ब्रह्मसूत्रभाष्यम्

change script to

साधनविचारोऽयमध्यायः । वैराग्यार्थे गत्यादिनिरूपणा प्रथमपादे।
भूतबन्धो हि बन्धः। ‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति वाराहे ।
तच्च मरणे भवति।
भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् ।
भूतानां सम्प्रयोगश्च जनिरित्येव पण्डितैः’ इति च भारते ॥
अतः किं साधनैरित्यत आह-
ॐ तदन्तरप्रतिपत्तौरंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ 01-295 ॥
शरीरान्तरप्रतिपत्तौ भूतसम्परिष्वक्त एव गच्छति ।
‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’
‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति प्रश्नपरिहाराभ्याम् ॥ 01 ॥
इति तदन्तराधिकरणम् ॥ 01 ॥
ॐ त्र्यात्मकत्वात् तु भूयस्त्वात् ॐ ॥ 02-296 ॥
अप्छब्दस्तुत्र्यात्मकत्वादुज्यते । भूयस्त्वाच्चापाम् ।
‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः’इति च भागवते॥02॥
॥ इति त्र्यात्मकत्वाधिकरणम् ॥ 02 ॥
ॐ प्राणगतेश्च ॐ ॥ 03-297 ॥
‘यत्र वाव भूतानि तत्र करणानि नित्यानि ह वा एतानि भूतानि च करणानि च नैतानि कदाचिद्वियुज्यन्ते न च विलीयन्ते’
इति भाल्लवेयश्रुतेः प्राणगतेर्भूतान्यपि सन्ति इति सिद्धम् ॥ 03 ॥
॥ इति प्राणागत्यधिकरणम् ॥ 03 ॥
ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥ 04-298 ॥
‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’ इत्यादिश्रुतेर्न प्राणानां जीवेन सह गतिरिति चेन्न भागतोऽग्न्यादिप्राप्तेः ।
‘पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु ।
अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् ।
पुनः शरीरसम्प्राप्तौतमेवानुविशन्ति च’ इति ब्राह्मे ।
ब्रह्माण्डे च-
‘मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च ।
भागतो भागतस्त्वेनमनुगच्छन्ति सर्वशः’ इति ॥ 04 ॥
॥ इति अग्न्याद्यधिकरणम् ॥ 04 ॥
ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ 05-299 ॥
‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इति प्रथमाग्नौ श्रूयते न भूतानि जुह्वतीति। अतो नेति चेन्न। ता एव प्रस्तुता आपः श्रद्धारूपेण हूयन्ते ।‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्युपसंहारोपपत्तेः ॥05॥
॥ इति प्रथमश्रवणाधिकरणम्॥ 05 ॥
ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणं प्रतीतेः ॐ ॥ 06-300 ॥
अग्न्यादिगतिः प्रत्यक्षतः श्रूयते। अतः प्रत्यक्षाश्रवणान्न युक्तमिति चेन्न।
‘अथैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छति भूतैर्भुङ्ते भूतैरुत्पद्यते भूतैश्चरति भूतैर्विचरति’ इति कौण्ठरव्यश्रुतौ प्रतीतेः ॥ 06 ॥
॥ इति अश्रुतत्वाधिकरणम् ॥ 06 ॥
‘अपाम सोमममृता अभूम’ इत्यादिश्रुतिविरोध इत्यतो वक्ति-
ॐ भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॐ॥ 07-301 ॥
भागतस्तदमृतत्वम् ।’नान्यः पन्था अयनाय विद्यते’ इति श्रुतेरात्मविद एव हि मुख्यम् । वाशब्दात् पारम्पर्येणात्मविदपेक्षया वा । तथा हि श्रुतिः –
‘स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वाकर्माकृतं यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्तततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्द्येवात्मनो यद्यत्कामयते तत्तत् सृजते’
‘अमृतो वाव सोमपो भवति यावदिन्द्रो योवन्मनुर्यावदादित्यः’।
‘कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति अथामृतानि कर्माणि यत एनममृतत्वं नयन्ति’ इति च ॥ 07 ॥
॥ इति भाक्ताधिकरणम् ॥ 07 ॥
कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरित्यत आह-
ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ ॥ 08-302 ॥
‘ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्गच्छति पुनरागच्छति’ इति श्रुतेः –
‘भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः ।
कर्म कृत्वा पुनर्गच्छेत् पुनरायाति नित्यशः ॥
आचतुर्दशमाद्वर्षात् कर्माणि नियमेन तु ।
दशावराणां देहानां कारणानि करोत्ययम् ॥
अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति’॥
इत्यादिस्मृतेश्च शेषवानेवायाति ॥ 08 ॥
॥ इति कृतात्ययाधिकरणम् ॥ 08 ॥
‘यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते स कर्म कुरुते स परिवर्तते’ इति गतिप्रकारेणागतिः प्रतीयते । अतो ब्रूते-
ॐ यथेतमनेवं च ॐ ॥ 09-303 ॥
‘धूमादभ्रमभ्रादाकाशमाकाशाच्चन्द्रलोकं यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धोमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ इति काषायणश्रुतेर्यथागतमन्यथा च॥09॥
॥इति यथेताधिकरणम् ॥ 09 ॥
ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ॥ 10-304 ॥
‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयाम्’ इति श्रुतेश्चरणफलमेव गमनागमनं न यज्ञादिकृतः ।
‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः ।
अशुद्धिदस्त्वानाचारश्चरणं तूभयं मतम्’ ॥
इति स्मृतेरिति चेन्न, यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति कार्ष्णाजिनिर्मन्यते ॥ 10 ॥
ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ 11-305 ॥
तर्हि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्यानर्थक्यमिति चेन्न। चरणापेक्षत्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोपपत्तेः ॥ 11 ॥
ॐ सुकृतदुष्कृते एवेति तु बादरिः ॐ ॥ 12-306 ॥
‘धर्मं चरत माऽधर्मम्’ इत्यादिप्रयोगात् सुकृतदुश्कृते एव चरणशब्दोक्ते इति बादरिर्मन्यते । तुशब्दात् स्वसिद्धान्तोऽपि स एवेति सूचयति।
‘तुशब्दस्तुविशेषे स्यात् स्वसिद्धान्तेऽवधारणे’ इति च नाममहोदधौ ॥ 12 ॥
॥ इति चरणाधिकरणम् ॥ 10 ॥
पुण्याकृतामेव गमनागमने नेतरेषामित्यत आह-
ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ 13-307 ॥
‘‘तद्यइह शुभाकृतो ये वाऽशुभकृतस्तेऽशुभमनुभूयावर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति’ इति भाल्लवेयश्रुतौ ॥ 13 ॥
ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ॥ 14-308 ॥
‘संयमनमनुभूय केषाञ्चिदारोहः केषाञ्चिदवरोहः । तुशब्दोऽवधारणे ॥
‘‘सर्वे वा एतेऽशुभकृतः संयमने प्रपतन्ति तत्र ह ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदवमन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्यतमसि प्रपतन्ति नैवैत उत्तिष्ठन्तेऽपि कर्हिचिद्वव्रं वा एतदित्याहुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनुभूयेमं लोकमनुप्रजन्ति’ इति कौण्ठरव्यश्रुतेः ॥ 04 ॥
ॐ स्मरन्ति च ॐ ॥ 15-309 ॥
‘‘गच्छन्ति पापिनः सर्वे नरकं नात्र संशयः ।
‘तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ।
‘महातमसि मग्नानां न तेषामुत्थितिः क्वचित् ।
‘इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ।
‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
‘इति सर्वत्र नियमः पञ्चकष्टे तु तत् सदा’ इत्यादि ॥ 15 ॥
॥ इति अनिष्टादिकार्यधिकरणम् ॥ 11 ॥
ॐ अपि सप्त ॐ ॥ 16-310 ॥
‘रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा ।
कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥
तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।
इति सप्तप्रधानानि बलीयस्तूत्तरोत्तरम् ।
एतानि क्रमशो गत्वैवारोहोऽथावरोहणम्’ इति च भारते ॥ 16 ॥
॥ इति सप्ताधिकरणम् ॥ 12 ॥
ईश्वरस्य नरकायुक्तेः ‘सर्वं विसृजति सर्वं विलापयति सर्वं रमयति सर्वं न रमयति सर्वं प्रवर्तयत्यन्तरस्मिन् निविष्टः’ इति कौषारवश्रुतिविरोध इत्यतो वक्ति –
ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ 17-311 ॥
चशब्दाददुःखानुभवेन ।
‘स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृदेक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात् सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद’ इति पौत्रायणश्रुतेरविरोधः ।
‘नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥
नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः’ इति भागवततन्त्रे ॥ 17 ॥
॥ इति तद्व्यापाराधिकरणम् ॥ 13 ॥
‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्’ इति गतिस्वातन्त्र्यं भूतानां प्रतीयत इत्यत आह-
ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ 18-312 ॥
विद्याकर्मापेक्षयैतद्वचनम् । तयोरपि प्रकृतत्वात् ।
‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ ।
तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः’ इति च भारते॥ 18 ॥
इति विद्याकर्माधिकरणम् ॥ 14 ॥
‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।
अपि नीचगतौ किञ्चित् किमु मानुषदेहिनः’
इति वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह-
ॐ न तृतीये तथोपलब्धेः ॐ ॥ 19-313 ॥
‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्गतिस्तिर्यग्यातना तम इति । द्वेवाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’ इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ 19 ॥
ॐ स्मर्यतेऽपि च लोके ॐ ॥ 20-314 ॥
‘तिर्यक्षु नरके चैव सुखलेशो विधीयते ।
नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ इति भविष्यत्पर्वणि ।
लोकसिद्धं चैतत्। चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।
‘अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।
अत्यप्रिये सुखमपि तथैव परमेश्वरः’ इति हि ब्राह्मे ॥ 20 ॥
ॐ दर्शनाच्च ॐ ॥ 21-315 ॥
‘नारायणप्रसादेन समिद्धज्ञानचक्षुषा । अत्यन्तदुःखसल्लीनान् निश्येषसुखवर्जितान् ॥
नित्यमेव तथाभूतान् विमिश्रांश्च गणान् बहून् ।
निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥
अपश्यत् त्रिविधान् ब्रह्मा साक्षादेव चतुर्मुखः’
इति दर्शनवचनाच्च पाद्मे॥ 21 ॥
ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ 22-316 ॥
तृतीये तृतीयतमस श्रवणादेव शब्दानुसारेण संशोकजमोहप्राप्तिः ॥ 22 ॥
ॐ स्मरणाच्च ॐ ॥ 23-317 ॥
‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् ।
श्रवणादेव मूर्च्छादिरधरस्य यतो भवेत् ॥
तस्मान्न विस्तरेण्यैतत् कथ्यते राजसत्तम’ इति कौर्मे ॥ 23 ॥
॥ इति महातमोऽधिकरणम् (नतृतीयाधिकरणम्) ॥ 15 ॥
‘धूमो भूत्वाऽभ्रं भवति’ इत्याद्यन्यभावः श्रूयते । स कथमित्यतो ब्रवीति-
ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ 24-318 ॥
धूमादिषु प्रविश्य तद्गतौ गतिः स्थितौ स्थितिरित्यादिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः । गारुडे च-
धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु ।
स्थितौ स्थितिः प्रवशश्च लघुत्वादिस्तथैव च ॥
न ह्यन्यस्यान्यथाभावो न च तत्पदमिष्यते ।
विद्यागम्यं पदं यस्मात् न तत्प्राप्यं हि कर्मणा॥
एकदेशस्वभावेन वागभेदाऽपि युज्यते ।
यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि’ इति ॥ 24 ॥
॥ इति तत्स्वाभाव्याधिकरणम् ॥ 16 ॥
बहुस्थानगमनात् कल्पान्तमप्येवं स्यादित्यत आह-
ॐ नातिचिरेण विशेषात् ॐ ॥ 25-319 ॥
॥ इति नातिचिरेणाधिकरणम् (अचिरप्राप्त्यधिकरणम्) ॥ 17 ॥
‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’ इति श्रवणादनर्थफलत्वं यज्ञादेरित्यतो वक्ति-
ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ 26-320 ॥
अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽस्य । ‘धूमोभूत्वाऽभ्रं भवति’ इत्यादिपूर्वोक्तिवत् ॥
‘सोऽवाग्गतः स्थावरान् प्रविश्याभोगेनैव व्रजन् स्थूलं शरीरमेति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते’ इत्यभिलापात् कौषारवश्रुतौ ।
‘स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः ।
अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः’ इति वाराहे ॥ 26 ॥
ॐ अशुद्धमिति चेन्न शब्दात् ॐ ॥ 27-321 ॥
हिंसारूपत्वात् पापस्यापि सम्भवाद्धुःखं च भवत्विति चेन्न। शब्दविहितत्वात्॥
‘हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत्।
वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन’ इति वाराहे॥ 27 ॥
॥ इति अन्या(धिष्ठिता)धिकरणम् ॥ 18 ॥
‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इति वचनात्
‘य एव गृही भवति यो वा रेतः सिञ्चति तमेवानुविशति’
इति श्रुतिः कथमित्यत आह-
ॐ रेतःसिग्योगोऽथ ॐ ॥ 28-322 ॥
‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथमतो विशति। मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ 28 ॥
॥ इति रेतोऽधिकरणम् ॥ 19 ॥
‘देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गतः’ इति वचनात् पश्चादेव प्रविशतीत्यत आह-
ॐ योनेः शरीरम् ॐ ॥ 29-323 ॥
पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमाप्नोति ।
‘दिवः स्थास्नून् गच्छति स्थास्नुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत इति सम्मितम् ।
अथासम्मितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा’ इति पौष्यायणश्रुतेः ॥
‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् ।
पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥
देहेन जायते जन्तुरिति सामान्यतो जनिः ।
विशेषजननं चापि प्रोच्यमानं निबोध मे ॥
स्थास्नुष्वथापि पुरुषे प्रमादायामथापि वा ।
गर्भे वा बहिरेवाथ क्वचित् स्थानान्तरेषु च’ इति ब्राह्मे ॥ 29 ॥
॥ इति योन्यधिकरणम् ॥ 20 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ 03-01 ॥
भक्तिरस्मिन् पाद उच्यते। भक्त्यर्थं भगवन्महिमोक्तिः।
ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ 01-324 ॥
न स्वप्नोऽपि तं विना प्रतीयते । ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ । रथान् रथयोगान् पथः सृजते’ इत्यादि श्रुतेः ॥ 01 ॥
ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ 02-325 ॥
‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः’ इति च ।
‘एतस्माद्ध्येव पुत्रो जायत एतस्माद् भ्रातैतस्माद्भार्या यदेनं पुरुषमेष स्वप्नेनाभिहन्ति’ इति गौपवनश्रुतिश्च ॥ 02 ॥
केन साधनेन ?-
ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्त स्वरूपत्वात् ॐ ॥03-326॥
अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्शयति नान्येन साधनेन, सम्यगनभिव्यक्तत्वात् । ब्रह्माण्डे च –
‘मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः ।
प्रदर्शयति जीवाय स्वप्न इति गीयते ॥
यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता ।
अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत्’ इति ॥ 03 ॥
ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ ॥ 04-327 ॥
साधनान्तराभावेऽपि भावाभावसूचकत्वेन चेश्वरो दर्शयति ।
‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति ।
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने’ इत्यादिश्रुतेः ।
हिशब्दाद्दर्शनाच्च ।
‘यद्वाऽपि ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा ।
स्वप्नस्थमथवा राजा तत् तथैव भविष्यति’ ॥
इत्याद्याचक्षते च स्वप्नविदो व्यासादयः ॥ 04 ॥
॥ इति सन्ध्याधिकरणम् ॥ 01 ॥
ॐ पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥05-328॥
बन्धमोक्षप्रदत्वात् स एव स्वप्नतिरस्कर्ता ।
‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च ।
तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ’ इति कौर्मे ॥ 05 ॥
॥ इति पराभिध्यानाधिकरणम्॥ 02 ॥
ॐ देहयोगाद्वासोऽपि ॐ ॥ 06-329 ॥
देहयोगेन वासो जाग्रदपि तत एव ।
‘स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुराषाट् स एको बहुधा भवति’ इति कौण्ठरव्यश्रुतेः ॥ 06 ॥
॥ इति देहयोगाधिकरणम् ॥ 03 ॥
ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॐ ॥ 07-330 ॥
जाग्रत्स्वप्नाभावः सुप्तिः नाडीस्थे परमात्मनि ।
‘आसु तदा नाडीषु सुप्तो भवति’ ‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेः ॥ 07 ॥
॥ इति तदभावाधिकरणम् ॥ 04 ॥
ॐ अतः प्रभोधोऽस्मात् ॐ ॥ 08-331 ॥
यतस्तस्मिन् सुप्तिः ॥
‘एष एव सुप्तं प्रभोधयत्येतस्माज्जीव उत्तिष्ठत्येष प्रमातै ष परमः’ इति कौण्डिन्यश्रुतिः ॥ 08 ॥
॥ इति प्रभोधाधिकरणम्॥ 05 ॥
ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ 09-332 ॥
न च केषाञ्चित् स्वप्नादिकर्ता न तु सर्वेषामिति ।
‘एष ह्येव साधु कर्म कारयति’ इति कर्मण्यवधारणात् ॥
‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु ।
परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इत्यनुसारिस्मृतेश्च ॥
‘एष स्वप्नान् दर्शयत्येष प्रबोधयथ्यैष एव परम आनन्दः’ इति च श्रुतिः ॥
आत्मानमेव लोकमुपासीत’ इति च विधिः ॥ 09 ॥
॥ इति कर्मानुस्मृत्यधिकरणम् ॥ 06 ॥
ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ 10-333 ॥
मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।
‘हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥
यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।
अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः’ इति वाराहे ॥
सोऽपि तत एवेति सिद्धम् ।
‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते ।
स ईशः परमो ज्ञेयः परमानन्दलक्षणः’ इति हि कौर्मे ॥ 10 ॥
॥ इति मुग्धप्राप्त्यधिकरणम् (सम्पत्त्यधिकरणम्) ॥ 07 ॥
स्वानापेक्षया, परमात्मनो भेदादनुग्राह्यानुग्राहकभाव इत्यत आह-
ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ 11-334 ॥
स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् ।
‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इति श्रुतिः ।
‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते’ इति मात्स्ये ॥
‘प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः’
इति च भागवते ॥ 11 ॥
ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ॥ 12-335 ॥
‘कार्यकारणबद्धौ ताविष्येते विश्वतेजसौ ।
प्राज्ञः कारणबद्धस्तुद्वौ तु तुर्ये न सिद्ध्यतः’ ॥
इति भेदवचनान्नेति चेन्न ।
‘एष त आत्माऽन्तर्याम्यमृतः’ ।
‘अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’ ।
‘अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च । तदेतद्ब्रह्मापूपर्वमनपरमनन्तरमबाह्यमयामात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्’ इति प्रत्येकमभेदवचनात् ॥ 12 ॥
ॐ अपि चैवमेके ॐ ॥ 13-336 ॥
एवमभेदेनैव । चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति ।
‘अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः’ इति ।
अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च युज्यते ।
ब्रह्मतर्के च-
‘बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितेः ।
निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः’ इति ॥ 13 ॥
॥ इति स्थान(तोऽप्य)भेदाधिकरणम् ॥ 08 ॥
रूपवत्त्वादनित्यत्वमित्यतो वक्ति-
ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ 14-337 ॥
प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । हि शब्दाद्’अस्थूलमनणु’ इत्यादिश्रुतेश्च ।
‘भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।
अरूपवानतः प्रोक्तः क्व तदव्यक्ततः परे’ इति च मात्स्ये॥ 14 ॥
ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ 15-338 ॥
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
‘श्यामाच्चबलं प्रपद्ये’‘सुवर्णज्योतिः’ इत्यादिश्रुतीनां च न वैयर्थ्यम् । विलक्षणरूपवत्वात् । यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रकाशादिव्यवहारः ॥ 15 ॥
ॐ आह च तन्मात्रम् ॐ ॥ 16-339 ॥
वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं’ऐकात्म्यप्रत्ययसारम्’ इति ।
आनन्दमात्रमजरं पुराणमेकं सन्तं बहुधा दृष्यमानम् ।
तमात्मस्थं योऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्’
इति चतुर्वेदशिखायाम् ॥ 16 ॥
ॐ दर्शयति चाथो अपि स्मर्यते ॐ ॥ 17-340 ॥
दर्शयति चानन्दस्य रूपत्वं
‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’ इति ॥
‘शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् ।
चिन्तयीति यतिर्नान्यं ज्ञानरूपादृते हरेः’ इति च मात्स्ये॥ 17 ॥
॥ इति अरूपाधिकरणम् ॥ 09॥
ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ 18-341 ॥
यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद्वेदः अतः सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा च शब्देन भेदं दर्शयति ।
‘रूपं रूपं प्रतिरूपो बभूव’।
‘बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले ।
एवमेवात्मका लोके परात्मसदृशा मताः’ इत्यादि ॥
अथ एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा, नोपाध्यधीनत्वादिना ॥ 18 ॥
॥ इति उपमाधिकरणम्॥ 10 ॥
नित्यसिद्धत्वात् सादृश्यस्य नित्यानन्दज्ञानादेर्न भक्तिज्ञानादिना प्रयोजनमित्यतो ब्रवीति-
ॐ अम्बुवदग्रहणात् तु न तथात्वम् ॐ ॥ 19-342 ॥
अम्बुवद् स्नेहेन । ग्रहणं ज्ञानम्। भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यते ।
‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति हि श्रुतिः।
‘महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते ।
तथैव व्यज्यते सम्यग्जीवरूपं सुखादिकम्’ इति पाद्मे ॥ 19 ॥
॥ इति अम्बुवदधिकरणम् ॥ 11 ॥
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥20-343॥
तस्य च भक्तिज्ञानदेर्वृद्धिह्रासभाक्त्वं विद्यते । ब्रह्मादीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् । एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीनन्यान् प्रति च सामञ्जस्यं भवति।
‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।
ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः’ इति च ब्राह्मे ॥ 20 ॥
कुतः? –
ॐ दर्शनाच्च ॐ ॥ 21-344 ॥
‘अथात आनन्दस्य मीमांसा भवति’ इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् । चशब्दात् स्मृतिः
यथा भक्तिविशेषोऽत्र दृष्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने’ इति ॥ 21 ॥
॥ इति वृद्धिह्रासाधिकरणम् ॥ 12 ॥
सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह-
ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥ 22-345 ॥
उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति ।
‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ इति ।
च शब्दात् स्मृतिश्च ।
‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।
एक एव करोतीशः सर्वस्य जगतो हरिः’ इति ब्रह्माण्डे ॥ 22 ॥
॥इति पालकत्वाधिकरणम् (प्रकृत्यधिकरणम्) ॥ 13 ॥
परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते-
ॐ तदव्यक्तमाह हि ॐ ॥ 23-346 ॥
अव्यक्तमेव तद्ब्रह्म स्वतः ।
‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्फलम्।
यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत्’ इति कौण्ठरव्यश्रुतिः ॥ 23 ॥
ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ 24-347 ॥
आराधनेऽप्यव्यक्तमेव । ज्ञानिप्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन।
‘न तमाराधयित्वाऽपि कश्चिद्वक्तीकरिष्यति ।
नित्याव्यक्तो यतो देवः परमात्मा सनातनः’ इति ब्रह्मवैवर्ते ॥ 24 ॥
नित्याव्यक्तरूपेण तथैव तिष्ठति। व्यक्तं किञ्चिद्रूपं गृहीत्वा दृश्यते । यधाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्त एवमिति चेन्न।
ॐ प्रकाशवच्चावैशेष्यम् ॐ ॥ 25-348 ॥
अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात्।
‘नासौ सूक्ष्मो न स्थूलः पर एव स भवति तस्मादाहुः परम इति’ इति माण्डव्यश्रुतेः ।
‘अव्यक्तव्यक्तभावौ च न क्वचित् परमेश्वरे ।
सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः’ इति च कौर्मे ॥ 25 ॥
तर्हि किं यत्नेनेत्यत आह-
ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ 26-349 ॥
विषयभूते तस्मिन्नेव श्रवाणाध्यभ्यासात् प्रकाशश्च भवति ।
‘आत्मा वा अरे द्रष्टव्यः श्रोदव्यो मन्तव्यो निदिध्यासितव्यः’ इति श्रुतेः ॥ 26 ॥
नित्याव्यक्तस्य कथं प्रकाशः इत्यत उच्यते-
ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ 27-350 ॥
उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति ।
‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’
इति लिङ्गात् ।
युज्यते च तस्यानन्तशक्तित्वात् ।
नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः।
तमृते परमात्मानं कः पश्येतामितं प्रभुम्’
इति नारायणाध्यात्मे॥27॥
॥ इति अव्यक्ताधिकरणम् ॥ 14 ॥
स्वरूपेणानन्दादिना कथमानन्दित्वादिरित्यत उच्यते-
ॐ उभयव्यपदेशात् त्त्वहिकुण्डलवत् ॐ ॥ 28-351 ॥
‘आनन्दं ब्रह्मणो विद्वान्’ ।’अथैष एव परम आनन्दः’ इत्युभयव्यपदेशादहिकुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । तुशब्दात् केवलश्रुतिगम्यत्वं दर्शयति ॥ 28 ॥
ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ 29-352 ॥
यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च, एवं वा दृष्टान्तः। तेजोरूपत्वाद्ब्रह्मणः ॥ 29 ॥
ॐ पूर्ववद्वा ॐ ॥ 30-353 ॥
यथैक एव कालः पूर्व इत्यवच्छेदकोऽवच्छेद्यश्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलमतीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः ।
प्रकाशवत् कालवद्वा यथाऽङ्गे शयनादिकम् ।
ब्रह्मणश्चैव मुक्तानामानन्दोऽभिन्न एव तु’ इति नारायणाध्यात्मे।
‘आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत्।
कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत्’ इति ब्राह्मे ॥ 30 ॥
ॐ प्रतिषेधाच्च ॐ ॥ 31-354 ॥
‘एकमेवाद्वितीयम्’ ।‘नेह नानाऽस्ति किञ्चन’ इति भेदस्य ॥ 31 ॥
॥ इति उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ॥ 15 ॥
ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ॥ 32-355 ॥
न चानन्दादित्वाल्लोकानन्दादिवत् । ‘एष सेतुर्विधृति’ ‘य एष आनन्दः परस्य’‘एष नित्यो महिमा ब्राह्मणस्य’ इति सेतुत्वं ह्युच्यते.‘यतो वाचो निवर्तन्ते’ इत्युन्मानत्वम् ।‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति सम्बन्धः।
‘अन्यज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च
नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’ इति भेदः ॥
अतोऽलौकिकत्वात् परमेव ब्रह्मानन्दादिकम् ॥ 32 ॥
ॐ दर्शनात् तु ॐ ॥ 33-356 ॥
दर्शनादेवचान्यानन्दादीनाम् ।
‘अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद्ब्रह्मेत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते’ इति कौण्डिन्यश्रुतिः ॥ 33 ॥
अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेश इत्यतो वक्ति –
ॐ बुद्ध्यर्थः पादवत् ॐ ॥ 34-357 ॥
जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा पादशब्देन व्यपदिश्यते’पादोऽस्य विश्वा भूतानि’ इति तथा ।
‘अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते ।
ज्ञापनार्थाय लोकस्य यथा राजेव देवराट्’ इति च पाद्मे ॥ 34 ॥
॥ इति परानन्दा(परमता)धिकरणम् ॥16॥
परानन्दमात्रत्वे कथं ब्रह्माद्यानन्दादीनां विशेष इत्यत उच्यते –
ॐ स्थानविशेषात् प्रकाशादिवत् ॐ ॥ 35-358 ॥
यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बविशेष एवमानन्दादेरपि ।
‘ब्रह्मादिगुणवैशेष्यादानन्दः परमस्य च ।
प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः’ इति वाराहे ॥ 35 ॥
ॐ उपपत्तेश्च ॐ ॥ 36-359 ॥
‘ऐश्वर्यात् परमाद्विष्णोर्भक्त्यादीनामनादितः ।
ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता’ इति हि पाद्मे ॥ 36 ॥
॥ इति स्थानविशेषाधिकरणम् ॥ 17 ॥
ध्यानकाले यच्चित्ते दृष्यते तदेव ब्रह्मरूपम् । अतः कथमव्यक्ततेत्यत आह-
ॐ तथाऽन्यत् प्रतिषेधात् ॐ ॥ 37-360 ॥
यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासाकृतादपि ।
‘यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इति प्रतिषेधात् ।
‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् ।
ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥
तदुपासनं च भवति प्रतिमोपासनं यथा ।
दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् ।
उपासना त्वापरोक्ष्यं गमयेत् तत्प्रसादतः’
इति च ब्रह्मतर्के ॥ 37 ॥
॥ इति प्रतिषेधाधिकरणम् (तथान्यत्वाधिकरणम्) ॥ 18 ॥
देशकालान्तरेऽन्यतोऽपि सृष्ट्याधिर्युक्तेत्यतो ब्रूते-
ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ 38-361 ॥
सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते ।
‘एष सर्व एष सर्वगत एष ईश्वर एषोऽचिन्त्य एष परमः’इति भाल्लवेयश्रुतिः
‘सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुषु ।
स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ॥
इति चतुर्वेदशिखायाम् ॥
आदिशब्दादन्यत्र प्रमाणाभावाच्च ॥ 38 ॥
॥ इति सर्वगतत्वाधिकरणम् ॥ 19 ॥
कर्मापेक्षत्वात् फलदानस्य तदेव ददातीति न वाच्यम् । कुतः ?-
ॐ फलमत उपपत्तेः ॐ ॥ 39-362 ॥
अत एवेश्वरात् फलं भवति । न ह्यचेतनस्य स्वतः प्रवृत्तिर्युज्यते ॥ 39 ॥
ॐ श्रुतत्वाच्च ॐ ॥ 40-363 ॥
‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ इति ॥ 40 ॥
ॐ धर्मं जैमिनिरत एव ॐ ॥ 41-364 ॥
यतः फलं तदेव कर्मेश्वराद्भवति ।’ एष ह्येव साधु कर्म कारयति’ इति श्रुतेरिति जैमिनिः ॥ 41 ॥
ॐ पूर्वं तु बादरायणो हेतु व्यपदेशात् ॐ ॥ 42-365 ॥
परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म परप्रवर्तकम् । पर एव कर्मप्रवर्तकः ।’पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति हेतुव्यपदेशात् ।’द्रव्यं कर्म च कालश्च’ इति च ॥ 42 ॥
॥ इति फलदानाधिकरणम् ॥ 20 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ 03-02
उपासनाऽस्मिन् पाद उच्यते। सर्वपरिज्ञानं प्रथमत उच्यते-
ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ 01-366 ॥
अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’ इति वचनात् । सर्ववेद निर्णयोत्पाद्यज्ञानं ब्रह्म ।’आत्मेत्येवोपासीत’ इत्यादिविधीनां तदुक्त युक्तीनां चाविशिष्टत्वात् ॥ 01 ॥
ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ 02-367 ॥
‘विज्ञानमानन्दं ब्रह्म’’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि प्रतिशाखमुक्तिभेदान्नैकाधिकारिविषयाः सर्वशाखा इति चेन्न । एकस्यामपि शाखायां’आत्मेत्येवोपासीत’‘ॐ खं ब्रह्म’ इत्यादिभेददर्शनात् ॥ 02 ॥
ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ 03-368 ॥
‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधेः । हिशब्दात्
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृतेः ।
‘सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः ।
आनन्दो हि फलं यस्माच्छाखाभेदो ह्यशक्तिजः ॥
सर्वकर्मकृतौ यस्मादशक्ताः सर्वजन्तवः ।
शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत्’
इति समाचारे सर्वेषामधिकाराच्च ॥ 03 ॥
ॐ सलिलवच्च तन्नियमः ॐ ॥ 04-369 ॥
यथा सर्वं सलिलं समुद्रं गच्छत्येवं सर्वाणि वचनानि ब्रह्मज्ञानार्थानीति नियमः ।
आग्नेये च –
‘यथा नदीनां सलिलं शक्ये सागरगं भवेत् ।
एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये’ इति ॥ 04 ॥
ॐ दर्शयति च ॐ ॥ 05-370 ॥
‘सर्वैश्च वेदैः परमो हि देवो जीज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येत् ।
तस्मादेनं सर्वेवेदानदीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः’ इति चतुर्वेदशिखायाम् ।
‘सर्वान् वेदान् सेतिहासान् सपुराणान् सयुक्तिकान् ।
सपञ्चरात्रान् विज्ञाय विष्णुर्ज्ञेयो न चान्यथा’ इति ब्रह्मतर्के ॥ 05 ॥
॥ इति सर्वेवेदा(न्तप्रत्यया)धिकरणम् ॥ 01 ॥
सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वादित्यत आह-
ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॐ ॥ 06-371 ॥
सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः ।
‘उपास्य एकः परतः परो यो वेदैश्च सर्वैः सह चेतीहासैः ।
सपञ्चरात्र्यै सपुराणैश्च देवः सर्वगुणैस्तत्र तत्र प्रतीतैः’
इति भाल्लवेयश्रुतिः ।
आग्नेये च-
विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि ।
यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥
एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः ।
योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ इति ॥
समानविषये चोपसंहारः । न तु’सोऽरोदीत्’ इत्यादिनाम् ।
गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन।
गुणैरपि न तूपास्यो यो पूर्णत्वविरोधिनः’ इति बृहत्तन्त्रे ॥ 06 ॥
ॐ अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॐ ॥ 07-372 ॥
‘आत्मेत्येवैपासीत’ इतिशब्दादुपसंहारस्यान्यथात्वमिति चेन्न । एते गुणा नोपास्य इति विशेषवचनाभावात् ।
‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’ इति विशेषवचनाच्च ।
आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥ 07 ॥
ॐ न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॐ ॥ 08-373 ॥
प्रकरणभेदान्नवोपसंहारः कार्यः । परोवरीयस्त्वादिषु तावदेव ह्युक्तम् ॥ 08 ॥
ॐ सङ्ज्ञातश्चेत् तदुक्तमस्ति तु तदपि ॐ ॥ 09-374 ॥
सर्वविद्या’उक्त्वासोऽहं नामविदेवास्मि नात्मवित्’ इति वचनात् सर्वस्य ब्रह्मनामत्वात् तदुपसंहारः कार्यः ।
‘नामत्वात् सर्वविद्यानां गुणानामुपसंहृति ।
कार्यैव ब्रह्मणि परे नात्र कार्या विचारणा’ इति च ब्रह्मतर्के ॥
इति चेत् सत्यम् । उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव ।
‘नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः’ इति कौण्डिन्यश्रुतौ ॥ 09 ॥
॥ इति उपसंहाराधिकरणम्॥ 2 ॥
ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ 10-375 ॥
युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् ।
‘गुणैःसर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः ।
अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’ इति भविष्यत्पर्वणि ॥ 10 ॥
॥ इति प्राप्तैधिकरणम् ॥ 03 ॥
ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ 11-376 ॥
सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति ।
‘सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् ।
इतरे तु यथायोगं सम्यङ् मुक्तौभवन्ति हि’ इति पाद्मे ॥ 11 ॥
॥ इति सर्वाभेदाधिकरणम् ॥ 04 ॥
सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमिति आह-
ॐ आनन्दादयः प्रधानस्य ॐ ॥ 12-377 ॥
प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव ।
‘सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।
सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता’ इति ब्रह्मतर्के ॥ 12 ॥
॥ इति आनन्दाद्यधिकरणम् ॥ 05 ॥
ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ 13-378 ॥
फलभेदार्थमुपचयापचययोर्भावान्न सर्वेषां प्रियशिरस्त्वादिगुणोपासाप्राप्तिः ।
‘नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः ।
विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता’ इति हि वाराहे ॥ 13 ॥
॥ इति प्रियशिरस्त्वाधिकरणम् ॥ 06 ॥
ॐ इतरे त्वर्थसामान्यात् ॐ ॥ 14-379 ॥
इतरे गुणाः फलसाम्यापेक्षयोपसंहर्थव्याः ॥ 14 ॥
॥ इति इतराधिकरणम् (फलसाम्याधिकरणम्) ॥ 07 ॥
उपसंहारानुपसंहारप्रमाणमाह –
ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ 15-380 ॥
आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥
‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुधीरणा ।
ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥
नान्यत् प्रयोजनं ज्ञानाध्यानात् कर्मकृतेरपि ।
श्रवणाच्चाथ पाठाद्वा विद्याभिः कञ्चिदिष्यते’ इति परमसंहितायाम् ॥
‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ।
नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥
ज्ञानाध्यानसमायोगाद्गुणानां सर्वशः फलम् ।
मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत्’ इति ब्रह्मतन्त्रे ॥ 15 ॥
ॐ आत्मशब्दाच्च ॐ ॥ 16-381 ॥
‘आत्मेत्येवोपासीत’ इत्यनुपसंहारप्रमाणम् ॥ 16 ॥
॥ इति अध्यानाधिकरणम् ॥ 08 ॥
ॐ आत्मगृहीतिरितवदुत्तरात् ॐ ॥ 17-382 ॥
न च’आनन्दादयः प्रधानस्य’ इत्युक्तिविरोधः । यतः’सत्यं ज्ञानमनन्तम् ब्रह्म।’विज्ञानमानन्दम् ब्रह्म’ इतिवदेवात्मशब्दगृहीतिः । ‘अत्र ह्येते सर्व एकीभवन्ति’ इत्युत्तरात् ।
‘आनन्दानुभवत्त्वाच्च निर्दोषत्वाच्च भण्यते ।
नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः’ इति बृहत्तन्त्रे ॥ 17 ॥
॥ इति आत्मगृहीत्यधिकरणम्॥ 09 ॥
ॐ अन्वयादिति चेत् स्यादवधारणात् ॐ ॥ 18-383 ॥
सर्वगुणानामान्वय आत्म शब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते’ इति वचनादिति चेत् सत्यम् । स्याच्च्यैवं । आत्मेत्येवेत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ॥ 18 ॥
॥ इति अन्वयाधिकरणम् ॥ 10 ॥
ॐ कार्याख्यानादपूर्वम् ॐ ॥ 19-384 ॥
‘अलौकिकास्तस्य गुणा ह्युपास्य अलौकिकं मुक्तिकार्यं यतोऽस्य’
इति कार्याख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ॥ 19 ॥
॥ इति कार्या(ख्यान)धिकरणम् ॥ 11 ॥
ॐ समान एवं चाभेदात् ॐ ॥ 20-385 ॥
अपूर्वत्वेऽपि समानानामेवोपसंहारः। न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेन । नित्यविक्रान्त्यादिष्वन्तर्भावात् ॥ 20 ॥
ॐ सम्बन्धादेवमन्यत्रापि ॐ ॥ 21-386 ॥
परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्वप्युपसंहार्यत्वं युज्यते।
‘गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः ।
विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः’ इति ब्रह्मतन्त्रे ॥ 21 ॥
॥ इति समानाधिकरणम् ॥ 12 ॥
ॐ न वा विशेषात् ॐ ॥ 22-387 ॥
न वा ऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ॥ 22 ॥
ॐ दर्शयति च ॐ ॥ 23-388 ॥
‘सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव’ इति भाल्लवेयश्रुतिः ॥ 23 ॥
॥ इति विशेषणाधिकरणम्(नानाधिकरणम्) ॥ 13 ॥
ॐ सम्भृतिद्युव्याप्तपि चातः ॐ ॥ 24-389 ॥
सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्येषाम् । अत एव योग्यताविशेषात् ।
‘देवादीनामुपास्यास्तुभृतिव्याप्त्यादयो गुणाः ।
आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत्’ इति च ब्रह्मतर्के ॥ 24 ॥
॥ इति सम्भृत्यधिकरणम् ॥ 14 ॥
यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानामितराऽन्येषामिति चेन्न –
ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥ 25-390 ॥
पुरुषसूक्तोक्तविद्यायामपि केषाञ्चिद्गुणानामनाम्नानात् ।
‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।
तत्रापि नैव सर्वेऽपि तस्मात् कार्योपसंहृतिः’ इति ब्रह्मतर्के ॥ 25 ॥
॥ इति पुरुषविद्याधिकरणम् ॥ 15 ॥
ॐ वेधाद्यर्थभेदात् ॐ ॥ 26-391 ॥
‘भिन्धि विद्धि श्रुणीहीति फलभेदेन सर्वशः ।
यत्यादीनां तेष्वयोगान्नाधिकार्येकता भवेत् ।
अयोग्योपासनादीयुरनर्थं चार्थनाशनम्’ इति बृहत्तन्त्रे ॥
॥ इति वेधाद्यधिकरणम् ॥ 16 ॥
मुक्तस्योपासना कर्तव्या न वेत्यतो ब्रवीति –
ॐ हानौ तूपायनशब्दशेषत्वात् कुशाछन्दस्तुत्युपगानवत् तदुक्तम् ॐ ॥27-392॥
नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः ।’ब्रह्मविदाप्नोति परम्’ इति मोक्षवाक्यशेषत्वादितरेषाम् ॥
तच्चोक्तम्’’एतत् सामगायन्नास्ते’ इत्यादि ।
ब्रह्मतर्के च-
‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।
नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥
‘कृष्णो मुक्यैरिज्यते वीतमोहैः’ इति च भारते ॥ 27 ॥
ॐ साम्परायेतर्तव्याभावात् तथा ह्यन्ये ॐ ॥ 28-393 ॥
स्वेच्छयैवेत्यङ्गीकर्तव्यम् । मुक्तस्य तीर्णत्वात् ।‘तीर्णो हि तदा सर्वां भवति’ इति ह्यन्ये पठन्ति ।
वायुप्रोक्ते च
‘स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः ।
ब्रह्मलोकं गताः सर्वे ब्रह्मणा च परं गताः ।
तीर्णतर्तव्यभागश्च स्वेच्छयोपासते परम्’ इति ॥ 28 ॥
॥ इति मुक्तोपासनाधिकरणम् (हान्यधिकरणम्) ॥ 17 ॥
कर्मापि कुर्वन्ति न वेत्याह –
ॐ छन्दत उभयाविरोधात् ॐ ॥ 29-394 ॥
स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ॥ 29 ॥
ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा ह विरोधः ॐ ॥ 30-395 ॥
बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ॥
‘कदाचित् कर्म कुर्वन्ति कदाचिन्नैव कुर्वते ।
नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥
तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।
प्रत्यवायस्य बन्धस्याप्यभावात् स्वेच्छया भवेत्’ इति हि ब्रह्माण्डे ॥ 30 ॥
ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ॥ 31-396 ॥
उपपन्नश्चैवम्भावः । प्राप्तत्वात् तल्लक्षणस्य फलस्य । यथा लोके विद्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा समाप्तकर्मेच्छया करोति न करोति च ॥ 31 ॥
इति छन्दादिकरणम्
ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ॥ 32-397 ॥
प्राप्तज्ञानानामपि केषाञ्चिन्मुक्तिप्राप्तिः केषाञ्चिन्न, यथोपसंहारनियम इति न मन्तव्यम् ।
‘सर्वेगुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्युपसंहारविरोधादन्यत्राविरोधात् ।
‘न कश्चिद्ब्रह्मवित् स्मृतिमनुभवति मुक्तो ह्येव भवति तस्मादाहुः स्मृतिहेति’ इति कौण्डन्यश्रुतेश्च ।
यथा केषाञ्चिन्मोक्ष एवमन्येषामित्यनुमानाच्च॥ 32 ॥
॥ इति अनियमाधिकरणम् ॥ 19 ॥
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ 33-398 ॥
यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते ।‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्यः ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्दः’ इति चतुर्वेदशिखायाम् ।
अध्यात्मे च –
‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।
यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’ इति ॥ 33 ॥
ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् ॐ ॥34-99 ॥
न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वाद्दोषाभावसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । औपसदवच्छिष्यवत् ।
उक्तं च तुरश्रुतौ –
‘नानाविधा जीवसङ्घा विमुक्तौन चैव तेषां ब्रह्मधियां विरोधः।
दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः’ इति ॥ 34 ॥
॥ इति यावदधिकाराधिकरणम् ॥ 20 ॥
ॐ इयदामननात् ॐ ॥ 35-400 ॥
नामाध्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम्। न प्राणात् किञ्चिद्बूय उक्तम् । तथाऽपि पूर्ववत् स्यात् इति न वाच्यम् ।
प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान् प्राणो ह्येव भूयांस्तस्माद्भूयान् नाम’ इति कौण्ठरव्यश्रुतेः ॥ 35 ॥
ॐ अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॐ ॥ 36-401 ॥
यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येव, एवं प्राणादपि परमात्मानमन्तरा विद्यत इति चेन्न। प्राणादुत्तमाभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाणम्। दृष्यते चान्यत्रोत्तमत्वम् ॥ 36 ॥
ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॐ ॥ 37-402 ॥
प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चेन्न । श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं तस्मात् परमात्मनो ह्युपदिष्टम् ॥ 37 ॥
॥ इति इयदामननाधिकरणम् ॥ 21 ॥
नेति चेन्न-
ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ॥ 38-403 ॥
उक्तं प्राणात् परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण’एष तु वा अतिवदति’ इति विशिंषन्ति हि । यथेतरेषु विशेषणम् ।
‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् ।
तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति च ब्रह्मतन्त्रे ॥ 38 ॥
॥ इति व्यतिहाराधिकरणम् ॥ 22 ॥
कृतिर्निष्ठा ज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेन्न –
ॐ सैव हि सत्यादयः ॐ ॥ 29-404 ॥
सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः ।
ब्रह्मतर्के च –
‘नामादिप्राणपर्यन्ताद्योहि सत्यादिरूपवान् ।
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥
‘सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः ।
तस्मै नमो भगवते यस्मादेव विमुच्यते’ इति चाध्यात्मे ॥ 39 ॥
॥ इति सत्याद्यधिकरणम् ॥ 23 ॥
प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्वपाठ इत्यत्रोच्यते-
ॐ कामादितरत्र तत्र चायतनादिभ्यः ॐ ॥ 40-405 ॥
स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोतीश्वरेच्छानुसारेण ।
‘सर्वायतना सर्वकाला सर्वेच्छा न बद्धाबन्धिका सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः ।
‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च ।
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥
श्रुतौ तथा जीवपरावुच्येते किञ्चिनेतरत् ।
नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम्’ इति ब्रह्मतर्के ॥ 40 ॥
ॐ आदरादलोपः ॐ ॥ 41-406 ॥
अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति ।
‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकर्माऽपि सर्वदा ।
उपास्ते नित्यशो विष्णमेवं भक्तो हरेर्भवेत्’ इति बृहत्तन्त्रे ॥ 41 ॥
ॐ उपस्थितेस्तद्वचनात् ॐ ॥ 42-407 ॥
अनादिकाले भगवत्सम्बन्धित्वाद्युज्यते च नित्यमुक्तत्वं तस्याः । ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्यस्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात्॥42 ॥
॥ इति कामाधिकरणम् ॥ 24 ॥
दर्शनार्थं ह्युपासनम् । तच्च श्रवणादेरेव भवति । अतः किमर्थमित्यत्रोच्यते–
ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः पलम् ॐ॥43-408 ॥
तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव । हिशब्देन’आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतिं सूचयति । श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः ।
ब्रह्मतर्के च –
‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति ॥ 43 ॥
॥ इति निर्धारणाधिकरणम् ॥ 25 ॥
ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ 44-409 ॥
न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति।’आचार्यवान् पुरुषो वेद’ इति ह्युक्तम् ॥ 44 ॥
॥ इति प्रदानाधिकरणम् ॥ 26 ॥
गुरुप्रसादः स्वप्रयत्नो वा बलवानिति निगद्यते-
ॐ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॐ ॥ 45-410 ॥
ऋषभादिभ्यो विद्यां ज्ञात्वाऽपि सत्यकामेन’भगवांस्त्वेव मे कामं ब्रूयात्’ श्रुतं ह्येव भगवद्दृशेभ्य आचार्याद्यैव विद्या विदिता साधिष्ठं प्रापयति’ इति वचनात् ।‘अत्र ह न किञ्चन वीयाय’ इत्यनुज्ञानादुपकोसलवचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रदानमेव बलवत् । तर्हि तावताऽलमिति न मन्तव्यम् ।’श्रोतव्यो मन्तव्यः’ इत्यादेस्तदपि कर्तव्यम् ।
वाराहे च –
‘गुरुप्रसादो बलवान्न तस्माद्बलवत्तरम् ।
तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये’ इति ॥ 45 ॥
॥ इति गुरुप्रसादाधिकरणम् (लिङ्गभूयस्त्वाधिकरणम्) ॥ 27 ॥
ॐ पूर्वविकल्पःप्रकरणात् स्यात् क्रियामानसवत् ॐ ॥ 46-411 ॥
न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।
‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।
गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥
समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम् ।
ऋषभाद्यनुज्ञया चैष प्राप तस्माद्धि युज्यते’
इति बृहत्तन्त्रे ॥
‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि ।
कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥
ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।
एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’
इति महासंहितायाम् ॥ 46 ॥
ॐ अतिदेशाच्च ॐ ॥ 47-412 ॥
‘ब्रह्मोपास्त्व बह्मोपचरस्व तच्छ्रुणु हि तत्त्वामवतु । या ब्रह्मोपचरेर्यथा मामुपचरेर्ये चान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतीदेशाच्च॥ 47 ॥
॥ इति पूर्वविकल्पाधिकरणम् ॥ 28 ॥
न च’कर्मण्यैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादिनाऽन्यन्मोक्षसाधनम् ।
ॐ विद्यैव तु निर्धारणात् ॐ ॥ 48-413 ॥
‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’ इति निर्धारणाद्विद्ययैव मोक्षः ॥ 48 ॥
ॐ दर्शनाच्च ॐ ॥ 49-414 ॥
न केवलं विद्यया किन्त्वपरोक्षज्ञानेनैव च।
सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण’ इति कौशिकश्रुतेः ॥ 49 ॥
॥ इति विद्याधिकरणम् ॥ 29 ॥
ॐ श्रुत्यादिबलीयास्त्वाच्च न बाधः ॐ ॥ 50-415 ॥
सावधारणा बलवति श्रुतिः ।
‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपपन्नः॥
न कर्मभिर्न धनैर्नैव चान्यैः पश्ये सुखं तेन तत्त्वं ब्रवीहि’
इति बलवल्लिङ्गम् ॥
‘नास्त्यकृतः कृतेन’ इत्युपपत्तिश्च ।
‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः’
इति युक्तिमद्बगवद्वचनम् ॥
अतो न प्रमाणान्तरबाधः ।’कर्मण्यैव’ इत्ययोगव्यवच्छेदः ॥ 50 ॥
॥ इति अबाधाधिकरणम् (श्रुत्यधिकरणम्) ॥ 30 ॥
ॐ अनुबन्धादिभ्यः ॐ ॥ 51-416 ॥
न केवलं श्रवणादिभिर्गुरुप्रसादेन च ब्रह्मदर्शनम् ।
किन्तु भक्त्यादिभिश्च ।
‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः ।
यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥
तथाऽप्यनादिसंसिद्धो भक्त्यादिगुणपूगतः ।
लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’ इति ॥
‘भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।
दद्याच्छमदमादिश्च तेन चैते गुणाः पुनः ॥
तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत्’
इति नारायणतन्त्रे ॥ 51 ॥
॥ इति अनुबन्धाद्यधिकरणम् ॥ 31॥
ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ 52-417 ॥
उपासनाभेदवद्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ –
‘अन्तर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवावाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या आचक्षते’ इति । आध्यात्मे च –
‘दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।
दर्शनेनान्तरेणान्ये देवाः सर्वत्र दर्शनात् ॥
तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः’ इति ॥ 52 ॥
॥ इति दर्शनबेधादिकरणम् (प्रज्ञान्तराधिकरणम्) ॥ 52 ॥
ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॐ ॥ 53-418 ॥
न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । न हि लोकापत्तिमात्रं मुक्तिः ।
‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’
इति हि नारायणतन्त्रे॥
‘मुच्यते नात्र सन्देहो दृष्ट्वा तु स्वात्मयोग्यया’ इति च ॥
‘दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति चाध्यात्मे ॥ 53 ॥
॥ इति न सामान्याधिकरणम् ॥ 33 ॥
‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी’ इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेन्न ।
‘तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुतेः ।
कथं तर्ह्येषा श्रुतिः –
ॐ परेण शब्दस्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः ॐ ॥ 54-419 ॥
परमात्मैवं भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यते।
मायावैभवे च
‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥
स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः ।
भक्तिरित्युच्यते सैव करणं परमीशितुः’॥
इति सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ॥ 54 ॥
॥ इति ताद्विध्याधिकरणम् (परेणाधिकरणम्) ॥ 34 ॥
जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न मन्तव्यम् । कुतः ?
ॐ एकः आत्मनः शरीरे भावात् ॐ ॥ 55-420 ॥
अंशांशिनोरेकत्वमेव । अंशिकर्मनिर्मितशरीर एवांशस्य भावात् ॥ 55 ॥
ॐ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॐ ॥ 56-421 ॥
ज्ञानादिभेधे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव । तदुपासनादिभोगादंशस्य ।
परमसंहितायां च –
‘अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा ।
पुनरैक्यं प्रपद्यन्ते नात्र कार्य विचारणा’ इति ॥ 56 ॥
॥ इति एकाधिकरणम् ॥ 35 ॥
ॐ अङ्गावबद्धास्तुन शाखासु हि प्रतिवेदनम् ॐ ॥ 57-422 ॥
ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते। हिशब्दात्
‘समत्वाद्वोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् ।
उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः’
इति ब्रह्मतर्कवचनात् ॥ 57 ॥
ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥ 58-423 ॥
सर्वदेवतामन्त्रा यथाऽधीयन्त एवमविरोधो वा ।
‘उपासनाङ्गदेवानां परमाङ्गतया भवेत् ।
उपसंहृतिर्विशेषे तु फलनामन्यथा न तु ॥
पुरुषाणां विशेषाद्वा यथायोगं भविष्यति’ इति बृहत्तन्त्रे ॥ 58 ॥
॥ इति अङ्गावबद्धाधिकरणम् ॥ 36 ॥
ॐ भूम्नःक्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ 59-424 ॥
सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् । सर्वत्र सहभावात् दीक्षाप्रायणीयोदयनीयसवनत्र यावभृथात्मकः क्रतुः ।
‘भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः ॥
इति च गौपवनश्रुतिः ॥ 59 ॥
॥ इति भूमाधिकरणम् ॥ 37 ॥
ॐ नाना शब्दादिभेदात् ॐ ॥ 60-425 ॥
‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतः सदा ।
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥
अतः पूर्णत्वमीशस्य वानैवैषां प्रदृश्यते ।
अतः फलस्य नानात्वं नानैवोपासनं यतः’ इति ब्रह्मतर्के ।
अतो भूमत्वमपि नानैवोपास्यते ॥ 60 ॥
॥ इति नाना(शब्दा)धिकरणम् ॥ 38 ॥
ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ 61-426 ॥
स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवति विशिष्टफलापेक्षया ।
‘मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् ।
नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥
उपास्यते यथायोगं न वा फलविभेदतः’ इति च ब्रह्मतर्के ॥ 61 ॥
॥ इति विकल्पाधिकरणम् ॥ 39 ॥
ॐ काम्यास्तुयथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥ 62-427 ॥
‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥
अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् ।
तुष्ट्यर्थमीश्वरस्यैव न चोपास विदुष्यति’ इति बृहत्तन्त्रे ॥ 62 ॥
॥ इति काम्याधिकरणम् ॥ 40 ॥
ॐ अङ्गेषु यथाऽऽश्रयाभावः ॐ ॥ 63-428 ॥
अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं’चक्षोः सूर्यो अजायत’ इत्यादि तथा भावना कर्तव्या॥63॥
ॐ शिष्टेश्च ॐ ॥ 64-429 ॥
‘यस्मिन् यस्मिन् यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैव’ इति पौत्रायणश्रुतेः ॥ 64 ॥
ॐ समाहारात् ॐ ॥ 65-430 ॥
‘अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत।
तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’
इति काषायणश्रुतौ समाहारवचनाच्च ॥ 65 ॥
ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥ 66-431 ॥
‘साधारण्यात् सर्वगुणाः परस्य समाहार्यास्तत्त्वदृशो मुमुक्षोः’ इति माण्डव्यश्रुतेश्च ॥ 66 ॥
॥ इति यथाश्रयभावाधिकरणम् (अङ्गाधिकरणम्) ॥ 41 ॥
ॐ न वाऽतत्सहभावश्रुतेः ॐ ॥ 67-432 ॥
न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहाश्रवणात् ॥ 67 ॥
ॐ दर्शनाच्च ॐ ॥ 68-433 ॥
‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् ।
नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते’ इति कमठश्रुतौ ॥ 68 ॥
॥ इति नवाधिकरणम् ॥ 42 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥ 03-03 ॥
ज्ञानसामर्थ्यमस्मिन् पाद उच्यते –
ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ 01-434 ॥
यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते ।
‘यं यं लोकं मनसा संविभाति विशुद्धस्तत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जायते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः’ इति शब्दात् ॥ 01 ॥
ॐ शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ 02-435 ॥
अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन ।
‘स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित्’ इतिवदति जैमिनिः ॥ 02 ॥
ॐ आचारदर्शनात् ॐ ॥ 03-436 ॥
ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ 03 ॥
ॐ तच्छ्रुतेः ॐ ॥ 04-437 ॥
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’
इति शेषत्वश्रुतेः ॥ 04 ॥
ॐ समन्वारम्भणात् ॐ ॥ 05-438 ॥
‘कर्मैव देहं दैविकं मानुषं वाऽप्यन्वारभेन्नापरस्तत्र हेतुः ।
भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत्’
इति माठरश्रुतेश्च ।
संशब्द प्राधान्यं दर्शयति ॥ 05 ॥
ॐ तद्वतो विधानात् ॐ ॥ 06-439 ॥
‘ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत्’ इति कमठश्रुतौ ज्ञानतोऽपि विधानात् ॥ 06 ॥
ॐ नियमाच्च ॐ ॥ 07-440 ॥
‘कुर्वन्नेवेह कर्माणि जीजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ इति ॥ 07 ॥
ॐ अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ 08-441॥
‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे कामाः सम्पद्यन्ते ।
तथापि यथा यथा कर्म कुरुते तथा तथाऽधिको भवति’ इति कौण्ठरव्यश्रुतेः ॥
युधिष्ठिरादीनां राजसूयादिना फलाधिक्य दर्शनाच्चेति बादरायण मतम् ॥ 08 ॥
ॐ तुल्यम् तु दर्शनम् ॐ ॥ 09-442 ॥
राजसूयादिकृतावकृतौ च सममेव तेषां विज्ञानम् ।
‘विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् ।
स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥
स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।
ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥
अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।
इति केचिद्विदः प्राहुर्व्यासशिष्या इमेऽखिलाः ॥
यस्माद्व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ।
यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावदिस्तथा ।
प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥
स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् ।
अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥
ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।
इति प्राह महायोगी पुमर्थानां विनिर्णयम्’ इति भविष्यत्पर्वणि ।
‘ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् ।
चीर्णीऽकृते वा ज्ञानस्य न विशेषोऽस्ति कर्मणि’ इति ब्रह्मतर्के ॥ 09 ॥
॥ इति पुरुषार्थाधिकरणम् ॥ 01 ॥
सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारतेत्यत आह –
ॐ असार्वत्रिकी ॐ ॥ 10-443 ॥
न सर्वेषामधिकारः ॥ 10 ॥
ॐ विभागः शतवत् ॐ ॥ 11-444 ॥
‘नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु ।
सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥
यथा तथैवा सङ्ख्येयाः प्रजास्तासु कियान् जनः ।
ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’
इति वचनात् सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधिकारार्थम् ॥ 11 ॥
ॐ अध्ययनमात्रवतः ॐ ॥ 12-445 ॥
कस्याधिकारः?
‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।
गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥
न च वर्णावरस्यापि तस्मादध्ययनान्वितः ।
ब्रह्मज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मतः’ इति ब्रह्मतर्के ॥
‘पठेद्वेदानथार्थानधीयीताथ विचार्यः ब्रह्म विन्देत्’ इति च कौषारवश्रुतिः ॥ 12 ॥
॥ इति अधिकाराधिकरणम् (असार्वत्रिकाधिकरणम्) ॥ 02 ॥
ॐ नाविशेषात् ॐ ॥ 13-446 ॥
न सामान्येनाधिकारो देवादीनाम् ।
‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।
तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम्’
इति कौण्डिन्यश्रुतिः॥ 13 ॥
॥ इति अधिकारविशेषाधिकरणम् (अविशेषाधिकरणम्) ॥ 03 ॥
‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात् तेनेदृश एव’ इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह-
ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ 14-447 ॥
न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ॥ 14 ॥
ॐ कामकारेण चैके ॐ ॥ 15-448 ॥
‘कामाचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’ इति चैके पठन्ति ॥ 15 ॥
ॐ उपमर्दं च ॐ ॥ 16-449 ॥
‘ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तुरश्रुतौ ॥ 16 ॥
ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ 17-450 ॥
न तावता कामचाराणां ज्ञानेऽधिकारः ।
‘य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।
न तथा विद्यते भूयान् यं प्राप्यन्येऽपि भूयसः’
इति माठरश्रुतेः ॥ 17 ॥
ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥ 18-451 ॥
‘प्रातरुत्थायाथ सन्ध्यामुपासीत यत् सन्ध्यामुपासते ब्रह्मैव तदुपासतेऽथ देवान् नमेज्जुहुयाद् वेदानावर्तयीत नान्यत् किञ्चिदाचरेन्न सुरां पिबेन्न पलाण्डुं भक्षयीत न भृषं वेदेन्न विस्मरेतात्मानं सोमं पिबेद्दुतशेषेण वर्तयेत्’
इत्युक्ताचारपरामर्शेन विधिबन्धवर्जितत्वेन कामत एव तस्य चरणं कामचार इति जैमिनिर्मन्यते ।
न च निषिद्धं कर्म कर्तव्येमेवेति चोदना । ‘ब्राह्मणो न हन्तव्यः’ इत्याद्यपवादश्च ॥ 18 ॥
ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ 19-452 ॥
अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरेति बादरायणो मन्यते । ‘केन स्याद्येन स्यात् तेनेदृश एव’ इति साम्यश्रुतेः ।
‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’ इति भगवद्वचनाच्च ॥ 19 ॥
ॐ विधिर्वा धारणवत् ॐ ॥ 20-453 ॥
‘केन स्याद्येन स्यात्’ इति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राधर्मशङ्का कार्या । नान्येषामिति वा ।
‘स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता ।
नाशङ्क्यं तन्मतं क्वापि विष्णोः प्रत्यक्षचोदना ।
इतरेषां न विहिता स्वेच्छावृत्तिः कथञ्चन’ इति हि ब्राह्मे ॥ 20 ॥
ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ 21-454 ॥
स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामान्यविधिस्वीकारादिति चेन्न । अपूर्वत्वात् परवशत्वात् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि ।
‘विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ ।
परस्य ब्रह्मणो ह्येव सर्वविधृतिदूरता’ इति च ब्रह्मतर्के ॥ 21 ॥
ॐ भावशब्दाच्च ॐ ॥ 22-455 ॥
‘यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविद्यतिदूरता’ इति च तुरश्रुतौ ॥ 22 ॥
ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ 23-456 ॥
‘केन स्याद्येन स्यात्’ इत्यादयः स्थिरत्वनिवृत्त्यर्था इति चेन्न ।
‘त्रेधा ह ज्ञानिनो विधिनियता अनियताः स्वेच्छानियता इति ।
विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वेच्छानियतः’
इति गौपवनश्रुतौ विशेषितत्वात् ॥ 23 ॥
ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ 24-457 ॥
एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च सम्बन्धो भवति ॥ 24 ॥
ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ 25-458 ॥
अत एव ज्ञानस्य मोक्षादेन नाग्निहोत्राद्यपेक्षा ।
ब्रह्मतर्के च –
‘येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः ।
शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥
स्वेच्छानुवृत्यैव भवेद् ब्रह्मणः प्रायशस्तथा ।
देवानामपि सर्वेषां विशेषादुत्तरोत्तरम्’ इति ॥ 25 ॥
ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ॥ 26-459 ॥
सर्वधर्मापेक्षा च ज्ञानस्येत्पत्तौ ।
‘विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति श्रुतेः ।
यथा गतिनिष्पत्यर्थमश्वादयोऽपेक्ष्यन्ते न विनिष्पन्नगतेर्ग्रामादिप्राप्तौ ॥ 26 ॥
ॐ शमदमाद्युपेतः स्यात् तथाऽपितु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥ 27-460 ॥
यद्यपि ज्ञानेनैव मोक्षो नियतस्तथाऽपि ज्ञानी शमदमाद्युपेतः स्यात्।’आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो भवेद्दान्तो भवेदनुकोलो भवेदाचार्यं परिचरेत् परिचरेदाचार्यम्’ इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः ।
‘ब्राह्मीं वाव त उपनिषदब्रूम’ इति । तस्यैतपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामुपनिषदमेवं वेद’
इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् ।
‘यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा ।
तस्य शान्त्यादयोऽङ्गानि तस्मात् तेषामनिष्ठितिः ॥
अवश्यकरणीया स्यादन्यथाऽल्पफलं भवेत्’ इति च आग्नेये ।
तुशब्दः पूर्णफलार्थत्वं सूचयति ॥ 27 ॥
ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ 28-461 ॥
‘यदि ह वा अप्येवंविन्निखिलं भक्षयीतैवमेव स भवति’ इति सर्वान्नानुमतिः प्राणात्ययविषया ।
‘न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानम्’इति दर्शनात् ॥ 28 ॥
ॐ अबाधाच्च ॐ ॥ 29-462 ॥
‘अन्यायचरणाभावे न हि ज्ञानस्य बाधनम् ।
अतो विद्वानपि न्यायं वर्तेतोत्कर्षसिद्धये’ इति च ब्रह्मतर्के ॥ 29 ॥
ॐ अपि स्मर्यते ॐ ॥ 30-463 ॥
‘अतीतानागतज्ञानी त्रैलोक्योद्दरणक्षमः ।
एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्’ इति हरिवंशेषु ॥ 30 ॥
ॐ शब्दश्चातोऽकामचारे ॐ॥ 31-464 ॥
‘स य एतदेवंविदेवं मन्वान एवं पश्यन् न कामचरितं चरेन्न कामं भक्षयीत न कामामनुवर्तेत’ इति कौण्डन्यश्रुतौ ।
अत इत्यल्पफलत्वं सूचयति ।
‘न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया’ इति पाद्मे ॥ 31 ॥
ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ 32-465 ॥
न केवलं निषिद्दाकरणेन पूर्यते । कर्तव्यं च वर्णाश्रमविहितं कर्म ॥
‘पश्यन्नपीममात्मानं कुर्यात् कर्मविचारयन्।
यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात्’
इति कौषारवश्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ 32 ॥
ॐ सहकारित्वेन च ॐ ॥ 33-466 ॥
‘यथा राज्ञः सहकार्येव मन्त्री तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् ।
एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित्’
इति कमठश्रुतौ सहकारित्वोक्तेश्च ।
‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु ।
आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा तु वर्दते’ इति ब्रह्माण्डे ॥
सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इति बृहत्तन्त्रे ॥
‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः ।
स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः’ इति च पाद्मे ॥ 33 ॥
॥ इति कामचाराधिकरणम् (स्तुत्यधिकरणम्) ॥ 04 ॥
ॐ सर्वथाऽपितु त एवोभयलिङ्गात् ॐ ॥ 34-467 ॥
सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये ।
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’
इति श्रुत्याऽऽचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमापेन्द्रः सम्यज्ज्ञानमित्युभयविधलिङ्गात् ॥ 34 ॥
ॐ अनभिभवं च दर्शयति ॐ ॥ 35-468 ॥
‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठन्ते’ इति स्वभावानभिभवं च दर्शयति ॥ 35 ॥
ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ 36-469 ॥
सम्यज्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दार्ढ्यदृष्टेः॥ 36 ॥
ॐ विशेषानुग्रहं च ॐ ॥ 38-471 ॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’
इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य।
‘असुरान् दमयन् विष्णुः स्वपदं च सुरान् नयन् ।
पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ’ इति भविष्यत्पर्वणि ॥ 38 ॥
ॐ अतस्त्वितरज्ज्यायोलिङ्गाच्च ॐ ॥ 39-472 ॥
देवभागादसुरभाग एव बहुलः । ‘तस्मान्न जनतामियात्’ इति लिङ्गात् ।
चशब्दात्
‘ततः कनीयासा एव देवा ज्यायासा असुराः’ इति श्रुतेश्च ।
‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति च ब्राह्मे ॥ 39 ॥
ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ॥ 40-473 ॥
असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव।
‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभवन्ति’ इति नियमश्रुतेः ।
‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’ इत्यतद्रूपत्वश्रुतेः ।
‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सप्तो भूर्भूरित्येव प्रशस्वित्यभूतिरित्यसुरासेते ह परूभभूवुः’ इति देवासुराणां भावाभावश्रुतेश्च ।
देवानां भूतिरित्येव मनो विष्णौ स्वभावतः ।
असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥
देवाः शापाभिभूतत्वात् प्रह्लादाद्या बभूविरे ।
अतः सुगतिरेतेषां नान्यथा व्यत्ययो भवेत्’ इति चाध्यात्मे ॥ 40 ॥
॥ इति उभयलिङ्गाधिकरणम् ॥ 05 ॥
ॐ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॐ ॥ 41-474 ॥
न च परमात्मैश्वर्यादिकमाकाङ्क्ष्यम्, ब्रह्मादीनामपु नाकाङ्क्षयं, किमुपरस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थीनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोगस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते ।
‘न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् ।
इच्छन् पतति पूर्वस्मादधस्ताद्यत्र नोत्थितिः’ इति ब्रह्माण्डे ।
‘स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि । एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम्’
इत्याद्यनुमानरूपवाक्याच्च ।।
‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षत ।
अवदस्यूँरधूनुथाः’ इति च श्रुतिः॥
ॐ उपपूर्वमपीत्येके भावशमनवत् तदुक्तम् ॐ ॥ 42-475 ॥
उपदेवपदं च नाकाङ्क्ष्यमित्येके । भावशमनवदृष्टिपदवदेव ।।
तच्चोक्तमिन्द्रद्युम्नश्रुतौ –
‘अथ यथर्षीन् प्रजापतीन् नाकाङ्क्षेदेवं न गन्धर्वान् न विद्याधरान् न सिद्धान्’ इति।
बृहत्संहितायां च –
‘न दैवानभिकाङ्क्षेत कुत एव हरेर्गुणान् ।
प्राजापत्यान् न चार्षां गान्धर्वादीनपि क्वचित् ॥
ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः’
इति विशेषदर्शनार्थमेक इत्युक्तम् ॥ 42 ॥
ॐ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॐ ॥ 43-476 ॥
देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकाङ्क्षायामनाकाङ्क्षायां च न पतनम् ।
‘देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् ।
अन्यत्र शुभमाकाङ्क्षन् न पतेदविरोधतः’ इति स्मृतेः ॥
‘नानात्वमेव कामानां नाकामः क्व च दृश्यते ।
अतोऽविरुद्धकामः स्यादकामस्तेन भण्यते’ इत्याचाराच्च ॥ 43 ॥
॥ इति अधिकारिकाधिकरणम् ॥ 06 ॥
ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ 44-477 ॥
‘ब्रह्मविदाप्नोति परम्’ इत्यादि फलं स्वामिनां देवानामेव भवति ।
‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’
इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ 44 ॥
ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ 45-478 ॥
सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तधर्थं देवैः क्रियमाणत्वात् ॥ 45 ॥
ॐ सहकार्यन्तरविधिःपक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥ 49-479 ॥
तृतीयः स्वपक्षः । देवानां ज्ञापनादिकर्मणि सहकार्यान्तरत्वेन प्रजा विधीयन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन विधीयन्ते । यथावाऽऽचार्यस्य शिष्याः ।
वाराहे च –
‘ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् ।
वेदे च तेषां विहितं तत्राचार्यो महत्तरः ॥
विहितः सहकारित्वे सहकार्यान्तरं प्रजाः ।
पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥
तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् ।
ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम्’ इति ॥ 46 ॥
॥ इति फलश्रुत्यधिकरणम् ॥ 07 ॥
ॐ कृत्स्नभावात् तु गृहिणोपसंहारः ॐ ॥ 47-480 ॥
‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत्’ इत्युक्त्वा ‘न च पुनरावर्तते न च पुनरावर्तते’ इति गृहिणोपसंहारः क्रियते । तस्माद्गृहस्तस्यैवोत्तवत्वमिति न वाच्यम् ।
यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते ।
‘कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना एते यतयोऽत एतेषां न पुत्रा दायमुपयन्ति स चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः’ इति पौत्रायणश्रुतिः ॥ 47 ॥
ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥ 48-481 ॥
न चाश्रमद्वयमेव देवानाम् ।
‘देवाएव ब्रह्मचारिणो देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वं ह्येते कर्म कुर्वन्ति’ इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेनान्येषामप्युपदेशात् ॥ 48 ॥
॥ इति कृत्स्नभावाधिकरणम् ॥ 08 ॥
ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ 49-482 ॥
‘एतां विद्यामदीत्य ब्रह्मदर्शी वाव भवति । स एतां मनुष्येषु विब्रूयात् । यथा यथा ह वै ब्रूयात् तथा तथाऽधिको भवति’
इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्ते । अविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः । तच्च विषिद्धम् –
‘मा नः स्तेनेभ्यो यो अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः।
येषां नैतन्नापरं कि च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यं कदाचित् ॥
अथोशमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।
आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः’ इति ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवदिस्टेऽहमस्मि ।
अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’ इति च ॥ 49 ॥
॥ इति अनाविष्काराधिकरणम् (अन्वयाधिकरणम्) ॥ 09 ॥
ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ 50-483 ॥
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’
इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्दप्रतिबन्धाभावे ।
‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्येहैव दृष्टिं परमस्य विन्देत् ।
यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’
इति सौपर्णश्रुतौ दर्शनात् ।
‘अनादिजन्मसम्बन्धं निर्भेत्तुं पापपञ्जरम् ।
यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥
यावद्दूरे स्थितो गम्यात् तावद्गन्तव्यमेव हि ।
इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥
श्रवणं मननं चैव निधिध्यासनमेव च ।
परे गुरौ च या भक्तिः परिचर्याधिकं हरेः ॥
एषा सेवेति सम्प्रोक्ता यथा तद्दर्शनं भवेत्’
इति बृहत्संहितायाम् ॥ 50 ॥
॥ इति ऐहिकाधिकरणम् ॥ 10 ॥
ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ 51-484 ॥
एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः, तद्भावे जन्मान्तराणीत्यनियमः ।
‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थोऽमृतम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।
‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा ।
अवसन्नं यदारब्दं कर्म तत्रैव गच्छति ॥
न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति च नारायणाध्यात्मे ॥ 51 ॥
॥ इति मुक्तिफलाधिकरणम् ॥ 11 ॥
॥ इति श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य चतुर्थः पादः ॥ 03-04॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायः (साधनाध्यायः) ॥ 03 ॥