विकर्मलेपो नैवस्ति सम्यग्दृष्टिमतां क्वचित् ।
गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥4॥
देवानामपि न प्रायः क्लृप्तस्य तु कथञ्चन ।
प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा ॥5॥
तथापि तत्क्लृप्तमेव तस्मान्न नियमोज्झितिः ।
चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ॥6॥
प्राप्ताहानिरभून्नैव क्लृप्तहानिः कथञ्चन ।
ह्रासोपि मानुषादीनामानन्दस्य विकर्मणा ॥7॥
भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ।
ज्ञानोत्तरस्य पापस्य चतुर्थेलेप उच्यते ॥8॥
अशुचित्वादिकं चास्य न भवेदिति तत्फलम् ।
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥9॥
प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ॥10॥
उपमर्द इह प्रोक्तः देवादीनां यथाक्रमम् ।
सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ॥11॥
न ब्रह्मदर्शिनोपि स्यात् फलह्रासस्तु विद्यते ।
सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ॥12॥
स्यात् काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत् ।
एवमाद्यपि सम्प्रोक्ते तन्त्रभागवते स्फुटम् ॥13॥
तारतम्यं फले नो चेद् ब्रह्मादीनां कथं श्रुतिः ।
अवृजिनोकामहत इति मुक्तिं निगद्य च ॥14॥
आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक् ।
संसार एव चेदेतत् तारतम्यं न मुख्यतः ॥15॥
अकामहतशब्दार्थोवृजिनत्वं च नो भवेत् ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥16॥
इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी ।
कामाहतिः कुतोन्यत्र प्राप्तकामस्य सा भवेत् ॥17॥
अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।
तदैवाकामहतता कुत एवान्यथा भवेत् ॥18॥
चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता ।
अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥19॥
यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः ।
अवशोपि व्याहरति कुतः सुप्तावकामता ॥20॥
सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।
पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुयात् ॥21॥
कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् ।
आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ॥22॥
अकामः स्यात् कथं मुक्तः कामा येस्य हृदि श्रिताः ।
इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ॥23॥
आह श्रुतिर्हृदीत्येव न चेद् व्यर्थं विशेषणम् ।
हृद्येव तेषां श्रयणमिति पक्षो न भासते ॥24॥
मुक्तानां कामितामाह पृथक् शाखासु यच्छ्रुतिः ।
अतोकामहतत्वं तु मुक्तानामेव मुख्यतः ॥25॥
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ।
अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ॥26॥
अप्रियं वृजिनं दुःखमकं तोद इतीर्यते ।
तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ॥27॥
इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ।
अपापत्वं च नैवास्ति यावत् संसारमस्य हि ॥28॥
आरब्धपापमस्त्येव दुःखं च ज्ञानिनोपि हि ।
तस्मात् तस्मादकामत्वमिति चाश्रुतकल्पना ॥29॥
अकामहत इत्युक्ते श्रुतहानिरपि स्फुटा ।
कुत्रचित् कामिनः पुंसः कामाभावात् क्वचित् क्वचित् ॥30॥
इन्द्रादिसुखभोगोस्तीत्यनुभूतिर्हि कुप्यति ।
तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ॥31॥
उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।
आहेति पेशलं तच्च चशब्दादेव गम्यते ॥32॥
राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥33॥
यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।
फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥34॥
निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इति गीयते ।
स्थितस्यानन्यथाप्राप्तेर्द्रढिष्ठ इति चोदितः ॥35॥
बलिष्ठस्य स्वभावेन मुक्तो भवति केवलम् ।
तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥36॥
स एक इति संसारगतमुक्त्वा सुखं पुनः ।
श्रोत्रियस्येति वदति मुक्ताञ्छतगुणात्मताम् ॥37॥
संसारगाच्च संसारगतस्यैव शताधिकम् ।
मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षतः ॥38॥
युक्तं च साधनाधिक्यात् साध्याधिक्यं सुरादिषु ।
नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः ॥39॥
यत्नश्च दृश्यते तेषां महानेव महात्मनाम् ।
यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ॥40॥
दृष्टं नियमतो नो चेन्न यत्नं कुर्युरञ्जसा ।
कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ॥41॥
दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।
त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥42॥
शक्रेण वर्षकोटीश्च धूमः पीतोतिदुःखतः ।
वर्षायुतं च सूर्येण तपोवाक्शिरसा कृतम् ॥43॥
सुदुःखेन सुखं त्यक्त्वा धर्मेमाकाशशायिना ।
पीता मरीचयो वर्षसाहस्रमतिसादरम् ॥44॥
अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोपि च ।
इत्येतदखिलं मोक्षे विशेषाभावतः कथम् ॥45॥
दैवी सम्द्विमोक्षाय निबन्धायासुरी मता ।
इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥46॥
तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ॥47॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥48॥
इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।
व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते ॥49॥
दुःखाद्यभावसाम्यं च साम्यवाक्यर्थ ईयते ।
भक्त्यादिगुणसद्भावे ह्यतुल्यत्वं च भारते ॥50॥
उक्तं साधनवैशेष्यमपि सर्वत्र कथ्यते ।
दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ॥51॥
दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ।
नित्ययुक्तैर्महाभागैविमोहक्लेशसाध्वसैः ॥52॥
महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ।
अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ॥53॥
शौचस्वाध्यायसन्तोषतपःसत्यदायन्वितैः ।
किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ॥
अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः ॥54॥
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।
ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन ॥55॥
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥56॥
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥57॥
यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ।
ब्रह्मापि यं वेत्ति न वेद सम्यक् अन्ये कुतो देवमुनीन्द्रमर्त्याः ॥58॥
नमस्तेमिततत्त्वाय ब्रह्मादीनां च सूतये ।
निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः ॥59॥
नाहं परायुर्ऋषयो न मरीचिमुख्याः जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः ।
यन्मायया मुषितचेतसा ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥60॥
अहं महेन्द्रो निर्ऋतिः प्रचेताः सोमोग्निरीशः पवनोर्को विरिञ्चः ।
आदित्यविश्वे वसवोथ साध्यामरुद्गणा रुद्रगणाः ससिद्धाः ॥61॥
अन्ये च ये विश्वसृजोमरेशाभृग्वादयोस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोन्ये ॥62॥
सर्वस्यादौ स्मृतौ ब्रह्मा तस्माद् देवादनन्तरः ।
जातानि देवप्रवरं भूयश्चातोधिकं नृप ॥63॥
न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।
मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यति ॥64॥
यथा भक्तिविशेषोत्र दृश्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषोपि ज्ञानिनां लिङ्गेभेदने ॥65॥
सायुज्यं समनुप्राप्ताः अपि देवादयोखिलाः ।
तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने ॥66॥
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः ॥67॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥68॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥69॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥70॥
श्रद्धावाननसूयश्च श?ृणुयादपि यो नरः ।
सोपि मुक्तः शुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥71॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सङ्ख्येन योगेन कर्मयोगेन चापरे ॥72॥
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्यः उपासते ।
तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥73॥
सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति ।
स्वात्मानं भगवान् विष्णुः सर्वरूपोपि सर्वदा ॥74॥
सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् ।
सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥75॥
न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोधिकम् ।
स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥76॥
ब्रह्मा तु सर्वगं पश्येद्गुणानप्यन्यतोधिकम् ।
न तु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥77॥
मुक्तस्तु सर्वदा पश्येत् सर्वगत्वेन चापि तु ।
न रमावद्विशेषाणां दर्शनं शक्नुयात् क्वचित् ॥78॥
स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।
पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो न तु ॥79॥
त्रैगुण्यात् परतः पश्येद् व्याप्तं शतगुणं हरिम् ।
गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ॥80॥
पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ।
उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ॥81॥
रुद्रदृष्टान् विशेषांश्च नैव पश्येत् कदाचन ।
स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ॥82॥
जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः ।
पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ॥83॥
पश्यन्ति सोमसूर्यौ तु मनःस्थं परमेश्वरम् ।
अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ॥84॥
बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित् क्वचित् ।
अन्ये चैव यथायोग्यमण्डान्तर्वतिनं हरिम् ॥85॥
श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।
कदाचिदेव तत्रापि केचित् पश्यन्ति केशवम् ॥86॥
उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु ।
विशेषान् वासुदेवस्य पश्चादुक्तान् विवक्षते ॥87॥
शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् ।
उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ॥88॥
इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।
तारतम्यं च मुक्तानां साधनानां च दृश्यते ॥89॥
साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते ।
वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ॥90॥
सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ।
तारतम्यात् साधनानां साध्यतादृक्त्वमीशतः ॥91॥
अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे ।
स्वातन्त्र्ये विद्यमानेपि साधनादौ परेशितुः ॥92॥
अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः ।
नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥93॥
अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।
मया कया विरुद्धा स्यात् राजादावपि दृश्यते ॥94॥
त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।
मायिभ्योन्येन केनापि तत्किमन्यैश्च वादिभिः ॥95॥
मायिनोत्रनुगम्यन्ते श्रुतहान्यश्रुतग्रहौ ।
अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोधिकाः ॥96॥
निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥97॥
भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।
तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि ॥98॥
दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।
यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ॥99॥
यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते ।
अदर्शनादरत्यादिः कथं तेन निवार्यते ॥100॥
ब्रह्मणोप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ ।
नैव रेमे स चैकाकी तस्मान्न रमते क्वचित् ॥101॥
द्वितीयमैच्छत् तेनासाविति श्रुतय ऊदिरे ।
यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा ॥102॥
श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् ।
तारतम्यं च कामं च श्रुतमेवातिहाय तु ॥103॥
अश्रुता समता केन कल्प्यते युक्तिमानिना ।
किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ॥104॥
वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे ।
मोक्षेपि तारतम्येतश्चेतनत्वात् पुरा यथा ॥105॥
इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः ।
न च दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात् ॥106॥
शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ।
येनानन्द्येव भवति न शोचति कदाचन ॥107॥
किल्बिषस्पृगित्यतुषणिररं हितं इहेश्वरः ।
यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह ॥108॥
इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ।
अतो दुःखाद्यनुमया नावकाशोत्र लभ्यते ॥109॥
तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी ।
श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ॥110॥
मुक्तावपि ततः केत्र विरोधं कर्तुमीशते ।
अनादियोग्यता चैव कलिवाणीश्वरावधिम् ॥111॥
को निवारयितुं शक्तो युक्त्यागमबलोद्धताम् ।
ब्रह्मणोन्यत आधिक्ययुक्तः कालो विवादवान् ॥112॥
कालो ह्ययं यथेत्यादि मानुमा मानिनो भवेत् ।
अन्यशब्दो हरिश्रीस्वसमेभ्योन्यविवक्षया ॥113॥
प्रयुक्तो नैव दोषाय रुद्रादिषु च युक्तितः ।
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ॥114॥
व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च ।
बलज्ञानाधिकत्वं च तेभ्योपि ब्रह्मणो सदा ॥
आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥115॥
शृण्वे वीर उग्रमुग्रं दमायन् अन्यमन्यमतिनेनीयमानः ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥116॥
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥117॥
दिवे दिवे सदृशीसन्यमर्धं कृष्णा असेधदप सद्मनोजाः ।
अहं दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥118॥
तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥119॥
तद्यथा पेशस्करी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां भूतानाम् ॥120॥
प्रयान्ति परमां सिद्धिमैहिकीमुष्मकीं द्रुतम् ।
या न प्राप्यासुरैः सर्वैरक्षय्या क्लेशवर्जिता ॥121॥
न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ॥122॥
परं भावमजानन्तो मम भूतमहेश्वरम् ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥123॥
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ॥124॥
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ॥125॥
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ॥126॥
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ।
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ॥127॥
भवन्ति सम्पदं दैवीमभिजातस्य भारत ।
दम्भो दर्पोभिमानश्च क्रोधः पारुष्यमेव च ॥128॥
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ।
मामात्मपरदेहेषु प्रद्विषन्तोभ्यसूयकाः ॥129॥
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥130॥
आसुरीं योनिमापन्नाः मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥131॥
द्विविधो भूतसर्गोत्र दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥132॥
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥133॥
दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया ।
नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥134॥
वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते ।
शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥135॥
अनादिवैष्णवा एव देवतास्तु स्वभावतः ।
विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥136॥
मानुषा मिश्रमतयो विमिश्रगतयोपि च ।
इत्यादिवाक्यसन्दभैर्ज्ञायतेनादियोग्यता ॥137॥
यद्यनादिविशेषो न साम्प्रतं कथमेव सः ।
अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः ॥138॥
आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।
सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ॥139॥
अदृष्टाच्चेद्विशेषोयमनादित्वं कुतो न तत् ।
न चान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ॥140॥
दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ।
बहुत्वं च विशेषेण न भेदेन कथञ्चन ॥141॥
प्रत्यभिज्ञा च येषां न तेपि तन्मुष्टदृष्टयः ।
भेदं नैव प्रपश्यन्ति भेदमन्येभ्यः एव च ॥142॥
पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ।
एवं बृहत्संहितायां वचनं न पुराणगम् ॥143॥
लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ।
अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ॥144॥
निषेद्धुं शक्नुयात् क्वापि देवदत्तादिदृष्टिवत् ।
न च निश्चितभेदस्य दर्शनेस्ति पुराणगम् ॥145॥
वाक्यं कश्चिद्धि संमुग्धं दर्शनं तत्र गम्यते ।
अपरीक्षितमेवात्र वेधिकमधीशितुः ॥146॥
परीक्षादर्शने नैव दृश्यते केनचित् क्वचित् ।
निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ॥147॥
निर्दोषमेव रुद्रोद्राङ्निर्दोषं तं पुरन्दरः ।
निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ॥148॥
अन्ये सदोषाः सर्वेपि निर्दोषो हरिरेकलः ।
इति बर्कश्रुतेश्चैव सदोषं नास्य दर्शनम् ॥149॥
अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।
अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ॥150॥
इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ।
अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः ॥151॥
परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् ।
इति पैङ्गिश्रुतिश्चाह प्रमाणं हि परीक्षितम् ॥152॥
न परीक्षानवस्था स्यात् साक्षिसिद्धे त्वसंशयात् ।
मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने ॥153॥
सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ।
इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः ॥154॥
साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् ।
यत्क्वचिद् व्यभिचारि स्याद्दर्शनं मानसं हि तत् ॥155॥
मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।
प्रामाण्यं सुगृहीतं स्यात् तत्परीक्षितदर्शनम् ॥156॥
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ।
नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥157॥
स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ।
ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥158॥
दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा ।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥159॥
अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् ।
साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥160॥
न हि कश्चित् सुखाद्येषु संशयं कुरुते जनः ।
न चैवाखलिमानानि निश्चिनोत्यखलि जनः ॥161॥
तस्मादनुभवारूढं किमर्थमपलप्यते ।
दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥162॥
तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् ।
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥163॥
तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥164॥
लौकिकव्यवहारेत्र प्रत्यक्षस्योपजीव्यता ।
अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ॥165॥
आगमेन हि विष्णुत्वं ज्ञात्वा दोषोत्र कल्प्यते ।
न चेत् स्याद्दोषवानन्यः शास्त्रसिद्धं हि लक्षणम् ॥166॥
कस्यचिद्दोषवत्वं स्यादितिमात्रेक्षजं भवेत् ।
न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥167॥
केचित् पश्यन्ति दोषानित्यत्रापि स्यान्न चाक्षजम् ।
पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्ध्यते ॥168॥
पुराणस्योपजीव्यश्च वेद एव न चापरः ।
तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥169॥
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ।
यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥170॥
यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने ।
दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ॥171॥
भ्रमेप्यभ्रमभागोस्ति तन्मात्रमुपजीव्य हि ।
बाधकज्ञानवृत्तिः स्यान्न चैवं सुपरीक्षिते ॥172॥
सर्वं तदुपजीव्य प्रमाणं वर्तते यतः ।
कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादलिक्षणम् ॥173॥
विहाय यस्मात् कस्माच्चित् स्वरूपस्यैव चेद्यदि ।
उपजीव्यत्वमेतस्मात् व्यावृत्तं यावता भवेत् ॥174॥
तावतैवोपजीव्यत्वं स्वरूपस्यैव न क्वचित् ।
सर्वलक्षणयुक्तं च स्वरूपं यदि भण्यते ॥175॥
अस्तु नो नैव हानिः स्यात् स्वपक्षश्चायमञ्जसा ।
यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ॥176॥
विशेषसामान्यतया स्वरूपमखिलं भवेत् ।
पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ॥177॥
व्यावर्तयन्ति तद्रूपं चैवमात्राद्विनैव हि ।
ब्रह्मणो निर्विशेषत्वात् व्यावर्तयति किं पुनः ॥178॥
यस्मात् कस्माच्चिदप्यर्थात्तावच्चेत् सिद्धसाधनम् ।
चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः ॥179॥
तावन्मात्रं यदीष्टं स्यात् सर्वज्ञत्वं कुतो न तत् ।
चिन्मात्राभेदसाध्येपि सिद्धं तत्प्रतिवादिनः ॥180॥
स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम् ।
सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि ॥181॥
इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम् ।
स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ॥182॥
स्वशब्दोपि परापेक्षस्तस्मात् व्यावृत्तिरेव हि ।
स्वशब्दार्थ इति प्रोक्तः स्वरूपं नाम किं न चेत् ॥183॥
रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः ।
न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वरवस्य यत् ॥184॥
चेतनस्य स्वभावो हि चैतन्यमिति गीयते ।
तस्माद् विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥185॥
न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् ।
ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र न च प्रमा ॥186॥
ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः ।
हीनं भोजनमेव स्यात् ताडनं कर्तृताड्यतः ॥187॥
नित्यत्वात् तादृशं च स्यादिति चेन्नित्यवागिति ।
वाक्यवक्तृविहीना स्यान्न हि सा चैव तादृशी ॥188॥
द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा ।
नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥189॥
न हि वक्तृविहीना च वाच्यहीनापि वाक् क्वचित् ।
ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद्भवेत् ॥190॥
न हि नित्योपि वक्तास्ति वाक्यवाच्यविवर्जितः ।
ज्ञानज्ञेयविहीनश्च ज्ञोप्येवं नैव विद्यते ॥191॥
किञ्च सर्ववलिपश्च केन मानेन गम्यते ।
सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते ॥192॥
तदभावे न सर्वस्य नापलापो भवेत् तदा ।
न गृह्यते चेत् तन्न्यायादपलापो न हि क्वचित् ॥193॥
उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ।
उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ॥194॥
श्रुत्यादौ पूर्वपूर्व च ब्रह्मतर्कविनिर्णयात् ।
प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ॥195॥
विरुध्यन्ते न चार्थोस्ति यत्र लिङ्गविरोधिता ।
स एवार्थः कथं ग्राह्य उपपन्नेविरोधिनी ॥196॥
मुख्यार्थे विद्यमाने तु क्व सार्वज्ञं निषिध्यते ।
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि ॥197॥
अपलापोपि सर्वस्य न कथञ्चन युज्यते ।
अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ॥198॥
मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ।
ज्ञानिनोपि यतो नित्यं कुर्वन्ति शुभमेव हि ॥199॥
तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ।
तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ॥200॥
कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ।
बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ॥201॥
न च स्वभाव एवायं भयपूर्वप्रवृत्तितः ।
कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥202॥
तादृशोपि स्वभावश्चेदज्ञस्यापि भवेत् तथा ।
फलवत्त्वे प्रमाणं चेत् तत्र ज्ञस्य समं हि तत् ॥203॥
निष्कामं ज्ञानपूर्वं च निवृत्तमिति चोच्यते ।
निवृत्ते सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥204॥
शुभेनानन्दवृद्धिः स्यात् ह्रासश्चैवाशुभेन हि ।
ज्ञानिनोपि यतस्तेन कर्तव्यं शुभमेव तैः ॥205॥
उपास्ते स य आत्मानं क्षीयते नास्य कर्म हि ।
अस्माद्ध्येवात्मनो यद्यत् कामयेत् सृजते च तत् ॥206॥
अविद्वान् बहुकर्मापि ह्यन्तवत् फलमाप्नुयात् ।
यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत् ॥207॥
इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् ।
न चात्रोपासकस्यैव फलमक्षयमुच्यते ॥208॥
न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ।
ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता ॥209॥
ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं न चान्यथा ।
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥210॥
प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि ॥211॥
ज्ञानात् पूर्वाणि कर्माणि शुभानि ज्ञानसिद्धये ।
अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये ॥212॥
योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।
ज्ञानबाहुल्यमेवैतत् कुर्यान्नान्यस्य कारणम् ॥213॥
ज्ञानस्य भक्तिभागत्वाद् भक्तिर्ज्ञानमितीर्यते ।
ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥214॥
परोक्षत्वापरोक्षत्वे विशेषो ज्ञानगौ यथा ।
स्नेहयोगोपि तद्वत् स्याद् विशेषो ज्ञानगोपरः ॥215॥
इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।
वदन्ति श्रुतयः सोयं विशेषोपि ह्युदीर्यते ॥216॥
भक्तिर्ज्ञानमिति क्वापि न हि द्वेषयुता दृशिः ।
पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥217॥
चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥218॥
मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् ।
नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ॥219॥
काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ।
द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ॥220॥
इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ।
असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः ॥221॥
मुक्तिशब्दोपि मोक्षं स्वभक्तानां करोति यत् ।
द्वेषतोपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ॥222॥
भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।
वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥223॥
यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः ।
स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् ॥224॥
द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ।
यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ॥225॥
प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ।
वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ॥226॥
बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ।
तमो द्वेषेण संयान्ति भक्त्या मुक्तिं तयैव च ॥227॥
विष्णौ विष्णुप्रसादेन वलिमत्वेन चाञ्जसा ।
इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥228॥
महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् ।
याति सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥229॥
वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः ।
सोर्थः कथं परित्यज्य एकशब्दस्य संशये ॥230॥
अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥231॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ॥232॥
ततो मुक्तिस्ततो भक्तिः सैव स्यात् सुखरूपिणी ।
भक्त्या प्रसन्नो भगवान् दद्यात् ज्ञानमनाकुलम् ॥233॥
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ।
नाहं वेदैर्न तपसा न दानेन न चेज्यया ॥234॥
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।
भक्त्या त्वनन्यया शक्य अहमेवविधोर्जुन ॥235॥
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।
इत्यादिवाक्यतश्चैव सोयमुक्तार्थ ईयते ॥236॥
न च प्रसादमाप्नोति द्वेषाद् भक्त्या तमाप्नुयात् ।
इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥237॥
ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् ।
त एव दृष्टवैलोम्यादङ्गीकार्या न चापरम् ॥238॥
अन्यद्दृष्टानुसारेण वासुदेवेपि गृह्यते ।
दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥239॥
अनुक्ता अपि च ग्राह्या महातात्पर्यशक्तितः ।
एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः ॥240॥
तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।
कर्तव्यैषापि तद्भक्तिर्लोकवेदानुसारतः ॥241॥
यो हि भक्तः प्रधाने स्यात् तदीयेष्वपि भक्तिमान् ।
दृश्यतेसौ नियमतो विपरीतो विपर्यये ॥242॥
व्यभिचारो यदि क्वापि भक्तिह्रासोत्र कल्प्यते ।
भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥243॥
तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।
विष्णुप्रसादानुसारात् कार्या दोषस्तदन्यथा ॥244॥
स्वप्रीत्यनुसृतौ प्रीतिर्लोकेप्यद्धैव दृश्यते ।
तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥245॥
लक्ष्मीविरिञ्चवाणीशगिरीजेन्द्रा गिरां पतिः ।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥246॥
तेषुः भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।
सर्वेपि गुरवश्चैते पुरुषस्य सदैव हि ॥247॥
तस्मात् पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।
इति षाड्गुण्यवचनादप्येषोर्थोवसीयते ॥248॥
हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।
हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥249॥
तत्पूजा विहितात्याग इति मुक्तेः क्रमेण हि ।
नियमात् साधनान्येव नित्यसाध्यानि चाखिलैः ॥250॥
इति प्रवृत्तवचनं साधनस्य विनिर्णये ।
प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः ॥251॥
हरिद्वेषो न शुभदः सद्द्वेषात्वाद्यथा गुरोः ।
क्रमाद् भक्तिः हरिप्रीतिकारणं तत्प्रियोपगा ॥252॥
भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ।
प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ॥253॥
प्रीतिदैव हरेर्यस्माद् भक्तिः सा स्वोपगा यथा ।
इति वा ज्ञानकर्मादिफलं चैषु क्रमोपगम् ॥254॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ॥