अनुव्याख्यानम्

change script to

न्यायसुधा

समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥
नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।
चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥
आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि ।
उपदेशोतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥
लिङ्गाल्लातव्यतः पूर्वमृजोबर्‌रह्मत्वतः शतात् ।
शुश्रावोग्रतपाः नाम योग्यो रुद्रपदस्य यः ॥4॥
सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7॥
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥8॥
ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादैधिताः सदा ॥9॥
इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते ।
आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥10॥
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ।
विष्णुर्नारायणोनन्त इति श्रीपतिरीर्यते ॥11॥
इति पैङ्गिश्रुतिश्चैव तथैव परमश्रुतिः ।
ओमात्मा भगवान् विष्णुरात्मानन्दोक्षरः स्वराट् ॥12॥
विश्वत्राता नृसिंहोजो नारायण उरुक्रमः ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ॥13॥
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ।
इति भागवते चैव तस्मादात्मा जनार्दनः ॥14॥
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ।
तथैवोपासते सन्तस्तथैवोपदिशन्ति च ॥15॥
आदानर्थत्वतस्छायमात्माशब्दः पतिं वदेत् ।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥16॥
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥17॥
इति सत्तत्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ॥18॥
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।
प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥19॥
प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनर्थदा ।
योन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ॥20॥
किं तेन न कृतं पापं चोरेणात्मापहारिणा ।
योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥21॥
किं तेन न कृतं पापं चोरेणात्मापहारिणा ।
योन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ॥22॥
किं तेन न कृतं पापं चोरेण ब्रह्महारिणा ।
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ॥23॥
चेतनाचेतनं वान्यत् ध्यायेद्यः केशवस्त्विति ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ॥24॥
योन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।
अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित् ॥25॥
योन्यद्विणुरिति ध्यायेत् विष्णुरन्यदिति स्म वा ।
अन्यथाध्यानदोषेण सोन्धे तमसि मज्जति ॥26॥
योन्यद्विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥27॥
यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥28॥
यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥29॥
यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥30॥
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥31॥
तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥32॥
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद्यस्मात् मिथ्याज्ञानमनर्थदम् ॥33॥
इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा ॥34॥
ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।
उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ॥35॥
आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्त्या निरन्तरम् ॥36॥
इति प्रकाशिकायां च वचनं विष्णुनेरितम् ।
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ॥37॥
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥38॥
यद्यात्मशब्दो जीवेपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ॥39॥
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ॥40॥
नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ।
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ॥41॥
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ।
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ॥42॥
भेददार्ढ्ये हेतुमाह तात्पर्यं स जगत्पतिः ।
व्यावहारिकभेदश्चेत् क्वासावव्याहारिकः ॥43॥
व्यावहारिकमित्येव वचनं व्यावहारिकम् ।
उत नेति विकल्पे तु यदि स्याद् व्यावहारिकम् ॥44॥
तस्यापि बाध्यता चेत् स्यात् भेदः स्यात् पारमार्थिकः ।
अव्यवहारिकत्वं चेद्भेदोयं सत्यतां गतः ॥45॥
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥46॥
असत्यं नोक्तमित्युक्तं सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्तेसत्यतामपि ॥47॥
न स्वप्नेपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥48॥
भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।
स्ववाचोसत्यता चेत् स्यात् तस्माद्भेदस्य सत्यता ॥49॥
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।
एतस्मादात्मशब्दोयं परमात्माभिधा भवेत् ॥50॥
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ।
प्रतीके विष्णुरित्यैव तस्मात् कार्या ह्युपासना ॥51॥
न च विष्णुः प्रतीकं यत् तस्मात् नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ॥52॥
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ।
यद्यप्युत्कर्षमात्रेण ह्यतद्भावेप्युपासना ॥53॥
उत्कर्ष आत्मनोपि स्याच्चेतनत्वादचेतनात् ।
तस्मादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥54॥
उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥55॥
अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् ।
नीचस्य स्वात्मताध्यानात् कुप्यति ब्रह्म लोकवत् ॥56॥
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ॥57॥
पुरतो नरदेवस्य चाण्डालो यदि पूज्यते ।
राजवत् किं न कोपः स्याद्राज्ञो लोकेभिपश्यति ॥58॥
राज्ञस्तु पुरतः प्रोक्ते चण्डाले नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्ध्येव कुप्यति ॥59॥
अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि ।
अयं राजा त्वमित्युक्ते चण्डालेथ नृपेपि च ॥60॥
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ।
ध्यातेप्येकस्य तद्भावे तद्भावोन्यस्य किं न तत् ॥61॥
न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ।
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ॥62॥
तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।
तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥63॥
करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् ।
करोति तद्द्विषश्चैवं पुण्यनाशोप्यसङ्गता ॥64॥
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्यते ।
पूर्वं स्वर्गादलिब्ध्यर्थं वीयवत्वेन चोदितम् ॥65॥
कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ।
ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ॥66॥
ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ।
ब्रह्मणां शतकालात् तु पूर्वमारब्धसङ्क्षयः ॥67॥
ब्रह्मणस्त्वेव तावत्वं पञ्चाशद्ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥68॥
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ॥69॥
इति सत्तत्ववचनं स्वयं भगवतेरितम् ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥
देवानां च मनुष्याणामेतावत्सममेव हि ॥1॥
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ।
कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥
फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः ।
स्रष्टृत्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥
देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः ।
स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ।
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥
कथं मार्गो भवेत् तेषां विशतामुत्तरं स्वतः ।
जातानां मानुषे लोके देवानां तु कदाचन ॥6॥
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ।
अन्येषामपि साक्षाततु मुक्तिः प्राप्यापि तं हरिम् ॥
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥
क्ष्माम्भोनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥8॥
एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥9॥
भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ॥10॥
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।
आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः ॥11 ॥
इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।
भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥12॥
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।
उच्यते देहगानां च वृत्तीनामेवमेव तु ॥13॥
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।
नाना वदन्ति पुंसां हि मतयो गुणभेदतः ॥14॥
पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः ।
रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ॥15॥
गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः ।
सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ॥16॥
बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः ।
महाशुद्धचितित्वेन ततोप्यतिमहाचितिः ॥17॥
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।
नित्यमेकप्रकारा च नारायणमतिः परा ॥18॥
सूर्यप्रभावदखिलं भासयन्ती निरन्तरा ।
निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥19॥
विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः ।
तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु केवलम् ॥20॥
न तादृशी ब्रह्मणस्तु एवं श्रियो यथा ।
मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥21॥
अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः ।
एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ॥22 ॥
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।
वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥23॥
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।
ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥24॥
पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः ।
नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥25॥
इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते ।
गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ॥26॥
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ।
अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ॥27॥
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ।
प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ॥28॥
उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् ।
अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥29॥
गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ।
आगमाननुसारित्वे प्रसङ्गोयं यतस्ततः ॥30॥
नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् ।
तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ॥31॥
लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।
सोपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ॥32॥
मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।
चकार सौगतमतं मोहायैव चकार यत् ॥33॥
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।
अतोसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥34॥
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।
अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥35॥
इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः ।
ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥36॥
न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा ।
एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥37॥
तत्संवृत्यैव भेदोयं चेतनाचेतनात्मकः ।
दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ॥38॥
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।
न सुखत्वं न दुःखत्वं न विशेषोपि कश्चन ॥39॥
निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् ।
शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥40॥
अशेषदोषरहितं मनोवाचामगोचरम् ।
मोक्ष इत्युच्यतेसद्भिर्नानासंवृतिदूषितम् ॥41॥
संसृत्यवस्था विज्ञेया संवृत्यैव विशिष्यते ।
स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥42॥
केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।
अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ॥43॥
यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति ।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥44॥
संवृत्त्या यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् ।
इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥45॥
बहुजीवमताश्चेति माया तेषां तु संवृतिः ।
निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा ॥46॥
सच्चित्यसुखादिकं चैव किं कुतोखण्डवादिनः ।
व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥47॥
अनृतादेरपोहं तु स्वयमेव हि मन्यते ।
निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥48॥
प्रामाण्यादि च वेदस्य फलतः सममेव हि ।
अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ॥49॥
अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् ।
दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ॥50॥
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।
स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥51॥
तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् ।
छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ॥52॥
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।
सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥53॥
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।
न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥54॥
मायिना शून्यपक्षेपि ज्ञानं जाड्यविरोधि च ।
धर्माः केपि न सन्त्येव को विशेषस्ततस्तयोः ॥55॥
एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् ।
स्वपक्षसाधनेनैव नाभाव इति चोक्तितः ॥56॥
आत्माभावे पुमर्थः क इष्टस्यात्मावधिर्यतः ।
यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥57॥
कल्पितत्वाद्विशेषाणां मायिनोपि समं हि तत् ।
दृश्यमाने विशेषेपि यदि चेदविशेषता ॥58॥
घटाभावोविशेषः स्यात् पाश्चात्यश्चेदनागतः ।
न मोक्षो विमतो यस्माददेहो घटशून्यता ॥59॥
यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः ।
न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ॥60॥
अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी ।
श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ॥61॥
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ।
निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ॥62॥
अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ।
दुःखं दुःखादभिन्नत्वान्मोक्षोपि स्यादसंशयम् ॥63॥
भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः ।
हेयं मायामतेनैव सह शून्यमतं बुधैः ॥64॥
एवं विज्ञानवादोपि ज्ञानमात्रविशेषतः ।
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥65॥
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ।
कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ॥66॥
एतयानुमया रोधान्न तादृङ्मोक्षरूपता ।
यदि कालोपि नेत्याह कदेति प्रश्न उत्तरम् ॥67॥
किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् ।
अवस्थात्वादिति ह्येव हेतुः सापि कदेति च ॥68॥
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।
न काल इति सामान्यनिषेधे कालगप्रमा ॥69॥
निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् ।
एकजीवत्वपक्षे तु कालाभावादियं प्रमा ॥70॥
कुपिता कालमाधाय द्वैतमेवोपपादयेत् ।
विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ॥71॥
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ।
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥72॥
निराकृतानि तेषां च समत्वात् पक्षदोषयोः ।
ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥73॥
बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ।
मोक्षो न शुद्धविज्ञानसन्तानौ कालगत्वतः ॥74॥
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ।
अनुमानानि सर्वाणि प्रतिसाधनयोगतः ॥75॥
निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः ।
साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च निःसुखम् ॥76॥
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ।
तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ॥77॥
महानन्दं च भोगं च नियमेन वदन्ति हि ।
प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥78॥
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ।
नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥79॥
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ।
हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ॥80॥
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ।
अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥81॥
असुरा नैवमेवं च नैवं चाखलिमानुषाः ।
इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥82॥
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।
धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ॥83॥
आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।
भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ॥84॥
इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ।
ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ॥85॥
इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।
धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ॥86॥
मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ।
आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥87॥
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ।
येनेदमखिलं वेद विज्ञातारं स्वमेव च ॥88॥
केन तं च विजानीयादित्यनिष्टं हि सर्वथा ।
नाखलिज्ञापको विष्णुरज्ञेयो नियमेन हि ॥89॥
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ।
प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ॥90॥
न स्वविज्ञानितायां च विरोधः कश्चनेष्यते ।
कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ॥91॥
कथमेव पदं गच्छेद्विरोधोदृष्टबाधनम् ।
सोश्नुते सर्वकामांश्च कामान्नी कामरूप्यथ ॥92॥
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ।
अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥93॥
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ।
अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः ॥94॥
शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ।
सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ॥95॥
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ।
तयोश्च दुःखहानाद्धि सुखनाशोधिको भवेत् ॥96॥
प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।
यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ॥97॥
अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः ।
महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥98॥
न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।
नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥99॥
युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते ।
यदेन्द्रवैरोचनयोबर्‌रह्मास्त्राभ्यां सुतापिताः ॥100 ॥
अपि नैवाजहुर्युद्धरसात् ते नारदादयः ।
इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ॥101॥
विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः ।
प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥102॥
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।
मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥103॥
सोनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥104॥
परमानन्दमाप्नोति यत्र कामोवसीयते ।
न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ॥105॥
न वेदसदृशं वाक्यं न वर्णोङ्कारसंमितः ।
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥106॥
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।
इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ॥107॥
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ।
शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥108॥
श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥109॥
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेसनुव्रता यत्र सुरासुरार्चिताः ॥110॥
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥111॥
प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥112॥
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः ।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥113॥
ऋचां त्वः पोषमास्ते पुपुष्मान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः ॥114॥
कामान्नरूपाचरतीतिपूर्वं श्रुत्या पुराणोक्तिभिरप्यदोषः ।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥115॥
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।
यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति ॥116॥
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् ।
स ब्रह्मणा सहितोशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥117॥
यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् ।
भुङ्क्ते स देवः पुरुषोत्तमोजः आत्मेति चोक्तो गुणपूर्तिहेतोः ॥118॥
सेतुः स देवोखलिमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् ।
इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेखिलान् मुक्तिगतोपि भोगान् ॥119॥
कालोप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥120॥
कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति ।
यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ॥121॥
न चैव मुक्तौ न हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति ।
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥122॥
इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण ।
विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥123॥
औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः ।
स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥124॥
व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।
विभक्तता चात्वरयैव सिद्धिर्विपक्षेसम्प्राप्तिविरुद्धहेतवः ॥125॥
सुशक्यता शश्वदतिप्रसिद्धिर्विवेकविन्यासविचारसञ्ज्ञाः ।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥126॥
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।
विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥127॥
व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च ।
समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥128॥
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः ।
कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥129॥
प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोपि युक्त्या ।
यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोपि ॥130॥
महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोपि ।
तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥131॥
इन्द्रदीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ।
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ॥132॥
तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ।
सोमस्तु वारीशयुतोनिरुद्धं विशत्यसौ काममसौ तु वारुणीम् ॥133॥
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ।
उमागिरीशाविति भारतीराविति स्म वाग्वेदता ब्रवीति ॥134॥
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ।
त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ॥135॥
ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैति ।
सूर्योग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ॥136॥
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ।
इन्द्रप्रवेशस्तु यदोच्यतेत्र तदा ह्युमेत्येव सुपर्णपत्नी ॥137॥
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ।
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ॥138॥
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्याथ गता महेन्द्रम् ।
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ॥139॥
सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ।
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोपि समेति काले ॥140॥
तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ।
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगाश्च तद्देहगताः प्रभुञ्जते ॥141॥
आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्टत एव निर्गताः ।
क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥142॥
सायुज्यहीनास्तु लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।
बहिश्च निर्यान्ति ततोन्यदापि सायुज्यभाजां भवति प्रवेशः ॥142॥
उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च सर्गक्रमतो विपर्ययः ।
मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवद्गिरां प्रभुः ॥143॥
लयो यतो मुक्तिरिति सुराणां भोगो विशेषेण च यं वदिष्यति ।
उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥144॥
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ।
तेजोभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ॥146॥
आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रलयेत्र तिष्ठति ।
सर्वेपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोपि ॥147॥
भुञ्जन्त एवासत ईशदेहे लयेथ सर्गे बहिरेव यान्ति ।
प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ॥148॥
सर्वेनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ॥
उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ॥1॥
सान्तनिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः ।
विशेषसमप्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ॥2॥
सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ।
उपासते ते पुरतः समाप्नुयुबर्‌रह्माणमस्मान्मतिमाप्य विष्णुम् ॥3॥
प्राप्स्यन्त्यतोन्येपि तमाप्य तस्मात् हरिं गता मुक्तिभाजः परान्ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ॥
अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ॥1॥
समस्तकार्यं वशिता च विश्वसमभावना युक्तयस्त्वन्यपक्षके ।
सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमतास्तदोषः ।
विशेषक्लृतिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥2॥
अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥3॥
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्त्वस्य पतित्ववाग्घरेः ।
एतेपि चान्याधिपतित्वयुक्ता विष्ण्वन्यचित्वेन यथा पुमांसः ॥4॥
प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्टसिद्ध्यै भवतीह निश्चयात् ।
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ॥5॥
अनेन देवेन तथामुना च हीष्टे परार्वाक्तनलोकिनामिति ।
फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ॥6॥
लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च ।
सर्वे बिलं देवगणा वहन्तीत्येतच्च नान्यस्य तु युक्तिमेति ॥7॥
लोका इतीहापि तु लोकितां वचो लोका इति ह्येव रवः प्रजासु ।
प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ॥8॥
तद्गास्तु मुक्ता इह लोकशब्दाः अन्योन्यनाया इति पैङ्गिनां श्रुतिः ।
अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ॥9॥
लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।
ब्रह्मैव होकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥10॥
न चेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बगे हरौ ।
उक्तं पृथक् तच्च पुरैव यस्मात् भेदोमुनेत्यादि च सम्यगुक्तः ॥11॥
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिलार्थः ।
भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥12॥
अतो जगद्य्वापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥13॥
नमो नमोशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।
भक्तानुकम्पादतिशुद्धसंविद्दात्रेनुपाधिप्रियसद्गुणात्मने ॥14॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥15॥
निःशेषदोषरहित कल्याणाखलिसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥16॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः ॥