अनुव्याख्यानम्

change script to

न्यायसुधा

उक्तः समन्वयः साक्षादविरोधोत्र साध्यते ।
चतुर्विधस्य तस्यादौ यौक्तः तत्रापि च स्मृतेः ॥1॥
तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमागमात् ॥2॥
आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले ॥3॥
इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः ॥4॥
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः ।
पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते ॥5॥
इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥6॥
न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।
न चास्या व्यभिचारेपि हीयते मानता क्वचित् ॥7॥
निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता ।
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ॥8॥
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ।
अधिकारो हि सुलभः कथितोन्यागमेष्वलम् ॥9॥
वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ।
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ॥10॥
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ।
अधिकारं दुरापाद्यमुक्त्वातिसुलभं पुनः ॥11॥
अशक्यं साधनं चोक्त्वा सुशकं तत्फलाप्तये ।
उच्यतेतस्तदुक्तं हि व्यभिचारे फलेपि तु ॥12॥
कथं प्रमाणतां गच्छेत् ...... ।
........ नित्यत्वात् पुरुषोद्भवैः ।
उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥13॥
विरूप नित्यया वाचा नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥14॥
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥15॥
अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।
विरोधादर्शनात् तस्माद्वेदप्रामाण्यमिष्यते ॥16॥
तन्मूलत्वात् स्मृतीनां च विरोधो यत्र न क्वचित् ।
विरोधोपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥17॥
आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥18॥
प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥19॥
युक्तोयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात् तत्र युक्त एवार्थः युक्तिश्च त्रिविधा मता ॥20॥
व्याप्तिः प्रत्यक्षगा यस्या युक्तिगागमगा तथा ।
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥21॥
याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।
अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥22॥
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥23॥
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥24॥
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।
अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरुद्धता ॥25॥
न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।
फलवत्वं न चास्माभिः प्रामाण्यं हि विवक्षितम् ॥26॥
तृणादिदर्शने किं च फलवत्वं निगद्यते ।
सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते ॥27॥
न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।
निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥28॥
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥29॥
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥30॥
निर्दोषत्वातिनियमात् तद्बलिष्ठतमं मतम् ।
पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम् ॥31॥
अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।
प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता ॥32॥
अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।
यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता ॥33॥
यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम् ।
न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ॥34॥
दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव तु ।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिधर्‌रुवा ॥35॥
विरोधोसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥36॥
विरोधोपि त्रिधैव स्यात् प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥37॥
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।
दुर्बलेन विरोधेपि न प्रमाणामसाधकम् ॥38॥
स्ववाक्येन विरोधेपि नैव साधकतां व्रजेत् ।
संवादनुक्तिसंयुक्ता एत एव तु निग्रहाः ॥39॥
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी ॥40॥
केवलं तु कथा वादो जल्पोर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥41॥
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।
उक्ते तैः प्रथमं माने वक्तव्ये तस्य दूषणम् ॥42॥
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥43॥
विनैव तत्वनिर्णीतिं न हि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥44॥
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।
इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ॥45॥
बहुविद्यत्वसिद्धौ तु नैव वादोपि कारणम् ।
सभासभापतिप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥46॥
वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।
तत्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥47॥
विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥48॥
जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।
प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥49॥
संवादे वादिनोः क्वापि विवादे हेतुरिष्यते ।
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ॥50॥
रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ।
प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ॥51॥
प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ।
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ॥52॥
सद्भिरागम एवैकः प्रयोज्योभीष्टसाधकः ।
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ॥53॥
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ।
आगमे दर्शनीयात्र दोषो लिङ्गवलिमता ॥54॥
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनमनुग्रहः ।
त्रिपञ्चवयवामेव युग्मावयविनीमपि ॥55॥
नियमाद्योनुमां ब्रूयात् तं ब्रूयाद्यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना ॥56॥
नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात् तस्मात् सैवानुमा मता ॥57॥
अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते ।
पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम् ॥58॥
मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।
अतीतानागतं यद्वद्योगिभिर्दृश्यतेञ्जसा ॥59॥
एवं पूर्वानुभूतं च मनसैवावगम्यते ।
विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ॥60॥
साक्षादनुभवात् सिद्धं कथमेव ह्यपोद्यते ।
एवंलक्षणके मानत्रये ब्रह्मादिवस्तुषु ॥61॥
प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ।
तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ॥62॥
दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत् ।
ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ॥63॥
युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते ।
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ॥64॥
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ।
सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ॥65॥
व्याप्तिश्चोक्तानुसारेण दृश्यते चाधिकारिभिः ।
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ॥66॥
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत् ।
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ॥67॥
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ।
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥68॥
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ।
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ॥69॥
कथं न निर्णयं कुर्यादिति असत्कारणं न हि ।
श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ॥70॥
अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते ।
असत्कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ॥71॥
इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ।
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम् ॥72॥
प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।
धर्मधर्म्यैक्यतश्चैव न तु तन्मात्रता भवेत् ॥73॥
अभावस्य च भावोपि धर्मोथापि हि धर्मिणः ।
तादृक्त्वं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥74॥
विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥75॥
सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः ।
नाशोयं विमतोपि स्यात् नाश्ुतवात् कर्तृशेषवान् ॥76॥
न चाशेषनृनाशस्तु दृष्टो दृश्योस्ति वा क्वचित् ।
धर्माधर्माश्रयत्वेन स्वीकार्योपि नरो लये ॥77॥
अनादित्वं विना दृष्टं कथं स्यात् कारणं क्वचित् ।
पूर्वदृष्टात् परादृष्टं यदि नैवोत्तरं कुतः ॥78॥
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।
उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् ॥79॥
तद्दृष्टान्तेन सर्वत्र कर्ता हि नानुमीयते ।
आगमानुगृहीता तु मानमेषानुमापि तु ॥80॥
आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ॥81॥
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ।
न च शिष्टागृहीतत्वं निरीशादीशवादिनः ॥82॥
अतोवशिष्टजीवादिकर्तृतात्र निषिद्ध्यते ।
तन्मनोकुरुतेत्यादेरसतो मनसो जनिः ॥83॥
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ।
असतो विश्वजननमाशङ्क्यात्र निषिद्ध्यते ॥84॥
प्रापकं वाक्यमात्रं तु परिहारोविशेषितः ।
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ॥85॥
तद्वदेवानुमान्त्यत्र वस्तुत्वात् क्रियते श्रुतेः ।
नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ॥86॥
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ।
क्वचिद्भिन्नताय दृष्टं तदभिन्नतया कथम् ॥87॥
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ।
भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ॥88॥
भोक्त्रापत्तेरिति प्राह ...... ।
...... कथं च तदनन्यता ।
जगतस्त्वविकारत्व उक्तन्यायेन साधिते ॥89॥
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्ध्यते ।
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ॥90॥
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेः तद्वशस्य भावो न पर इत्यतः ॥91॥
शक्तोपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत्सदा ॥92॥
नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।
असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ॥93॥
अनवस्थान्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः ।
शक्तोपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥94॥
स्वभिन्नं कारणाभिन्नं भिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थोयमशेषतः ॥95॥
अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥96॥
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंशितापि वा ॥97॥
अंशिनो हि घटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥98॥
अतोनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥99॥
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।
बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥100॥
यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।
तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ॥101॥
विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये तदन्ये तत्र तत्रगाः ॥102॥
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥103॥
मानमेयविशेषेण पुनरुक्तिर्न जायते ।
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥104॥
अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः ।
देवस्यैष स्वभावोयमित्याह श्रुतिरञ्जसा ॥105॥
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।
इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥106॥
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥107॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिता ।
इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ॥108॥
महातात्पर्ययुक्तैश्च नेच्छामात्रं निषिद्ध्यते ।
मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ॥109॥
उन्निनीषति वाक्याच्च लोकदृष्टानुसारतः ।
इच्छानिमित्तको यस्मात् तदभावे कुतः श्रुतिः ॥110॥
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ।
याथार्थ्यमेव मानत्वमिति वाक्यं प्रयोजकम् ॥111॥
मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ।
वैषम्यं चैव नैघृण्यं वेदाप्रामाण्यकारणम् ॥112॥
नाङ्गीकार्यमतोन्यत्तु न वैषम्यादिनामकम् ।
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ॥113॥
गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः ।
सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः ॥114॥
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥
एवं चतुर्विधा नैव विरुद्ध्यन्तेन्वयं प्रति ।
इति प्रथमपादेन निर्णीतेप्यभियोगतः ॥2॥
दर्शनानां प्रवृत्तत्वान्मन्दः आशङ्कते पुनः ।
अनादिकालतो वृत्ताः समया हि प्रवाहतः ॥3॥
न चोच्छेदोस्ति कस्यापि समयस्येत्यतो विभुः ।
भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥
तर्कैर्दृढमतमैरेव वाक्यैश्चागमवादिनाम् ।
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ॥5॥
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।
विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥6॥
अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥7॥
तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥
इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।
चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥
चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ॥10॥
चेतनं तदसङ्ख्यातं भिन्नमन्यद्भिदोज्झितम् ।
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ॥11 ॥
परस्परविभेदश्च कार्याणामालयं भवेत् ।
भोक्तॄणां चेतनस्याहुः केचित् तामपि नापरे ॥12॥
स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम् ।
प्रकृतेश्च स्वरूपस्य विवेकग्राहमेव तु ॥13॥
अभोगवादिनो भोगमाहुर्भेदग्रहात् तयोः ।
भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ॥14॥
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ।
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ॥15॥
एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते ।
न च काचित्प्रोमोक्तार्थे श्रुतिरेव प्रमा हि नः ॥16॥
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ।
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ॥17॥
स्वोक्ताखलिनिषेधी स्यान्न च किञ्चित् प्रसिद्ध्यति ।
इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत् ॥18॥
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ।
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ॥19॥
अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ।
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ॥20॥
कुत इच्छाचेतनस्य सेच्छं चेत् किमचेतनम् ।
इच्छाम्यहमिति ह्येव निजानुभवरोधतः ॥21॥
अचेतनेच्छापगता यदि भेदाग्रहोत्र च ।
कथं स न घटस्य स्यान्मन म इति भेदतः ॥22॥
मनसोपि गृहीतत्वात् उभयात्मकता यतः ।
कामस्य तु मनः कामः प्रियाप्रियविभेदतः ॥23॥
द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ।
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ॥24॥
अचेतनं जगत्कर्तृ पयोम्ब्वादि च नोपमा ।
एतत्प्रशास्ति वचनाच्चेतनाचेतनस्य च ॥25॥
द्वैविध्येपि तु कामादेः कुतः स्वामित्वमात्मनः ।
साक्षादनुभवारूढं शक्यतेपोदितुं क्वचित् ॥26॥
इच्छास्वामित्वमेवोक्तमिच्छावत्वं न चापरम् ।
किञ्चित् तद्वशगत्वेपि स्वामित्वं लोकवद्भवेत् ॥27॥
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ।
न चानुभवगं कामस्वामित्वं वेदवागपि ॥28॥
शक्तापवदितुं तस्मात् सा तदन्याभिधायिनी ।
मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ॥29॥
मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ।
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ॥30॥
विभागे च तयोर्मानं नैव किञ्चित् क्वचिद्भवेत् ।
सर्वमानविरोदैकदुर्दीक्षादीक्षिततस्त्वयम् ॥31॥
मायावाद्युपमां यायात् तच्च शब्दान्निराकृतः ।
साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥32॥
अस्तीश्वरः स्वयंभातः क्लेशकर्मादिवर्जितः ।
क्षेत्रशक्तिमती चैव प्रकृतिर्बीजशक्तिमान् ॥33॥
जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ।
पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ॥34॥
बीजावपनकर्तैवेत्यत प्राह स्वयं प्रभुः ।
अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि ॥35॥
शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वशः ।
सत्ता प्रधानपुरुषशक्तीनां च प्रतीतयः ॥36॥
प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ।
तथा नित्यतया नित्यं नित्यशक्त्या स्वयेश्वरः ॥37॥
नियामयति नित्यं च न ऋते त्वदिति श्रुतेः ।
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ॥38॥
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ॥39॥
तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ।
चार्वकैरुच्यते मानमक्षजं नापरं क्वचित् ॥40॥
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ।
यदैवं दर्शनेनास्य कोर्थः प्रत्यक्षगोचरः ॥41॥
लब्धस्तेनैव हि नरैः शास्त्रात् किं मोहनं विना ।
स्वपरार्थविहीनत्वात् स्वमतेनैव निष्फलम् ॥42॥
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ।
देहादन्योनुभवत आत्मा भाति शरीरिणाम् ॥43॥
मम देह इति व्यक्तं ममार्थ इतिवत् सदा ।
प्रत्यक्षस्येव मानत्वमिति केनावसीयते ॥44॥
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ।
न चान्यामानता क्वापि प्रमाणेनावसीयते ॥45॥
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ।
सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ॥46॥
तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ।
अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ॥47॥
तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः ।
किमु सर्वेश्वरस्यास्य ह्यपलापाद्यतोखलिम् ॥48॥
अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखलिम् ।
तत्प्रेरणेप्यशक्तत्वात् स्वतन्त्रोन्यो ह्यपेक्षितः ॥49॥
न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।
हिताक्रियादिदोषाच्च भद्रं नानीश्वरं मतम् ॥50॥
संसारिणोन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ॥51॥
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ।
तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ॥52॥
अङ्गीकार्यतमो नित्यं सर्वैरपि सुनिश्चितम् ।
नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः ॥53॥
युक्तमीशं वदन्तोन्ये तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोखिलाः ॥54॥
परमाणुद्वयेनैव द्य्वणुकं नाम जायते ।
द्य्वणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् ॥55॥
ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः ॥56॥
कारणं समवाय्याख्यं परमाण्वादिरत्र हि ।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥57॥
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके ॥58॥
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥59॥
एवं स्थितेपि सिद्धान्ते विशेषस्तत्र कल्पितः ।
द्य्वणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥60॥
न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।
इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥61॥
महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥62॥
यथा तथैव ह्रस्वत्वात् पारिमाण्डिल्यतोपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः ॥63॥
न चेन्महत्वतश्चैव दीर्घत्वादपि नो भवेत् ।
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥64॥
अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वतः ।
इति चेन्न महत्त्वं च परमाणावणावपि ॥65॥
कथं त्र्यणुकपूर्वेषु नाणुत्वमपि कथ्यते ।
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखलि ॥66॥
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ।
तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च ॥67॥
यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते ।
परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ॥68॥
दृश्यतेनन्त इत्येव तथानन्त्यमणावपि ।
न महत्तत्वगुणत एतावानिति हीश्वरः ॥69॥
परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ।
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ॥70॥
नावसाययितुं शक्यो विरोधादेव केवलम् ।
केवलं साक्षिमानेन कालो देशोपि नान्तवान् ॥71॥
अपर्यवसितिश्चाणोर्दृश्यते साक्षिणा द्वयोः ।
यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ॥72॥
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ।
यद्यागमादनन्तं तन्महत्त्वमवगम्यते ॥73॥
अनन्तमेव चाणुत्वं कुतो नैवावसीयते ।
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ॥74॥
अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ।
बहुत्वाल्पत्वयोर्यद्वत् सङ्ख्यायामुपलभ्यते ॥75॥
आनन्त्यमेकभागानां तावत्त्वं ह्येव गम्यते ।
अणीयांश्च महीयांश्च भगवानगमोदितः ॥76॥
आनन्त्यवाचकः शब्दो द्विधानन्त्येपि मानताम् ।
याति नैव गुणाल्पत्वं कालाल्पत्वं च मानगम् ॥77॥
सर्वकालगतस्याल्पकालेपि स्यादवस्थितिः ।
महागुणस्य चाल्पोपि गुणः स्यादिति चेद्भवेत् ॥78॥
तावत्त्वमेव नैव स्याद्देशेप्येतन्न नो मतम् ।
महतोल्पत्वमपि हि व्योमवत् प्राह वेदवित् ॥79॥
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ।
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेत् ध्रुवम् ॥80॥
एकत्राप्यनवस्थस्य कुत एवाखलिस्थता ।
शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ॥81॥
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ।
उभयानन्त्ययुक् तस्मात् यदि मुख्यं महद्भवेत् ॥82॥
तच्च ब्रह्म परं साक्षात् सर्वानन्त्ययुतं सदा ।
यदि साक्षी स्वयम्भातो न मानं केन गम्यते ॥83॥
अक्षजादेश्च मानत्वमनवस्थान्यथा भवेत् ।
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ॥84॥
सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ।
तत्संयोगादनियतात् पदार्थानां जनिर्भवेत् ॥85॥
द्वयोरेव तु संयोग इति केनावसीयते ।
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ॥86॥
तारतम्येन सर्वेपि महान्तश्चाणवो यतः ।
न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ॥87॥
कथं साक्षिमितस्यास्य शक्नुयात् वारणे क्वचित् ।
यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ॥88॥
पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् ।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥89॥
देशान्तरादिशब्दाश्च शशशृङ्गादिशब्दवत् ।
सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ॥90॥
येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥91॥
प्रत्यक्षमागमो वापि भवेद्यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥92॥
सहदर्शनमात्रेण न व्याप्तिरवसीयते ।
यदैवाव्यतिरेकेस्य ह्यक्षजं वागमो भवेत् ॥93॥
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ।
अन्यथा सप्तमरसभावोप्यनुमयापतेत् ॥94॥
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ।
कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ॥95॥
भिन्नस्यैव तु सम्बन्धः समवायोन्य ईर्यते ।
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्रुवम् ॥96॥
स स्वनिर्वाहकश्चेत् स्याद् द्रव्यमेव तथा न किम् ।
विशेषस्तद्गतत्वादिर्यद्यभिन्नेवसीयते ॥97॥
गुणक्रियादिरूपस्य निषेधः केन हेतुना ।
द्रव्यमेव ततोनन्तविशेषात्मतया सदा ॥98॥
नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ।
विशेषश्च विशेषी सः स्वेनैव समवायवत् ॥99॥
कल्पनागुरुतादोषात् पदार्थान्तरता न हि ।
कल्पयित्वा षट् पदार्थान् साभावानपि केवलम् ॥100॥
एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः ।
येन प्रत्यक्षसिद्धेन व्यवहारोखलि भवेत् ॥101॥
भावाभावविभागेन यं विना न कथञ्चन ।
एतादृशो विशेषेस्मिन् को द्वेषो वादिनां भवेत् ॥102॥
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थेस्मिन् सविशेषावसीयते ॥103॥
सामान्यादिपदार्थेषु तन्निष्ठत्वादयोखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्येपि हि वादिभिः ॥104॥
कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति स च धर्मोपरो यदि ॥105॥
षट्पदार्थातिरेकः स्यात् पदार्थानियमेपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाखनिर्भवेत् ॥106॥
सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥107॥
अस्मत्पक्षे गुणाद्याश्च तद्वन्ते हि विशेषतः ।
अनन्यत्वान्नानवस्था भेदो नाशे भवेत् तथा ॥108॥
विशेषमेव संश्रित्य विशेषो बलवान् यतः ।
दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥109॥
विरोधो ह्यविरोधश्च यतो दर्शनमानकौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥110॥
अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।
नित्या धर्मास्तदीयास्तु सर्वेस्मान्नैव भेदिनः ॥111॥
सामस्त्योच्छेदिनोन्यत्र धर्मा उभयरूपिणः ।
भावे त एव चोच्छेदात् तदन्ये च समस्तशः ॥112॥
अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ॥113॥
एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा ॥114॥
अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः ।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥115॥
परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।
अणूनां प्रथिमापेक्षां विनैव त्र्यणुकेपि सः ॥116॥
परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ।
अंशिनोंशैरभेदोयमंशेन तु भिदाभिदा ॥117॥
सर्वप्रत्यक्षविषयः कथमेव ह्यपोद्यते ।
संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् ॥118॥
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ।
भिन्ना इति तु भेदानां समुदायो हि दृश्यते ॥119॥
यथैव च पदार्थानामनयोर्भेद इत्यपि ।
इतोमुष्यामुतोप्यस्य भेदो दृष्टो द्विधर्मिकः ॥120॥
तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ।
नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ॥121॥
न सर्वधर्म एकोस्ति समुदायस्तु भिन्नगः ।
एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक् ॥122॥
एकस्मिन् स विनष्टेपि यतोन्यत्रैव दृश्यते ।
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ॥123॥
एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ।
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ॥124॥
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ।
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ॥125॥
न केनचिदभिन्नोतो भगवान् स्वैर्गुणैर्विना ।
इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ॥126॥
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ।
तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ॥127॥
अभीष्टावागतिश्च स्याच्छक्तिः सादृश्यगा यतः ।
तादृशोयं च तच्छब्दः इति ज्ञापयति स्फुटम् ॥128॥
जातितश्चेत् कथं तासु तत्र चेदनवस्थितिः ।
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ॥129॥
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ।
कथं स्वरूपत्वमपि ज्ञायतेनुगतं यदि ॥130॥
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।
कल्पनागौरवात् तेन युक्ता नानुगकल्पना ॥131॥
औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत् तदेव चेदग्निमत्वं किं तत्र भण्यते ॥132॥
अग्निसंयोगमात्रं चेद्भवेत् तत्सिद्धसाधनम् ।
भूधरस्याग्निसंयोगो यदि षष्ठ्यर्थ एव कः ॥133॥
समवायो यदि ह्यस्य चैकत्वाद् सिद्धसाधनम् ।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥134॥
नानिर्वाच्यं हि तेनेष्टमत औपाधिकान्ययोः ।
सत्यत्वात् को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥135॥
उपाधिजन्यं तद्गम्यमिति चौपाधिकं भवेत् ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ॥136॥
भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ।
अविद्यमान एवान्यः समवायोधिगम्यते ॥137॥
उपाधिना तद्गमकमनुमानं न मा भवेत् ।
एवमेवासतः सत्तासमवायो जनिर्मता ॥138॥
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ।
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ॥139॥
नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ।
अभावस्य च धर्माः स्युर्भावास्तेषां च तेखिलाः ॥140॥
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥141॥
तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।
सोभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥142॥
तस्मात् प्रध्वंस्तभेदादि सदित्येवावगम्यते ।
अस्त्यभावोस्ति च ध्वंसो देहाभावश्च भस्मता ॥143॥
इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।
अन्योन्याभावभेदी च पृथक्त्वं च पृथक् पृथक् ॥144॥
यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥145॥
भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुतास्ते यतोन्यस्य प्रतियोगित्वमिष्यते ॥146॥
प्रतियोगिनो हि भेदोयं न तु स्वस्मात् कथञ्चन ।
विभागेनाल्पतैव स्यात् कुत एव च शून्यता ॥147॥
न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।
विदारणार्थो धातुश्च विभागगुणवाचकः ॥148॥
अविदारणेपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।
अत उन्मत्तवाक्यत्वान्मायावादो ह्युपेक्षितः ॥149॥
न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरोष्टगुणत्वेन प्रमेयोप्रमित्वतः ॥150॥
मय्यनन्तगुणेनन्त गुणतोनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥151॥
नारायणः परोशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥152॥
अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारितः ॥153॥
कथं तत्तद्विषयता सार्वज्ञार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥154॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥155॥
ज्ञानं विश्वधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः ॥156॥
इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥157॥
ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।
स्वप्रकाशत्वमेतस्माद्दुर्निवारं समापतेत् ॥158॥
सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥159॥
योशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥160॥
ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयात् श्रुत्यनादरतत्परः ॥161॥
न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।
सहदर्शनमात्रेण श्रुतीनामपलापकः ॥162॥
यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥163॥
अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।
अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः ॥164॥
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ।
इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ॥165॥
किं कार्यमनुमानेन गलस्तनसमेन हि ।
अनुमानेन यद्यर्थः श्रुतिदृष्टोप्यपोद्यते ॥166॥
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात् तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥167॥
ईशस्यानुमया सिद्धेः श्रुतिर्धर्मिप्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥168॥
अनानन्दानुमानस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत् तस्मान्नानुमात्रोपयोगिनी ॥169॥
नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत् ॥170॥
न हि कालविभेदोस्ति तत्पक्षेस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्ट्यादीच्छा सदातना ॥171॥
विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ॥172॥
उदीरयति कालाख्यां शक्तिमित्यस्य वागपि ।
कालस्य कालगत्वेन न विरोधोपि कश्चन ॥173॥
असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा ।
ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥174॥
ईशाधीनो च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥175॥
तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः ॥176॥
स्वभावादेव हीच्छैषा देवस्यैष इति श्रुतेः ।
स्वभावोपि परेशेच्छावशः इत्युदितः पुरा ॥177॥
नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥178॥
अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः ॥179॥
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।
अणूनां समुदायं च कालकर्मनिमित्ततः ॥180॥
उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।
नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥181॥
संस्काररूपविज्ञानसंज्ञादुःखात्मना स्थितिः ।
दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥182॥
मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।
नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥183॥
अतोन्योन्याश्रयत्वेन समुदायो न युज्यते ।
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥184॥
स्यात् तत्सदातनत्वेपि तच्च सामीप्यहेतुकम् ।
इति चेत् कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥185॥
न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।
अतोर्थेन्द्रियसंयोगिरूपकारणतात्मनः ॥186॥
संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ।
विशेषकार्यजनकं यदि कारणमिष्यते ॥187॥
कुतः समानरूपत्वं कार्याणामपि सर्वशः ।
अतोनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ॥188॥
अदृष्टमपि तस्यैव विशेषापादकं कुतः ।
यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ॥189॥
कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ।
भवेन्नियामकाभावादिदमस्यैव कारणम् ॥190॥
इति नित्यविनाशित्वे केन मानेन गम्यते ।
इदं न जायतेमुष्मादित्यत्रापि न कारणम् ॥191॥
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ।
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ॥192॥
फलादीनां विशेषेण सर्वत्राप्यनुमीयते ।
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ॥193॥
अविशेषोखलिस्यापि सत्त्वात् किं नानुमीयते ।
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ॥194॥
सधर्मिप्रतियोगित्वमभावस्य नियामकम् ।
तौ विना न ह्यभावश्च क्वचिद् दृष्टः कदाचन ॥195॥
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ।
स्वीकारत्यागतोदृष्टदृष्टयोः सर्ववस्तुषु ॥196॥
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ।
उत्तरोत्पत्तिमात्रेण विनाशात् पूर्ववस्तुनः ॥197॥
न संस्कारार्पकत्वं च युज्यते कस्यचिन्क्वचित् ।
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ॥198॥
एकत्वमनुभूतिस्थं त्यक्त्वा निर्मानिका भिदा ।
कुत आत्मादिकेषु स्याद् बल्येनानुभवो यतः ॥199॥
कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥200॥
सम्बद्धा एव संस्कारमन्यत्रादधतेखिलाः ।
असम्बद्धः कथं पूर्वं उत्तरे वासनाकरः ॥201॥
एककालतया योगं विना संस्कारतः कथम् ।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥202॥
पूर्वमध्यापरकलारहितः क्षण इष्यते ।
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥203॥
यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।
विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥204॥
अभेदेपि विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥205॥
विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः ।
दिक्सुखे च स्वदृष्टान्ताद्भावो सच्चेत् क्वचिद्भवेत् ॥206॥
विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥207॥
सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥208॥
सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥209॥
सोहं तदिदमेवाहं सुखी सद्गगनं दिशः ।
सत्या इत्याद्यनुभवः सदा तत्प्रतिपक्षगाः ॥210॥
अतो निर्मानमखलिप्रमाणप्रतिपक्षगम् ।
दुर्मतं कोनुगृह्णीयाद्विनासुरततिं क्वचित् ॥211॥
अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥212॥
अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ॥213॥
रागादिदोषरहितं तद्भावं योगिनं नयेत् ।
तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् ॥214॥
सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ।
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ॥215॥
सांवृतेनैव सत्वेन व्यवहारोखलि भवेत् ।
शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ॥216॥
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥217॥
नासतो जगतो भावो न हि दृष्टासतो जनिः ।
सतः क्वचित् प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥218॥
यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारशृङ्गं गोरिव घातकम् ॥219॥
कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन ।
न प्रवर्तेत चेष्टाय शून्यादेवेष्टसम्भवात् ॥220॥
देशकालादिनियमो न हि शून्यात् सतो भवेत् ।
पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते ॥221॥
किं नानुमीयते तद्वद्वस्तुत्वात् पुरुषोद्भवः ।
सर्वस्यापि न चाभावो विश्वं सदिति गम्यते ॥222॥
यतोनुभवविरोधे तु वचनं वादिनः कुतः ।
स्वप्नभ्रान्तिवदेवेदं संवृत्यैवोपलभ्यते ॥223॥
यदि सत्वेन किञ्चात्र भ्रमो नैव निवर्तते ।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ॥224॥
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ।
दृष्टस्य भ्रान्तितो चेत् स्याददृष्टे न भ्रमः कुतः ॥225॥
गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ।
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ॥226॥
उक्तभङ्ग्यागमानां च प्रामाण्याद्युज्यतेखलिम् ।
दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेदियं च मा ॥227॥
मिथ्या चेत् साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ।
साधकत्मसत्यस्य साध्यं विप्रतिपत्तितः ॥228॥
तस्य चेत्यनवस्था स्यात् सत्त्वं चास्यानुभूतितः ।
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ॥229॥
अतीतानागतौ कालावपि नः साक्षिगोचरौ ।
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥230॥
दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोपरम् ।
भ्रान्तेः संवृतिसत्यस्य विशेषो व्यभिचारवान् ॥231॥
तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ।
विज्ञानाद् व्यभिचारोस्य कदाचित् स्यादिति प्रमा ॥232॥
नैव दृष्टा प्रमा सा च न भवेत् स्वविरोधतः ।
भेदो विशेषधर्म्यादिग्रहणापेक्षया यदि ॥233॥
अन्योन्याश्रयताहेतोर्दुग्राह्या इति यन्न तत् ।
स्वरूपं वस्तुनो भेदः यन्न तस्य ग्रहेग्रहः ॥234॥
अन्यथास्यामुना भेद इति वक्तुं न शक्यते ।
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ॥235॥
स्यात् प्रतीतिविरोधाच्च न हि कश्चित् तथा वदेत् ।
धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ॥236॥
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ।
को विरोधः स्वरूपेण गृहीतो भेद एव तु ॥237॥
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ।
किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ॥238॥
धर्म्यादिभेदग्रहणात् तेनोक्तोन्योन्यसंश्रयः ।
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ॥239॥
अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः ।
एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ॥240॥
मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ।
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ॥241॥
न हि लक्षणभेदोस्ति निर्विशेषत्वतस्तयोः ।
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ॥242॥
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ।
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ॥243॥
अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥244॥
ज्ञानमेवैकमखलिज्ञेयाकारं प्रभासते ।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ॥245॥
कल्पिताः प्रतिभासान्ते नानासंवृतिभूमिषु ।
इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ॥246॥
भासतेनुभस्यैव विरुद्धत्वादपेशलम् ।
तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ॥247॥
ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमेशिवाः ॥248॥
आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥249॥
नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः ।
भावाभावतया विश्वं येन रूपेण मीयते ॥250॥
तद्रूपमेव तदिति नियमः केन वार्यते ।
तत्तद्दोषनिवृत्यर्थं स्वीकृता तत्तदात्मता ॥251॥
यदि तैरखिलैर्दोषैर्लिप्यते चलदर्शनः ।
अतिहाय प्रमाणाप्तं नियमं सदसत्तया ॥252॥
अशेषमविरुद्धं च निर्मानं व्याहतं सदा ।
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ॥253॥
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ।
वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ॥254॥
दुष्टं नानाशरीरेषु प्रवेशादन्यथाभवात् ।
अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ॥255॥
तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ।
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ॥256॥
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ।
ओतप्रोतात्मकत्वं तु पटे देहेङ्गसंस्थितिः ॥257॥
इत्यादलिक्षणस्यैव निवृत्तौ स्यादनित्यता ।
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ॥258॥
नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ।
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ॥259॥
व्याप्त्या तयान्यथाभावादात्मनोनित्यता भवेत् ।
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ॥260॥
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ।
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ॥261॥
संस्थानापगमश्चेत् स न हि भूसागरादिषु ।
यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ॥262॥
देहमाने विकारः स्यादिति स्थास्नूननात्मनः ।
आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः ॥263॥
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्तौ विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥264॥
गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥265॥
एवं चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ।
सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥266॥
जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ।
आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ॥267॥
नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ।
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ॥268॥
यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्यते मया ।
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ॥269॥
घ्नञ्छिश्नदेवानेकोसावासीन्नारायणः परः ।
तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ॥270॥
यज्ञेन यज्ञमयजन्ताबधन्न् पुरुषं पशुम् ।
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥271॥
इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः ।
पराधीनपदप्राप्तिरज्ञत्वं प्रलयेभवः ॥272॥
प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ।
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ॥273॥
कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ।
न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ॥274॥
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते ।
नास्याधिष्ठानयोगोस्ति भूतानां प्रलये तदा ॥275॥
अदेहश्चेदसर्वज्ञः शिलाकाष्ठादिवत् सदा ।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥276॥
न चैतदखिलं विष्णौश्रुतिप्रामाण्यगौरवात् ।
मनोबुद्ध्यङ्गितां विष्णोर्लक्षयामो य एव सः ॥277॥
स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवोग्रतो भवेत् ॥278॥
एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः ॥279॥
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः ॥280॥
आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरो मोदप्रमोदौ च भुजौ हरेः ॥281॥
आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित् ।
मनसोस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥282॥
पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥283॥
इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत्सर्वमाविरासीदितीर्यते ॥284॥
मानवत्वाद्विरोधः को नामानं क्वचिदिष्यते ।
अविरोधो विरोधश्च मानेनैव हि गम्यते ॥285॥
अत उक्तं समस्तं च वासुदेवस्य युज्यते ।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥286॥
नामानि सर्वाणि च यमेको यो देवानामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥287॥
न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥288॥
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥289॥
समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।
मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥290॥
स्कन्दसूर्यगणेशादिमतानि न्यायतोमुतः ।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥291॥
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते महती देवी ह्रीङ्कारी सर्वकारणम् ॥292॥
त्रिपुरा भैरवीत्यादिनामभिः साभिधीयते ।
तस्याः सदाशिवाद्याश्च जायन्ते देवमानवाः ॥293॥
भूतभौतिकमप्येतदिति तन्नोपपद्यते ।
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ॥294॥
केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ।
नार्च्यं महावाममतं वामैरन्यैरुदीर्यते ॥295॥
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ।
इति तच्चोपपन्नं न शिवस्याकरणत्वतः ॥296॥
अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ।
अणुवामा न तद्युक्तमीशवादप्रवेशनात् ॥297॥
सार्वज्ञादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ।
न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ॥298॥
उक्तदोषस्च तत्पक्ष इति नैवात्र दूष्यते ।
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ॥299॥
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ।
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ॥300॥
सूत्राण्यतिविरुद्धं तद्यत आह स भारते ।
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥301॥
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ।
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ॥302॥
एकान्तभावोपगता वासुदेवं विशन्ति ते ।
इति गीता च तच्छास्रसङ्क्षेप इति हीरितम् ॥303॥
वेदेन पञ्चरात्रेण भक्त्या यज्ञेन चैव हि ।
दृश्योहं नान्यथा दृश्यो वर्षकोटिशतैरपि ॥304॥
इति वाराहवचनं श्लोका इति वचः श्रुतौ ।
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ॥305॥
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ।
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ॥306॥
कथमेवात्र दोषः क उत्पत्तिर्ज्ञोत इत्यपि ।
इहैवोक्ता न चाभूतभावस्तत्रापि कथ्यते ॥307॥
अनादिकर्मणा बद्धो जीवः संसारमण्डले ।
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥308॥
न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ।
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ॥309॥
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ।
मनोभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ॥310॥
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तोन्यथानूद्य कथं दुष्टत्वमुच्यते ॥311॥
यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥312॥
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥313॥
अतोशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते ॥314॥
अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवायान्ति एतस्या नैव निन्दकाः ॥315॥
ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतां विद्ययामृतमश्नुते ॥316॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥
अथाशेषसमाम्याविरोधापाकृतिं प्रभुः ।
करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥
स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोधिकम् ।
एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥
दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥
उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥
विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।
प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः ॥9॥
महादाद्याश्च जायन्ते पराधीनविशेषिता ।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥10॥
अवकाशमात्रमाकाशः कथमुत्पद्यतेन्यथा ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥11॥
मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत् ।
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥12॥
अत आकाशशब्दोक्तस्तद्देवोत्र विनायकः ।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ॥13॥
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यतेव्याकृतं हि गगनं साक्षिगोचरम् ॥14॥
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ।
तथापि मूर्तसम्बन्धपरतन्त्रविशेषयुक् ॥15॥
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ।
प्रकृतिः पुरुषः काल इत्येते च समस्तशः ॥16॥
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ।
कालप्रवाह एवैको नित्यो न तु विशेषवान् ॥17॥
पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ।
सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ॥18॥
प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ।
पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ॥19॥
एवं प्रलयकालेपि प्रतिभातपरावरः ।
मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ॥20॥
पराधीनविशेषेण जनिमानेव शब्दितः ।
नैव किञ्चित् ततो जन्मवर्जितं परमादृते ॥21॥
पराधीनविशेषत्वे जन्मनः स्थूलताभवः ।
पूर्वशब्दवलिपश्च यदि जन्मेति कीर्त्यते ॥22॥
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ।
प्रधानस्य च वेदस्यापीश्वरेच्छया ॥23॥
व्यक्तिर्नाम विशेषोस्ति तस्मात् तद्वशतैव हि ।
उत्पत्तिरत्र कथिता ....... ॥
...... स्वतन्त्रत्वात् परात्मनः ॥24॥
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोपरम् ।
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥25॥
कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः ।
अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥26॥
अविभागं विभागाय यदा नयति केशवः ।
किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥27॥
एवं स्थितेपि जीवैक्यं केचिदाहुः परात्मना ।
तद्योहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥28॥
न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।
प्रज्ञानेत्रो लोक इति मुक्तो भेदोभिधीयते ॥29॥
एतमानन्दमित्यन्या परं साम्यमित्यपि ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ॥30॥
सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च ।
उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ॥31॥
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी ।
आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् ॥32॥
इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः ।
शाखां शाखां महानद्यः संयान्ति परितः स्रवाः ॥33॥
धानापूपाः मांसकामाः सदा पायसकर्दमाः ।
यस्मिन्नग्निमुखाः देवाः सेन्द्राः सहमरुद्गणाः ॥34॥
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ।
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ॥35॥
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ।
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ॥36॥
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ।
स सङ्गत्य पुनःकाले कालेनेश्वरमूर्तिना ॥37॥
जाते गुणव्यतिकरे यथापूर्वं प्रजायते ।
ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ॥38॥
यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि ।
सहैव ब्रह्मणा कामान् भुङ्क्ते निस्तीर्णतद्गुणः ॥39॥
दुःखादींश्च परित्यज्य जगद्य्वापारवर्जितः ।
भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ॥40॥
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ।
जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ॥41॥
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।
इति चेत् साध्यधर्मोयं सन्न सन् वा न वोभयम् ॥42॥
यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।
नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥43॥
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।
अनुमानेन चेत् सैव ह्यनवस्था भविष्यति ॥44॥
न चागमस्तदर्थोस्ति नासदासीन्न तद्भवेत् ।
परिशेषादनिर्वाच्यं यदि सिद्ध्येत् परात्मनः ॥45॥
अनिर्वाच्यत्वमेव स्यात् परिशिष्टो ह्यसौ सदा ।
न चान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥46॥
न च प्रत्यक्षमत्रास्ति न चार्थापत्तिरिष्यते ।
बाधायोगात् सत इति बाधाभावत एव हि ॥47॥
इष्टापत्तिर्न हि भ्रान्तावपि बाधोवगम्यते ।
विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ॥48॥
न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ।
बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते ॥49॥
कश्चायं बाध उद्दिष्टो न हि नाशोसतो भवेत् ।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥50॥
नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।
यदि बाधस्तदा सत्त्वं तेनैवाङ्गीकृतं पुनः ॥51॥
प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥52॥
न चोपमा भवेदत्र प्रत्यक्षात् सत्त्वमेव च ।
शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥53॥
अनुभूतिविरोधेन कथमेकत्वमुच्यते ।
किञ्चित् कर्ता च दुःखीति सर्वैरेवानुभूयते ॥54॥
सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥55॥
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥56॥
स एव धर्मिणी ग्राही तदभेदः कथं भवेत् ।
यत् स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥57॥
एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।
न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ॥58॥
धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।
नोपजीव्यो ह्यभेदोत्र क्वचिद्भेदश्रुतेर्बलात् ॥59॥
न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।
येन मानेन चोपेयं भेदस्तेनावगम्यते ॥60॥
सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन ।
सर्वज्ञत्वगुणेनैव तया भेदोवगम्यते ॥61॥
न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।
न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु ॥62॥
यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥63॥
श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥64॥
न च बाधविशेषोस्ति यदबाधितमेव तत् ।
बाधो यद्यनुभूतेर्थे कथं निर्णय ईयते ॥65॥
कोपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ॥66॥
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ।
भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ॥67॥
स चेत् साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते ।
विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः ॥68॥
ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।
साक्षिणो व्यवसायी तु व्यवहारोभिधीयते ॥69॥
तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।
साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव सः ॥70॥
शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।
उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ॥71॥
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ।
तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ॥72॥
सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ।
अतोभेदवदेवैताः श्रुतयः प्रवदन्ति हि ॥73॥
पौराणि च वाक्यानि सादृश्याभेदसंश्रयात् ।
सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपि चाभिदाम् ॥74॥
आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ।
स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते ॥75॥
सादृश्यं च विशेषेण जडानां द्वयमेव तु ।
भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना ॥76॥
ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥77॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥78॥
इति श्रुतेः नोभयं च भेदाभेदाख्यमिष्यते ।
एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन ॥79॥
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ॥80॥
इवोभये च सादृश्य इति वाक् शब्दनिर्णये ।
भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ॥81॥
चेतनत्वादि सादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥82॥
न केनचिदभेदोस्ति भेदाभेदोपि वा क्वचित् ।
समुदायमृते विष्णोः स्वगुणादीन् विनापि वा ॥83॥
इति श्रुतेर्न तस्यास्ति भेदाभेदोपि केनचित् ।
अभेदश्रुतयोंशत्वात् सादृश्यं चांशतास्य तु ॥84॥
अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोन्य एव च ।
विभिन्नांशोल्पशक्तिः स्यात् किञ्चित् सादृश्यमात्रयुक् ॥85॥
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ।
स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥86॥
सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।
सूर्योथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥87॥
कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।
धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ॥88॥
नानावताररूपेण स्थितः पूर्णगुणः सदा ।
विण्मूत्राद्यभिमानिन्यो यथापभ्रष्टदेवताः ॥89॥
सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक् ।
देहदोषैश्च दृष्टत्वादपभ्रष्टाख्यदेवताः ॥90॥
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ।
एवमेवं पराद्विष्णोः पृथक् संसारिणो मताः ॥91॥
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ।
न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ॥92॥
गुणैरशेषैः पूर्णत्वान्मुख्याभेदो परैर्न च ।
अंशाभासाश्च सर्वेपि परस्यांशा न मुख्यतः ॥93॥
यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ।
न तु पुम्पादवत् पादा जीवा एते परात्मनः ॥94॥
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।
एवं जगाद परमा श्रुतिर्नारायणं परम् ॥95॥
अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥96॥
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् ।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ॥97॥
उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ।
ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ॥98॥
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ।
ततो रूपं महन्नाम ब्रह्मणोहङ्कृतिः शिवः ॥99॥
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥100॥
तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः ।
तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥101॥
जन्मस्थितलियाज्ञाननियतिज्ञानसंसृतिः ।
मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥102॥
मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।
इति श्रुत्युपपत्तिभ्यां पादेस्मिन् प्रभुणोदितम् ॥103॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥
श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥1॥
करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ।
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ॥2॥
दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ।
युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥
युक्तयो निर्णयस्यैव स्वयं भगवतादिताः ॥3॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥