ब्रह्मसूत्रभाष्यम्

change script to

उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन । प्रथमपादे युक्त्यविरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति-
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ॥ 01-136 ॥
सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामाण्यमेव स्यादिति चेन्न। अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वर्ज्ञैरेव कृतत्वाच्छृतेराधिक्यं सिद्ध्यति॥ 01 ॥
ॐ इतरेषां चानुपलब्धेः ॐ ॥ 02-137 ॥
इतरेषां तासु स्मृतिषूक्तानां फलादीनां प्रत्यक्षतोऽनुपलब्धेरप्रमाण्यं तासां युक्तम् । चशब्देन भागोपलब्धिरङ्गीकृता ॥ 02 ॥
ॐ एतेन योगः प्रत्युक्तः ॐ ॥ 03-138 ॥
योगफलं प्रत्यक्षोपलभ्यमिति न मन्तव्यम् । उक्ताभ्यासे तत्काल एव फलादृष्टेः ॥ 03 ॥
॥ इति स्मृत्यधिकरणम् ॥ 01 ॥
ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ 04-139 ॥
नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्देरप्रामाण्यम् । विलक्षणत्वात् नित्यत्वात् तदनुसारित्वाच्च । न हि नित्ये दोषाः कल्प्याः । स्वतश्च प्रमाण्यम् । अन्यथाऽनवस्थितेः ।
‘न चक्क्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेधा ह्येवैनं वेदयन्ति’ इति भाल्लवेयश्रुतेश्च ।
नित्यत्वं च शब्दादेव प्रतीयते ‘वाचा विरूप नित्यया’ इत्यादेः ।
‘अनादिनिधना नित्या’ इति च स्मृतिः ॥ 04 ॥
ॐ दृश्यते तु ॐ ॥ 05-140 ॥
अधिकारिणां फलम् । भविष्यत्पुराणे च
‘ऋग्यजुः सामाथर्वाख्या मूलरामायणं तथा।
भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ॥
पुराणानि च यानीह वैष्णवानि विदो विदुः ।
स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते ॥
यत् तेषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् ।
नाप्रामाण्यं भवेत् तेषां दृश्यते ह्यधिकारतः॥
इतः प्रामाण्यमन्येषां न स्वतस्तु कथञ्चन ।
अदृश्योक्तौ ततस्तेषामप्रमाण्यं न संशयः’ इति ॥ 05 ॥
॥ इति नविलक्षणत्वाधिकरणं ॥ 02 ॥
‘मृदब्रवीत्’’आपोऽब्रुवन्’ इत्यादिवचनाद्युक्तिविरुद्धो वेद इत्यतोऽब्रवीत् य-
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ 06-141 ॥
मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ॥ 06 ॥
ॐ दृश्यते च ॐ ॥ 07-142 ॥
तासां सामर्थ्यं महद्भिः । भविष्यत्पुराणे च –
‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः।
अचिन्त्याः शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः ।
ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः’ इति ॥ 07 ॥
॥ इति अभिमान्यधिकरणम् ॥ 03 ॥
‘असदेवेदमग्र आसीत्’’असतः सदजायत’ इत्यादिनाऽसतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति-
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ 08-143 ॥
प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिद्यते । सर्वशब्दानां ब्रह्मणि समन्वयेऽपि’तदधीनत्वादर्थवत्’ इत्यादिनाऽमुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गिकारादसतः प्राप्तिः।तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते ।समयस्योपरि निषेधात् । अर्थाद्युक्तिविरोधोऽपि निराक्रियते ॥ 08 ॥
ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ 09-144 ॥
असत उत्पत्तौ प्रलयेऽपि सर्वासत्त्वमेव स्यात् ॥ 09 ॥
ॐ न तु दृष्टान्तभावात् ॐ ॥ 10-145 ॥
प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते। सत उत्पत्तिः, सशेषविनाशश्च हि लोके दृष्टः॥10 ॥
ॐ स्वपक्षदोषाच्च ॐ ॥ 11-146 ॥
दृष्टान्ताभावादेव ॥ 11 ॥
ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ॥ 12-147 ॥
एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावादुक्तादन्यथाऽप्यनुमेयमिति चेन्न, एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथाऽनुमेयत्वादनिर्मोक्ष प्रसङ्गः । अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यम् । नातोऽन्यच्छङ्क्यम् ।
ॐ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॐ ॥ 13-148 ॥
एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वादयोऽपि ।
‘अकस्माद्धीदमाविरासीदकस्मात् तिष्ठत्यकस्माल्लयमभ्युपैति’
‘प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति ।
प्रधाने लयमभ्येति न ह्यन्यत् कारणं मतम्’॥
‘जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः ।
जीवे तु लयमृच्छन्ति न जीवात् कारणं परम्’
इत्यादिश्रुतिप्राप्ता निराकृताः । यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता । यत्रान्यवाचकत्वेऽप्यविरोधस्तत्रान्यदप्यमुख्यतयोच्यते, यत्र विरोधस्तत्र ब्रह्मैवोच्यत इति नियमः ॥ 13 ॥
॥ इति असदधिकरणम् ॥ 04 ॥
ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॐ ॥ 14-149 ॥
‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इति मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव । न हन्यस्यान्यत्वं युज्यत इति चेन्न । स्याल्लोकवत् । यथा लोके उदके उदकान्तरस्यैकीभावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि । तथा च श्रुतिः
स्कान्दे च –
‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत् ।
न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ॥
एवमेव हि जीवोऽपि तादात्म्यं परमात्मना ।
प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात्’ इति ।
‘ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान् केवलोहरे’ इति च ।
‘न ते महित्वमन्वश्नुवन्ति’’न ते विष्णो जायमानो न जातः’
इत्यादि च फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्तम् ॥ 14 ॥
॥ इति भोक्त्राधिकरणम् ॥ 05 ॥
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ 15-150 ॥
स्वतन्त्र बहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः ।
‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसीत्’ इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च ।
‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्ष्यते ।
साधनानां साधनत्वं यतः किं तस्य साधनैः’ इत्यादिभिः ॥ 15 ॥
ॐ भावे चोपलब्देः ॐ ॥ 16-151 ॥
स्वतन्त्रसाधनभावे प्रमाण्यैरुपलभ्येत ।
‘अद्भ्यः सम्भूतः पृथिव्यै रसाच्च’ इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह ।
ॐ सत्वाच्चावरस्य ॐ ॥ 17-152 ॥
अवरस्य तदधीनस्य साधनस्य सत्त्वात् ।
‘काल आसीत् पुरुष आसीत् परम आसीत् तद्यदासीत् तदावृतमासीत् ततधीनमासीदथ ह्येक एव परम आसीद्यस्यैतदासीन्न ह्येतदासीत्’ इति हि काषायणश्रुतिः ॥ 17 ॥
ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ 18-153॥
‘नासदासीन्नो सदासीत्’ इति सर्वस्यासत्त्वव्यपदेशान्नेति चेन्न । अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।’तम आसीत्’ इति वाक्यशेषात् । न चान्यत्र प्रमाणमस्ति ।
‘अजे ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’।
‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति ।
न चान्यथा क्वाऽपि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत्’॥
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’।
‘असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुःपरां हि’
‘यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’।
‘अथैनमाहुः सत्यकर्मेति, सत्यं ह्येवेदं विश्वमसौ सृजते। अथैनमार्हुनित्यकर्मेति नित्यं ह्येवासौ कुरुते’।
‘यच्चिकेत सत्यमित् तन्न मोघम्’ इत्यादि श्रुतिस्मृतिभ्यः ।
‘परस्परविरोधे तु वाक्यानां यत्र युक्तता।
तथैवार्थ परिज्ञेयो नावाक्या युक्तिरिष्यते’
इति बृहत्संहितायाम् ।
‘विरुद्धवत् प्रीतीयन्त आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते’ इति च ।
‘ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥
वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।
अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः’
इति भागवततन्त्रे ।
‘शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।
मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥
प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः’
इति पुरुषोत्तमतन्त्रे॥ 18 ॥
ॐ युक्तेः शब्दान्तराच्च ॐ ॥ 19-154 ॥
‘साधनानां साधनत्वं यदात्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्’
इत्यादेः साधनान्तरेण सृष्टिर्युक्ता ।
‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इत्यादिशब्दान्तराच्च ॥ 19 ॥
ॐ पटवच्च ॐ ॥ 20-155 ॥
साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ 20 ॥
ॐ यथा प्राणादिः ॐ ॥ 21-156 ॥
तच्च साधनजातां तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादिः।
‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः ।
क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः’ इति कौर्मे ॥ 21 ॥
॥ इति आरम्भणाधिकरणम् ॥
जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते ।
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ 22-157 ॥
जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात् ॥ 22 ॥
ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ 23-158 ॥
न च ब्रह्मणः श्रमचिन्तादिधोषप्राप्तिः ।अधिकशक्तित्वात् ।
‘श्रोता मन्ता द्रष्टाऽऽदेष्टाघोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषः’
‘एष त आत्मा सर्वान्तरः’
‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’
इत्यादिविशेषनिर्देशात् ॥ 23 ॥
ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ 24-159 ॥
चेतनत्वेऽप्यश्मादिवदस्वतन्त्रत्वात् स्वतः कर्तृत्वानुपपत्तिर्जीवस्य।
‘यथा धारुमयीं योषां नरः स्थिरसमाहितः।
इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः’ इति भारते ॥ 24 ॥
ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ 25-160 ॥
जीवेन कार्योपसंहारदर्शनात् तस्य कर्तृत्वमिति चेन्न । यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते ,
‘अन्नं रसादिरूपेण प्राणः परिणयत्यसौ’ इति वचनात् ।
एवं जीवे दृश्यमानोऽपि कार्योपसंहारोऽस्वातन्त्र्यात् परकृत एव ।
‘य आत्मानमन्तरो यमयति’ । ‘नाहं कर्ता न कर्ता त्वं कर्तायस्तु सदा प्रभुः’ इत्यादेः ॥ 25 ॥
ॐ देवादिवदपि लोके ॐ ॥ 26-161 ॥
न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्यत्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी शक्तिर्दृष्टा किम्वीश्वरस्य ।
‘न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् ।
विरोध एव वाक्यानां युक्तयो न तु युक्तयः’
इति बृहत्संहितायाम् ॥ 26 ॥
ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ 27-162 ॥
अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण प्रवर्तमानोऽपि पूर्णप्रवृत्तिः स्यात् । न च तद्युच्यते, सामर्थैकदेशदर्शनात् । न चैकदेशेन, निरवयवत्वात् ।
‘अथ यः स जीवः स नित्यो निरवयवो ज्ञात्वाऽज्ञाता सुखी दुःखी शरीरेन्द्रियस्थः’ इति भाल्लवेयश्रुतिः ।
न चोपाधिकृतोंऽशः स एवांश उपहित इति, द्वित्वापेक्षत्वात् न चान्यत् कल्प्यम् ।
‘यद्धि युक्त्या विरुध्येत तदीशकृतमेव हि’ इति गत्यन्तरोक्तेः ॥ 27 ॥
॥इति इतरव्यपदेशाधिकरणम् ॥ 07 ॥
ॐ श्रुतेस्तुशब्दमूलत्वात् ॐ ॥ 28-163 ॥
न चेश्वरपक्षेयं विरोधः ।
‘योऽसौ विरुद्धोऽविरुद्धो मनुरमनुरवाग्वागिन्द्रोऽनिन्द्रः प्रवृत्तिरप्रवृत्तिः स परः परमात्मा’ इति पैङ्ग्यादिश्रुतेरेव ।
शब्दमूलत्वाच्च न युक्तिविरोधः ।
‘यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात् क्वचित् । विरोधे वाक्ययोः क्वापि किञ्चित् साहाय्यकारणम्’
इति पुरुषोत्तमतन्त्रे ॥ 28 ॥
ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ 29-164 ॥
परमात्मनो विचित्राश्च शक्तयः सन्ति, नान्येषाम् ।
विचित्र शक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः ।
एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानुविष्टः’॥
इति श्वेताश्वतरश्रुतिः ॥ 29 ॥
ॐ स्वपक्षदोषाच्च ॐ ॥ 30-165 ॥
ये दोषा इतरत्रापि ते गुणाः परमे मताः ।
न दोषः परमे कश्चिद्गुणा एव निरन्तराः’ ।
इति वचनाज्जीवपक्ष एव दोषो न परपक्षे ।
‘अथ यः सदोषः साञ्जनः सजनिः स जीवोऽथ यः स निर्दोषो निष्कलः सगुणः परः परमात्मा’
इति काषायणश्रुतिः ॥ 30 ॥
ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ 31-166 ॥
‘सर्वैर्युक्ताशक्तिभिर्देवता सा परेति यां प्राहुरजस्रशक्तिम् ।
नित्यानन्दा नित्यरूपाऽजरा च या शाश्वताऽत्मेति च यां वदन्ति’
इति चतुर्वेदशिखायाम् ॥
अतो न केवलं विचित्रशक्तिः, किन्तु सर्वशक्तिरेव ॥ 31 ॥
ॐ विकरणत्वान्नेति चेत् तदुक्तम् ॐ ॥ 32-167 ॥
न च करणाभावादनुपपत्तिरिति युक्तम् ।
‘आपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः।
स वेत्ति वेद्यं न च तस्यास्ति वेत्तातमाहुरग्र्यं पुरुषं महान्तम्’।
‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’
इत्यादि श्रतिभ्यः
‘सर्वोपेता च’ इति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थं पुनराशङ्का ॥ 32 ॥
॥ इति शब्दमूलत्वाधिकरणम् ॥ 08 ॥
यत्प्रयोजनार्थं सृष्ट्यादिस्तदूनत्वादपूर्णतेत्यत आह –
ॐ न प्रयोजनवत्त्वात् ॐ ॥ 33-168 ॥
‘अथैष एव परम आनन्दः’ इत्यादिना कृतकृत्यत्वान्न प्रयोजनाय सृष्टिः किन्तु ॥
ॐ लोकवत्तुलीलाकैवल्यम् ॐ ॥ 34-169 ॥
यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिलीला न तु प्रयोजनापेक्षया, एवमेवेश्वरस्य । नारायणसंहितायां च-
‘सृष्ट्यादिकं हरिर्नैव प्रयोजनपेक्ष्य तु ।
कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥
पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः ।
मुक्ता अप्याप्तकामाः स्युः किमु तस्याखिलात्मनः’ इति ॥
‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’ इति च श्रुतिः ॥ 34 ॥
॥ इति नप्रयोजनाधिकरणम् ॥ 09 ॥
सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येत्यतो वक्ति-
ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॐ ॥ 35-170॥
कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति श्रुतिः ॥ 35 ॥
ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ 36-171 ॥
यदपेक्षयाऽसौ फलं ददाति न तत् कर्म ।
‘एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधुकर्म कारयति तं यमधो निनीषते’ इति श्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेन्न । तस्यापि पूर्वकर्म कारणमित्यनादित्वात् कर्मणः ।
भविष्यत्पुराणे च –
‘पुण्यपापादिकं विष्णुः कारयेत् पूर्वकर्मणा ।
अनादित्वात् कर्मणश्च न विरोधः कथञ्चन’ इति ॥ 36 ॥
ॐ उपपद्यते चाप्युपलभ्यते च ॐ॥ 37-172 ॥
न च कर्मापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् ।
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥
इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् । न च पुनर्वैषम्याध्यापेते न दोषः । तादृशवैषम्यादेरुपलभ्यमानत्वात् ।
‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशिताऽपि ।
ईशो यत्रो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्रजानाम्’
इति चतुर्वेदशिखायाम् ॥ 37 ॥
॥ इति वैषम्यनैर्घृण्याधिकरणम् ॥ 10 ॥
अवशिष्टैरुपसंहरति-
ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ 38-173 ॥
‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।’
इति सर्वगुणोपपत्तिश्रुतेश्च ॥ 38 ॥
॥ इति सर्वधर्मोपपत्यधिकरणम् ॥ 11 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः ॥ 02-02 ॥
‘इतरेषां चानुपलब्धेः’ इति सामान्यतो निराकरणं समयानां कृतम्।विशेषतो निराकरोत्यस्मिन् पादे ।
अचेतनप्रवृत्तिमतं प्रथमतो निराकरोति –
ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ 01-174 ॥
अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । चशब्देन प्रमाणाभावं दर्शयति ॥ 01 ॥
ॐ प्रवृत्तेश्च ॐ ॥ 02-175 ॥
चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ 02 ॥
ॐ पयोऽम्बुवच्चेत् तत्रापि ॐ ॥ 03-176 ॥
पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्युज्यत इति न युक्तम् ।
‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते , याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां य दिशमनु’
‘एतेन ह वाव पयो मण्डं भवति’ इत्यादिना तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥ 03 ॥
ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ 04-177 ॥
‘न ऋते त्वत्क्रियते किञ्चनारे’ इति तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेरनपेक्षितमेवाचेतनवादिमतम् ॥ 04 ॥
॥ इति रचनानुपपत्त्यधिकरणम् ॥ 01 ॥
सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव पर्जन्यानुगृहीतं तृणादिकमुत्पद्यते, एवं प्रधानादीश्वरानुगृहीतं जगदित्यतो ब्रवीति-
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ॥ 05-178 ॥
‘यच्च किञ्चित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’
‘ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मण्येव लयमभ्येति ।
ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्ठाद्ब्रह्म मध्यतो ब्रह्म सर्वतः’ ॥
‘ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावात् तृणादीनां पर्जन्यवन्नानुग्राहकत्वमात्रमीश्वरस्य ।
‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत्’
इति भागवते ।
॥ इति अन्यत्रभावाधिकरणम् ॥ 02 ॥
लोकायतिकपक्षं निराकरोति
ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥ 06-179 ॥
यस्य धर्माधर्मौ न स्तः तत्सिद्धान्ते किं प्रयोजनम् । अतः स्वव्याहतेरेवोपेक्ष्यः ॥ 06 ॥
॥ इति अभ्युपगमाधिकरणम् ॥ 02 ॥
पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति –
ॐ पुरुषाश्मवदिति चेत् तथाऽपि ॐ ॥ 07-180 ॥
यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमादाय गच्चति, एवमचेतनाऽपि प्रकृतिः पुरषसम्बन्धात् प्रवर्तत इति चेन्न । ‘न ऋते त्वत्क्रियते’ इति तत्रापि तथात्वे दृष्टान्ताभावात् ॥ 07 ॥
ॐ अङ्गीत्वानुपपतेः ॐ ॥ 08-181 ॥
शरीरप्रवृत्तौपुरषस्याङ्गित्वात् ।
‘अङ्गमङ्गी समादाय यथाकार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्न ॥ 08 ॥
॥ इति पुरुषाश्माधिकरणम् ॥ 04 ॥
प्रकृत्युपसर्जनपुरुषकर्तृवादमपाकरोति –
ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ 09-182 ॥
शरीरसम्बन्धात् पुरुषः प्रवर्तत इत्यङ्गीकारेऽपि स्वतस्तस्यासामर्थ्याच्चरीरसम्बन्ध एवायुक्तः ॥ 09 ॥
ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ॥ 10-183 ॥
सकलश्रुतिस्मृतियुक्तिविरुद्धत्वाच्चानीश्वरमतमसमञ्जसम् ।
‘श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् ।
वदन्ति तद्विरुद्धं यो वदेत् तस्मान्न चाधमः’ इति पाद्मे ॥ 10 ॥
॥ इति अन्यथानुमित्यधिकरणम् ॥ 05 ॥
परमाण्वारम्भवादमपाकरोति –
ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ 11-184 ॥
महत्त्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते, एवं ह्रस्वत्वाद् पारिमण्डल्याच्चोत्पद्येत । वाशब्दादन्यथैतयोरपि न स्यात्, विशेषकारणाभावात् ॥ 11 ॥
ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ ॥ 12-185 ॥
ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावान्नेदानीमपि स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभावात् तत्कार्याभावः । वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वमुपपद्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ 12 ॥
ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ 13-186 ॥
कार्यकारणादीनां समवायसम्बन्दाङ्गीकारात् तस्य च भिन्नत्वसाम्यात् समवायान्तरापेक्षायामनवस्थितिः। न च तत्प्रमाणम् । प्रथमसम्बन्धा सिद्धैव च तदसिद्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ 13 ॥
ॐ नित्यमेव च भावात् ॐ ॥ 14-187 ॥
नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनित्वाङ्गीकारान्नित्यमेव कार्यं स्यात् । अन्यथा न कदाचित् ॥ 14 ॥
ॐ रूपादिमत्त्वाच्चविपर्ययो दर्शनात् ॐ ॥ 15-188 ॥
रूपादिमत्त्वाच्च परमाणूनामनित्यत्वम् । तथा दृष्टत्वाल्लोके ॥ 15 ॥
ॐ उभयथा च दोषात् ॐ ॥ 16-189 ॥
नित्यत्वे परमाणूनां तद्वत् सर्वनित्यत्वं स्यात् । विशेषप्रमाणाभावात् अनित्यत्वे कारणाभावात् तदुत्पत्त्यभावः ॥ 16 ॥
ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ॥ 17-190 ॥
सकलश्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेनानपेक्षता ।
‘आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकम्’ इति मोक्षधर्मे ॥ 17 ॥
॥ इति वैशेषिकाधिकरणम् ॥ 06 ॥
परमाणुपुञ्जवादिमतं निराकरोति-
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ 18-191 ॥
समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात् तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं स्यात् ॥ 18 ॥
ॐ इतरेतरप्रत्ययात्वादिति चेन्न उत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ 19-192 ॥
सर्वदा विद्यमानोऽपि समुदाय परस्परापेक्षया व्यवह्रियत इति चेन्न । एकं कार्यमुत्पाद्य तस्य विनष्टत्वात् परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । कारणे सति कार्यं भवत्येवेति हि तस्य नियमः ॥ 19 ॥
ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ ॥ 20-193 ॥
कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्योत्पत्तिः ॥ 20 ॥
ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥ 21-194 ॥
कारणे विनष्टे कार्यमुत्पद्यते चेत् तत्कार्यमिति प्रतिज्ञाहानिः । तत्काले कारणमस्ति चेद्विनाशकारणाभावद्यौगपद्यं सर्वकार्याणाम् ॥ 21 ॥
ॐ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधप्राप्तिरविच्छेदात् ॐ ॥ 22 -195 ॥
कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः ससन्तानश्च विनाशो न युज्यते ॥ 22 ॥
ॐ उभयथा च दोषात् ॐ ॥ 23-196 ॥
कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभावान्न कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥ 23 ॥
ॐ आकाशे चाविशेषात् ॐ ॥ 24-197 ॥
दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्षणिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्यत्रापि तदनुमीयते ॥ 24 ॥
ॐ अनुस्मृतेश्च ॐ ॥ 25-198 ॥
तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाय ब्रान्तित्वे विशेषदर्शनस्यापि ब्रान्तित्वम् ॥ 25 ॥
॥ इति समुदायाधिकरणम्॥ 07 ॥
शून्यवादमपाकरोति-
ॐ नासतोऽदृष्टत्वात् ॐ ॥ 26-199 ॥
अदृष्टत्वादसतः कारणत्वं न युज्यते ॥ 26 ॥
ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥ 27-200 ॥
असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जितानां खपुष्पादीनामपि सकाशात् कार्यसिद्धिः । चशब्दान्न चेदन्यत्रापि न स्यादविशेषात् ॥ 27 ॥
ॐ नाभाव उपलब्धेः ॐ ॥ 28-201 ॥
न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥28॥
ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥ 29-202 ॥
न च दृष्टस्यापि स्वप्नादिवदभावः। तस्योत्तरकाले’स्वप्नोयं’,’नायं सर्पः’ इत्याद्यनुभवात् । न चात्र तादृशं प्रमाणमस्ति ॥ 29 ॥
॥ इति असदधिकरणम्॥ 08 ॥
विज्ञानवादमपाकरोति-
ॐ न भावोऽनुपलब्धेः ॐ ॥ 30-203 ॥
न विज्ञानमात्रं जगत् । तथाऽनुभवाभावात् ॥ 30 ॥
ॐ क्षणिकत्वाच्च ॐ ॥ 31-204 ॥
ज्ञानं क्षणिकम् । अर्थानां च स्थायित्वमुक्तम् । आतश्च नैक्यम् ॥ 31 ॥
ॐ सर्वथाऽनुपपत्तेश्च ॐ ॥ 32-205 ॥
प्रमाणाभावात् सर्वश्रुतिस्मृतिर्युक्तिविरुद्धत्वाच्च नैते पक्षा ग्राह्याः ॥ 32 ॥
॥ इति अनुपलब्द्यधिकरणम् ॥ 09 ॥
स्याद्वादिमतं दूषयति-
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ 33-206 ॥
सत् स्यादसत् स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादित्येतन्नैकस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ 33 ॥
ॐ एवञ्चात्माकार्त्स्न्यम् ॐ ॥ 34-207 ॥
जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्तादिशरीरेऽकार्त्स्न्यं स्यात् ॥34॥
ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ 35-208 ॥
तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम् । विकारित्वादनित्यत्वप्रसक्तेः ॥ 35 ॥
ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ॥ 36-209 ॥
परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थितेस्तदर्थत्वेन शरीरस्थितेरुभयनित्यत्वादविशेषेण सर्वशरीरनित्यत्वं स्यात् ॥ 36 ॥
॥ इति नैकस्मिन्नधिकरणम् (स्याद्वाद्यधिकरणम्) ॥10॥
पाशुपतपक्षमपाकरोति-
ॐ पत्युरसामञ्जस्यात् ॐ ॥ 37-210 ॥
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’
‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’।
‘अस्य देवस्य मील्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’।
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’
इत्यादि श्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पशुपतीरीश्वरो जगत्कर्ता ॥ 37 ॥
ॐ सम्बन्धानुपपत्तेश्च ॐ ॥ 38-211 ॥
अशरीरत्वात् तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन मृतपुरुषवत् ॥38॥
ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ 39-212 ॥
पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करोति । न चास्य तदस्ति ॥ 39 ॥
ॐ करणवच्चेन्न भोगादिभ्यः ॐ ॥ 40-213 ॥
इदमेव जगत् तस्य करणवदधिष्ठानादिरूपम् । नित्यस्यापि कस्यचिद्भावाद्युज्यत इति चेन्न भोगादिप्राप्तेः। उत्पत्तिविनाशौ सुखदुःखभोगाश्च प्राप्यन्ते तद्गताः ॥ 40 ॥
ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ ॥ 41-214 ॥
देहवत्वेऽन्तवत्वम् । अन्यथा ज्ञानाभावः । शरीरिण एव हि ज्ञानोत्पत्तिर्दृष्टा । विष्णोस्तु श्रुत्यैव सर्वे विरोधाः परिहृताः ।
‘यदात्मको भगवांस्तदात्मिका व्यक्तिः ।
किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः’इति ।
‘बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान् मनोवानङ्गप्रत्यङ्गवान्’ इति
‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः’ ॥ इत्यादिकया ॥ 41 ॥
॥ इति पत्युरधिकरणम् (पशुपत्यधिकरणम्) ॥ 11 ॥
शक्तिपक्षं दूषयति-
ॐ उत्पत्यसम्भवात् ॐ ॥ 42-215 ॥
न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ 42 ॥
ॐ न च कर्तुः करणम् ॐ ॥ 43-216 ॥
यदि पुरुषोऽङ्गीक्रियेत तस्यापि करणाभावादनुपपत्तिः ॥ 43 ॥
ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥ 44-217 ॥
यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव सृष्ट्याद्युपपत्तेरीश्वरवादान्तर्भावः ॥ 44 ॥
ॐ विप्रतिषेधाच्च ॐ ॥ 45-218 ॥
सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ 45 ॥
॥ इति उत्पत्त्य(शक्त्य)धिकरणम् ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ 02-02 ॥
जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परं विरोधमपाकरोत्यनेन पादेन।
ॐ न वियदश्रुतेः ॥ 01-219 ॥
न वियदनुत्पत्तिमत् । तथाऽश्रुतेः ॥ 01 ॥
ॐ अस्तितु ॐ ॥ 02-220 ॥
अस्त्येव चोत्पत्तिश्रुतिः- ‘आत्मन आकाशः सम्भूतः’ इत्यादि ॥ 02 ॥
ॐ गौण्यसम्भवात् ॐ ॥ 03-221 ॥
‘अनादिर्वा अयमाकाशः शून्योऽलौकिकः’ इत्यादिश्रुतिर्गौणी । अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ 03 ॥
ॐ शब्दाच्च ॐ ॥ 04-222 ॥
‘अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धाभूतानि भौतिकानीति । यानि ह वा उत्पत्तिमन्ति तान्यनित्यानि।यानि ह वा अनुत्पत्तिमन्ति तानि नित्यानि । न ह्येतानि कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा काल इति । अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते’ इति भाल्लवेयश्रुतेश्च ॥ 04 ॥
ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥ 05-223 ॥
स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया । यथा ब्रह्मशब्दः ।
‘अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति च’ इति श्रुतेः परे ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते । अत एवाब्रह्मत्वं च तेषाम् । एवमत्राप्यनुत्पत्तिमच्छब्दः ॥ 05 ॥
ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥ 06-224 ॥
ब्रह्मणोऽन्यस्य नित्यत्वे’इदं सर्वमसृजत’ इत्यादि प्रतिज्ञाहानिः।आकाशस्यापि सर्वस्मादव्यतिरेकात्।
‘अत्मा वा इदमेक एवाग्र आसीत्’ ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’
‘इदं वा अग्रे नैव किञ्चनासीत्’ इत्यादिश्रुतिभ्यः ॥ 06 ॥
ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ 07-225 ॥
विभक्तत्वाच्च विकारित्वं युक्तम् । विकारिण एव हि विभक्तालोके दृश्यन्ते ।
‘एकोऽविभक्तः परमः पुरुषो विष्णुरुच्यते ।
प्रकृतिः पुरुषः कालस्त्रय एते विभागतः ॥
चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता ।
तद्विभागेन जायन्त आकाशाद्याः पृथक् पृथक् ॥
यो विभागी विकारः सः सोऽविकारः परो हरिः ।
अविभागात् परानन्दो नित्यो नित्यगुणात्मकः ।
विभागो ह्यल्पशक्तिः स्यान्न तदस्ति जनार्दने’इति बृहत्संहितायाम् ॥ 07 ॥
॥ इति वियदधिकरणम् ॥ 01 ॥
‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’
‘अथ ह चेतनाश्चाचेतनाश्च तेजोऽबन्नान्याकाश इति तान्यचेतनानि वायुर्वाव चेतनो वायुना हि सर्वाणि भूतानि विज्ञायन्ते’ ।
‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण’।
‘सा वा एषा देवताऽनादिर्योऽयं पवते’ इति ।
‘यस्यानादिर्न मध्यं नान्तो नोदयो न निम्लोचः’।
इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरित्यतो ब्रवीति –
ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ 08-226 ॥
एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्वनुत्पत्तिश्रुतिरपि व्याख्याता ।
‘नित्यः परमनित्यश्च तथाऽनित्यः परस्तथा ।
चतुर्धैतज्जगत् सर्वं परानित्यं तु पार्थिवम्।
अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः ।
परस्तु नित्यः पुरुषः प्रकृतिः काल एव च ।
एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः ।
प्रतिव्यूह्य व्यूह्य चासावतीत्या च जनार्दनः ।
धारयत्यनिशं देवो नित्यानन्दैकलक्षणः’
इति कौर्मे ॥ 08 ॥
॥ इति मातरिश्वाधिकरणम् ॥ 02 ॥
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ 09-227 ॥
‘असद्वा इदमग्र आसीत्। ततो वै सदजायत’’असतः सदजायत’। इत्यादि श्रुतिभ्यः सतोऽप्युत्पत्तिरिति चेन्न ।
अनुत्पत्तिरेव सतः । तुशब्देनोक्तव्यवस्थामपाकरोति । न ह्यसतः सदुत्पद्यते । अदृष्टत्वादनुपपत्तेः ।
‘तद्वा एतद्ब्रह्माहुर्बृहति बृंहयति चेति । तद्वा एतदसदाहुः न ह्यासादयति कश्चन । तद्वा एतत् परमाहुः परतो हि तदुदीक्ष्यते’
इति श्रुतेरसच्छब्दो ब्रह्मवाची ।
‘देवानां पूर्व्ये युगेऽसतः सदजायतेति ब्रह्मवा असत् सद्वाव प्राणः प्राणं वाव महान् सह ओजो बलमित्याचक्षते’
इति च पैङ्गीश्रुतिः।
‘त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ।
ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते’
इति भागवते ॥
‘अजायमानो बहुधा विजायत’ इति च ।
‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन ।
पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥
विकार एव जननं पुरुषे तद्विशेषणम् ।
परतन्त्रविशेषो हि विकार इति कीर्तितः’
इति पाद्मे ॥
‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।
विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥
शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन ।
अविभिन्नाऽपि सेच्छादिभेदैरपि विभाष्यते’
इति भागवततन्त्रे ॥ 09 ॥
इति असम्भवाधिकरणम् ॥ 03 ॥
ॐ तेजोऽतस्तथा ह्याह ॐ ॥ 10-228 ॥
‘वायोरग्निः’इत्यादेर्नान्यत उत्पत्तिर्ग्राह्या । अत एव परात् तदपि जायते । ‘तत् तेजोऽसृजत’ इति ह्याह । कारणत्वेनेत्युक्तेऽप्यमुख्यतयाऽन्येषामपि शब्दोक्तत्वात् पुनरुक्तिरुभयकारणत्वनिवृत्यर्थम् ॥ 10 ॥
॥ इति तेजोऽधिकरणम् ॥ 04 ॥
ॐ आपः ॐ ॥ 11-229 ॥
‘ब्रह्मैवेदमग्र आसीत् तदपोऽसृजत तदिदं सर्वम्’ इति श्रुतेः, ‘अग्नेरापः’ इत्युक्तेऽपि ब्रह्मण एवाबादिसृष्टिः ।
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इत्यादि च ।
‘कर्ता सर्वस्य वै विष्णुः एक एव न संशयः ।
इतरेषां तु सत्ताद्या यत एव तदाज्ञया’ इति भविष्यत्पुराणे॥
वामने च-
‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् ।
एक एव महाशक्तिः कुरुते सर्वमञ्जसा’ इति ॥
घर्मात् स्वेदादिदृष्टेः पुनः प्रतिषेधः ॥ 11 ॥
॥ इति अबधिकरणम् ॥ 05 ॥
‘ता आप ऐक्षन्त बह्व्यः स्यामः प्रजायेमेहीति । ता अन्नमसृजन्त’ इत्यद्ब्द्योऽन्नसृष्टिः श्रूयते ।‘अद्ब्यः पृथिवी’ इति कुत्रचित् पृथिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्तिः –
ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ 12-230 ॥
पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’। ‘पृथिवी वा अन्नम्’ । ‘ता आपोऽन्नमसृजन्त पृथिवी वा अन्नम्’ इत्यादिशब्दान्तराच्च । आदिशब्दाद्युक्तिः अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि ।
कौर्मे च –
‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते ।
यथा विरुद्धता न स्यात् तथाऽर्थः कल्प्य एतयोः’ इति ।
रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः ।
नाभिपद्माभिसम्बन्धात् पीता सेत्यभिधीयते ।
क्षत्ररक्ताभिसम्बन्धाद्रक्तोदकबहुत्वतः ।
शुक्लत्वेमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥
विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते ।
स्वर्णवीर्यो हि भगवाननादिः पुरुषोत्तमः ॥
इति व्योमसंहितायाम् ॥ 12 ॥
॥ इति पृथिव्यधिकरणम् ॥
‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’ इत्यादिनाऽन्यः संहर्ता प्रतीयत इत्यतो ब्रूते –
ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ॥ 13-231 ॥
‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्बूयश्चान्ते विश्वमायानिवृत्तिः’
इति बन्धलयस्य तदभिध्याननिमित्तत्त्वलिङ्गात् तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव संहारकर्ता विष्णुरिति प्रतीयते, किमु
‘यमप्येते भुवनं साम्पराये स नो हरिर्घृत मीहायुषेऽत्तु देवः’।
‘य इदं सर्वं विलापयति स हरिः परः परात्मा’
इत्यादि श्रुतिभ्यः इति एव शब्दः ।
‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भः शर्वश्च कालाख्यारूपिणस्तव’
इति भागवते ॥
‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एक एव हरिः परः परानन्दः’
इति च महोपनिषदि ॥ 13 ॥
॥ इति तदभिध्यानाधिकरणम् ॥ 07 ॥
‘अत एव हीदं परात् क्रमादुत्पद्यते क्रमाद्विलीयते नासावुदेति नास्तमेति’ इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते ।
‘अक्षरात् परमादेव सर्वमुत्पद्यते क्रमात् ।
व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि’ ॥
इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । अत आह
ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ 14-232 ॥
क्रमवचनमपि विपरीतक्रमापेक्षया ।
‘कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च ।
यः क्रमाद् व्युत्क्रमाच्चैव स हरिः पर उच्यते’॥
इत्यत एव भाल्लवेयश्रुतिवचनात् ।
‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।
इति क्रमेण भगवान् सृष्टिसंहारकृद्धरिः’ इति च पाद्मे ।
पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च ।
वामने च –
‘पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।
सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ।
व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः’ ॥ इति॥ 14 ॥
॥ इति विपर्ययाधिकरणम् ॥
ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ॥ 15-233 ॥
‘प्राणान्मनो मनसश्च विज्ञानम्’ । ‘यच्छेद्वाङ्मनसि प्राज्ञस्तद्यच्छेज्ञान आत्मनि’
इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेन्न, विशेषप्रमाणाभावात् ॥15 ॥
ॐ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॐ ॥ 16-234 ॥
‘मनसश्च विज्ञानम्’ इति व्यपदेशश्चराचरेष्वालोचनाद्विज्ञानं भवतीति भागापेक्षया स्यात् । न विज्ञानतत्त्वापेक्षया ।
स्कान्दे च –
‘परादव्यक्तमुत्पन्नमव्यक्तात् तु महांस्तथा ।
विज्ञानतत्त्वं महतः समुत्पन्नं चतुर्मुखात् ॥
विज्ञानतत्त्वात् तु मनो मनस्तत्त्वाच्च खादिकम् ।
एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया ।
विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः’ ॥इति॥ 16 ॥
॥ इति अन्तराधिकरणम् ॥ 09 ॥
ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ 17-235 ॥
‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचयत्येक एव’ इति श्रुतेः परमात्माऽपि न लीयते। अश्रुतत्वाद्ब्रह्मलयस्य। निलीन शब्देनापिहितत्वमुच्यते । तुच्छेनाभ्यपिहितं यदासीत्, इत् श्रतेः ।
‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति कश्चन’ इति पैङ्गिशृतिः ।
‘नित्यो नित्यानां चेतनश्चेतनानाम्’
‘स नित्यो निर्गुणो विभुः परः परमात्मा’।
‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’ इत्यादि श्रुतिभ्यो नित्यत्वाच्च ॥ 17 ॥
॥ इति आत्माधिकरणम् ॥ 10 ॥
‘नित्यो नित्यानाम्’ इति जीवास्यापि नित्यत्वमुक्तम् ।‘सर्व एते चिदात्मानो व्युच्चरन्ति’इत्युत्पत्तिरुच्यते । अतो विरोध इत्यत आह –
ॐ ज्ञोऽत एव ॐ ॥ 18-236 ॥
जीवोऽप्यत एव परमेश्वरादुत्पद्यते । शब्दादेव । ‘ते वा एते चिदात्मनोऽविनष्टाः परञ्ज्योतिर्निविशन्त्यविनष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन’इति काषायणश्रुतिः ॥ 18 ॥
ॐ युक्तेश्च ॐ ॥ 19-237 ॥
नित्यस्यापि ह जीवस्योपाध्यक्षयोत्पत्तिर्युज्यते।
‘उत्पद्यन्ते चिदात्मानो नित्यान्नित्याः परात्मनः ।
उपाध्यपेक्षया तेषामुत्पत्तिरपि गीयते’
इति व्योमसंहितायाम्॥ 19 ॥
इति ज्ञाधिकरणम् ॥ 11 ॥
‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्वरूपा अनन्ताः’ इति काषायणश्रुतौ व्याप्तत्वं प्रतीयते ।
‘अणुर्ह्येष आत्मायं वा एते सिनीतः । पुण्यं चापुण्यं च’ इति गौपवनश्रुतावणुत्वमित्यतो विरोध इति । अतो ब्रवीति-
ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ 20-238 ॥
हेतूनाम् सकाशादणुरेव ।
‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति स गर्भो भवति स प्रसूयते स कर्म कुरुते’
इति पौष्यायणश्रुतेः॥ 20 ॥
तत्र स्वातन्त्र्य प्रतीतेः-
एकः प्रसूयते जन्तुरेक एव प्रमीयते।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्’ इत्यादेश्च ॥
स्वयमेवेत्यतो वक्ति –
ॐ स्वात्मना चोत्तरयोः ॐ ॥ 21-239 ॥
‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते। तं वा एतमभिवदन्ति स्वात्मा’ इति।
‘एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गमयत्येष आगमयति। इत्युत्तरयोर्वाक्ययोः परमात्मनैवोत्क्रान्त्यादयः ॥ 21 ॥
ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॐ ॥ 22-240 ॥
‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च’ इति व्याप्तिश्रुतेर्नाणुर्जीव इति चेन्न ।
‘स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च । स बहुधेदमनुप्रविश्यात्मनोऽभिनयति । स आत्मा स आत्मानः स ईशः स विष्णुः स परः परोवरीयान्’ इति परमात्माधिकारत्वात् ।
‘एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः ।
एक एवोच्यते वेदैस्तावता नास्य भिन्नता’
इति भविष्यत्पुराणे ।
‘तदयं प्राणोऽधितिष्ठति। तदुक्तमृषिणाऽऽतेन यातम्’ इत्यादि च ॥ 22 ॥
ॐ स्वशब्दोन्मानाभ्यां च ॐ ॥ 23-241 ॥
‘एषो ह्यात्माऽध्युद्गतो मानशक्तेस्तथाऽप्यसौ प्रमितिं याति वेदैः ।
पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित् सर्वकर्ता’
इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च।
‘आत्माऽमेयः परं ब्रह्म परानन्दादिकाभिधाः।
वदन्ति विष्णुमेवैकं नान्यत्रासां गतिः क्वचित्’ इति च कौर्मे ॥ 23 ॥
ॐ अविरोधश्चन्दनवत् ॐ ॥ 24-242 ॥
अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते।यथा हरिचन्दनविप्लुष एकदेशपतितायाः सर्वशरीरव्याप्तिः ।
‘अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति ।
यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः’ इति च ब्रह्माण्डपुराणे ॥ 24 ॥
ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॐ ॥ 25-243 ॥
सम्यगसम्यगवस्थानविशेषाद्युज्यते चन्दनस्येति चेन्न। ‘हृदि ह्येषा आत्मा’ इति जीवास्यापि तथाऽभ्युपगमात् ॥ 25 ॥
ॐ गुणाद्वाऽऽलोकवत् ॐ ॥ 26-244 ॥
यथाऽऽलोकस्य प्रकाशगुणेन व्याप्तिर्ज्योतीरूपेणाव्याप्तिः एवं चिद्गुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति वा । स्कान्दे च –
‘असम्यक् सम्यगिति च व्यवस्थाभेदतः सुराः।
व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा॥
चिद्गुणस्य स्वरूपत्वात् तद्व्याप्तिश्चेति युज्यते।
शक्तियोगात् सुराणां तु विविधा च व्यवस्थितिः’ इति ॥ 26 ॥
॥ इति उत्क्रान्त्यधिकरणम् ॥ 12 ॥
‘स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा न शतधा’ इति गौपवनश्रुतावेकस्याबहुत्वं प्रतीयते ।
‘स पञ्चधा स सप्तधा स दशधा भवति स शतधा च सहस्रधा स गच्छति स मुच्यते’ इति पाराशर्यायणश्रुतौ बहुरूपत्वं प्रतीयते ।
अतो विरोधं परिहरति-
ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ॥ 27-245 ॥
यथा पुष्पाद्गन्धः पृथग्गच्छति एवमंशिनो जीवादंशाः पृथग्गच्छन्ति ।
‘अथैक एव सन् गन्धवद्व्यतिरिच्यते । अथैकीभवति। अथ बह्वीभवति ।
तं यथा यथेश्वरः कुरुते तथा भवति सोऽचिन्त्यः परमो गरीयान्’ इति शाण्डिल्यश्रुतिः ।
‘अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः ।
आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’ इति च पाद्मे ॥ 27 ॥
॥ इति व्यतिरेकाधिकरणम् ॥ 13 ॥
‘तत्वमसि’ ,’अहं ब्रह्मास्मि’ इत्यादिषु जीवस्य परेणाभेदः प्रतीयते ।‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘द्वा सुपर्णा’ इत्यादिषु भेदः। अत उच्यते-
ॐ पृथगुपदेशात् ॐ ॥ 28-246 ॥
‘बिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णाः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवा-भिवाञ्छेत्’
इति सोपपत्तिककौशिकश्रुतेर्भिन्न एव जीवः ॥ 28 ॥
ॐ तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥ 29-247 ॥
ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपमतोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात् सर्वात्मकत्वं ब्रह्मण उच्यते‘सर्वं खल्विदं ब्रह्म’ इति भविष्यत्पर्वणि च –
‘भिन्ना जीवाः परो भिन्नस्तथापि ज्ञानरूपतः ।
प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः’ इति॥ 29 ॥
॥ इति पृथगुपदेशाधिकरणम् ॥ 14 ॥
जीवास्याप्युत्पत्तिरुक्ता । अतस्तस्य
‘सोऽनादिना पुण्येन पापेन चानुबद्धः। परेण निर्मुक्त आनन्त्याय कल्पते’ ।
इत्यानादिकर्मसम्बन्ध आनन्त्यावाप्तिश्च न युज्यत इत्यत आह –
ॐ यावदात्माभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥ 30-248 ॥
यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि ।
‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः ।
अत उत्पद्यते च म्रियते च विमुच्यते च’
इति च आग्निवेश्यश्रुतिः ।
‘आत्मा नित्यः सुखदुःखे त्वनित्ये, जीवो नित्यो धातुरस्य त्वनित्यः’
इति च भारते ॥ 30 ॥
॥ इति यावदधिकरणम् ॥ 15 ॥
‘विज्ञानात्मा सह देवैश्च सर्वैः’ । ‘स आनन्दः स बलः स ओजः स परेणामुं लोकं नीयते स विमुच्यत इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । स दुःखाद्विमुक्त आनन्दी भवति । सोऽज्ञानाद्विमुक्तो ज्ञानी भवति ।सोऽबलाद्विमुक्तो बली भवति। स नित्यो निरातङ्कोऽतिष्ठते’ इति पैङ्गीश्रुतावनानन्दादिरूपत्वं प्रतीयते । अत आह –
ॐ पुंस्त्वादिवत्त्वस्यसतोऽभिव्यक्तियोगात् ॐ ॥ 31-249 ॥
यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यत एवं सतामेवानन्दादीनां व्यक्त्यपेक्षया तदुक्तिः ।
‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ इति च गौपवनश्रुतिः॥ 31 ॥
ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॐ ॥ 32-250 ॥
व्यक्तनङ्गीकारे देवानां च नित्योपलब्धिरानन्दादीनामसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्यनुपलब्धी च प्रसज्येते ।
‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसुरा एवमनेवं च मनुष्याः’ इति ह्याग्निवेश्यश्रुतिः ।
भविष्यत्पर्वणि च-
‘नित्यानन्दज्ञानबला देवा नैवं तु दानवाः ।
दुःखोपलब्धिमात्रास्ते मानुषस्तूभयात्मकाः ॥
तेषां यदन्यथा दृश्यं तदुपाधिकृतं मतम् ।
विज्ञानेनात्मयोगेन निजरूपे व्यवस्थितिः ॥
सम्यज्ज्ञानं तु देवानां मनुष्याणां विमिश्रितम् ।
विपरीतं च दैत्यानां ज्ञानस्यैवं व्यवस्थितिः’ इति ॥ 32 ॥
॥ इति पुंस्त्वाधिकरणम् ॥ 16 ॥
ईश्वरस्यैव कर्तृत्वमुक्तम् । ’यत् कर्म कुरुते तदभिसम्पद्यते’ इति जीवस्याप्युपलभ्यते । अत आह-
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ 33-251 ॥
जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवोऽपि कर्ता ॥ 33 ॥
ॐ विहारोपदेशात् ॐ ॥ 34-252 ॥
‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इत्यादिना मोक्षेऽपि ॥ 34 ॥
ॐ उपादानात् ॐ ॥ 35-253 ॥
साधनाद्युपादानप्रतीतेश्च ॥ 35 ॥
ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ 36-254 ॥
‘आत्मानमेव लोकमुपासीत’ इति क्रियायां व्यपदेशाच्च । अन्यथाऽऽत्मैव लोकमिति निर्देशः स्यात् ॥ 36 ॥
तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति –
ॐ उपलब्धिवदनियमः ॐ ॥ 37-255 ॥
यथा ज्ञान इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य । ‘य आत्मानमन्तरो यमयति’ इति च श्रुतिः ॥ 37 ॥
कुतः ? –
ॐ शक्तिविपर्ययात् ॐ ॥ 38-256 ॥
अल्पशक्तित्वाज्जीवस्य ॥ 38 ॥
ॐ समाध्यभावाच्च ॐ ॥ 39-257॥
समाधानाभावाच्चास्वातन्त्र्यं प्रतीयते ॥ 39 ॥
ॐ यथा च तक्षोभयथा ॐ ॥ 40-258 ॥
यथा तक्ष्णः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ॥ 40 ॥
ॐ परात् तु तच्छ्रुतेः ॐ ॥ 41-259 ॥
सा च कर्तृत्वशक्तिः परादेव ।
‘कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’ इति हि पैङ्गि श्रुतिः ॥ 41 ॥
ॐ कृतप्रयत्नापेक्षस्तुविहितप्रतिषेधावैयर्थ्यादिभ्यः ॐ ॥ 42-260 ॥
ततोऽप्रयोजकत्वं शास्त्रस्य नापद्यते । कृतप्रयत्नापेक्षत्वात् तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि ।
‘पूर्वकर्म प्रयत्नं च संस्कारं चाप्यपेक्ष्यतु ।
ईश्वरः कारयेत् सर्वं तच्चेश्वरकृतं स्वयम् ॥
अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः’ इति भविष्यत्पर्वणि ।
‘एतदेवं न चाप्येवमेतदस्ति च नास्ति च’ इति च मोक्षधर्मे ॥ 42 ॥
॥ इति कर्तृत्वाधिकरणम् ॥ 17 ॥
‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः ।
स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ॥
इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।
‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य ।
तथाऽपि तु यथायोगं फलदः प्रभुरेकराट् ।
न नियम्यः स कस्यापि स सर्वस्य नियामकः’ ॥ इति च भाल्लवेयश्रुतौ ॥
अतो ब्रवीति-
ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥ 43-261 ॥
‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ ।
‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ ।
‘यस्तद्वेद स पितुष्टिताऽसत्’ ।
‘यस्ताविजानात् स पितुष्पिताऽसत्’।
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’इत्यादिना नावाव्यपदेशादंशो जीवः ।
तथा च पाराशर्यायणश्रुतिः-
‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति सखेति’ च इति ।
‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन ।
नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः ।
‘ब्रह्मा दाशा ब्रह्म कितवाः, ब्रह्मैवेमे दाशा’इत्यभेदेनाप्येकेऽधीयते ।
तथा चाग्निवेश्यश्रुतिः-
‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिरे’ इति ॥
वाराहे च-
‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।
बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥
यतो भेदेन तस्यायमभेदेन च गीयते ।
अतश्चांशत्वमुद्धिष्टं भेदाभेदौ न मुख्यतः’ इति ॥ 43 ॥
ॐ मन्त्रवर्णात् ॐ ॥ 44-262 ॥
‘पादोऽस्य विश्वा भूतानि’ इति ॥ 44 ॥
ॐ अपि स्मर्यते ॐ ॥ 45-263 ॥
‘ममैवांशो जीवलोके जीवभूतः सनातन’ इति ॥ 45 ॥
अनंशत्वश्रुतेर्गतिं चाह –
ॐ प्रकाशादिवन्नैवं परः ॐ ॥ 46-264 ॥
अंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः।यथा तेजोऽम्शस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता। यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथिव्यंशस्य मेरोर्विष्टादेश्च । अभिमानिदेवतापेक्षयैतत् ॥ 46 ॥
ॐ स्मरन्ति च ॐ ॥ 47-265 ॥
‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’ ।
‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।
अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः’ ॥
‘स्वांशश्चाथो विभिन्नांश इति द्वेधाऽम्श इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथास्थितिः॥
तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्पशक्तिःस्यात् किञ्चित्सादृश्यमात्रयुक्’ ॥ इति वाराहे ।
‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति च ॥ 47 ॥
ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ 48-266 ॥
परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते, अंशत्वेऽपि देहसम्बन्धात् ।’य आत्मानमन्तरो यमयति’ । ‘तमेवं विद्वानमृत इह भवति’ इत्यादिना । न तु परस्य।
‘वासुदेव सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाऽहं सहस्तधाऽहमितेऽहमनन्तोऽहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञान बन्धो न मुक्तितो सर्व एव ह्येते पूर्णा अजरा अमृताः परमाः परानन्दाः’ इति चतुर्वेदशिखायाम् ।
युज्यते च ज्योतिरादिवत् यथाऽऽदित्यो वियद्गतस्तत्प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’ इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुग्राह्यत्वं तेनैवावृतिपरिहारश्च । यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च ।
मोक्षधर्मे च –
‘यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते ।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥
ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् ।
भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥
भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ इति ।
वाराहे च-
‘अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः ।
अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ॥
अदेहबन्धयोग्यत्वाद्यथासूर्यप्रभाऽक्षिणी ।
यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥
अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम्’ इति ॥ 48 ॥
ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ 49-267 ॥
अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । तथा च चतुर्वेदशिखायाम्-
‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि, कृष्णो रामः कपिलः इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि। तानि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितानि । अथावराः सर्व एवापूर्णाः सर्वे एव बध्यन्तेऽथ मुच्यन्ते च केचन’ इति ॥ 49 ॥
ॐ आभास एव च ॐ ॥ 50-268 ॥
‘रूपं रूपं प्रतिरूपो बभूव’ इति प्रतिबिम्बत्वाच्च न साम्यम् ।
वाराहे च–
‘द्विरूपूवंशकौ तस्य परमस्य हरेर्विभोः ।
प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥
प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः ।
प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु’ इति ॥
‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।
जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’ इति पैङ्गिश्रुतिः ॥
‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’ इति च श्रुतिः ॥ 50 ॥
॥ इति अंशाधिकरणम् ॥ 18 ॥
प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाह –
ॐ अदृष्टनियमात् ॐ ॥ 51-269 ॥
अनादिविद्याकर्मादिवैचित्र्याद्वैचित्र्यम् ॥ 51 ॥
ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ 52-270 ॥
इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । च शब्देन प्रतिक्षणवैचित्र्यं च ॥52॥
ॐ प्रदेशादिति चेन्नान्तर्भावात् ॐ ॥ 53-271 ॥
न स्वर्गभूम्यादिप्रदेशविशेषाद्वैचित्र्यम् । तत्प्राप्तेरप्यदृष्टापेक्षत्वात्। एकदेशस्थितानामेव वैचित्र्यदर्शनाच्च ॥ 53 ॥
॥ इति अदृष्टाधिकरणम् ॥ 19 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः॥ 02-03 ॥
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन ।
‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः श्रूयते ।
‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति च ।
अत उच्यते –
ॐ तथा प्राणाः ॐ ॥ 01-272 ॥
यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ 01 ॥
ॐ गौण्यसम्भवात् ॐ ॥ 02-273 ॥
अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।
‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।
तेषां भूतैरुपचयः सृष्टिकाले विधीयते ।
परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता’ इति भविष्यत्पर्वणि ॥ 02 ॥
ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥
‘इदं सर्वमसृजत’ इति ॥ 03 ॥
॥ इति प्राणाधिकरणम् (प्राणोत्पत्त्यधिकरणम्)
‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’
इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्तिका श्रूयते । अत आह-
ॐ तत् प्राक्ष्रुतेश्च ॐ ॥ 04-275 ॥
‘मनः सर्वेन्द्रियाणि च’ इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते।
‘पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः ।
तदनुत्पत्तिवचनमल्पोपचयकारणात्’॥
इति वायुप्रोक्तवचनं चशब्देन गृहीतम् ॥ 04 ॥
॥ इति मनोधिकरणम् (तत्प्रागधिकरणम्)
‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युत्तम्’ इति ।
‘वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिरवतिष्ठते’
इति सयुक्तिकं पौष्यायणश्रुतौ वाचोऽनुत्पत्तिरुच्यते । अतो ब्रवीति –
ॐ तत्पूर्वकत्वाद्वाचः ॐ॥ 05-276 ॥
‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’ इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः ।
‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।
उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन’ इति वायुप्रोक्ते ॥ 05 ॥
॥ इति वागधिकरणम् (तत्पूर्वकत्वाधिकरणम्)॥
‘सप्तप्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः।
‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या द्वादशराशयो द्वादशग्रहाः’ इति कौण्डिण्यश्रुतौ द्वादशप्राणादृष्यन्ते । अतो वक्ति-
ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥
ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।’गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात्।
‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः ।
एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्’ ।
इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥
ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥
हस्तादीनां कर्मविषयत्वान्न सहपाठः।
‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः ।
तस्मादुद्गतिहेतुत्वाज्ज्ञानं गतिरिहोच्यते’ इति वायुप्रोक्ते ॥ 07 ॥
॥ इति सप्तगत्यधिकरणम् ॥ 04 ॥
‘दिवीव चक्षुराततम्’ इति व्याप्तिः प्रतीयते ।दूरश्रवणदर्शनादियुक्तिश्च।
अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’ इति च कौण्डिन्यश्रुतिः ।
अतो वक्ति-
ॐ अणवश्च ॐ ॥ 08-279 ॥
‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ इति शाण्डिल्यश्रुतिः॥ 08 ॥
॥ इति अण्व(णुत्वा)धिकरणम् ॥ 05 ॥
‘नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम इति’ इति मुख्यप्राणस्यानुत्पत्तिः श्रूयते ।
‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा ।
तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते’ ॥
इति च युक्तिर्वायुप्रोक्ते ।
‘आत्मत एष प्राणो जायते’ इति च ।
अत आह
ॐ श्रेष्ठश्च ॐ ॥ 09-280 ॥
‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽथैनमाहुः सादिरनादिरिति’
इति गौपवनश्रुतेः ॥ 09 ॥
ॐ न वायुक्रिये पृथुगुपदेशात् ॐ ॥ 10-281 ॥
‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते ।
प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः’
इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् ।
‘स प्राणमसृजत’ …‘खं वायुर्ज्योतिरापः..’, ‘तपो मन्त्राः कर्म’ इति पृथगुपदेशात् ।
‘भूतानि चेष्टा मन्त्राश्च मुख्यप्राणादिदं जगत् ।
मुख्यप्राणः परस्माच्च न परः कारणान्वितः’
इति वायुप्रोक्ते ॥ 10 ॥
॥ इति मुख्यप्राणाधिकरणम् (श्रेष्ठाधिकरणम्)
‘प्राणादिदमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्याग्निवेश्यश्रुतौ ।
‘यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् ।
यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत्’
इति च युक्तिर्भारते।
‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः ।
न परः कञ्चिदाश्रित्य वर्तते परमो यतः’ इति पैङ्गिश्रुतिः ।
अत आह-
ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥
चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव ।
‘सर्वं ह्येवैतत् परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’
इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।
‘सर्वकर्ताऽपि सन् प्राणः परमाधारतः स्थितः ।
कथमेवान्यथा न स्याद्यतो नैवेश्वरद्वयम् ।
अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।
अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।
अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् ।
यतो विशेषवाक्येन ह्रियते समतावचः’ ।
‘नान्योऽतोऽस्तिद्रष्टा’’नान्यदतोऽस्ति द्रष्टृ’
इत्यादिवचनयुक्तय आदिशब्दोक्ताः ॥ 11 ॥
ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥
इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यानेभ्य उत्तमत्वं युज्यते ।
माण्डव्यश्रुतिश्च
‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इत्याचक्षते’ इति ॥ 12 ॥
॥ इति चक्षुराद्यधिकरणम् ॥ 07 ॥
‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान इति । ‘अथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः ।
‘प्राणापानादयः सर्वे मुख्यदासा यतेऽनिशम् ।
अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते’
इति युक्तिर्वायुप्रोक्ते ।
‘मुख्यस्यैव स्वरूपाणि प्राणाध्याः पञ्चवायवः ।
स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम्’ इति च गौपमश्रुतिः ।
अतो वक्ति-
ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ 13-284 ॥
‘अथ पञ्चवृत्तैतत्प्रवर्तते प्राणा वाव पञ्चवृत्तिः प्राणोऽपानो व्यान उदानः समान इति । तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते । प्राणाद्वाव प्राणेऽपानादपानो व्यानाद्व्यान उदानादुदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति । तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चित्ताच्छित्तं चेतनाया एव चेतनैवमिति’ इति
॥ इति पञ्चवृत्त्यधिकरणम् ॥ 08 ॥
‘प्राण एवाधस्तात् प्राण उपरिष्ठात् प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते ।
‘यतः सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु ।
अतो धृतं जगत् सर्वमन्यथा केन धार्यते’
इति च युक्तिर्वायुप्रोक्ते ।
‘अणुनैतत्सृज्यतेऽणुनैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणो ह्येतद्भवति’
इति च सौत्रायणश्रुतिः ॥
अत आह –
ॐ अणुश्च ॐ ॥ 14-285 ॥
स वा एष प्राणोऽणुर्महान्नामाऽन्तर्वाऽणुर्बर्हिर्महान् प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिन्यश्रुतिः ॥ 14 ॥
॥ इति प्राणाणुत्वाधिकरणम् ॥ 09 ॥
करणत्वं प्राणानामुक्तम् ।
‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः।
यस्मात् तद्वशगा एते दृश्यन्ते सर्वदेहिषु’
इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते।
‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्ध्येतैः कारयति’ इति काषायणश्रुतौ । अत आह –
ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ 15-286 ॥
यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति। ‘यः प्राणे तिष्ठन्’ इत्यादि तदामननात् ॥ 15 ॥
कथं जीवकरणत्वश्रुतिरित्यतो वक्ति –
ॐ प्राणवता शब्दात् ॐ ॥ 16-287 ॥
जीवेनैव स्वकरणैः कारयति परमात्मा । अतो न विरोधः । एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः ।
‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् ।
श्रोत्रादिभिः कारयति करणानीत्यतो विदुः ।
न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः ।
केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’ इति वाराहे ॥ 16 ॥
ॐ तस्य च नित्यत्वात् ॐ ॥ 17-288 ॥
अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्करणत्वश्रुतिः ।’अथावियोगीनि । करणैर्र्वाव न वियुज्यते देहेनैव वियुज्यत इत्येतद्वाव करणानां करणत्वं यद्वाव न वियुज्यते’ इति गौपवनश्रुतिः ।
चशब्दः करणसम्बन्धग्राही ॥ 17 ॥
॥ इति ज्योतिराद्यधिकरणम् ॥ 10 ॥
‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति ।
‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादश’ इति च काषायणश्रुतिः ।
अतः कस्येन्द्रियत्वं निवार्यत इत्यतो वक्ति-
ॐ त इन्द्रियाण् तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ 18-289 ॥
मुख्यप्राणमृते त एवेन्द्रियाणि ।
‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् ।
द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’ इति पौत्रायणश्रुतिः ।
‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।
मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।
विषयद्रवणात् तेषामिन्द्रियत्वमुदाहृतम् ।
तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः’
इति बृहत्संहितायाम् ॥18॥
ॐ भेदश्रुतेः ॐ ॥ 19-290 ॥
‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः ॥ 19 ॥
ॐ वैलक्षण्याच्च ॐ ॥ 20-291 ॥
पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृष्यते न मुख्यस्य । ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’ इति च श्रुतेः ॥ 20 ॥
॥ इति इन्द्रियाधिकरणम् ॥ 11 ॥
‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामानी’ इति गौपवनश्रुतिः ॥
‘यस्माद्विरेचयेत् सर्वं विरिञ्चस्तेन भण्यते ।
एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः’
इति च युक्तिर्ब्राह्मे ।
अथ कस्मादुच्यते परम इति परमाद्ध्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादुच्यते ब्रह्मेति बृहत्त्वाद् बृंहणत्वाच्च’ इत्याग्निवेश्यश्रुतिः ।
अत आह-
ॐ सङ्ज्ञामूर्तिक्लृप्तिस्तुत्रि वृत्कुर्वत उपदेशात् ॐ॥ 21-292 ॥
नामरूपक्लृप्तिः परादेव।
‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् य आस्ते’ इति श्रुतेः।
त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नामरूपयोः ॥
‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।
एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः’ इति च पाद्मे ॥
‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।
रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥
अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।
हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः’
इति च ब्रह्माण्डे ॥ 21 ॥
॥ इति सङ्ज्ञाधिकरणम् ॥ 12 ॥
‘अद्ब्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवन्त्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्यश्रुतिः ।
‘अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसतः’ इति च भारते ।
‘पृथिवी शरीरमाकाशमात्मा’ इति च अतो ब्रवीति –
ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ 22-293 ॥
‘यत् कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत् तेजः’ इति श्रुतेर्मांसाद्येव भौमं न सर्वशरीरम्। अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ॥
‘यद्वा वाऽथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानि’
इति हि काषायणश्रुतिः ।
‘पञ्चभूतात्मकं सर्वं तदप्येकविवक्षया ।
एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ।
भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि ।
तेजिष्टत्त्वात् तैजसं च यथाऽस्थ्नां वचनं श्रुतौ’ इति वायुप्रोक्ते ॥22॥
कथं तर्हि विशेषवचनमित्यत आह-
ॐ वैशेष्यात् तु तद्वादस्तद्वादः ॐ ॥ 23-294 ॥
भूतानां विशेषसंयोगादेव विशेषव्यवहारः ।
‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृताः ।
इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तुभागतः ॥
इति सामान्यतो ज्ञेयं भेदश्च प्रतिपूरुषम् ।
स्वर्गस्थानां शरीराणामर्धं तेज उदाहृतम्’
इति च ब्रह्मसंहितायाम् ॥
सर्वाध्यायार्थावधारणार्थऽध्यायान्ते द्विरुक्तिः।
गारुडे च-
‘अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा ।
विचारो यत्र सज्ज्येत पूर्वोक्तस्यावधारणे ॥
अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् ।
विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा ॥ इति ॥ 23 ॥
इति मांसा(ध्य)धिकरणम् ॥ 13 ॥
॥ इति श्रीमद्ब्रह्मसूत्रे द्वितीयाध्यायस्य चतुर्थः पादः॥ 02-04 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायः (अविरोधाध्यायः) ॥ 02 ॥