ब्रह्मसूत्रभाष्यम्

change script to

नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥
द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्। चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च । तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।
तच्चोक्तं स्कान्दे –
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥
गौतमस्य ऋषेः शापार्ज्ज्ञाने त्वज्ञानतां गते ।
सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥
शरण्यं शरणं जग्मुर्नारायणमनामयम् ।
तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥
चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैव च सहस्रधा ॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ।
यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥
सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।
मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥
इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।
सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः ॥
शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।
एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥
ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।
ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ।’इत्यादि ।
ॐ ॐअथातो ब्रह्मजिज्ञासा ॐ ॥ 01-01 ॥
‘अथ’ शब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च । ‘अतः’ शब्दो हेत्वर्थः।
उक्तं च गारुडे –
अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि ।
प्रारभन्ते नियत्यैव तत् किमत्र नियामकम् ॥
कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः ।
एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥
एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः ।
आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥
अतशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरितः ।
परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥
स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः ।
सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥
ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् ।
तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥
अकारः सर्ववागात्मा परब्रह्माभिधायकः ।
तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥
अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः ।
अथातःशब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥
सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते’ इति॥
अधिकारश्चोक्तो भागवततन्त्रे –
मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः ।
तत्र मन्दा मनुष्येषु य उत्तमगणा मताः ॥
मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः ।
इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः ॥
भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः ।
अधमः शमादिसंयुक्तो मध्यमः समुदाहृतः ॥
आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।
विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ॥
स उत्तमोऽधिकारी स्यात् सन्न्यस्ताखिलकर्मवान् इति ।
‘अध्ययनमात्रवतः’ ,’नाविशेषात्’ इति चोपरि ।
‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्’।
“परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।।”
"यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । ”
“ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥”
इत्यादि श्रुतिभ्यश्च ॥
व्योमसंहितायां च –
अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः ।
स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥
एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे ।
त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥
आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।
यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपरा ॥ इति ॥
यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं विनाऽत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासाकर्तव्या ।
यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत् ॥
इति ब्रह्मसंहितायाम् ।
‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’ ॥
‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ ।
‘यमेवैष वृणुते तेन लभ्यः’ ।
‘आत्मावाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’
इत्यादिश्रुतिस्मृतिभ्यः ।
‘कर्मणात्वधमः प्रोक्तः प्रसादः श्रवणादिभिः ।
मध्यमो ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥
प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः ।
मध्यमाज्जनलोकादिरुत्तमस्त्वेव मुक्तिधः ॥
श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च ।
साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥
न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन’।
इति नारदीये ।
ब्रह्मशब्दश्च विष्ण्वावेव –
‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः ।
यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्’ – इत्युक्त्वा’ ‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति हि शृतिः ॥
‘तन्नो विष्णुः’ इति वचनाद्विष्णुरेव हि तत्रोच्यते ॥
न चेतरशब्दात् तत्प्राप्तिः –
‘नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ – इति भाल्लवेयश्रुतिः ॥
‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’
इत्येवशब्दान्नान्येषां सर्वनामता ।
‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’ इति विष्णोर्हि लिङ्गम् ।
न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते ॥
‘अजस्य नाभाविति यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् ।
तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे’ इति स्कान्दे ।
‘परो दिवा पर एना पृथिव्या’ इति समाख्याश्रुतौ ॥
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इत्युक्त्वा ‘मम योनिरप्स्वन्तः समुद्रे’ इत्याह ।
उग्रो रुद्रः । समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात् सूचितत्वाच्चास्यार्थस्य । न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तान्यायेन च श्रुतय एतमेव वदन्ति ।
‘वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते’ इति हरिवंशेषु ॥
न चेतरग्रन्थविरोधः .
‘एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु’ इति वाराह वचनात् ॥
शैव च स्कान्दे –
‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मखः’ इति ॥
ब्राह्मे च ब्रह्मवैवर्ते –
‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ।
बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः’ इति ॥
न च वैष्णवेषु तथा । तच्च ‘एष मोहम्’ इत्युक्तम् ॥
॥ इति जिज्ञासाधिकरणम् ॥
ॐ जन्माद्यस्य यतः ॐ ॥ 02-02 ॥
सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यतः ।
‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट्’ इति स्कान्दे ।
‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’ इति ।
‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।
‘चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तिं व्यतीरँ वीविपत् ।
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’।
‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’ इत्यादि च ॥02॥
॥ इति जन्माधिकरणम् ॥
अनुमानतोऽन्ये न कल्पनीयाः –
ॐ शास्त्रयोनित्वात् ॐ ॥ 03-03 ॥
‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’ ॥
‘औपनिषदः पुरुषः’ इत्यादिश्रुतिभ्यः ॥
न चानुमानस्य नियतप्रामाण्यम् ॥
‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् ।
निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च ॥
श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।
प्रमाणपदवीं गच्छेन्नात्र कार्याविचारणा ॥
पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।
इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत्’ इत्यादि कौर्मे॥
शक्यत्वाच्चानुमानानां सर्वत्र ।
‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।
तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’ इति वाराहे ।
‘रेतो धातुर्वटकणिका घृतधूमाधिवासनम् ।
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥’
-इति मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते ।
दर्शनाच्च तप आधिफलस्य ॥
‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम्।
मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥
यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्’॥इति स्कान्दे ॥
‘साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च’।
इत्यारभ्य, वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरात्रस्यैव प्रामाण्यमुक्तम्, इतरेषां भिन्नमतत्वं प्रदर्श्य मोक्षधर्मेष्वपि । शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनि ॥ 03 ॥
॥ इति शास्त्रयोनित्वाधिकरणम् ॥ 03 ॥
अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् , कुतः ? ।
ॐ तत्तु समन्वयात् ॐ ॥ 04-04 ॥
अन्वय उपपत्यादि लिङ्गम् ।
उक्तं च बृहत्संहितायाम् –
‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इति ॥
‘उपक्रमादितात्पर्यलिङ्गैः सम्यङ् निरूप्यमाणे तदेव शास्त्रगम्यम् ।
‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’ इति भागवते ॥ 04 ॥
॥ इति समन्वयाधिकरणम् ॥ 04 ॥
ननु’यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’,
‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ ॥
‘अवचनेनैव प्रोवाच’,
‘यद्वाचाऽनभ्युदितम् । येन वागभ्युद्यते ॥ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्’
इत्यादिभिर्न तच्छब्दगोचरम् । नेत्याह –
ॐ ईक्षतेर्नाशब्दम् ॐ ॥ 05-05 ॥
‘स एतस्माज्चीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’,
‘आत्मन्येवात्मनं पश्येत्’ ‘विज्ञाय प्रज्ञां कुर्वीत’
इत्यादिवचनैरीक्षणीयत्वाद्वाच्यमेव । औपनिषदत्वान्नावचनेनेक्षणम् ॥
‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ ॥
‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्’
इत्यादिशृतिस्मृतिभ्यश्च ॥
अवाच्यत्वादिकं त्वप्रसिद्धत्वात् ॥
‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः’ इतिवत् ॥
अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम्’ इति गारुडे ॥
न चाशब्दत्वमितरसिद्धम् ॥05॥
ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ 06-06 ॥
न च गौण आत्मा दृश्यो वाच्यश्च न निर्गुण इति युक्तम् । आत्मशब्दात्॥
‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः ।
हेयोपादेयरहितः स आत्मेत्यभिधीयते ॥
एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ॥
अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते’ इति वामने ॥
‘द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च । तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च । अथ ह योऽनीदृशः सोऽनात्मा’ इति तलवकारब्राह्मणम् ।
न च मुख्ये सत्यमुख्यं युज्यते ॥ 06 ॥
ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ 07-07 ॥
न हि गौणात्मनिष्ठस्य मोक्षः ।
‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्दोहे गहने प्रविष्टः ।
स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’
इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते ।
‘अयमात्मा ब्रह्म’॥
‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’।
‘दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान्’॥
‘चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो ।
जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥
इतरेष्वात्मशब्दस्तु सोपचारोऽभिधीयते ॥
तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततः स्मृतः’ इति पाद्मे ॥ 07 ॥
ॐ हेयत्वावचनाच्च ॐ ॥ 08-08 ॥
‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’
इत्यन्येषां हेयत्ववचनादस्याहेयत्ववचनान्न गौण आत्मा ॥ 08 ॥
ॐ स्वाप्ययात् ॐ ॥ 09-09 ॥
‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’॥
‘स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयत्यथात्मैव भवति’।
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः।
एकीभूय पुनः शेते निर्दोषो हरिरादिकृत्’
इति स्वस्यैव स्वस्मिन्नप्ययवचनात् ।
न हि गौणात्मनि निर्दोषस्य लयः ॥ 09 ॥
न च कासुचिच्छाखास्वन्यथोच्यते ।
ॐ गतिसामान्यात् ॐ ॥ 10-10 ॥
‘सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव ।
प्रकाशयन्ते न विरोधः कुतश्चिद्वेदेषु सर्वेषु तथेतिहासे’
इति पैङ्गिश्रुतेर्गतेर्ज्ञानस्य साम्यमेव ॥ 10 ॥
ॐ श्रुतत्वाच्च ॐ ॥ 11-11 ॥
‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूतादिवासः साक्षी चेता केवलो निर्गुणश्च’ इति ॥
न ह्यशब्दः श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ 11 ॥
॥ इति ईक्षत्यधिकरणम् ॥
‘तमेव समन्वयं प्रकटयत्यानन्दमयोऽभ्यासादित्यादिना समस्तेनाध्यायेन प्रायेण ।
प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्वयः प्रदर्श्यतेऽस्मिन् पादे । नान्यथा तददृष्टेः ।
ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । तच्च ब्रह्म ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यानन्दमयावयवरूपं प्रतीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयतेत्यत आह –
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ 12-12 ॥
आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा । ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिः शतानन्दनाम्ना च । अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्च रुद्रस्य । एनमन्येषामपि।’मम योनिर्महद्ब्रह्म’ इति ब्रह्मशब्दाद्बहुभावाच्च प्रकृतेः । ‘बृह जातिजीवकमलासनशब्दराशिषु’ इति ब्रह्मशब्दादेव सर्वजीवानाम्।अन्नमयत्वादेश्च ।
तथाऽपि न त आनन्दमयशब्देनोच्यन्ते । किन्तु विष्णुरेव ।
’तदेव ब्रह्म परमं कवीनाम्’
‘एतमेव ब्रह्मेत्याचक्षते’
‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।
असम्पूर्णाः परे यस्मादुपचारेण वा भवेत्’ ॥
‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’।
‘वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः’॥
इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् ॥ 12 ॥
ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ॥ 13-13 ॥
विकारात्मकत्वात्तदभिमानित्वाच्च युज्यते प्रकृत्यादीनां मयट् शब्दः न तु परमात्मन इति मा भूत् । प्रचुरानन्दत्वाद्द्यानन्दमयः । न तु तद्विकारत्वात् । अन्नादीनां च प्राचुर्यमेव ॥ ‘अद्यतेऽत्ति च’ इति व्याखानात् तत्प्राचुर्यं च युज्यते ॥
उपजीव्यत्वमेवाद्यत्वम् ॥ ‘स वा एषः’ इत्यन्यप्रारम्भात् ॥ ‘योऽन्नं ब्रह्मोपासते’ इत्यादिब्रह्मशब्दाद्बहुरूपत्त्वाच्च न विकारित्वमविरोधश्च । न च पृथक्कल्पना युक्ता । स्वरूपे च युज्यते प्रचुरप्रकाशो रविरितिवत् ॥13॥
ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ 14-14 ॥
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ इति ॥14॥
ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ 15-15 ॥
‘ब्रह्मविदाप्नोति परम्’ इति सूचयित्वा‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति मन्त्रवर्णलक्षितं परमेव ब्रह्मशब्दानुसन्धानाद्गीयते । न चावयवत्वविरोधः ॥
‘स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छम्’
इति तस्यैवावयवत्वोक्तेश्चतुर्वेदशिखायाम्
शिरो नारायणः पक्षो दक्षिणः सव्य एव च ।
प्रद्युम्नश्चानिरुद्धश्च सन्दोहो वासुदेवकः ॥
नारायणोऽथ सन्दोहो वासुदेवः शिरोऽपि वा ।
पुच्छं सङ्कर्षणः प्रोक्त एक एव तु पञ्चधा ॥
अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ।
ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने ॥
अतर्क्ये हि कुतस्तर्कस्त्वप्रमेये कुतः प्रमा’ –इति बृहत्संहितायाम् ॥
रसशब्देन विशेषणात् तत्सारभूतं चिन्मात्रमेवोच्यते । इदमिति च दृश्यमानसन्निहितत्वात् ।
‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।
प्रोच्यते भगवान् विष्णुरैश्वर्यात् पुरुषोत्तमः’॥ इति ब्रह्माण्डे ।
न चोक्तप्राप्त्या विरिञ्चादिरुच्यते ॥ 15 ॥
ॐ नेतरोऽनुपपत्तेः ॐ ॥ 16-16 ॥
न ह्यन्यज्ञानान्मोक्ष उपपद्यते । ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’ इति ह्युक्तम् ॥16॥
ॐ भेदव्यपदेशाच्च ॐ ॥ 17-17 ॥
‘ते ये शतं प्रजापतेरानन्दाः’
‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते’
‘अथ सोऽभयं गतो भवति’ ।
‘स यश्चायं पुरुषे’ इत्यादिभेदव्यपदेशात् ।
न च’तत्त्वमसि’’अहं ब्रह्मास्मि’ इत्यादिश्रुतिविरोधः ॥ ‘नामानि सर्वाणि यमाविशन्ति’ इति तत्तच्छब्दवाच्यत्वोक्तेः ॥
‘इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः’,
‘असर्वः सर्व इत्यपि’,
’विद्याऽऽत्मनि भिदाभोधः’,
‘भेददृष्ट्वाऽभिमानेन निस्सङ्गेनापि कर्मणा’ ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।
‘असर्वः सर्व इवात्मैव सन्ननात्मेव प्रत्यङ् पराङ् वैक ईयते बहुधेयते’ स पुरुषः स ईश्वरः स ब्रह्म’ ।
‘सर्वान्तर्यामको विष्णुः सर्वनाम्नाऽभिधीयते ।
एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः’ ॥
‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह’ इत्यादेश्च’ ।
उक्ता च प्राप्तिः ।’ब्रह्मैव सन्’ इत्यपि जीव एव ब्रह्मशब्दः ।
उपपद्यते च विरोधे । प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं च युज्यते ।
‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’ इति हि भागवते ॥17॥
न च तत्तदनुमानविरोधः ।
ॐ कामाच्च नानुमानापेक्षा ॐ ॥ 18-18 ॥
यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथगनुमानमपेक्ष्यते । उक्तं च स्कान्दे –
‘यथाकामाऽनुमा यस्मात् तस्मात् साऽनपगा श्रुतेः ।
पूर्वापराविरोधाय चेष्यते नान्यथा क्वचित्’ इति ॥
‘नैषा तर्केण मतिरापनेया’ इति च ॥ 18 ॥
ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ 19-19 ॥
अस्य जीवस्य । युक्तिसमुच्चये चशब्दः ।
‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ ,
‘अनिलयनेऽभयं प्रतिष्ठां विन्दते’ ,
‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादि ॥19॥
॥इति आनन्दमयाधिकरणम्॥ 06 ॥
‘अदृश्येऽनात्म्ये’ इत्युक्तम् । तच्चादृष्यत्वम्,
‘अन्तः प्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्ततम् । सहैव सन्तं न विजानन्ति देवाः’ इत्यन्तःस्थस्य कस्यचिदुच्यते ।
स च’इन्द्रो राजा’’सप्तयुञ्जन्ति’ इत्यादिभिरन्यः प्रतीयते । तस्मात् स एवानन्दमय इति न मन्तव्यम् ।
ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ 20-20 ॥
अन्तः श्रूयमाणो विष्णुरेव ।
‘अन्तः स्समुद्रे मनसा चरन्तम् । ब्रह्मान्वनिन्दद्दशहोतारमर्णे’ ।
‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’
यस्याण्डकोशं शुष्ममाहुः’ इत्यादि तद्धर्मोपदेशात् ।
स हि क्षीरसमुद्रशायी । तस्य च वीर्यमण्डकोशः ।
‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’ इति व्यासस्मृतेः ।
‘अहं तत्तेजो रश्मीन्नारायणम् पुरुषं जातमग्रतः । ‘पुरुषात् प्रकृतिर्जगदण्डम्’ इति चतुर्वेदशिखायाम् ॥ 20 ॥
ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ 21-21 ॥
‘इन्द्रस्यात्मानिहितः पञ्च होता’ ,
‘वायोरात्मानं कवयो निचिक्युः’,
‘‘अन्तरादित्ये मनसा चरन्तम्, देवानां हृदयं ब्रह्मान्वविन्दत्’ इत्यादिभेदव्यपदेशात् ॥ 21 ॥
॥इति अन्तःस्तत्थ्वाधिकरणम् ॥ 07 ॥
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् इति’ इत्याकाशस्यानन्दमयत्वे हेतुरुक्तः, न तु विष्णोरिति न मन्तव्यम् । यतः –
ॐ आकाशस्तल्लिङ्गात् ॐ ॥ 22-22 ॥
‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’ इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु विष्णुरेव ।
‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ इत्यादि तल्लिङ्गात् ।
‘विष्णोर्नु कं वीर्याणि प्रोवोचं यः पार्थिवानि विममे रजांसि,
परो मात्रया तन्वा वृधान’ इत्यादिना तस्यैव हि तल्लिङ्गम् ।
‘अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।
प्रोच्यते विष्णुरेवैकः परेषामुपचारतः’ इति ब्राह्मे ।
‘नामानि सर्वाणि यमाविशन्ति’ इति चोक्तम् ॥ 22 ॥
॥ इति आकाशाधिकरणम् ॥
ॐ अत एव प्राणः ॐ ॥ 23-23 ॥
‘तद्वैत्वं प्राणो अभवः महान् भोगः प्रजापतेः ।
भुजः करिष्यमाणः यद्देवान् प्राणयो न वा ॥
इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् । स च प्राणः प्रसिद्धेर्वायुरित्यापतति । न चैवं यतो विष्णुरेव प्राणः ।
अत एव ‘श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे’ इत्यादि तल्लिङ्गादेव ॥ 23 ॥
॥ इति प्राणाधिकरणम् ॥ 9 ॥
‘यो वेद निहितम् गुहायाम्’ इत्युक्तम् । तच्च गुहानिहितम् –
‘वि मे कर्णा पतयतो विचक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।
विमे मनश्चरति दूर आधीः किंस्विद्वक्ष्यामि किमु नो मनिष्ये’
इति ज्योतिरुक्तम् ।
तच्च ज्योतिरग्निसूक्तत्वात् प्रसिद्धेश्चाग्निरेवेति प्राप्तम् । अत आह –
ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ 24-24 ॥
विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् । स हि ‘परो मात्रया तन्वावृधान’ इत्यादिना कर्णादिविदूरः ॥ 24 ॥
॥ इति ज्योतिरधिकरणम् ॥ 10 ॥
ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ॐ॥ 25-25 ॥
‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इत्युक्तस्य ज्योतिषो’गायत्री वा इदं सर्वम्’ इति गायत्र्या समारम्भः कृतः । तस्मान्न विष्णुरिति चेन्न ।
तथा चेताऽर्पणार्थं हि निगद्यते अग्नि गायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यते ।
तथा हि दर्शनं’गायति त्रायति च’ इत्यादि ।
‘सर्वच्छन्दोऽभिधो ह्येषः सर्वदेवाभिधो ह्यसौ ।
सर्वलोकाभिधोह्येषः तेषां तदुपचारतः’ इति वामने ॥ 25 ॥
ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ 26-26 ॥
‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इति ।
‘सुवर्णं कोशं रजसा परीवृतम् देवानां वसुधानीं विराजम् । अमृतस्य पूर्णां तामु कलां विचक्षते पादं षड्ढोतुर्न किलाविवित्स’ इति श्रुतेः । पाद इति एकदेशपरिमितं चतुर्भागबल इतिवद्भिन्नं च शब्दात् । स हि पुरुषसूक्ताभिधेयः’यज्ञेन यज्ञमयजन्त’ इति यज्ञशब्दात् ।
‘यज्ञो विष्णुर्देवता’ इति हि श्रुतिः ।
तस्मिन् काले महाराज राम एवाभिधीयते ।
यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते’।
इति च स्कान्दे ॥ 26 ॥
ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ 27-27॥
त्रिपादस्यामृतं दिवि इति पूर्वोपदेशः ।
‘परो दिवः’ इति पञ्चम्यन्तः पश्चिमः । तस्मान्नैकं वस्त्वत्रोच्यत इति चेन्न ।
त्रिसप्तलोकापेक्षयोभयस्मिन्नप्यविरोधात् ॥ 27 ॥
॥इति गायत्र्यधिकरणम् ॥ 11 ॥
‘प्राणो विष्णुरित्युक्तम् । तत्र ‘ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुश्र्योत्रं मनो वाक्प्राणः’ इत्यत्र प्राणस्य विष्णुत्वं न विद्यते । इन्द्रियैः सहाभिधानादिति । अत आह-
ॐ प्राणस्तथाऽनुगमात् ॐ ॥ 28-28 ॥
‘तं देवाः प्राणयन्त’ ‘स एषोऽसुः स एष प्राणः’ ‘प्राण ऋच इत्येव विद्यात्’ ,’तदयं प्राणोऽधिष्ठति’ इत्याद्यनुगमात्, अत्रापि प्राणो विष्णुरेव ।
‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
स एव सर्ववेदोक्तस्तद्रथो देह उच्यते’ इति स्कान्दे । ब्रह्मशब्दानुगमाच्च ॥ 28 ॥
ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्भन्धभूमा ह्यस्मिन् ॐ ॥ 29-29 ॥
‘प्राणो वा अहमस्मृषे’ इति वक्तरात्मोपदेशादिन्द्र एवेति चेन्न,’प्राणस्त्वं प्राणः सर्वाणि भूतानि’ इति बह्वध्यात्मसम्भन्धो ह्यत्र विद्यते ॥ 29 ॥
ॐ शास्त्रदृष्ट्यातूपदेशो वामदेववत् ॐ ॥ 30-30 ॥
शास्त्रमन्तर्यामि ।‘संविच्छास्त्रं परं पदम्’ इति हि भागवते ।
‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।
न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम्’इति पाद्मे ।
‘अहं मनुरभवं सूर्यश्च’ इत्यादिवत् ॥ 30 ॥
ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ ॥ 31-31 ॥
तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति’ इति जीवलिङ्गम् । प्राणसंवादादि मुख्यप्राणलिङ्गम् । तस्मान्नेति चेन्न । अन्तर्बहिः सर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रितत्वाच्च ।
‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’
‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः’ इत्यादिना ।
‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्’ इति ब्रह्माण्डे ।
तत्तदुपासनायोग्यतया च पुरुषाणाम् ।
‘केषाञ्चित् सर्वगत्वेन केषाञ्चिद्धृदये हरिः ।
केषाञ्चिद्बहिरेवासावुपास्यः पुरुषोत्तमः’ इति ब्राह्मे ॥
‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितत्मानाम्’ इति च ॥ 31 ॥
॥ इति पादान्त्यप्राणाधिकरणम् ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥01-01 ॥
लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन् पादे प्राधान्येन ।’ब्रह्म ततमम्’इति सर्वगतत्वमुक्तं विष्णोः । तच्च’तस्यैतस्यासावादित्यो रसः’ इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत् ।
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ 01-32 ॥
‘स यश्चायमशरीरः प्रज्ञात्मा’इत्यादिना सर्वत्रोच्यमानो नारायण एव ।
‘तदेव ब्रह्म परमं कवीनाम्’
‘परमं यो महद्ब्रह्म’ ।
‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् ।
स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’ ॥
इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ 01 ॥
ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ 02-33 ॥
‘स योऽतोऽश्रुतः’ इत्यादि ।
स हि ‘न ते विष्णो जायमानः’ इत्यादिनाऽश्रुतत्वादिगुणकः ।
‘स सविता स वायुः स इन्द्रः, सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्तः’ इत्यादि चतुर्वेदशिखायाम् ॥02॥
न चादित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्यम् ।
ॐ अनुपपत्तेस्तुन शारीरः ॐ ॥ 03-34 ॥
एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥ 03 ॥
ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ 04-35 ॥
‘आत्मानां परस्मैशंसति’ इत्यादि ॥04॥
ॐ शब्दविशेषात् ॐ ॥ 05-36 ॥
‘एतमेव ब्रह्मेत्याचक्षते’ इति । न हि जीवमेव ब्रह्मेत्याचक्षते ।
‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्दः’ इति चेन्द्रद्युम्नशाखायाम् ॥ 05 ॥
ॐ स्मृतेश्च ॐ ॥ 06-37 ॥
‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’
‘गामाविश्य च भूतानि धारयाम्यहमोजसा’ इत्यादि ।
न चा प्रामाणिकं कल्प्यम् ॥ 06 ॥
ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥07-38 ॥
सर्वेषु भूतेष्वित्यल्पौकस्त्वाच्चक्षुर्मयत्वादिना जीवव्यपदेशाच्च नेति चेन्न । अर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण च तस्यैव विष्णोर्निचाय्यत्वात् । सर्वगतत्वेऽप्यल्पौकस्त्वं च युज्यते व्योमवत् ।
‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः ।
सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः’ इति स्कान्दे ॥ 07 ॥
ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ 08-39 ॥
जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिरिति चेन्न ।सामर्थ्य वैशेष्यात् ।
उक्तं च गारुडे –
‘सर्वज्ञाल्पज्ञताभेदात् सर्वशक्त्यल्पशक्तितः ।
स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ इति च ॥08॥
॥ इति सर्वगतत्वाधिकरणम् ॥ 01 ॥
‘जन्माद्यस्य यतः’ इत्युक्तम् । तत्रात्तृत्वं,
‘स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वां वा अत्तीति तददितेरदितित्वम्’ इत्यदितेः प्रतीयते ।
‘स यद्यदेवासृजत’ इति पुल्लिङ्गम् च ‘कूटस्थोऽक्षर उच्यते’इत्यादिवत् । अत्रोच्यते –
ॐ अत्ताचराचरग्रहणात् ॐ ॥ 09-40 ॥
न हि चराचरस्य सर्वस्यात्तृत्वमदितेः ।
‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु ।
वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा’इति स्कान्दे ।
‘एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’ इति श्रुतिः ॥ 09 ॥
ॐ प्रकरणाच्च ॐ ॥ 10-41 ॥
अप्संवत्सरसृष्ट्यादिना तत्प्रकरणाच्च ।
‘नेहासीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा ।
सो त्मनो मनसाऽस्राक्षीदप एव जनार्दनः ॥
शयानस्तासु भगवान्निर्ममेऽण्डं महत्तरम् ।
तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥
तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ।
थं तं कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ।
सोऽसृजद्भुवनं सर्वमद्यार्थ्यं हरये विभुः ॥
इति ब्रह्मवैवर्ते ॥ 10 ॥
॥ इति अत्तृत्वाधिकरणम् ॥ 02 ॥
सर्वात्रैकः परः उक्तः ।
‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः’ । इति पिबन्तौ प्रतीयेते । तौ काविति । उच्यते ।
ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ 11-42 ॥
गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव ।
‘घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम’ इत्यादिना तद्दर्शनात् ।
‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः ।
निविष्टो हृदयेनित्यं रसं पिबति कर्मजम्’॥
इति बृहत्संहितायाम् ।
‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् ।
पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्’॥
इति पाद्मे ॥
‘यो वेद निहितं गुहायाम्’ इत्यादिना प्रसिद्धं हिशब्देन दर्शयति ॥ 11 ॥
ॐ विशेषणाच्च ॐ ॥ 12-43 ॥
‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’ इति ।
‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः ।
यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् ।
अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्’ ॥ इति पाद्मे ।
न च जीवे समन्वयोऽभिधीयते ।
‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ इति भाल्लवेयश्रुतिः ।
‘आत्मा हि परमः स्वतन्त्रोऽधिगुणो ऽऽल्पशक्तिरस्वातन्त्रोऽवरः’ इति च भाल्लवेयश्रुतिः ।
‘यथेश्वरस्य जीवस्य भेदः सत्यो विनिश्चयात् ।
एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि’ ॥
‘यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् ।
तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥’
इत्यदेर्नासत्यो भेदः ॥ 12 ॥
॥ इति गुहाधिकरणम् ॥ 03 ॥
आदित्ये विष्णुरित्युक्तम् ।
‘य एष आदित्ये पुरुषः सोऽहमस्मि स एवाहमस्मि’
इत्यादावग्नीनामेवादित्यस्थत्वमुच्यते । अतोऽक्ष्यादित्ययोरैक्याद्
‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ इत्यत्राप्यग्निरेवोच्यते । अतः
‘तद्यथा पुष्करफलाश आपो न श्लिष्यन्त एवमेवंविधि पापं कर्म न श्लिष्यते’ इत्यग्निज्ञानादेव सर्वपापश्लेषान्मोक्षोपपत्तिरिति । अतो ब्रवीति –
ॐ अन्तर उपपत्तेः ॐ ॥ 13-44 ॥
चक्षुरन्तस्थो विष्णुरेव।‘त्रिपादस्यामृतं दिवि’इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः।ब्रह्मशब्दाद्युपपत्तेश्च ।
‘सोऽहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया ।
‘अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि ।
सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’ इति महाकौर्मे ॥ 13 ॥
ॐ स्थानादिव्यपदेशाच्च ॐ ॥ 14-45 ॥
‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ इत्यादिस्थानशक्तिः वामनिर्भामनिरित्याद्यात्मशक्तिश्चोच्यते ।
तस्य ह्येत्यल्लिङ्गम् ।‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’ इति चतुर्वेदशिखायाम् ।
‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः ।
स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत्’ इति वामने ॥ 14 ॥
ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ 15-46 ॥
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति,‘विज्ञानमानन्दं ब्रह्म’
‘आनन्दो ब्रह्मेति व्यजानात्’ इत्यादेस्तस्यैव हि लक्षणम् ।
‘लक्षणं परमानन्दो विष्णोरेव न संशयः ।
अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’ इति ब्रह्मवैवर्ते ॥
न च मुख्ये सत्यमुख्यं युज्यते ॥ 15 ॥
ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ 16-47 ॥
‘स एनान् ब्रह्म गमयति’ इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ॥16॥
ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ 17-48 ॥
जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात् । अनीश्वरापेक्षत्वाच्च ॥ 17 ॥
॥ इत्यन्तराधिकरणम् ॥
‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’ इत्याद्यन्तर्याम्युच्यते ।
तत्र च ‘एतदमृतम्’ इत्युक्तममृतत्वमुच्यते । स च ‘यस्य पृथिवी शरीरम्’ इत्यादिना सर्वात्मकत्वात् प्रकृतिस्तत्तज्जीवो वा युक्तः ।
न हि विष्णोः पृथिव्यादिशरीरत्वमङ्गीक्रियत इत्यत आह –
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ 18-49 ॥
‘यं पृथिवी न वेद’ ‘यः पृथिव्या अन्तरः’, इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशाद्विष्णुरेवान्तर्यामी ।
स हि ‘न ते विष्णो चायमानो न जातः’
‘स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः सर्वेषां भूतामन्तरपुरुष’ इत्यादिनाऽविदितोऽन्तरश्च ॥ 18 ॥
ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ ॥ 19-50 ॥
त्रिगुणत्वादिप्रधानधर्मानुक्तेर्न स्मृत्युक्तं प्रधानमन्तर्यामि ॥19॥
ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ 20-51 ॥
‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा
शरीरं य आत्मानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’
‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं’
इत्युभयेऽपि हि शाखिनो भेदेनैनं जीवमधीयते ।
‘शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् ।
रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत्’ ॥
इति वचनान्न शरीरत्वविरोधः ॥20॥
॥ इत्यन्तर्याम्यधिकरणम् ॥ 05 ॥
अदृश्यत्वादिगुणा विष्णोरुक्ताः । तत्र –
‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तद् पाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’इत्युक्त्वा,
‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।
यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’ इत्युक्त्वा तस्माच्च ‘अक्षरात्परतः परः’ इति परः प्रतीयत इत्यतोऽब्रवीत्-
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ 21-52 ॥
पृथिव्यादि दृष्टान्तमुक्त्वा‘अक्षरात् सम्भवतीह विश्वम्’ इत्यतः परं तत्परतः पराभिधानात्,‘कूटस्थोऽक्षर उच्यते’ इति स्मृतेश्च प्रकृतेः प्राप्तिः ।
ब्रह्मशब्दात् तत्परतः पराभिध्यानादेव च हिरण्यगर्भस्य ।
‘तमेवं विद्वानमृत इह भवति’ ।
‘तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया’
‘अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च’। तत्र यो वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा ।
अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा’इत्यादिना तद्धर्मत्वेनावगतपरविद्या¬विषयत्वोक्तेर्विष्णुरेवादृश्यत्वादि गुणकः ॥ 21 ॥
ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ 22-53 ॥
‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप’ इति विशेषणान्न प्रकृतिः ।’ तस्मातेतत्ब्रह्म नाम रूपमन्नं च जायते’ इति भेदव्यपदेशान्न विरिञ्चः ।
‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥
तामक्षरं परं प्राहुः परतः परमक्षरम् ।
हरिमैवाखिलगुणमक्षरत्रयमीरितम्’॥
इति स्कान्दे त्र्यक्षराभिधानात्’ अक्षरात् परतः परः’ इत्यपि विशेषणमेव ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’
इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्रः ॥ 22 ॥
ॐ रूपोपन्यासाच्च ॐ ॥ 23 ॥
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इति
“एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वासमचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः” इति ।
तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्यचीक्लृपत् । विमिश्राणि व्यमिश्रयत् । अत एतादृगेतद्रूपमिति तस्यैव हि रूपाण्यभिधीयन्ते ॥ 32 ॥
॥ इति अदृश्यत्वाधिकरणम् ॥
अदृश्यत्वादिगुणेषु सर्वगतत्वं
‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति वैश्वानरस्योक्तमित्यत आह –
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ 24-55॥
अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्म शब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ 24 ॥
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥25-56॥
‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’
इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम् । समाख्यानात् । इतिशब्दः समाख्याप्रदर्शकः ॥ 25 ॥
ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ॐ ॥ 26-57 ॥
‘अयमग्निर्वैश्वानरः’‘वैश्वानरमृत आजातमग्निम्’ इत्यादिशब्दः ।
‘वैश्वानरे तद्दुतं भवति’ ‘हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ इत्याद्यग्निलिङ्गमादिशब्दोक्तम्।
‘येनेदमन्नं पच्यते’’तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ इत्यादिना पाचकत्वेनान्तः प्रतिष्ठानं च प्रतीयते । तस्मान्न विष्णुरिति चेन्न ।
‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीतेति ।
सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्व धर्मः सर्वरूप इति’।
‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वषुवेदेषु कामचारो भवति’
इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशान्महोपनिषदि ॥
अनात्तत्वादनात्मान ऊनत्वाद्गुणराशितः ।
अब्रह्माणः परे सर्वे ब्रह्मात्म विष्णुरेव हि’ ॥
इत्यादिना ‘को न आत्मा किं ब्रह्म’ इत्यारम्भाच्च अन्येषामसम्भवाद्विष्णुरेव वैश्वानरः ।
‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’
इत्यादिना यः पुरुषाख्यो विष्णुरभहितस्तद्विधमेवात्र ‘मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’
इत्यादिनैनं वैश्वानरमधीयते । चशब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपरत्वं पुरुषसूक्तस्य दर्शयति ।तथा च ब्राह्मे –
‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् ।
तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम्’ इति ॥
चतुर्वेदशिखायां च –
‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’ इति ।
‘एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादिरनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्त गुणोऽनन्तरूपः’ इति ।
बृहत्संहितायां च –
‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् ।
न तथा सर्ववेदाश्च वेदाङ्गानि च नारद’ इत्यादि ॥
‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः ।
तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम्’ ॥
इति नारदीयवचनान्नाभेदोक्तिविरोधः ॥ 26 ॥
ॐ अत एव न देवता भूतं च ॐ ॥ 27-58॥
अग्निवैश्वानरादिशब्दस्तेजसि भूते अग्निदेवतायां च प्रसिद्धोऽप्यतः पूर्वोक्तहेतुत एवात्र न सा तच्चाभिधीयते ॥ 27 ॥
ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ 28-59 ॥
नाग्न्यादयः शब्दा अग्न्यादिवाचकास्तथापि साक्षादेवानन्ययोगेन ब्रह्मवाचकैश्यब्दैः व्यवहारार्थमनभिज्ञानाच्चान्यत्र व्यवहारन्तीत्यभ्युपगमेऽविरोधं जैमिनिर्वक्ति ।
‘व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् ।
अन्ये व्ववहरन्त्येतान्यूरीकृत्य गृहादिवत्’ ॥
इति स्कान्दवचनान्न मतानां परस्परविरोधः ॥ 28 ॥
ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ 29-60 ॥
तत्र तत्र प्रसिद्धावप्यग्न्यादिषु ब्रह्मणोऽभिव्यक्तेरग्न्यादिसूक्तनियम इत्याश्मरथ्यः ॥ 29 ॥
ॐ अनुस्मृतेर्बादरिः ॐ ॥ 30-61 ॥
तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात् तन्नियमः इति बादरिः ॥ 30 ॥
ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ॥ 31-62 ॥
साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियममग्न्यादि सम्प्राप्त्या मन्यते।
‘तं यथा यथोपासते तदेव भवति’ इति दर्शयति ॥ 31 ॥
न ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्यत आह –
ॐ आमनन्ति चैनमस्मिन् ॐ ॥ 32-63 ॥
एनं विष्णुमस्मिन्नग्न्यादावामनन्ति । ‘योऽग्नौ तिष्ठन्’‘य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषः’ इत्यादिना ॥ 32 ॥
॥ इति वैश्वानराधिकरणम् ॥ 07 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥ 01-02 ॥
तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयं प्रायेणास्मिन् पादे दर्शयति ।
विष्णोः परविद्याविषयत्वमुक्तम् । तत्र ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्चसर्वैस्तमेवैकं जानथ आत्मानम्’ इत्यत्र, ‘प्राणानां ग्रन्थिरसि रुद्रोऽमाऽऽविशान्तकः’ ‘प्राणेश्वरः कृत्तिवासाः पिनाकी’ इत्यादिना रुद्रस्य प्राणाधारत्वप्रतीतेः ।
‘स एषोऽन्तरश्चरते बहुधा जायमानः’ इति जीवलिङ्गाच्च तयोः प्राप्तिरित्यत उच्यते –
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ 01-64 ॥
‘तमेवैकं जानथ आत्मानम्’इत्यात्मशब्दात् द्युभ्वाद्याश्रयो विष्णुरेव ।
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात् तैर्नैवाप्तागुणपूर्णता’ इति ब्रह्मवैवर्ते ॥ 1 ॥
ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ 02-65 ॥
‘अमृतस्यैष सेतुः’ इति ‘ब्रह्मविदाप्नोति परम्’,‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ ,‘मुक्तानां परमा गतिः’ ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादिना तस्यैव मुक्तप्राप्यत्वव्यपदेशात् ।
‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तः स्यादेष शास्त्रनिर्णयः’॥ इत्यादित्यपुराणे ॥ 2 ॥
ॐ नानुमानमतच्छब्दात् ॐ ॥ 03-66 ॥
नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात् ।
‘सोऽन्तकः स रुद्रः स प्राणभृत् स प्राणनायकः स ईशो यो हरिर्योऽनन्तो यो विष्णुर्यः परः परोवरीयान्’
इत्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् ।
ब्रह्माण्डे च –
‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।
ईशानादेव चेशानो महैदेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् ।
तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥
शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः ।
कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् ।
बृंहणाद्ब्रह्मनामाऽसावैश्वर्यादिन्द्र उच्यते ॥
एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः ।
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’ इति ।
वामने च –
‘न तु नारायणादीनां नाम्नामन्यत्र सम्भवः ।
अन्यनाम्नां गतिर्विष्णुरेक एव प्रकीर्तितः’ इति ॥
स्कान्दे च –
‘ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्’इति
‘चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति ।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
विशेषनामानि ददौ स्वकीयान्यपि केशवः’इति च ब्राह्मे ॥ 3 ॥
ॐ प्राणभृच्च ॐ ॥ 04-67 ॥
एतैरेव हेतुभिर्न जीवो वायुश्च । ‘अजायमानो बहुधा विजायत’ इति तस्यैव बहुधा जन्मोक्तेः ॥ 04॥
ॐ भेदव्यपदेशात् ॐ ॥ 05-68 ॥
न चैक्यं वाच्यम् । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ इति भेदव्यपदेशात् ॥ 05 ॥
ॐ प्रकरणात् ॐ ॥ 06-69 ॥
‘द्वे विद्ये वेदितव्ये’ इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥
ॐ स्थित्यदनाभ्यां च ॐ ॥ 07-70 ॥
‘द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्ननन्यो अभिचाकशीति’
इति ईशजीवयोः स्धित्यदनोक्तेः ॥ 07 ॥
॥ इति द्युभ्वाधिकरणम् ॥ 01 ॥
‘प्राणो व अशाया भूयान्’ इत्युक्त्वा’ यो वै भूमा तत्सुखम्’ । इत्युक्तेस्यैव भूमत्वप्राप्तिः । ‘उत्क्रान्तप्राणान्’ इत्यादिलिङ्गात् प्राणशब्दश्च वायुवाचीत्यतो वक्ति –
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ 08-71 ॥
‘सम्प्रसादात्’ पूर्णसुखरूपत्वात् ‘अध्युपदेशात्’ सर्वेशामुपर्युपदेशाच्च विष्णुरेव भूमा ।
‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ॥
विश्वतः परमां नित्यम्’ इति श्रुतिः
‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ इत्यादिना नोत्क्रमणादिलिङ्गविरोधोऽपि ॥08॥
ॐ धर्मोपपत्तेश्च ॐ ॥ 09-72 ॥
सर्वगतत्वादिधर्मोपपतेश्च ॥09॥
इति भूमाधिकरणम् ॥ 02 ॥
अदृश्यत्वादिगुणा विष्णोरुक्ताः’ अदृष्टं द्रष्ट्रश्रुतं श्रोतृ’ इत्यादिना । ‘अहं सोममाहनसं भिभर्मि’ इत्यादेस्तस्यापि सम्भवान्मध्यमाक्षरस्योक्ता इत्यतो ब्रूते –
ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ 10-73 ॥
‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इत्यम्बरान्तस्य सर्वस्य धृतेर्ब्रह्मैवाक्षरम् ।
‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’
‘भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । पराऽस्य भारं पुनरस्तमेति’ । ‘यस्मिन्निदं सञ्च वि चैदि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’ इत्यादि श्रुतेः ।
‘पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।
विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ’इति च स्कान्दे ॥ 10 ॥
ॐ सा च प्रशासनात् ॐ ॥ 11-74 ॥
सा च धृतिः प्रशासादुच्यते ।’ एतस्य वा अक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिना । तच्च प्रशासनं विष्णोरेव ।
‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ ।
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’ इत्यादिश्रुतेः ।
‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’।
यो हृच्छयस्तमहमिह ब्रवीमि’
‘न केवलं मे भवतश्च राजन् स वै बलं बलीनां चापरेषाम्’इत्यादेश्च ॥ 11 ॥
ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ 12-75 ॥
‘अस्थूलमनणु’ इत्यादिना स्थूलाण्वादीनामन्यवस्तुस्वभावानां व्यावृत्तेश्च।
‘अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको योऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः’ इत्यादेर्विष्णोरेव ते धर्माः ।
‘अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च ।
विरुद्धर्मरूपोऽसावैश्वर्यात् पुरुषोत्तमः’ । इति च ब्राह्मे ॥ 12 ॥
॥ इति अक्षराधिकरणम् ॥ 03 ॥
‘सदेव सोम्येदमग्र आसीत्’ इत्यादिना सतः स्रष्टृत्वमुच्यते । तच्चसत्’बहुस्यां प्रजायेय’ इति परिणामप्रतीतेर्न विष्णुः । स हि
‘अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः’ इत्यादिनाऽ तस्यैव हि तल्लक्षणम् । बहुत्वं चाविकारेणैवोक्तं’ अजायमानो बहुधा विजायत’ इति ॥ 13 ॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ 13-76 ॥
‘तदैक्षत’ इतीक्षतिकर्मव्यपदेशात् स एव विष्णुरत्रोच्यते ।
‘नान्योऽतोऽस्ति द्रष्टा’,’नान्यदतोऽस्ति द्रष्ट्रु’ इत्यादिना तस्यै व हि तल्लक्षणम् ।
बहुत्वं चानिकारेणैवोक्तं’अजायमानो बहुधा विजायत’ इति ॥13॥
॥इति सदधिकरणम् ॥ 04 ॥
चन्द्रादित्याद्याधारत्वं विष्णोरुक्तम् । तच्च’अथ यदिदमस्मिन् ब्रह्म पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः’……’ किं तदत्र विद्यते…..’
‘उभे अस्मिन् द्यावा पृथिवी अन्तरेव समाहिते ।
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ ।
विद्युन्नक्षत्राणि’इत्यादिनाऽऽकाशस्य प्रतीयते ।
स चाकाशो न विष्णुः । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’ इति श्रुतेरित्यत आह- .
ॐ दहर उत्तरेभ्यः ॐ ॥ 14-77 ॥
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य स विजिज्ञासितव्यः’ इत्यादिभ्य उत्तरेभ्यो गुणेभ्यो दहरे विष्णुरेव ।
‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’
‘स एष सर्वेभ्यः पाप्मभ्य उदितः’
इत्यादिना विष्णोरेव हि ते गुणाः ।
‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।
अशनायादिकानन्ये तत्प्रसादात् तरन्ति हि’ इति पाद्मे ।
सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकर्तव्यम् ॥
‘सत्यकामोऽअपरो नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत् तत्काम्यकामिता’ इति च स्कान्दे ॥ 14 ॥
ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ 15-78 ॥
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इति सुप्तस्य तद्गतिर्ब्रह्मशब्दश्चोच्यते ।
‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेस्तं हि सुप्तो गच्छति । ‘अरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके’ इति लिङ्गं च तथा दृष्टम् ।
‘अरश्च वै ण्यश्च सासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’ इत्यादिना तस्यैव हि तल्लक्षणत्वेनोच्यते ॥ 15 ॥
ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ 16-79 ॥
‘एष सेतुर्विधृतिः’ इति धृतेः’एष भूताधिपतिरेण भूतपालः’इत्याद्यस्य महिम्नोऽस्मिन्नुपलब्धेः ।
‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’
‘एतस्य वा अक्षरस्य प्रशासने गार्गि’
‘स हि सर्वाधिपतिः स हि सर्वकालः स ईशः स विष्णुः’
‘पतिं विश्वस्यात्मेश्वरम्’ इत्यादिश्रुतिभ्यस्तस्य ह्येष महिमा ।
‘सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः’ इति स्कान्दे ॥16॥
ॐ प्रसिद्धेश्च ॐ ॥ 17-80 ॥
‘तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तुदुपासितव्यम्’ इति प्रसिद्धेश्च । तदन्तस्थापेक्षत्वान्न सुषिरश्रुतिविरोधः ॥17॥
ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ 18-81 ॥
‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्टद्यते’ ‘एष आत्मेति होवाच’ इति जीवपरामर्शात् स इति चेन्न ।
तस्य स्वतोऽपहतपाप्मत्वाद्यसम्भवात् ॥ 18 ॥
ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ 19-82 ॥
‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादुत्तरवचनाज्जीव एवेति चेन्न । तत्र हि परमेश्वरप्रसादादाविर्भूतस्वरूपो मुक्त उच्यते।यत्प्रसादात् स मुक्तो भवति स भगवान् पूर्वोक्तः॥19 ॥
ॐ अन्यार्थश्च परामर्शः ॐ ॥ 20-83 ॥
‘यं प्राप्य स्वेन रूपेण जीवोऽभिनिष्पद्यते स एष आत्मा’ इति परमात्मार्थश्च परामर्शः ॥ 20 ॥
ॐ अल्पश्रुतेरिति चेत् तदुक्तम् ॐ ॥ 21-84 ॥
‘दहर’ इत्यल्पश्रुतेर्नेति चेन्न ।’निचाय्यत्वादेवं व्योमवच्च’ इत्युक्व्तात् ‘एष म आत्माऽन्तर्हृदये ज्यायन्’ इति श्रुत्युक्तत्वाच्च ॥ 21 ॥
॥इति दहराधिकरणम् ॥
अदृश्यत्वादयः परमेश्वरगुणा उक्ताः । ‘तेषां सुखं शाश्वतं नेतरेषाम्’ ‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्’
इत्यादिना ज्ञानिसुखस्याप्यनिर्देश्यत्वमज्ञेयत्वं चोच्यत इत्यतो वक्ति-
ॐ अनुकृतेस्तस्य च ॐ ॥ 22-85 ॥
‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुकृतेः,
‘तस्य भासा सर्वमिदं विभाति’ इति वचनाच्च परमात्मैवानिर्देश्यसुखरूपः ।
न हि ज्ञानिसुखमनुभाति सर्वम् । न च तद्भासा । ‘अहं तत्तेजो रश्मीन्’ इति नारायणभासा हि सर्वं भाति ॥ 22 ॥
ॐ आपि स्मर्यते ॐ ॥ 23-86 ॥
‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ इति
‘न तद्भासयते सूर्यो न शशाङ्को न पावकः।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति च ॥ 23 ॥
॥ इति अनुकृत्यधिकरणम् ॥ 06 ॥
विष्णुरेव जिज्ञास्य इत्युक्तम् । तत्र
‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।
मध्ये वामनमासीनं विश्वेदेवा उपासते’
इति सर्वदेवोपास्यः कश्चित् प्रतीयते । स च ‘एवमेवैष प्राण इतरान् प्राणान् पृथगेव सन्निधत्ते’ ‘योऽयं मध्यमः प्राणः’’कुविदङ्ग’
इत्यादिना प्राणव्यवस्थापकत्वान्मध्यमत्वात् सर्वदेवोपास्यत्वाच्च वायुरेवेति प्रतीयते । अतोऽब्रवीत् ॥
ॐ शब्दादेव प्रमितः ॐ ॥ 24-87 ॥
वामनशब्दादेव विष्णुरिति प्रमितः । न हि श्रुतेर्लिङ्गं बलवत् ।
‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णय’ इति स्कान्दे ॥
तच्चलिङ्गं विष्णोरेव। तस्मैव प्राणत्वोक्तेः’तद्वैत्वं त्वं प्राणो अभवः’ इति ॥ 24 ॥
ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ 25-88 ॥
सर्वगतस्यापि तस्याङ्गुष्ठमात्रत्वं हृद्यवकाशापेक्षया युज्यते । इतरप्राणिनामङ्गुष्ठाभावेऽपि मनुष्याधिकारत्वान्न विरोधः ॥ 25 ॥
॥ इति वामनाधिकरणम् ॥ 07 ॥
मनुष्याणामेव वेदविद्यायामधिकार इत्युक्तम् । तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं, न तु देवाद्यपेक्षयेत्याह-
ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥ 26-89 ॥
तदुपरि मनुष्याणां सतां देवादित्वप्राप्युपरि । सम्भवति हि तेषां विशिष्टबुद्ध्यादिभावात् । तिर्यगादीनां तदभावादभावः । तेषामपि यत्र विशिष्टबुद्ध्यादिभावस्तत्राविरोधः । निषेदभावात् । दृश्यन्ते हि जरितार्यादयः ॥ 26 ॥
ॐ विरोधः कर्मणेति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ॥ 27-90 ॥
मानुषा एव देवादयो भवन्तीति तदुपरीत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेन्न । अनेकेषां देवतापदप्राप्तेर्दर्शनात् ।
‘ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः’ इति ॥27॥
ॐ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॐ ॥ 28-91 ॥
‘वाचा विरूप नित्यया’ इत्यादिश्रुतेराप्त्यनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्य, स्वतः प्रामाण्यप्रसिद्धेश्च नित्यत्वाद्वेदस्य तदुदितानां देवानामनित्यत्वात् पुनरन्यभावनियमाभावाच्च शब्दे विरोध इति चेन्न ।
‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्’
‘यथैव नियमः काले सुरादिनियमस्तथा ।
तस्मान्नानीदृशं क्वापि विश्वमेतद्भविष्यति’ ॥
इत्यादेरत एव शब्दात् तेषां प्रभवनियमात्,महतां प्रत्यक्षात् । यथेदानीं तथोपर्यपि देवा भविष्यन्तीतीतरेषामनुमानाच्च ॥ 28 ॥
ॐ अत एव च नित्यत्वम् ॐ ॥ 29-92 ॥
अत एव शब्दस्य नित्यत्वादेव च देवप्रवाहनित्यत्वं युक्तम् ॥ 29 ॥
ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॐ ॥ 30-93 ॥
अतीतानागतानां देवानां समाननामरूपत्वात् प्राप्तपदानां मुक्त्याऽवृत्तावप्यविरोधः । ‘यथापूर्वम्’ इति दर्शनात् ।
‘अनादि निधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’ इति स्मृतेश्च ॥30॥
ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ ॥ 31-94॥
‘वसूनामेवैको भूत्वा’ इत्यादिना प्राप्यफलत्वात् प्राप्तपदानां देवानां मध्वादिविद्यास्वनधिकारं जैमिनिर्मन्यते ॥ 31 ॥
ॐ ज्योतिषि भावाच्च ॐ ॥ 32-95॥
ज्योतिषि सर्वज्ञत्वे भावाच्च। आदित्यप्रकाशेऽन्तर्भाववत् तज्ज्ञाने सर्ववस्तूनामान्तर्भावात् । नित्यसिद्धत्वाच्च विध्यानाम् ॥ 32 ॥
ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥33-96॥
फलविशेषभावात् प्राप्तपदानामपि देवानां मध्वादिष्वप्यधिकारं बादरायणो मन्यते । अस्ति हि प्रकाशविशेषः ।
‘यावत्सेवा परे तत्वे तावत्सुखविशेषता ।
सम्भवाच्च प्रकाशस्य परमेकमृते हरिम् ॥
तेषां सामर्थ्ययोगाच्च देवानामप्युपासनम्।
सर्वं विधीयते नित्यं सर्वयज्ञादिकर्म च’ इति स्कान्दे ॥
उक्तफलानधिकारमात्रं जैमिनिमतम् । अतो न मतविरोधः ।
‘सर्वज्ञस्यैव कृष्णस्य त्वेकदेशविचिन्तितम् ।
स्वीकृत्य मुनयो ब्रूयुस्तन्मतं न विरुध्यते’ इति ब्राह्मे ॥ 33 ॥
॥इति देवताधिकरणम् ॥ 08 ॥
मनुष्याधिकारत्वादित्युक्तेऽविशेषाच्छूद्रस्यापि’अह हारे त्वा शूद्र’ इति पौत्रायणोक्तेरधिकार इत्यत आह –
ॐ शुगस्य तदनादरश्रवणात् तदाऽऽद्रवणात् सूच्यते हि ॐ ॥34-97॥
नासौ पौत्रायणः शूद्रः, शुचाऽऽद्रवणमेव शूद्रत्वम् ।
‘कम्वर एनमेतत्सन्तम्’ इत्यनादरश्रवणात् ।
‘स ह सञ्ञिहान एव क्षत्तारमुवाच’ इति सूच्यते हि ॥ 34 ॥
ॐ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ 35-98 ॥
अयमश्वतरीरथ इति चित्ररथसम्बन्दित्वेन लिङ्गेन पौत्रायणस्य क्षत्रियत्वावगतेश्च ।
‘रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते’ इति ब्राह्मे ।
‘यत्र वेदो रथस्तत्र न वेदो यत्र नो रथः’ इति ब्रह्मवैवर्ते ॥ 35 ॥
ॐ संस्कारपरामर्शात् तदभावाभिलापाच्च ॐ ॥ 36-99 ॥
‘अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयीत’ इत्यद्ययनार्थं संस्कारपरामर्शात् । ‘नाग्निर्न यज्ञो न क्रीया न संस्कारो न व्रतानि शूद्रस्य’ इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च ।
उत्तमस्त्रीणां तु न शूद्रवत् ।
‘सपत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् ।
संस्काराभावेनाभावस्तु सामान्येन । अस्ति च तासां संस्कारः ।
‘स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा’ इति स्मृतेः ॥ 36 ॥
ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ 37-100 ॥
‘नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि’ इति सत्यवचनेन सत्यकामस्य शूद्रत्वाभावनिर्धारणे हारिद्रुमतस्य’नैतदब्राह्मणो विवक्तुमर्हति’ इति तत्संस्कारे प्रवृत्तेश्च ॥ 37 ॥
ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ 38-101 ॥
‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । अध्ययने जिह्वाच्छेदः अर्थावधारणे हृदयविदारणम्’ इति प्रतिषेधात् ।
‘नाग्निर्न यज्ञः शूद्रस्य तथैवाद्ययनं कुतः ।
केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते’ इति स्मृतेश्च ।
विदुरादीनां तूत्पन्नज्ञानत्वात् कश्चिद्विशेषः ॥ 38 ॥
इति अपशूद्राधिकरणम् ॥ 09 ॥
‘यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्बयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति’
इत्युद्यतवज्रज्ञानान्मोक्षः श्रूयत इत्यतोऽब्रवीत् ।
ॐ कम्पनात् ॐ ॥ 39-102 ॥
एजतीति कम्पनवचनादुद्यतवज्रो भगवानेव ।
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’तथा चेतोऽर्पणार्थं हि निगत्यते इति हि श्रुतिः ।
‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ इति च
‘नभस्वतोऽपि सर्वाः स्युश्चेष्टा भगवतो हरेः ।
किमुतान्यस्य जगतो यस्य चेष्टा नभस्वतः’ इति स्कान्दे ॥
‘चक्रं चङ्क्रमणादेष वर्जनाद्वज्रमुच्यते ।
खण्डनात् खड्ग एवैष हेतिनामा स्वयं हरिः’ इति ब्रह्म वैवर्ते ॥ 39 ॥
इति कम्पनाधिकरणं ॥ 10 ॥
हृदय आहितं ज्योतिः परमात्मेत्युक्तम् । तत्र’योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इत्यत्र’उभौ लोकावनुसञ्चरति’ इति वचनाज्जीव इति प्रतीयत इत्यत उच्यते –
ॐ ज्योतिर्दर्शनात् ॐ ॥ 40-103 ॥
‘विष्णुरेव ज्योतिर्विष्णुरेव ब्रह्म विष्णुरेवात्मा विष्णुरेव बलं विष्णुरेव यशो विष्णुरेवानन्दः’ इति दर्शनाच्चतुर्वेदशिखायां ज्योतिर्विष्णुरेव ।’प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’ इति वचनात् सस्यापि लोकसञ्चरणमस्त्येव ॥ 40 ॥
इति ज्योतिरधिकरणं ॥ 11 ॥
सर्वाधारत्वम् विष्णोरुक्तम् । तच्च’आकाशो वै नाम नामरूपयोर्निर्वहिता’ इत्यत्राकाशस्य प्रतीयते । वै नामेति प्रसिद्धोपदेशात् । प्रसिद्धाकाशश्चाङ्गीकर्तव्य इत्यत उच्यते –
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ 41-104 ॥
‘ते यदन्तरा तद्ब्रह्म’ इत्यर्थान्तरत्वादिव्यपदेशाकाशो हरिरेव। ‘अवर्णं यतो वाचो निवर्तन्ते’ इत्यादिश्रुतेस्तस्यैव हि तलक्षणम्।
‘अनामासोऽप्रसिद्धत्वादरूपो भूतवर्जनात्’ इति ब्राह्मे ॥ 41 ॥
इति आकाशाधिकरणम् ॥ 12 ॥
असङ्गत्वं परमात्मन उक्तम् । तच्च
‘स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ इति स्वप्नादिद्रष्टुः प्रतीयते । स च जीवः प्रसिद्धेरित्यतो वक्ति –
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ 42-105 ॥
‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदनान्तरम्’ ‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’
इति भेदव्यपदेशान्न जीवः, पर एवासङ्गः । स्वप्नादिद्रष्ट्रुत्वं च सर्वज्ञत्वात् तस्यैव युज्यते ॥ 42 ॥
॥ इति सुषुप्त्यधिकरणम् ॥ 13 ॥
‘एष नित्यो महिमा ब्राह्मणस्य’ इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते । स च ब्राह्मणः ‘स वा एष महानज आत्मा’ इत्यजशब्दाद्विरिञ्च इति प्राप्तम् । देवानां च विद्याकर्मणोः पदप्राप्तिः सूचिता तदुपर्यपीति । अतो ब्रवीति –
ॐ पत्यादिशब्देभ्यः ॐ ॥ 43-106 ॥
‘सर्वस्याधिपतिः सर्वस्येशानः …. स वा एष नेति नेति’ इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव ।
‘उतामृतत्वस्येशानः । यदन्नेनादतिरोहति’
‘सप्तार्धगर्भाभुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’
‘स योऽतोऽश्रुतः’
इत्यादि श्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥ 43 ॥
॥इति ब्राह्मणाधिकरणम् ॥ 14 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥ 01-03 ॥
॥ ॐ श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धनामापि शब्दानां सामस्त्येन विशेषहेतुभिर्विष्णावेव प्रवृत्तिं दर्शयत्यस्मिन् पादे ।
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दशर्यति च ॐ ॥ 01-107 ॥
‘तत्तु समन्वयात्’ इति सर्वशब्दानां परमेश्वरे समन्वय उक्तः । तन्न युज्यते । यतो ‘अव्यक्तात् पुरुषः परः’ इति साङ्ख्यानुमानपरिकल्पितं प्रधानमप्येकेषां शाखिनामुच्यत इति चेन्न, तस्यैव पारतन्त्र्याच्छिररीररूपके ऽव्यक्ते विन्यस्तस्य परमात्मन एवाव्यक्तशब्देन गृहीतेः । कप्रत्ययः कुत्सने । परमात्मना एवाव्यक्तॆशब्दः । । तत्तन्त्रत्वेन तच्छरीररूपत्वादितरस्याप्यव्यक्तशब्दः ।
‘तुच्छेनाभ्वपिहितं यदासीत्’ इति दर्शयति च ।
‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् । यो वेद हरिमात्मानं स भयादनुमुच्यते’ ।
इति पिप्पलादशाखायाम्।
‘अक्षरं ब्रह्म परमम्’ इत्युक्त्वा‘अव्यक्तो ऽक्षर इत्युक्तः’इति वचनाच्च ॥ 01 ॥
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ 02-108 ॥
सूक्ष्ममेवाव्यक्तश्यब्देनोच्यते । तद्द्यव्यक्ततामर्हति । सूक्ष्मत्वं च मुख्यं तस्यैव ।
‘यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति ।
यत्तल्लोका न विदुर्लोकसारं विन्दन्त्येतत् कवयो योगनिष्ठाः’ ॥
इति च पिप्पलादशाखायाम् ।
मुख्ये च विद्यमाने नामुख्यं युक्तम् ॥ 02 ॥
ॐ तदधीनत्वादर्थवत् ॐ ॥ 03-109 ॥
तददीनत्वाच्चाव्यक्तादीनां तस्यैवाव्यक्तत्वपरावरत्वादिकमर्थवत् ।
‘यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते ।
यथा जीवः परात्मेति यथा राजा जयीत्यपि’ इति च स्कान्दे ॥ 03 ॥
ॐ ज्ञेयत्वावचनाच्च ॐ ॥ 04-110 ॥
अन्यस्य न वाच्यत्वं युज्यते ॥ 04 ॥
ॐ वदतीती चेन्न प्राज्ञो हि ॐ ॥ 05-111 ॥
‘महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’ इति ज्ञेयत्वं वदतीती चेन्न । प्राज्ञः परमात्मा हि तत्रोच्यते ।
‘अणोरणीयान्महतो महीयान्’ इति तस्यैव हि महतो महत्वम् । सर्वस्मात् परस्य महतोऽपि परत्वं युज्यते ॥ 05 ॥
ॐ प्रकरणात् ॐ ॥ 06-112 ॥
‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमम् पदम्’ इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥
ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ 07-113 ॥
त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां प्रश्न उपन्यासश्च ।
‘अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते’ ॥ इति वचनान्न विरोधः ॥ 07 ॥
ॐ महद्वच्च ॐ ॥ 08-114 ॥
यथा महच्छब्दो महत्तत्वे प्रसिद्धोऽपि परममहत्त्वात् परमात्मन एव मुख्यः एवमितरेऽपि ॥ 08 ॥
ॐ चमसवदविशेषात् ॐ ॥ 09-115 ॥
यथा चमसशब्दोऽन्यत्र प्रसिद्धोऽपि ‘इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुद्नः’ इति श्रुतेः शिरोवाचकः एवमव्यक्तादिशब्दाः सर्वेऽन्यत्र प्रसिद्धा अपि,
‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’
इत्यादि श्रुतेः परमात्माभिधायका एव । अविशेषाच्छ्चुतेः ॥ 09 ॥
॥ इति अनुमानिकाधिकरणम् ॥ 01 ॥
‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादि कर्माभिधायकस्य क्रमादि विरोधान्न युज्यत इत्यत आह –
ॐ ज्योतिरुपक्रमात् तु तथा ह्यधीयत एके ॐ॥ 10-116 ॥
ज्योतिरादिकर्मवाचकत्वेन प्रसिद्धाभिधेयोऽपि स एव । ‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रम्य ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषाः एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्’
इति ह्यधीयते एके ॥ 10 ॥
ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥ 11-117 ॥
मधुविद्यादिवत् सर्वशब्दार्थत्वेन परस्य कल्पनोपदेशाच्च न कर्मक्रमादिविरोधः ॥ 11 ॥
॥ इति ज्योतिरुपक्रमाधिकरणम् ॥ 02 ॥
ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ॥ 12-118 ॥
‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः’ इत्यादिषु बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोधः । तस्यैवाकाशादिषु नानाभावात् तदतिरिक्तस्वरूपत्वाच्च ॥12॥
पञ्च पञ्चजनानाह –
ॐ प्राणादयो वाक्यशेषात् ॐ ॥ 13-119 ॥
‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनः’ इति वाक्यशेषात् ॥ 13 ॥
ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥ 14-120 ॥
‘तद्देवा ज्योतिषां ज्योतिः’ इत्यनेन काण्वानां पञ्चकम् । । 14 ॥
॥ इति नसङ्ख्योपसङ्ग्रहाधिकरणम् ॥ 03 ॥
अवान्तरकारणत्वेनापि एवोच्यत इति वक्ति-
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ 15-121 ॥
आकाशादिष्ववान्तरकारणत्वेन स एव स्थितः । यथाव्यपदिष्टस्यैव परस्य ‘य आकाशे तिष्ठन्’ इत्यादिना आकाशादिषूक्तेः ॥ 15 ॥
॥ इति आकाशाधिकरणम् ॥ 04 ॥
सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहार इत्यतो ब्रवीति-
ॐ समाकर्षात् ॐ ॥ 16-122 ॥
परमात्मवाचिनः शब्दा अन्यत्र समाकृष्य व्यवह्रियन्ते ।
‘परस्य वाचकाः शब्दा समाकृष्येतरेष्वपि ।
व्यवह्रियन्ते सततं लोकवेदानुसारतः’ इति पाद्मे ॥ 16 ॥
तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः ?-
ॐ जगद्वाचित्वात् ॐ ॥ 17-123 ॥
जगति व्यवहारो लोकस्य । न तु परमात्मनि तथा । अतो जगति प्रसिद्धिः शब्दानाम् ॥ 17 ॥
ॐ जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ॐ ॥ 18-124 ॥
तदधीनत्वात् तच्छब्दवाच्यत्वमित्युक्तम् । तज्जीवमुख्यप्राणयोर्लिङ्गम् ।
‘अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति’ ‘वायुना हि लोका नेनीयन्ते’
इत्यादि श्रुतिभ्य इति चेन्न । उपासात्रैविध्यादिति व्याख्यातत्वात् ॥ 18 ॥
ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ॥ 19-125 ॥
परमात्मज्ञानार्थं कर्मादिकमपि वदतीति जैमिनिः ।
‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । तस्म्यै स होवाच द्वे विद्ये वेदितव्ये’
‘कथं नु भगवः स आदेशो भवतीति । यथा सौम्यैकेन मृत्पिण्डेन’
इत्यादिप्रश्नव्याख्यानाभ्याम् ।
एवमपि चैके पठन्ति’यस्तन्न वेद किमृचा करिष्यति’ इति ॥ 19 ॥
ॐ वाक्यान्वयात् ॐ ॥ 20-126 ॥
वाक्यस्याप्येवमन्वयो युज्यते पृथक्पृथक् स्थितस्यापि परमात्मना ॥ 20 ॥
ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ॥ 21-127 ॥
‘नान्यः पन्था अयनाय विद्यते’ इति प्रतिज्ञासिद्धेर्लिङ्गत्वेन कर्मादिकमुच्यत इत्याश्मरथ्यः । यस्मादेवमनित्यफलमन्यत् तस्मान्नान्यः पन्था इति ॥ 21 ॥
ॐ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॐ ॥ 22-128 ॥
उत्क्रमिष्यतो मुमुक्षोः कर्मादिना भाव्यं साधनसाधनत्वेन । अतस्तद्व्यक्तीत्यौडुलोमिर्मन्यते ॥ 22 ॥
ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥ 23-129 ॥
सर्वं परमात्मन्यवस्थितमिति वक्तुं तद्वचनमिति काशकृत्स्नः ।
‘कृष्णद्द्वैपायनमतादेकदेशविदः परे ।
वदन्ति ते यथाप्रज्ञं न विरोधः कथञ्चन’ इति पाद्मे ॥ 23 ॥
॥ इति समाकर्षाधिकरणम् ॥ 05 ॥
स्त्रीशब्दा अपि तस्मिन्नेवेत्याह-
ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ 24-130 ॥
‘हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्त्येवमेवैतानि नामानि सर्वाणि पुरुषमभिविशन्ति’
इति प्रतिज्ञादृष्टान्तानुपरोधात् प्रकृतिशब्दवाच्योऽपि स एव ॥ 24 ॥
ॐ अभिध्योपदेशाच्च ॐ ॥ 25-131 ॥
‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’।
‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’ ॥
इति वचनात् तदभिध्यैव प्रकृतिशब्देनोच्यते ।
‘सोऽभिध्या स जूतिः स प्रज्ञा स आनन्दः’ इति श्रुतेरभिध्या च स्वरूपमेव ।
‘ध्यायति ध्यानरूपोऽसौ सुखी सुखमतीव च ।
परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते’ इति ब्रह्माण्डे ॥ 25 ॥
ॐ साक्षाच्चोभयाम्नानात् ॐ ॥ 26-132 ॥
‘एष स्त्र्येष पुरुष एष प्रकृतिरेष आत्मैष ब्रह्मैष लोक एष अलोको योऽसौ हरिरादिरनादिरनन्तोऽन्तः परमः पराद्विश्वरूपः’
इति पैङ्गिश्रुतौ साक्षादेव प्रकृतिपुरुषत्वाम्नानात् ॥ 26 ॥
ॐ आत्मकृतेः परिणामात् ॐ ॥ 27-133 ॥
प्रकर्षेण करोतीति प्रकृतिरिति योगाच्च । प्रकृतावनुप्रविश्य तां परिणाम्य तत्परिणामकत्वेन तत्र स्थित्वाऽऽत्मनो बहुधाकरणात् ।
‘अथ हैष आत्मा प्रकृतिमनुप्रविश्यात्मानं बहुधा चकार । तस्मात् प्रकृतिस्तस्मात् प्रकृतिरित्याचक्षते’ इति भाल्लवेयश्रुतिः ।
‘अविकारोऽपि परमः प्रकृतिं तु विकारिणीम् ।
अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते’ इति नारदीये ।
नचान्यत् कल्प्यम्, अप्रमाणिकत्वात् ॥ 27 ॥
ॐ योनिश्च हि गीयते ॐ ॥ 28-134 ॥
अव्यवधानेनोत्पत्तिद्वारत्वं प्रकृतित्वम् । तच्चास्यैव गीयते
‘यद्बूतयोनिं परिपश्यन्ति धीराः’ इति ।
‘व्यवधानेन सूतिस्तु पुंस्त्वम् विद्वद्भिरुच्यते ।
सूतिरव्यवधानेन प्रकृतित्वमिति स्थितिः ॥
उभयात्मकसूतित्वाद्वासुदेवः परः पुमान् ।
प्रकृतिः पुरुषश्चेति शब्दैरेकोऽभिधीयते’ इति ब्रह्माण्डे ॥ 28 ॥
॥इति प्रकृत्यधिकरणम् ॥ 06 ॥
ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ ॥ 29-135 ॥
एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः ।
‘एष ह्येव शून्य एष ह्येव तुच्छ एष ह्येवाभाव एष ह्येवाव्यक्तोऽदृश्योऽचिन्त्यो निर्गुणश्च’
इति महोपनिषदि।
‘शमूनं कुरुते विष्णुरदृश्यः सन् परः स्वयम् ।
तस्माच्छून्यमिति प्रोक्तस्तोदनात्तुच्छ उच्यते ॥
नैष भावयितं योग्यः केनचित् पुरुषोत्तमः ।
अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥
सर्वस्य तदधीनत्वात् तत्तच्छब्दाभिधेयता ।
अन्येषां व्यवहारार्थ मिष्यते व्यवहर्तृभिः’
इति महाकौर्मे।
एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन ।
‘अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।
द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये’
इति वराहसंहितायाम् ॥ 29 ॥
एतेन सर्वेव्याख्याताधिकरणम् ॥
॥ इति श्री मद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य चतुर्थपादः ॥01-04 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायः (समन्वयाध्यायः) ॥ 01 ॥