अनुव्याख्यानम्

change script to

नारायणं निखिलगुणैकदेहं निर्दोषमाप्यतममप्यखिलैसुवाक्यख्यैः ।
अस्योद्भवादिदमशेषविशेषतोपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥
प्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥
प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः ।
अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।
यतः तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।
आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।
दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥6॥
अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।
स्वयङ्कृतापि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥
तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते ।
सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेखिलैः ॥8॥
ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।
स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥
स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।
भावनाच्चैव सुत्वाच्च सोयं पुरुष इत्यपि ॥10॥
स एव सर्ववेदार्थो जिज्ञास्योयं विधीयते ।
ज्ञानी प्रियतमोतो मे तं विद्वानेव चामृतः ॥11॥
वृणुते यं तेन लभ्यः इत्याद्युक्तिबलेन हि ।
जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥12॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥13॥
नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।
ज्ञानस्वभावतोपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥14॥
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्दश्च मुक्तानां स एवैको जनार्दनः ॥15॥
इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥16॥
मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत् ।
मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥17॥
तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।
सता चेत् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥18॥
साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।
स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ॥19॥
तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।
अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥20॥
तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।
व्यावहारिकमेतस्मात् सत्यमित्येव चागतम् ॥21॥
व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।
सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते ॥22॥
तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।
वैलक्ष्ण्यं सदसतोरप्येतेन निषिध्यते ॥23॥
वैलक्ष्ण्यं सतश्चापि स्वयं सद्भेदवादिनः ।
असतश्चापि विश्वस्य तेनानिष्टं कथं भवेत् ॥24॥
यद्युच्यतेपि सर्वस्मादिति सद्भेदसंस्थितिः ।
सन्मात्रत्वं ब्रह्मणोपि तस्मात् तदपि नो भवेत् ॥25॥
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।
विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् ॥26॥
असद्वलिक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।
तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥27॥
अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।
सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥28॥
तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।
निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ॥29॥
मिथ्याविशेषोप्यज्ञानसिद्धिमेव ह्यपेक्षते ।
न चावरणमज्ञानमसत्ये तेन चेष्यते ॥30॥
अप्रकाशस्वरूपत्वाज्जडेज्ञानं न मन्यते ।
अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥31॥
अज्ञानस्य च मिथ्यात्वमज्ञानदिति कल्पने ।
अनवस्थितिस्तथा च स्यादन्योन्याश्रयताथवा ॥32॥
स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।
अविद्यादुर्घटत्वं चेत् स्यादात्मापि हि तादृशः ॥33॥
अतोधिकारिविषयफलयोगादिवर्जितम् ।
अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥34॥
सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।
न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥35॥
यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥36॥
सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥37॥
उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥38॥
सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः ।
अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम् ॥39॥
अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।
अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥40॥
अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते ।
यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् ॥41॥
एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् ।
कार्यता च न काचित् स्यादिष्टसाधनतां विना ॥42॥
कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।
न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥43॥
कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।
साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥44॥
कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।
मुख्येष्टं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥45॥
प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।
यत्सम्पर्कात् प्रिया आसंस्ततः कोन्वपरः प्रियः ॥46॥
इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता तथा ।
तस्मिन्नेव समस्तस्येति इष्टे व्युत्पत्तिरिष्यते ॥47॥
अत्त्यपूपांस्तव भ्रातेत्यादावावापतोपि च ।
उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥48॥
बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।
आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति ॥49॥
एष्यदानयनायायं कुत एव प्रतीक्षते ।
व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥50॥
पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति ।
वर्तमानमतीतञ्च भविष्यदिति च क्रमात् ॥51॥
आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः ।
दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति ॥52॥
व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेगते ततः ।
इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥53॥
अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।
क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये ॥54॥
वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।
न च स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत् ॥55॥
यत्किञ्चित्करणस्यापि यज्ञतैवान्यथा भवेत् ।
तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥56॥
इतिशब्दोन्नयेग्नावित्यप्युन्नीते स्मृतिर्भवेत् ।
इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥57॥
आत्मानमेवेत्यादीनि योगेग्नावपि तत्समम् ।
एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥58॥
वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले ।
इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥59॥
कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने ।
कल्पनागौरवादेव पदार्था न स्युरेव हि ॥60॥
प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि ।
तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥61॥
पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।
अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥62॥
अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक् ।
क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम् ॥63॥
प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् ।
अतात्पर्यं पदार्थेपि न कल्प्यमविरोधतः ॥64॥
अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।
मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥65॥
कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥66॥
अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।
मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥67॥
न मानमपि वेदानामङ्गीकार्या हि नित्यता ।
न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना भवेत् ॥68॥
अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोपि च ।
कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥69॥
प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।
न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥70॥
अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।
धर्माभावेपि नो तेन प्रत्यक्षावगतो भवेत् ॥71॥
अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा ।
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥72॥
अतोन्विताभिधायित्वं गौरवं कल्पनेन्यथा ।
न चाशक्त्यभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥73॥
एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।
उक्तं विद्यापृथक्त्वात्तु सङ्क्षेपेणात्र सूचितम् ॥74॥
प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥75॥
ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।
पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥76॥
उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।
अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥77॥
यतोनुभवतः सर्वं सिद्धमेतदतोपि च ।
देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥78॥
चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।
प्रत्यक्षेक्षाक्षमः पक्षः कमेवात्राभिवीक्षते ॥79॥
तस्मादक्षमपक्षत्वात् मोक्षशास्त्रेभ्युपेक्षितः ।
स्वयं भगवता विष्णुबर्‌रह्मेत्येतत्पुरोदितम् ॥80॥
स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि ।
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥81॥
मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा ।
अतस्तत्रैव विष्णुत्वसिद्धेबर्‌रह्मेत्यसूचयत् ॥82॥
दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।
गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः ॥83॥
ब्रह्मशब्दोपि हि गुणपूर्तिमेव वदत्ययम् ।
अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥84॥
सिद्धत्वात् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।
अम्भस्पार इत्युक्तो नारायणपदोदितः ॥85॥
आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः ।
कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया ॥86॥
योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।
यस्मिन् देवा अधीत्युक्त्वा समुद्रं स्थानमेव च ॥87॥
नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।
यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥88॥
अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् ।
सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥89॥
सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥90॥
यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि ।
श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥91॥
अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।
गुणाः श्रुता इति ह्यस्मान्न दोषोर्थः श्रुतेर्भवेत् ॥92॥
प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।
सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥93॥
तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।
न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥94॥
दर्शनान्तरमूलत्वात् मोहार्थं चाज्ञया हरेः ।
न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥95॥
अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।
अज्ञानं पारतन्त्र्यं च प्रलयेभाव एव च ॥96॥
अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।
जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥97॥
अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् ।
कृष्णध्यानच्छलेनैव स्वयं भागवतेब्रवीत् ॥98॥
अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।
न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥99॥
हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।
निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥100॥
भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।
कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥101॥
सदैव गुणवत्त्वेस्य भिन्नं स्यान्निर्गुणं सदा ।
न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥102॥
निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा ।
लक्ष्यलक्षणयोर्भेदोभेदो वा यदि वोभयम् ॥103॥
इति पृष्टे तदैक्यस्य गतिरेव न विद्यते ।
ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥104॥
भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।
भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥105॥
स्वनिर्वाहकता चेत् स्याद् वाह्यं वाहकमित्यपि ।
पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥106॥
सत्यज्ञानादिकेप्येवं न व्यावृत्त्या प्रयोजनम् ।
व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ॥107॥
निर्विशेषत्वमेतेन मूकोहमितिवद् भवेत् ।
अभिन्नेपि विशेषोयं बलादापतति ह्यतः ॥108॥
विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ।
भेदहीने त्वपर्यायशब्दान्तरनियामकः ॥109॥
विशेषो नाम कथितः सोस्ति वस्तुष्वशेषतः ।
विशेषास्तेप्यनन्ताश्च परस्परविशेषिणः ॥110॥
स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ।
अतोनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ॥111॥
एवं धर्मानिति श्रुत्या तदभेदोप्युदीर्यते ।
शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥
तद्वाक्योपमयान्यच्च प्रमाणत्वेनुमीयते ।
ईशवाक्यत्वतः इति चेत्तद्गव्यभिचारिणा ॥113॥
अप्रामाण्यानुमा च स्यात् न पृथक् चानुमेश्वरे ।
पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ॥114॥
शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ।
नावेदवित् न तर्केण मतिरित्यादिवाक्यतः ॥115॥
तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ।
वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥116॥
किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ।
वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ॥117॥
इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।
शक्तं विज्ञापने चातिप्रसङ्गोनुमयेदृशा ॥118॥
वस्तुत्वात् तुरगः श?ृङ्गी पुष्पवत् खं सुतैर्युता ।
चित्रिणी च रसः षष्ठो रसत्वात् सोत्तरो भवेत् ॥119॥
उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ।
त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥
मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ।
ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥
लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ।
माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ॥122॥
वाक्यार्थोपि हि वाक्यार्थशब्देनैवोदितो भवेत् ।
नावाच्यं तेन किञ्चित् स्यात् यत इत्यादिकैर्वदन् ॥123॥
अवाच्यत्वं कथं ब्रूयान्मूकोहमितिवत् सुधीः ।
येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोवदत् ॥124॥
एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ।
महती जायते लज्जा यत्र तत्राखिला रवाः ॥125॥
अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् ।
कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥126॥
आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः ।
जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥127॥
वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।
कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥128॥
आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधयन् ।
आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना ॥129॥
स्यात् सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।
नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥130॥
अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।
अन्धन्तमो नित्यदुःखं तस्य स्यात् वसनद्वयम् ॥131॥
अनन्दा नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्याभिगच्छन्ति येविद्वांसो बुधो जनाः ॥132॥
असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥133॥
इत्यादिश्रुतयो मानं शतशोत्र समन्ततः ।
हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥134॥
तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।
उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥135॥
परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥136॥
इति स्वस्यैव पूर्णस्य पूर्णेप्यय उदाहृतः ।
कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥137॥
पदं च निर्गुण इति कथं गौणं वदिष्यति ।
गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम् ॥138॥
अतोनवस्थितिमुखसर्वदोषमहास्पदम् ।
कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥139॥
न साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्लृपत् ।
भगवान्न ह्यशब्दत्वं प्रधानेङ्गीकरोत्यसौ ॥140॥
समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।
प्रथमप्रतिपाद्या स्यात् तदभावे कुतोन्वयः ॥141॥
कथं च लक्षणावादी ब्रूयाद् ब्रह्मसमन्वयम् ।
योसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात् समन्वयः ॥142॥
जन्मादिकारणे साक्षादाह देवः समन्वयम् ।
उक्तं तदेव जिज्ञास्यं क्वावकाशोत्र निर्गुणे ॥143॥
कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।
मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥144॥
अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।
तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥145॥
वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखलित्तमम् ।
विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥146॥
निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् ।
अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ॥147॥
अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा ।
अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥148॥
जन्मादिकारणं यत्तत् साक्षान्नारायणाभिधम् ।
वदन्ति श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥149॥
प्रवृत्तमस्त्ववाच्यं ते नैवं ब्रूयाः कथञ्चन ।
सर्वशब्दैरवाच्यं तदुक्त्वा तद्विषयं पुनः ॥150॥
शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत् ।
मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् ॥151॥
वयं त्वा श्रुतियुक्तिभ्यां बध्वास्मच्छास्त्रमञ्जसा ।
विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥152॥
अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।
अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥153॥
अवाच्यमिति लोकोपि वक्त्याश्चर्यतमं भुवि ।
एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥
आनन्दमय इत्यादिनाध्यायेन वदत्यजः ।
तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ॥155॥
शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ।
गुणवाचिनां च प्रथममाह देवः समन्वयम् ॥156॥
समुद्रशायिनं सर्वप्रसूतिप्रभवं श्रुतिः ।
तदेव ब्रह्म परमं इति सावधृतिर्जगौ ॥157॥
यतोतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ।
येन्नं ब्रह्मेत्यादिरूपादभ्यासात् तैत्तिरीयके ॥158॥
अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ।
आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ॥159॥
उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ।
सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ॥160॥
पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ।
सर्वे वेदा आमनन्ति यत्पदन्त्विति हि श्रुतिः ॥161॥
आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ।
समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ॥162॥
ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटम् ।
ब्रह्मतावयवेपि स्यात् तथावयविनि स्वतः ॥163॥
यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ।
दर्शिता चैव पार्थाय निःसीमा शक्तयोस्य हि ॥164॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ॥165॥
विरूपाक्षाख्यमपरं ब्रह्मोक्तं तद्व्रते स्थितम् ।
समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ॥166॥
कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ।
ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ परः ॥167॥
स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ।
स्वाहेन्द्रशत्रुर्वर्धस्व यद्बहुव्रीहितामगात् ॥168॥
तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः ।
पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ॥169॥
महाव्याकरणे सूत्रमिति स्वरविनिर्णये ।
ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ॥170॥
विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ।
तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ॥171॥
ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोवसितो भवेत् ।
ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ॥172॥
ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ।
इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ॥173॥
आथर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ।
तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ॥174॥
अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ।
एको नारायण आसीन्न ब्रह्मा न च शङ्करः ॥175॥
वासुदेवोग्र एवासीन्न ब्रह्मा न च शङ्करः ।
नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ॥176॥
इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ।
मुख्यं ब्रह्म हरिस्तस्मात् प्रस्तावः परमित्यपि ॥177॥
मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ।
असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ॥178॥
प्राचुर्यार्थाश्च मयटः सर्वेत्र प्रतिपादिताः ।
भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ॥179॥
महाभोक्ता महाभोग्य इत्यर्थोन्नमये भवेत् ।
महाप्राणो महाबोधो महाविज्ञानवानपि ॥180॥
विशेषसामान्यतया विज्ञानं मन इत्यपि ।
एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ॥181॥
अभेदेपि विशेषेणैवान्य इत्युदितो हरिः ।
भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम् ॥182॥
ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ।
ब्रह्मतर्कवचोप्येवं अत एकः स पञ्चधा ॥183॥
उक्तोन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ।
प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ॥184॥
प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ।
उच्यते ह्यविशेषेण नान्यत् किञ्चिदिहोच्यते ॥185॥
महानन्दत्व एवास्य हेतुः कोन्यादिति स्फुटम् ।
उक्तः श्रुत्यन्तरे यस्मात् सुखं लब्ध्वा करोत्ययम् ॥186॥
करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् ।
इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ॥187॥
दुखाद्रोदादिका चैव सर्वकर्तृत्वतोस्य च ।
सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ॥188॥
प्रवर्तको न चेदेष प्राण्यादन्यच्च कः पुमान् ।
ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ॥189॥
तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ।
लक्षितं तत्र सत्यत्वं सृष्ट्यान्नप्राणयोरपि ॥190॥
उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ।
अनन्तत्वं तथानन्दमयवाचाप्युदाहृतम् ॥191॥
सद्भावं यापयेद्यस्मात् सत्यं तत्तेन कथ्यते ।
इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ॥192॥
ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ।
विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत् ॥193॥
अतोद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ।
प्राणं देवा अनुप्राणन्ति मनुष्या पशवश्च ये ॥194॥
आयुः प्राणो हि भूतानामिति यद्गतिजीवने ।
उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता ॥195॥
प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ।
नाल्पे सुखमिति प्रोक्त्यैवानन्दमयतोक्तितः ॥196॥
अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ।
अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ॥197॥
क्रियते परया यस्मात् इतरोत्र न कथ्यते ।
पुरुषं वेत्ति यो मुच्येत् नान्यः पन्था हि विद्यते ॥198॥
इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ।
पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ॥199॥
महानानन्द उद्विष्णुर्भग ओम इतीर्यते ।
स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ॥200॥
तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ।
सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ॥201॥
इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ।
ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ॥202॥
तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम् ।
भूतं भूताभिमानी च तद्देहोन्तर्नियामकः ॥203॥
हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ।
आ समन्तात् काशते यदाकाशो मुख्यतो हरिः ॥204॥
बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ।
आप आपालनाच्चैव पृथिवी प्रथितो यतः ॥205॥
उष्टानामाश्रयत्वेन स एवौषधिनामकः ।
ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ॥206॥
पुरि शेते यतः सोथ पुरुषश्चेति गीयते ।
क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ॥207॥
आकाशादिषु नान्योस्ति ह्यभिमानोभिमानिनः ।
अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ॥208॥
एवं देहादिपर्यन्तमागतं हरिमेव तु ।
परामृशति तस्यैव पञ्चरूपत्ववित्तये ॥209॥
त्यक्त्वा भूतादिकं सर्वं स वा एष इति श्रुतिः ।
स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ॥210॥
सारान्नमय एवायं न लोकान्नमयः प्रभुः ।
इति तं रसशब्देन विशिनष्टि शरीरगम् ॥211॥
इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ।
शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ॥212॥
तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात् कथञ्चन ।
आदित्ये पुरुषे चायमिति भेदोपदेशतः ॥213॥
नास्याभेदोस्ति जीवेन नानुमा कामचारिणी ।
विमतानि शरीराणि मद्भोगायतानानि यत् ॥214॥
शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्षते ।
प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्झिता ॥215॥
अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ।
जड आत्मैव वस्तुत्वात् प्रमेयत्वाज्जडं चितिः ॥216॥
घन आकाश इत्याद्या वार्यन्ते केन हेतुना ।
न जीवभेदसूत्राणां शङ्क्यात्र पुनरुक्तता ॥217॥
वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता ।
योगमन्नमयाद्यैर्यत् फलत्वेनास्य शंसति ॥218॥
स्थानद्वयेप्यतः कोशा एत इत्यतिसाहसम् ।
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ॥219॥
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ।
अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः ॥220॥
श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ।
मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ॥221॥
येन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ।
उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ॥222॥
स्थानद्वयगता वेदवाणी तदपलापिनाम् ।
तमसोन्यत्र संस्थानं कथमेव सहेत सा ॥223॥
अधीहि भगवो ब्रह्मेत्युक्तोन्नप्राणपूर्वकम् ।
आह ब्रह्म कथं तन्न द्वारं तदितिवादिनः ॥224॥
उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ।
वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ॥225॥
सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोपि च ।
तद्यत्किञ्चित् कथं ब्रूयादुपसन्नाय दिक्पतिः ॥226॥
न वदेत् ब्रह्म च कथं मायावी न हि वारिराट् ।
चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ॥227॥
वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम् ।
तच्च वाधूलशाखायामष्टरूपमुदाहृतम् ॥228॥
विज्ञानानन्दसहितं पृथक् सृष्ट्यादलिक्षणैः ।
आवापोद्वापतः शाखा यत आहुः परं पदम् ॥229॥
यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ।
लक्षितं गुरुणा पश्चात् तपसैवापरोक्षतः ॥230॥
दृष्ट्वैकैकस्वरूपं तु समस्तोक्तानुदर्शनम् ।
इच्छताज्ञां गुरोः प्राप्य तपसैवापरोक्षितम् ॥231॥
अब्रह्मेत्येव वदतां श्रुताहान्यश्रुतग्रहौ ।
साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ॥232॥
समीपे सहभोगस्य मुक्तित्वेनोक्तितोसकृत् ।
भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ॥233॥
एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।
तदन्येषां मतमपि सत्संसत्सु न भासते ॥234॥
अतो नारायणो देवो निःशेषगुणवाचकैः ।
गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥235॥
अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।
अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥236॥
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।
ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥237॥
अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।
शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ॥238॥
अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।
तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥239॥
रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता ।
अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥240॥
विद्वद्रूढिर्वैदिका स्यात् सा योगादेव लभ्यते ।
तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥241॥
समन्वयं साधयति.........।
............ देवानां तत्र शक्तताम् ।
आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥
समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।
साधयित्वाभिदां तैश्च पुनरेव न्यावारयत् ॥243॥
चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः ।
अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥
इति शङ्कानिवृत्यर्थं आकाश इति नाम च ।
परतोपि वरीयस्त्व पूर्वल्लिङ्गाद्धरेर्भवेत् ॥245॥
"नभो ददाति श्वसतां मार्गं यन्नियमाददः ।
' इत्यादिवाक्यैः...............॥
.............अध्यात्ममन्वयव्यतिरेकतः ॥246॥
प्राणादिहेतुतादृष्टेः अतिदेशो हि तादृशः ।
लिङ्गं बलवदेव स्यात् प्रेरकोस्यापि यद्धरिः ॥247॥
नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।
कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥
इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।
तादृशत्वाच्च तच्छक्तेः ............॥
.........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥
अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।
विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥250॥
प्राणसंवादपूर्वाणि मुख्यतो जीवगतानि च ।
अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥251॥
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।
एको नारायणो देवो भण्यते नात्र संशयः ॥252॥
वासुदेवादिरूपेण चतुर्मूतिश्च सर्वशः ।
अथवा पञ्चमूतिः स प्रोक्तोधिकरणं प्रति ॥253॥
प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।
तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥254॥
बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।
उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥255॥
ग्रन्थोयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।
बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः ।
तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः ॥256॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥
लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥1॥
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
दूरतोप्यतिशक्तः स लीलया केवलं प्रभुः ॥2॥
इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।
अभेदोपि विशेषे स्याद्बली सोप्यनपोदितः ॥3॥
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥4॥
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥
अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता ।
इति चेत् स विशेषोपि क्रियाशक्त्यात्मना स्थिरः ॥6॥
शक्तिता व्यक्तिता चेति विशेषोपि विशेषवान् ।
अभिन्नोपि क्रियादिश्च स्वभाव इति हि श्रुतिः ॥7॥
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ।
नित्यानन्दोव्ययः पूर्णो भगवान् विष्णुरच्युतः ॥8॥
इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥9॥
इति सत्तत्ववचनं........... ।
........ द्वित्वं चैकस्य युज्यते ।
यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥
अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥
विशिष्टसुखवत्वाच्च ब्रह्मत्वं च विशिष्टता ।
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥12॥
चेतनानां विशेषो यः स्वभावोपीश्वरार्पितः ।
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥13॥
ईश्वरश्चेन्नियन्ता स्यात् स एव प्रथमागतः ।
किमित्यपोद्यते कस्मात् वृथावस्थितिकल्पना ॥14॥
दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन ॥
रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥
इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।
स्वात्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ॥16॥
स्वाधीनसत्ताशक्यादि कथमात्मप्रतीपकम् ।
गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥
अभेदोभावधर्माणां ब्रह्मणा युज्यते कथम् ।
नाभावो भाव इति च विशेषः प्रायशो भवेत् ॥18॥
अतद्भावोन्यता चेति न विशेषोस्ति कश्चन ।
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ॥19॥
अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः ।
भावाभावविरोधोपि न तु सर्वत्र विद्यते ॥20॥
तदभावो हि तद्भावविरोधी न ततोपरः ।
पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ॥21॥
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ।
पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ॥22॥
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ।
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ॥23॥
यदा तदधिको दोषो विद्यते को नु वादिनाम् ।
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ॥24॥
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ।
यथैकः समवायोपि भेदाभेदौ च वस्तुनि ॥25॥
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ।
अखण्डवादिनोपि स्यात् विशेषोनिच्छतोप्यसौ ॥26॥
व्यावृत्ते निविशेषे तु किं व्यावर्त्यबहुत्वतः ।
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ॥27॥
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ।
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ॥28॥
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।
बहुलाप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ॥29॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥
तत्रान्यत्र प्रसिद्धानां लिङ्गानाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्यखलिशत्वात् .............॥
...............भूमा विष्णुः सुखाधिकः ॥2॥
अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लाःक्षणैर्युतम् ॥3॥
ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकान्यपि ॥4॥
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ॥5॥
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्याः प्रमाणं श्रुतिरत्र च ॥6॥
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचायर् द्विःस्थिता इह ॥7॥
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥8॥
लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।
बहुतादृक्त्वमुक्तस्य विरोधोर्थात् तथागतिः ॥9॥
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ।
ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ॥10॥
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ।
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ॥11॥
वैलक्ष्ण्यं स्वभावस्य प्रेक्षापूर्वा क्रिया तथा ।
अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ॥12॥
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ।
अनामरूपता भेदस्योपजीव्यप्रमाणता ॥13॥
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ।
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ॥14॥
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ।
यतो जैमिनिनान्यार्थमसिद्धेर्थे विधिस्तथा ॥15॥
विद्याधिराजस्य मतमविरोधस्तयोस्ततः ।
मोक्षे फलविशेषोस्ति न च सर्वं प्रकाशते ॥16॥
सर्वदा तेन देवानामपि युक्ता ह्युपासना ।
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ॥17॥
स्पष्टातिस्पष्टविशदं ब्रह्मणोशेषवस्तुगम् ।
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ॥18॥
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ।
जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत्तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुध्यते ॥19॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥
दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥
शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ।
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥2॥
स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयोन्यथा ।
न हि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ॥3॥
यावद्राज्ञ्यन्यगत्वेपि स्वातन्त्र्याभासमात्रतः ।
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥4॥
कारणं संशयस्य स्यादिति नैव प्रयुज्यते ।
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ॥5॥
अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम् ।
गुणास्तु तादृशा यत्र प्रयुज्यन्तेखिला अपि ॥6॥
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ।
अतो दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ॥7॥
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ।
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥8॥
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ।
मङ्गलामङ्गलेन्यत्र ततो नामङ्गलं वदेत् ॥9॥
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ।
बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ॥10॥
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ।
नैव दोषा हरौ तद्गबुद्ध्योक्ता दोषकारिणः ॥11॥
तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ।
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ॥12॥
आयजेतश्चायजेतो वसन्तिश्च वसंस्ततः ।
विगतच्छादनत्वात्तु गच्छ भूतभयङ्करः ॥13॥
भुङ्क्ष्वेत्युक्तो हरिहुर्र्ं च हुतमस्मिन् जगद्यतः ।
स्फुटत्वात् फडिति प्रोक्तः कव रक्षण इत्यतः ॥14॥
कवचं वर्तते यस्मात् षड्गुणत्वेन सर्वदा ।
वषट् तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥15॥
स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः ।
नमन्त्यस्मिन् गुणा यस्मान्नम इत्येव कथ्यते ॥16॥
इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः ॥17॥
तस्मादनन्तगुणता श्रुतितात्पर्यतोस्य हि ।
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥18॥
अङ्गीकृतेपि नैवास्ति दोषो वाक्यसमन्वये ।
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥19॥
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्योस्ति क इत्यस्योभयार्थतः ॥20॥
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगोपि शब्दानामर्थैर्नैव निषिध्यते ॥21॥
स्त्रीशब्दाश्च निषेधार्थाः सर्वेपि ब्रह्मवाचकाः ।
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥22॥
पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ।
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥23॥
परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः ॥24॥
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता ॥25॥
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इत्यादियुक्तयः साक्षात् सिद्धन्तस्थापकाः इह ॥26॥
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥27॥
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।
स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः ॥28॥
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥29॥
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥30॥
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।
अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥31॥
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।
तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥32॥
तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥33॥
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥34॥
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥35॥
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेपरग्रहः ॥36॥
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणात् ॥37॥
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम् ॥38॥
अ इति ब्रह्म कथितं तद्य्वाख्यानात्मता तथा ।
शब्दानामपि सर्वेषां नामवित् कृतकृत्यता ॥39॥
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।
णकारं च षकारं च बलचेष्टात्मकं वदन् ॥40॥
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥41॥
णकारश्च षकारश्च नामरूपतया मतौ ।
तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥42॥
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।
घोषाः सर्वेपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥43॥
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥44॥
प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥45॥
न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते ।
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥46॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥47॥
इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।
तेजोबन्नात्मकं वापि यद्युपादानमिष्यते ॥48॥
अनाद्येवापराधः कः प्रधानमिति चोदिते ।
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ॥49॥
को दोषः सर्वथैवास्ति परिणामि जडं यदि ।
अस्माकं परमुख्यार्थो भगवानेक एव तु ॥50॥
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।
सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ॥51॥
अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ।
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ॥52॥
योगानां परमां सिद्धिं परमं ते पदं विदुः ।
इति बुद्धौ समारोहादुभयोर्योगरूढयोः ॥53॥
त्यागे च कारणाभावादुभयार्थत्वमिष्यते ।
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ॥54॥
सा भवेद्यत्र न व्यर्थः पूर्वारोहो भ्रमो यथा ।
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥55॥
यतत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥56॥
पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥57॥
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।
न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥58॥
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः ॥59॥
निर्विकारोक्षरः शुद्धो निरातङ्कोजरोमरः ।
अविश्वो विश्वकर्ताजो यः परः सोभिधीयते ॥60॥
निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥61॥
इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः ।
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥62॥
क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।
अपादानत्वमेवास्य यद्युपादानतयेष्यते ॥63॥
अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भवः ।
न चोर्णनाभिजनितृमातॄणां च विकारिता ॥64॥
चेतनात्वात् तदन्नं हि कार्यरूपतया भवेत् ।
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥65॥
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।
इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा ॥66॥
स्वभावोयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥67॥
ससर्ज मातापितृवदूर्णनाभिवदेव वा ।
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥68॥
न चेतनविकारः स्याद्यत्र क्वाप ह्यचेतनम् ।
नाचेतनविकारोपि चेतनः स्यात् कदाचन ॥69॥
न चान्यस्यान्यरूपत्वं विकृतत्वेपि दृश्यते ।
न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥70॥
सर्वज्ञात् ब्रह्मणोन्यत्वं जगतो ह्यनुभूयते ।
अभेदः सत्वमात्रेण स्यात् खर्वस्वर्णयोरपि ॥71॥
भागेन परिणामश्चेद्भागयोर्भेद एव हि ।
यो भागो न विकारी स्यात् स एवास्माकमीश्वरः ॥72॥
भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेत् ।
ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित् ॥73॥
शृङ्गाच्छरोवलिमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥74॥
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥75॥
न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।
न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥76॥
उपादानतया किं तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥77॥
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।
तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥78॥
सत्त्वात् ततेर्वैदिकत्वात् सम्यग्वक्तुमशक्यतः ।
आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ॥79॥
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ॥80॥
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ।
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ॥81॥
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ।
तस्मादशेषकर्तैको निर्विकारो रमापतिः ॥82॥
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ।
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥83॥
तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ।
यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ॥84॥
दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते ।
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोन्यगा ॥85॥
ब्रह्मणश्चेत् क्व सार्वज्ञमन्यथा चेत् स्वतोन्यता ।
नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ॥86॥
देहिनः कारणयुता देहाश्च यदि न भ्रमात् ।
किं भ्रान्तिकल्पितं तत्र भेदोपि भ्रमजो यदि ॥87॥
भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया ।
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ॥88॥
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्न हि ।
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ॥89॥
बाध्यं नार्थक्रियाकारि न च स्वप्नोपि नो मृषा ।
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥90॥
स हि कर्तेति वाक्याच्च जाग्रत्वमिति हि भ्रमः ।
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ॥91॥
तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ।
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ॥92॥
अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ।
अमुख्यसत्यमानस्य साधकत्वे सदावयोः ॥93॥
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ।
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ॥94॥
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ॥95॥
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥96॥
विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।
इत्याद्याः श्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥97॥
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।
साक्षिसिद्धस्य न क्वपि बाध्यत्वं तददोषतः ॥98॥
सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥99॥
अतीतानागतौ कालावपि नासाक्षिगोचरौ ।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥100॥
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥101॥
तस्मान्न तं विना किञ्चन्स्मर्तुं द्रष्टुमथापि वा ।
शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥102॥
अतोदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥103॥
अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु ।
अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्क्यते ॥104॥
इतः पूर्वं तथा भावाद्यदि नो संसृतेर्गतिः ।
वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षिणा ॥105॥
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च ॥106॥
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥107॥
एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥108॥
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥109॥
पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥110॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥111॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥112॥
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुः विद्येतोत्पत्तिमेव च ॥113॥
विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ॥114॥
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥115॥
मिथश्च जडभेदोयं प्रपञ्चो भेदपञ्चकः ।
सोयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥116॥
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।
इति श्रुतेः मितं त्रातं मायाख्यहरिविद्यया ॥117॥
उत्तमोर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् ।
वाचारब्धं तु साङ्केत्यनाम स्याद्विकृतं बहु ॥118॥
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ।
प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोपि पूरुषः ॥119॥
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ।
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ॥120॥
प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ।
देहः प्रध्वंसते वायं किं ततोस्यातिशिष्यते ॥121॥
हन्यते न वधेनायं जरया च न जीर्यति ।
एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ॥122॥
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ॥123॥
एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।
विकारित्वविवक्षायां न चैकनखकृन्तनम् ॥124॥
सर्वं कार्ष्णायसं च स्यादतः सादृश्य एव च ।
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥125॥
प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैव विस्तरः ।
तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् ॥126॥
तदसङ्ख्‌यातदोषेतं हेयमेव शुभार्थिभिः ।
असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥127॥
उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः ॥128॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः ॥