिद्धस्यात्राप्यभ्यासात् । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इति सूर्यमण्डले पुण्डरीकाक्षत्वेन निर्दिष्टस्यात्रापि य एष तपतीत्यादिना बहुशोऽभ्यासाच्च । सूर्यो हि हिरण्याक्षः । सविता देव आगादिति पिङ्गलाक्षः प्रसिद्धः । विरूपाक्षः शिवः सूर्यः सुराचार्यो विनायकः । पुण्डरीकेक्षणो विष्णुः सहस्राक्षः सुराधिपः ॥
इति च स्कान्दे । यो देवानां नामधा एक एव । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति । यमिन्द्रमाहुर्वरुणं यमाहुः । चन्द्रसूर्यादयः शब्दा विष्णावेव हि मुख्यतः । उपचारात् तदन्येषां विष्णुनैव कृताः पुरा ॥
इत्यादिना तस्यैव सर्वनामवत्वाच्च । णकारो बलं षकारः प्राण आत्मेत्यादिनान्तेऽपि विष्णुशब्दव्याख्यानेनोपसंहाराच्च । आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न वर्तन्ते तदन्यत्र शृङ्गिबेरेऽग्निशब्दवत् ॥
इति च पाद्मे । एको नारायण आसीन्न ब्रह्मा न च शङ्करः । एको नारायण आसीन्न ब्रह्मा नेशानः । वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः ॥
इत्यादि श्रुतिभ्यश्च । अग्रशब्दो गुणाधिक्यवाची । इदं रमाब्रह्माशिवादिकं सर्वं जगदपेक्ष्यात्मैवाग्रे विष्णुरेवाग्र्यः सर्वगुणैरित्यर्थः । तत्र हेतुस्तदन्यत् किंिचन्न मिषदासीत् । सर्वस्याप्युन्मेषणं नासीदित्यर्थः । स्वत उन्मेषणं कस्यापि नास्ति । अस्तिशब्दवदासीच्छब्दोऽपि सर्वकालसाधारणः । भगवत्प्रसादादेव सर्वदा सर्वं किंिचदुन्मिषति । स्वातन्त्र्येण पूर्णोन्मेषो विष्णुरेव । उन्मेषो गुणसम्पूर्तेरुद्रिक्तानुभवः स्मृतः । तदेव मिषणं नाम सद्रूपं मिनुते यतः ॥
मिषच्च नान्यद्विष्णोर्हि किमुतोन्मिषदिष्यते । उच्चैर्मिषन् हि भगवान् सर्वदैव जनार्दनः ॥
इति च सत्तत्त्वे । नास्ति नारायणसमं न भूतं न भविष्यति । इति च भारते । सर्वजीवानां रमायाश्च प्रलयेऽपि विद्यमानत्वादेव नाग्र इति कालापेक्षया । तदधीनमिषत्वादन्येषामग्र्यः स एवेत्याशयः । तदधीनत्वमेव तेषां सृष्ट्यादिना दर्शयति । स्थूलशरीरस्य पूर्वाभावस्तत एवार्थतः सिद्ध्यति । प्रलयेऽप्यखिलं देवी रमा विष्णुप्रसादतः । जानाति नित्यज्ञानेन मुक्ता ध्यानस्थिता लये ॥
इति च सत्तत्त्वे । ब्रह्मादीनां शरीरान्तरस्यापि प्रलयेऽनुक्तेरेवाभावः सिद्ध्यति । आत्मा ब्रह्माग्र इत्यादि गुणाग्र्यत्वं हरेर्वदेत् । कालज्यैष्ट्यं न यस्मात् तत्सृष्ट्युक्तेरेव सिध्यति ॥
इति वाक्यनिर्णये । गुणाग्र्यतायामेव कालज्यैष्ठ्यस्याप्यन्तर्भावाच्च । अं विष्णुं बिभर्तीत्यम्भो विष्णुलोको दिवः परे महदादयश्च । दिव्यपि भगवान् प्रतितिष्ठतीति प्रतिष्ठा । तेषु सर्वेषु प्रत्यक्षतश्चरति विष्णुस्तस्मादम्भ इत्युच्यते । दिवः परे द्यौश्चाम्भोनामका इत्यर्थः । सूर्यमरीचीनां तत्र विशेषेण विततत्वादन्तरिक्षं मरीचयः । मरीचीनामयनात् । पृथिव्यां क्षिप्रं मरन्तीति पृथिवी मरः । भूतेभ्योऽनन्तरं त्वण्डं सृष्ट्वा विष्णुः सुरान् प्रभुः । लोकभेदांश्च चक्रेऽत्र पश्चाद् ब्रह्मा विशेषतः ॥
सम्यक्चकार लोकांस्तांल्लोककर्ता ततः स च ॥
इति ब्रह्मवैवर्ते । या अधस्तात् पूर्वमेव सृष्टा देवतास्ता आप इत्युच्यन्ते । आप इत्याप इतीति पूर्वं भगवदङ्गसृष्टानामेवाप्शब्देनोक्तेः । अयं पितैते पुत्रा इति च । आहं मां देवेभ्यो वेद ओमद्देवान् वेदेति च । ब्रह्मवायू च तद्भार्ये वीन्द्रशेषौ च तत्स्त्रियौ । शिवस्तद्दयिता शक्रकामौ तद्दयितादयः ॥
सर्वे सुराः क्रमेणैव विष्णोर्जाता अबाख्यकाः । ज्ञानानन्दबलाद्येषु विष्णुभक्तौ च सर्वशः ॥
हीनाः शतगुणेनैव क्रमेणानेन ते मताः । तेभ्यश्च ऋषयो मर्त्या हीना एव क्रमेण च ॥
विशेषतस्तु मुक्तानां सर्वसंसारबन्धनात् । क्रमोऽयं सम्यगुद्दिष्टो नित्यानन्दैकभोगिनाम् ॥
न विशेषो ब्रह्मवाय्वोरधिकाराविभेदतः । न शेषशिवयोश्चैव तत्पत्नीनां च सर्वशः ॥
सुपर्णशेषयोश्चैव साम्यं सर्वगुणेष्वपि । साम्यमेवैतयोः पत्न््नयोः साम्यं शक्रमनोजयोः ॥
एते तु महादादीनां सर्वेऽपि ह्यभिमानिनः । पूर्वस्य प्रतिबिम्बश्च चरमस्तत्सुतस्तथा ॥
तद्वशाश्चाखिला विष्णोर्न विष्णुः कस्यचिद्वशे । महदादिमानिनश्चैते जातास्तैः सह सर्वशः ॥
एते लोका इति प्रोक्ता लोकानामभिमानिनः । त एव लोकपालाश्च यदा पश्चाद् प्रजाज्ञिरे ॥
पश्चाज्जातैर्हि रूपैस्तैर्लोकस्थान् पालयन्त्यलम् ॥
इत्यादि तत्त्वसारे । अमूर्च्छयत् मूर्तमकरोत् । अग्निर्वाग् भूत्वेत्यादिना पश्चादैक्यप्रतीतेरेकस्यैव रूपद्वयं तदिति प्रतीयते । प्रजानीहि प्रकर्षेणानुजानीहि । अन्नदेवता च सर्वदेवतायुक्तो विरिञ्च एव । ग्रसनं चैतस्मिन् प्रवेश एव । न तु पीडा तस्य । एक एव हि ब्रह्मा भोक्तृभोज्यत्वेन स्थितो भोज्यरूपेणैकीभूयातितरां मुमोदेत्यर्थः । देवानामुपद्रवाभावाद् भोक्तृत्वशक्तियोजनमेवाशनापिपासाभ्यामन्ववार्जनम् । वायुरेव च भोक्तृत्वशक्तिरूपः । यदि वागादीनामेवाभिव्याहरणादिशक्तिः स्यान्मां विना तर्हि विष्णुत्वं न मम स्यात् तस्मात् कोऽहं भवानीत्याक्षेपः । विशेषेण प्राणयति सर्वान् सर्वेभ्यो विशिष्टश्चेति हि विष्णुः । णकारो बलं षकारः प्राण आत्मेति व्याख्यानात् । तस्मान्मत्प्रेरिता एवैते अभिव्याहारादिशक्ता इत्यभिप्रायः । पूर्णानन्दस्वरूपत्वान्नन्दनो भगवान् । प्रादुर्भावरूपेण जातोऽपि भगवान् सर्वभूतान्यभितः सर्वकालेषु विशेषेण पश्यत्येव । इह भूतेषु मत्तोऽन्यं प्रवर्तकं वदेत् किमित्याक्षेपः । अहमेव स्वतन्त्रः परिपूर्णगुण इति कृष्णराघवादिसर्वावताररूपेऽपि सर्वदानुभवत्येव । नायं दशरथाज्जातो न चापि वसुदेवतः । क्वास्याज्ञानं कुतो दुःखं प्रादुर्भावेष्वपि प्रभोः ॥
प्रादुर्भूतश्चिदानन्दशरीरो राघवः स्वयम् । स्तम्भाद्वा नरदेहाद्वा नैवास्य प्राकृती तनुः ॥
दैत्यानां मोहनार्थाय सोऽज्ञानाद्यं प्रकाशयेत् । पूर्णचित्सुखरूपोऽपि सदा सर्वावतारगः ॥
इत्यादि स्कान्दे । एतमेव पुरुषं व्यासकृष्णकपिलराघवादिरूपं ततममपश्यत् । ततमं परिपूर्णतमं ब्रह्माऽपश्यत् । इदं मे स्वरूपमदर्शमेवाहमिति । रङ्गस्त्ववधारणे । रङ्गोऽवधारणे चैव संवादे च प्रयुज्यते इति पदविवेके । अपश्यदित्यत्र नातीतकालत्वं विवक्षितम् । अभिव्यैख्यदित्यभिशब्दस्यानुषङ्गात् । अपश्यत् पश्यतीति चैककालसम्बन्धं विना वक्तुमशक्यत्वात् तथा प्रयोगः । प्रयोग एककालीनः सर्वकालेऽनुषज्यते । ददर्श विष्णुरित्यादौ नित्यचिद्रूपतो हरेः ॥
इत्यादि सत्तत्त्वे । परोक्षप्रिया इवेत्यसुराणां सम्यगदर्शनेन पतनं देवानां प्रियं तथाऽप्यपरोक्षदर्शिन्येव प्रीतिं कुर्वन्तीतीवशब्दः ॥
३ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके चतुर्थोऽध्यायः ॥
(अपक्रामन्तु गर्भिण्यः) ॐ पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतस्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजस्सम्भूतम् । आत्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति ॥
तदस्य प्रथमं जन्म । तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति । साऽस्यैतमात्मानमत्र गतं भावयति । सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भं बिभर्ति । सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति । स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येतेषां लोकानां सन्तत्या एवं सन्तता हीमे लोकाः ।
अयं नारायणो देवः पुरुषे प्रथमं विशेत् । अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते ॥
तस्मिन् स्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः । तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ॥
स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः । प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ॥
नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ । पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ॥
सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् । सम्भावनं कुमारस्य जानतः केशवे भवेत् ॥
तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः । पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ॥
स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् । अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥
तदस्य द्वितीयं जन्म । सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति । स इतः प्रयन्नेव पुनर्जायते । तदस्य तृतीयं जन्म ॥
तदुक्तमृषिणा– गर्भे नु सन्नन्वेषाममवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति ॥
गर्भ एवैतच्छयानो वामदेव एवमुवाच । स एवं विद्वानस्माच्छरीरभेदादूर्ध्वं उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् (यथास्थानं गर्भिण्यः) ॥
१ ॥
पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि । एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ॥
पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः । पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ॥
अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् । सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ॥
नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् । यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ॥
भोगान् भुङ्क्ते यथायोग्यमिति वेदानुशासनम् ॥
इत्यैतरेयसंहितायाम् । नात्र जीवोत्पत्तिमात्रमुच्यते । न हि जीवोत्पत्तिमात्रपरिज्ञानादमृतत्वं भवति । ज्ञातमेव सर्वैः पितापुत्रसम्बन्धमात्रं पश्वादिभिरपि । गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा इत्युक्तार्थ उदाहृतमन्त्रे देवजन्मकथनाच्च । विष्णुर्हि परमो देवः । तेनैव सह सर्वेऽपि देवा जीवदेहजनने जायन्त इव । शरीरप्राप्तिरेव हि जन्मान्येषामपि । अयमेव विशेषो देवानां दुःखाभोगः । स्वातन्त्र्यं च विष्णोः । आत्मन्येवात्मानं बिभर्ति आत्मानमेव तद्भावयतीत्याद्यात्मशब्दश्च मुख्यतो विष्णावेव युज्यते । णकारो बलं षकारः प्राण आत्मेति विष्णुशब्दार्थैकदेशवाचित्वाच्चात्मशब्दस्य । एतया द्वारा प्रापद्यतेति तस्यैव शरीरप्रवेशस्य प्रस्तुतत्वाच्च । जीवशरीरं परित्यज्यान्यत्रगमनमात्रं विष्णोरप्यस्तीति प्रैतीत्युक्तेऽप्यविरोधः । कृष्णराघवादिस्वरूपमेव ह्यसौ न परित्यजति । कृष्णो ह्यत्यक्तदेहोऽपि त्यक्तदेहवदेव च । लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ॥
येन रूपेण कंसादीन् जघ्ने तद्रूपमेव हि । पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः ॥
स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः । यत्तद्रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि ॥
अद्यापि तद्देवलोके पूज्यते सर्वदैवतैः ॥
इत्यादि स्कान्दे । प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् । आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥
इति च भागवते । प्रेतां यज्ञस्य शम्भुवेत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव च मरणेऽपि प्रयुज्यते । एषामवेदमहमित्यत्रापि जीवभेद एवोक्तः । अन्यथा मम जनिमानीत्येवोच्येत । व्यर्थता चैषामित्यादिविशेषणानाम् । अवेदमित्यनेनैव स्वस्य सिद्धत्वादहमित्यप्यहेयत्वेनेति क्रियाविशेषणम् । जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामीत्यर्थः । तस्मादहं मनुरित्यादावप्यहेयगुणं भगवन्तमेवाहंशब्दो वक्ति । सर्वान्तरत्वात् तस्मिन्नेवाभवमित्युत्तमपुरुषशब्दोऽपि सर्वो वर्तते । ओयत्वादहं विष्णुः स तु सर्वान्तरत्वतः । अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥
इति ब्रह्मवैवर्ते । न च मूढव्यवहार एव वेदनिर्णयाय भवति । किन्तु सर्वेषामनुभवो युक्तयश्च वाक्यान्तरं च निर्णयकारणम् । तस्मात् सर्वजीवादिभ्योऽन्यः सर्वोत्तमो विष्णुरेवात्रोक्तः । न वेदेषु पदं किंिचद्वर्णो वा व्यर्थ इष्यते । यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः ॥
इति शब्दनिर्णये ॥
शब्दा रेतोन्नमित्याद्या अपि तत्र गतं हरिम् । वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते ॥
इति च । भावयति सम्भावयति । सोऽग्र एव सोऽग्र्यो विष्णुरेव । पुत्रसम्भावनमपि तत्रस्थं विष्णुं सम्भावयामीति तत्तस्यैव भवति । एवं भावयतामेवैष पन्था उरुगाय इत्याद्यपि । तं पश्यन्ति पशव इत्याद्यपि दिव्यपश्वादीनामेव । अन्येषां स्वभावप्रवृत्तिः । ता एव देवताः शतं पुर आयसीर्ज्ञानिन्यो विशेषतः । अय पय गताविति धातोः । मानुषानपेक्ष्य पूर्णत्वात् पुरः । विष्णुर्मुख्यत एव पूर्णः । न च शरीरैर्जीवो रक्षितः । मुख्ये युज्यमाने च नामुख्यार्थः कल्प्यः । शमस्य विद्यते इति शी विष्णुः । पूर्णानन्दत्वात् । स एव ज्ञानत्वाद्यश्चेति श्यः । सोऽस्य जीवस्येन इति श्येनः । विष्णुं स्वामिनं ज्ञात्वेत्यर्थः । निरदीयं निष्क्रम्यातीतोऽस्मि गर्भवासम् । स्वर् आनन्दो विष्णुः । अत्रग इति स्वर्गलोको विष्णुलोकः । अमृतः सन् सर्वान् कामानाप्त्वा तानेव सर्वान् कामान् समभवदनुभवति । अपेक्षितवस्तुस्वीकारः आप्तिः । सम्भवो भोगः । तां समभवत् ततो मनुष्या आजायन्तेत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुलोकगानामपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोऽमृतः सन् सर्वान् कामानाप्त्वेत्यर्थः । मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः । सर्वानपि निरातङ्कः सर्वदा च हरेर्वशः ॥
इति सत्तत्त्वे ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके पञ्चमोऽध्यायः ॥
ॐ कोऽयमात्मेति वयमुपास्महे । कतरः स आत्मा । येन वा पश्यति । येन वा शृणोति । येन वा गन्धानाजिघ्रति । येन वा वाचं व्याकरोति । येन वा स्वादु चास्वादु च विजानाति ।
अयं विष्णुर्हि किंरूप उपास्योऽस्माभिरच्युतः । इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् ॥
आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति । उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ॥
येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा ।
यदेतद्धृदयं मनश्चैतत्सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामोऽवश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानिमवन्ति ।
यो विष्णुर्हृदयमिति हृद्गतत्वात् प्रकीर्तितः ॥
मन्तृत्वान्मन इत्येव यच्च ज्ञातृस्वरूपतः । एतत्सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितः ॥
इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः । गुणानामुच्चयो यस्मात् स च इत्येवशब्दितः ॥
सम्यग्ज्ञानस्वरूपत्वात् सञ्ज्ञानमिति कीर्तितः । आततज्ञानरूपत्वादाज्ञानं भगवान् हरिः ॥
विविधज्ञानरूपत्वाद्विज्ञानमिति कीर्तितः । प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते ॥
अविस्मृतित्वान्मेधा स दृष्टिर्दर्शनरूपतः । धृतिर्धारणरूपत्वात् मतिर्मासु ततत्वतः ॥
मनुनाम्नामजादीनां मनीषेशो यतो हरिः । सर्वप्रेरकरूपत्वाज्जूतिरित्यभिधीयते ॥
सर्वदेशेषु कालेषु स्वरूपेषु च सर्वशः । समं रमत इत्येव स्मृतिर्नाम जनार्दनः ॥
सर्वस्य क्ऌप्तिकर्तृत्वात् सङ्कल्प इति गीयते । क्रतुः स सर्वकर्तृत्वादसुरप्यसनाद्धरिः ॥
अमेयानन्दरूपत्वात् काम इत्यभिधीयते । अवशः स स्वतन्त्रत्वात् त्रयोविंशतिनामकम् ॥
यो वेदैवं हरिं सम्यङ् मुच्यतेऽखिलसंमृतेः ।
ऐष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोदि्भजानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्त्रि च यच्च स्थावरं सर्वं तत्प्रज्ञाननेत्रम् । प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रोऽलोकः । प्रज्ञा प्रतिष्ठा । प्रज्ञानं ब्रह्म ।
ब्रह्मा शिवश्च शक्रश्च देवाश्चान्ये समस्तशः ॥
तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः । क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि ॥
सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा । तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम् ॥
मुक्ता येऽलोकनामानो नीयन्ते तेऽपि विष्णुना । स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते ॥
देशतः कालतश्चैव गुणतश्चातिपूर्तितः । विष्णोर्ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित् ॥
स एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥
सोऽलोकनामा मुक्तास्तु चितिमात्रस्वरूपतः । प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः ॥
अस्माद्देहात् समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् । अमृतः सन् विष्णुलोके भोगान् सम्प्राप्य पुष्कलान् ॥
भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम् ॥
इत्याद्यैतरेयसंहितायाम् । जानन्त्यापि देव्या लोकानुग्रहार्थं विशेषज्ञानार्थं च कोऽयमात्मेति पृष्टः स भगवानाह । कतरः स आत्मेति । कतरः आनन्दतमः । यत्रोभयोः प्रयोगो न तत्रैकार्थो तरप्तमौ इति शब्दनिर्णये । यत्प्रेरणादयं जीवो दर्शनादीन् करोति च । रमाब्रह्मादीनामपि तत्प्रेरितत्वात् । सर्वेषां दर्शनादिकारणत्वमेकैकमपि तस्य लक्षणं भवतीति वाशब्दः सर्वत्रानुषज्यते । प्रजापतिः शिवः लिङ्गाभिमानित्वात् । प्रजापतिः शिवः शेषो लिङ्गमित्यभिधीयते । लिङ्गाभिमानी लोकस्य स्रष्टा गिरिश एव हि ॥
इति शैवपुराणे । सममस्त्वनयोर्युद्धमिति प्राह प्रजापतिः । वाक्यं शिवस्य तत् श्रुत्वा शक्रो नेत्याह सत्वरः ॥
इति भारते । क्षुद्रमिश्राणीव बीजानि शाल्यादिबीजवत् । भिन्नस्वभावा ब्रह्मादयः सर्वजीवाः । ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वभावकाः । यथा शाल्यादिबीजानि भिन्नवीर्यानि सर्वशः ॥
इति सत्तत्त्वे । प्रथमेतराणीतिशब्दो मानुषाणाम् । द्वितीयो सुरादीनाम् । प्रज्ञानेत्रोऽलोक इति । अलोकशब्देन मुक्तसमुदाय उच्यते । ब्रह्मादिस्थावरान्तस्य लोकस्य सर्वं तत्प्रज्ञाननेत्रमिति विष्ण्वधीनत्वस्य पूर्वमेवोक्तत्वात् पुनः प्रज्ञाननोत्रोऽलोक इति मुक्तविषयमेव । मुक्तो ह्यलोक्यत्वादलोकः । अण्डजानि चेत्याद्युक्त्वा पुनरश्वा गाव इत्यादि देवादीनां मन आदेरेव जातानामपि स्वीकारार्थम् । अण्डजत्वाद्युत्पत्तिप्रकारोऽपि विष्ण्वधीन इति ज्ञापयितुं तत्कथनम् । तथाऽश्मानस्तृणकाष्ठाश्च सर्वे दिदृक्षये स्वां प्रकृतिं भजन्ते इति भारतवचनादश्मादीनामपि प्राणित्वात् तत्स्वीकारार्थं प्राणीति । गमनपतनस्थिरत्वादयोऽपि भावा विष्ण्वधीना इति ज्ञापयितुं जङ्गममित्यादिवचनम् । स एतेनेत्यलोकशब्दोक्तो मुक्तः परामृश्यते । सकलकर्ममुक्त्यनन्तरं हि शरीरादुत्क्रामति । प्रकृष्टज्ञानरूपेण विष्णुना प्रेरितः प्रज्ञेनात्मनैवोत्क्रम्य तेनैव सर्वान् कामानाप्त्वा तेनैव सर्वान् कामान् स भुङ्क्ते इति सर्वत्रानुषज्यते । प्रज्ञानेत्रोऽलोक इत्युक्ते कथं प्रज्ञानेत्रो मुक्त इत्याकाङ्क्षायां तस्यैव व्याख्यानं स एतेन प्रज्ञेनात्मनेत्यादि । अनुक्तविशेषणानामपि भगवदधीनत्वज्ञापनार्थं प्रज्ञानेत्रो लोक इति सामान्यवचनम् । अनारब्धफलानां च प्रारब्धानां च सर्वशः । कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ॥
स तु मुक्तस्ततो देहादुद्गच्छति परात्मना । प्रेरितो विष्णुलोकं च प्राप्य भोगानवाप्य च ॥
भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित् । विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिलाः ॥
इति ब्रह्माण्डे । ब्रह्मेन्द्रादिशब्दा विष्णावेव मुख्यत इति तद्व्यावृत्त्या जीवानां स्वीकारार्थमेष इत्यादिशब्दः । स हि भगवान् स्वनेत्रकोऽपि नानुग्राह्यः । अनुग्राह्यत्वं हि ब्रह्मादीनामत्र विवक्षितम् । नेयताऽनुग्राह्यतापि न सा विष्णोः स्वतोऽपि तु इति शब्दतत्त्वे ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके षष्ठोऽध्यायः ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थ श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥
वाङ्मे मनसि प्रतिष्ठिता । अवबोधरूपे विष्णौ प्रतिष्ठिता । स च विष्णुर्मे वाचि स्थितः । यदेतद्धृदयं मनश्चेति विष्णुनामधेयेषूक्तत्वात् । आविराविर्म एधि हे विष्णो ममाविराविर्भव । आणीस्थित आण्यां स्थित विष्णो इति सम्बोधनम् । आधारः सर्ववेदानां वेदाणी प्राण उच्यते । तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते ॥
इति शब्दतत्त्वे । आविरावीरिति दैर्घ्यमतिशयार्थे । आधिक्येऽधिकमिति सूत्रात् । अणशब्दस्य गतिवाचित्वाच्चलमाणमुच्यते । तस्य धारणेन तद्वानाणी । स्थापक इत्यर्थः । मे श्रुतं मा प्रहासीः मम विद्यागोचर एव सर्वदा भव । विस्मृतो मा भव । हे विष्णो अनेन त्वद्विषयेणैवाधीतेनाहोरात्रान् सन्दधामि । सर्वाहोरात्रेष्वपि त्वद्विषयाध्ययनमेव करोमीत्यर्थः । ऋतं यथावदवगतं त्वां वदिष्यामि । सत्यं साधुगुणैस्ततं सर्वनियन्तारं च । तद्विष्ण्वाख्यं ब्रह्म मामवत्विति तस्यैव विष्णोः परोक्षत्वेनैव प्रार्थनम् । वाङ्म इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम् । अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः ॥
इति च ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके सप्तमोऽध्यायः ॥

इति द्वितीयारण्यकः ॥