छान्दोग्योपनिषत्

change script to

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥
अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् । सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥ हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमा पतिम् । अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ ओमितिनामकमक्षरं सर्वसन्निहितत्वादेतत् । उच्चत्वाद्गीतत्वात् सर्वस्थानत्वाच्चोद्गीथं भगवन्तमुपासीत । उक्तं च महासंहितायाम्– हयग्रीवोद्गीतवाक्यैः रमा देवी रमापतिम् । ओमित्येतन्मुखैर्देवमस्तुवत्सामवेदगैः ॥ इति । ओंनामानमुपासीत तदर्थगुणपूर्वकम् । ओतत्वादवनान्मानादधिकोच्चत्वकारणात् ॥ आनन्दादोजसश्चैव भरणादोमुदाहृतः ॥ इति समन्वये । ओतमस्मिन् जगत्सर्वमत्युच्चश्चाखिलैर्गुणैः । इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः ॥ उच्चत्वाद्गीयमानत्वात् स्थानादुद्गीथ उच्यते । ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम् ॥ विष्णोरोमितिनाम्नोऽस्य व्याख्यानमधिकोच्चता । अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते ॥ तथा मितं सर्ववेदैर्मकारेणाभिधीयते । अधिकोच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः ॥ तदेतत्परमत्वं तु यथाक्रममुदीर्यते । देवतानुक्रमज्ञाश्च विष्णोः परमताविदः ॥ एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा । अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम् ॥ एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः । एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः ॥ प्रविशन्ति परं देवं नारायणमनामयम् । उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा ॥ लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति । स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किञ्च कस्यचित् ॥ ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः श्रुतौ । मानवाख्याश्च मुनयस्तान्यजन्ति न चेतरान् ॥ पितृत्वेन गुरुत्वेन साक्षाद्भागवतत्वतः । अपभ्रष्टा ओवाश्च ब्रह्माद्याख्यायुता अपि ॥ देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित् । यद्भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः ॥ वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत् । यथाक्रमपरिज्ञानादेकान्तित्वाच्च केवलम् ॥ अच्छिद्रत्वाच्च नियतो मोक्षोन्यत्तु विडम्बनम् । विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम् ॥ तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम् । तृतीयमपि वैराग्यं न चान्यन्मोक्षकारणम् ॥ एतत्साधनताहेतोस्तदन्यदि्ध विधीयते । अतोऽन्यत्सर्वकृच्चापि गच्छेदेवाधरं तमः ॥ अस्मिन्सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन् । अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः ॥
एषां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपामोषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाग्रसो वाच ऋग्रसः । ऋचः साम रसः । साम्न उद्गीथो रसः । स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः ॥ २ ॥
पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा । सव रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ॥ पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता । सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौंस्यदेवता ॥ तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी । सैव श्रेष्ठा ततो वायुर्वरिष्ठस्सामगायकः ॥ समत्वात् सर्वभूतेषु साम साम्नां च देवता । ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा ॥ श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात्परमो विभुः । परमर्धियुतत्वाच्च परार्ध्य इति कीर्तितः ॥ इति सारनिर्णये । अतिशयं परमर्धिगुणः परमः परार्ध्यः । उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो रसानां रसतमः परमः परार्ध्यः । रसानां सकाशादपि परमपरार्ध्यरसतम इत्यर्थः । प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवति । किन्तु महान् विशेष इति ज्ञापयितुं रसानां रसतम इत्यादिबहुविशेषणम् । भूतेभ्यः पृथिव्या रसत्वं तेभ्यो वरुणस्य रसतरत्वं सोमस्य रसतमत्वं रुद्रस्य परमरसतमत्वं वाचः परमर्द्धरसतमत्वं प्राणस्य परमपरार्धरसतमत्वम् । अयं तु भगवान् प्राणादपि परमपरार्द्धरसतममात्रो न भवति । किन्तु प्राणस्यापि रसभूताया रमाया अपि परमपरार्ध्यरसतमः । अस्मादप्यतिशयेन परमित्यसङ्ख्यागोचरत्वेन परार्धेन ज्ञेयं हि परार्ध्यम् । ऋग्रूपाया वाचः पृथक् परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्धरसतमत्वमेव । न तु परमपरार्धिरसतमत्वम् । परस्मादप्या समन्तादृद्धं हि परार्धम् । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यम् । परार्धोत्तमं परार्धि । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यमित्यतः परार्धित्वं श्रियो भवति । श्रियोऽपि परार्ध्यो भगवान् । अतो रसानां रसतमः परमः परार्ध्यः ।
कतमा कतमकर््, कतमत् कतमत् साम, कतमः कतम उद्गीथ इति विमृष्टं भवति । वागेवकर््, प्राणः सामोमित्येतदक्षरमुद्गीथः ॥ ३ ॥
पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः ऋगादीनामेव विमर्शः क्रियते कतमा कतमर्गित्यादिना । तज्ज्ञानस्य विशिष्टफलत्वाच्च । वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः । विशेषात् प्राणसंयुक्ता वागृगित्यभिधीयते । ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी ॥ विशेषसंयोगहीना यदा सैव सरस्वती । तदा तस्यावरा सैव प्राणसंयोगिनी मता ॥ प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते । वागेवार्क्तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः ॥ अक्षयाद्रतिरूपत्वादक्षेषु रमणादपि । अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः ॥ इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः । एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः ॥ उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च ऋक् च साम च । तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ ४ ॥
यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य काममापयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ५ ॥
तद्वा एतदनुज्ञाक्षरम् । यदि्ध किञ्चानुजानात्योमित्येव तदा हैष उ एव समृदि्धर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ६ ॥
तस्मादोमित्यनुज्ञानं कुवर्न्त्येते जनाः सदा ॥ त्वदुक्तं तत्तथा कुर्याद्भगवानेव केशवः । इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः ॥ तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रदीयते । ओमित्ययं पूर्णवाची समृदि्धर्ह्योमितीरिता ॥ समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत् । अतस्समृदि्धवाची स्याद्धरेरोंशब्द ईरितः ॥ इति वा दीयतेऽनुज्ञा हरिस्तव समृदि्धदः । वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने ॥ मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे । तद्द्वारेणैव साक्षात्तु प्राणः संसृज्यते हरौ ॥
तेनेयं त्रयी विद्या वर्तते । ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै । महिम्ना रसेन तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ॥ ७ ॥
नाना तु विद्या चाविद्या च । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति । इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति । अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीत । तस्येतरैः प्राणैरुपव्याख्यानं भवति ॥ ८१ ॥
तेनैव विष्णुनेयं च त्रयीविद्या प्रवर्तते । ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते ॥ ओंनामकस्य पूजार्थं विष्णोरेव सदैव हि । महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च ॥ कुरुतः कर्म नाज्ञस्य मुक्तिर्ज्ञस्य भवेत्तु सा । स्वयोग्यं तु परिज्ञानं यत्तस्योपनिषत्स्मृतम् ॥ अक्षरं भगवान् विष्णुस्तस्योपप्रणवः स्मृतः । उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा ॥ इति तार्तीये । परर्धं परमादुच्चं परार्धं तु ततोऽधिकम् । ततोऽधिकं परार्धिः स्यात् परार्ध्यमिति तत्परम् ॥ परतः परमाच्चैव परार्धो वायुरीरितः । परार्धिनी श्रीरुद्दिष्टा परार्ध्यो भगवान् हरिः ॥ इति शब्दनिर्णये ॥ १ ॥
देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुः । अनेनैनानभिभविष्याम इति ॥ १ ॥
ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तंहासुराः पाप्मना विविधुस्तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥
अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात् तेनोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥
अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतत् विद्धम् ॥ ४ ॥
अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतत् विद्धम् ॥ ५ ॥
अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं सङ्कल्पयते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतत् विद्धम् ॥ ६ ॥
अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः ऋत्वा विदध्वंसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ ७ ॥
स यथाऽश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माऽऽखणः ॥ ८ ॥
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येषः । तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवत्येतमु एवान्ततो वित्त्वोत्क्रामति व्याददात्येवान्तत इति ॥ ९ ॥
तं हाङ्गिरा उद्गीथमुपासाञ्चक्रे एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन ॥ १० ॥
तं ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते । वाग्घि बृहती तस्या एष पतिस्तेन ॥ ११ ॥
तं हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते तेन ॥ १२ ॥
तेन तं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥
आगता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥ २ ॥
उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा वायुरेव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति । वायौ मुख्यधिया इति च इति भगवद्वचनम् । यस्माद्वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात् । स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति ॥ अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः । उपासितो दैत्यजयकारणात् पापवर्जिते ॥ वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा । सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुःस्वरूपिणम् ॥ रुद्रं मनःस्वरूपं च शेषं चाहंस्वरूपिणम् । चित्तात्मकं च गरुडं पापेन विविधुः सुरान् ॥ असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः । मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे ॥ विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः । यदा विदध्वसुः प्राणं विध्वास्तास्ते तदाऽसुराः ॥ अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथा । प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः ॥ तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वानिले । बलज्ञानात्मके दिव्याकृतिमत्युज्जवलात्मनि ॥ सर्वदेवोत्तमे विष्णुमुपासीत ततोऽधिकम् । अस्योपासनया देवास्सर्वे नामानि भेजिरे ॥ इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः । प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः ॥ इति प्रध्याने । उद्गीथाख्यं परं विष्णुमुपास्त्याऽजह्रुरञ्जसा । तथापि प्राण एवासौ प्रीतिमागादुपासितः ॥ इति च । प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा । तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति ॥ इति च । एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम् । विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम् ॥ वीति विष्णुः समुद्दिष्टो विशिष्टत्वात्तु सर्वतः । आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः ॥ प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः । ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन ॥ इति च । प्राण उद्गीथ इत्याद्या नाम ब्रह्मादिकास्तथा । सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः ॥ प्राणमुद्गीथमित्याद्याः द्वितीया सप्तमी मता ॥ इति च ॥ २ ॥
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीत । उद्यन् वा एष प्रजाभ्य उद्गायत्युद्यंस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥
आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः । प्रकाशनं च तपनं काष्ठवत्सूर्यगं भवेत् ॥ सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः । अपि प्रजाभ्य उद्यंश्चैवोद्गायति जनार्दनम् ॥
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥
आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा । वायुस्समान एवायमुष्णोऽसावपि च स्फुटम् ॥ तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम् । उपासीत विमोक्षाय सर्वकामाप्तये तथा ॥ इति च । केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः । न्त्र शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या समन्ततः ॥ मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः ।
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानोऽथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् तस्मादप्राणन्ननपानन् वाचमभिव्याहरति या वाक् सा ऋक् तस्मात् अप्राणन्ननपानन् ऋचमभिव्याहरति या ऋक् तत्साम तस्मादप्राणन्ननपानन् साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन् उद्गायति ॥ ३ ॥
प्राणाद्यास्त्रिविधाः पञ्चप्रधानो वायुरेव च ॥ मुख्यपञ्चकरूपस्सन् गरुडो मध्यपञ्चकः । अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः ॥ इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः । प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ ॥ रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः । तस्मिन्नुद्गीथनामानमुपासीत हरिं परम् ॥ योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा । उद्गीथे च स एवैकस्तस्माद् व्यानादि्ध तत्क्रियाः ॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानन् तानि करोत्येतस्य हेतोर्व्यानमोवोद्गीथमुपासीत ॥ ४ ॥
उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके । वीर्यवत्कर्मकृत् तस्माद्व्यान एव ह्युदाहृतः ॥ तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः । यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः ॥ अनूनोद्रिक्तमहिमो निर्विशेषस्सदैव च । तथापि तत्क्रियाभेदान्नामरूपादिकं पृथक् ॥ उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः । अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः ॥ विशेषहेतुकं सर्वं करोत्यविकृतः सदा ।
अथ खलूद्गीथाक्षराण्युपासीतोद् गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो हि गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितं द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ ५ ॥
अथ खल्वाशीः समृदि्धरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन् स्यात् तत्सामोपधावेद्यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन् स्यात् तां देवतामुपधावेद्येन च्छन्दसा स्तोष्यन् स्यात् तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोममुपधावेद्यां दिशमभिष्टोष्यन् स्यात् तां दिशमुपधावेदात्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥६॥३॥
उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम् ॥ आशीःसमृदि्धहेतुष्वप्यखिलेषु व्यवस्थितम् । एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात् ॥ इति च । उच्छब्दवाच्याः प्राणाद्याः वागाद्या गीरितीरिताः । अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः ॥ इति च । आत्मानं परमात्मानमन्ततः सर्वोत्तमत्वेन सर्वत्रोपसृत्य ॥ ३ ॥
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् । देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशंस्ते छन्दोभिराच्छादयन्यदेभिराच्छादयंस्तच्छन्दसां छन्दस्त्वं तान् उ तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि सामि्न यजुषि तेऽनुवित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १ ॥ यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ २ ॥ ४ ॥
स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते । वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे ॥ देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः । मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः ॥ ओमित्युपास्य तं विष्णुं परमामृतमापिरे ॥ इति सन्ध्याने । ऊर्ध्वा उत्तमाः ॥ ४ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वाऽऽदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥
एतमु एवाहमभ्यागासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मींस्त्वं पर्यावर्तयताद् बहवो वै ते भविष्यन्तीत्यधिदैवतम् ॥ २ ॥
अथाध्यात्मं य एवायं मुख्यप्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ ३ ॥
एतमु एवाहमभ्यागासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणांस्त्वं भूमानमभिगायताद् बहवो वै ते भविष्यन्तीति ॥ ४ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५ ॥ ५ ॥
आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः । प्रकृष्टत्वाच्च नेतृत्वाद्गतित्वादखिलस्य च ॥ उद्गीथ उच्चैर्गीयत्वात् स एव पुरुषोत्तमः । स एव प्राणगो देहे ओमित्येव सदा जपन् ॥ एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम् । एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु ॥ बहुपुत्रो विमुक्तः स्यात् तस्माद्ध्यायेत् तथा परम् ॥ इति च । प्राणस्थं भूमानमभिगायदुरुद्गीतमनुसमाहरति । अनुरूपमेव करोति । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वा । अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम् । अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा ॥ इति त्रैविद्ये ॥ ५ ॥
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते इयमेव साग्निरमस्तत्साम ॥ १ ॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत् साम ॥ २ ॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते द्यौरेव सादित्योऽमस्तत् साम ॥ ३ ॥
नक्षत्राण्येवकः चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत् साम ॥४॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत् साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽथ यदेवैतदादित्यस्य शुक्लं भाः सैव साम यन्नीलं परः कृष्णं तदमस्तत् साम ॥ ५ ॥
अग्नीरसूर्यनीलेषु वायुस्थः सामदेवता । उर्वीवियद्द्युशुक्लेषु ऋग्देवीस्था सरस्वती ॥ सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः । एवं तौ सामनामानावुभावेवाप्युदाहृतौ ॥ अतो हि सामवेदोयं ऋक्सामात्मक ईरितः ।
अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषः दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः ॥ ६ ॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति । नाम स एषः सर्वेभ्यः पाप्मभ्यः उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ७ ॥
तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात् त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात् पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ ८ ॥ ६ ॥
वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ ॥ तयोरन्तःस्थितो विष्णुर्गायको तस्य तावुभौ । ऋक्सामाभ्यां स उन्नामा पापोद्गश्चोच्च एव च ॥ इत्यादि सत्तत्त्वे । कप्यासरक्तपद्माक्षः सूर्यगश्चाक्षिगश्च सः । गायकस्तस्य विष्णोर्यः स स्वर्ग्यांश्च नृलोकगान् ॥ कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि । मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः ॥ इति च । तस्मादुद्गीथ उच्चोऽसौ गीयते च इति ।
अथाध्यात्मं वागेवकः प्राणः साम तदेतदेस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते वागेव सा प्राणोऽमस्तत् साम ॥ १ ॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते चक्षुरेव साप्राणोऽमस्तत् साम ॥ २ ॥
आत्मा जीवः । सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरितः । विदित्वा तावुभौ देवी तद्गं ध्यायेद्धरिं सदा ॥ इति मानसे ।
श्रोत्रमेवङ्गर््मनः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते श्रोत्रमेव सा मनोऽमस्तत् साम ॥ ३ ॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत् साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽथ यदेवैतदक्ष्णः शुक्लं भाः सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत् साम ॥ ४ ॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवकः तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावदमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥
दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट् । ऋङ्ग्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः ॥ उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः । ब्रह्मासौ पूर्णरूपत्वादेवं सर्वाभिधानवान् ॥ इति च ॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात् ते धनसनयः ॥ ६ ॥
अथ य देतदेवं विद्वान् साम गायत्युभौ साम गायति सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास्तांश्चाप्नोति देवकामास्तांश्च ॥ ७ ॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥
कं ते काममागायानीत्येष ह्येष कामगानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ ९ ॥ ७ ॥
यथा बदरिकानाथो द्वारकानाथ इत्यपि । अर्वाङ्ग्नाथः पराङ्ग्नाथ इति तद्वहिहोच्यते ॥ सर्वनाथोऽपि भगवान् सन्निधानविशेषतः ॥ इति च ॥ ६९ ॥ ७ ॥
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यः चैकितायनो दाल्भ्यः प्रवाहणो जैबिलिरिति । ते होचुरुद्गीथे ये कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥
तथेति ह समुपविविशुः स ह प्रवाहणो जैबिलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच का साम्नो गतिरिति ॥ २ ॥
स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाचापां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति॥ ३ ॥
न स्वर्गं लोकमतिनयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्थापयामः स्वर्गसंस्तावं हि सामेति । तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यं उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥४॥
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः प्रतिष्ठासंस्तावं हि सामेति । तं ह प्रवाहणो जैबिलिरुवाचान्तवद्वै किल ते शालावत्य साम यत्स्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाच ॥ ५ ॥ ८ ॥
अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः । प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः ॥ अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान् । द्व्यात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः । क्रमेण मोक्षे प्राप्याश्च पूर्वेषामुत्तरोत्तराः ॥ इति निवृत्ते । अग्नेर्वागात्मकत्वात् ।उदकात्मकत्वात् स्वरस्य । आदित्य एव प्राणोऽन्नं वै प्रजापतिः इति श्रुतेः । आप एवेन्द्रो द्यौर्वाव रुद्रः इत्यादेश्च । विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम् । ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम् ॥ इति ब्रह्मतर्के । स्वर्गाभिमानिरुद्रं प्रति सामाभिसंस्थापयामः । तत्स्तावकं हि साम । मूर्धा ते विपतेदिति यः कश्चिद् ब्रूयाच्चेत् विपतिष्यति । ब्रह्मैव हि पृथिव्यात्मा ....... ...... ।
अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्तः ॥ १ ॥
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतमेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते । तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रयाजमुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति तथामुष्मिंल्लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ २ ॥ ९ ॥
........ ..... विष्णुराकाशनामकः । आदीप्तत्वाद्वरीयांश्च परमो हरिरेव हि ॥ इति सत्तत्त्वे । शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः । स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः ॥ उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः । अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः ॥ स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः । अतः स्वर्गोसुसंस्थत्वादसाविति च कीर्तितः ॥ सर्वदेवान्तरत्वात् तु ब्रह्मायं समुदाहृतः । लोको ज्ञानस्वरूपत्वादेतेषां परमो हरिः ॥ इति ब्रह्मतर्के । आपालनादाप इन्द्रः । अधिकं वरीयान् परोवरीयान् । तत्परोवरीयोऽस्य रक्षकं भवति । यावत्तः द्वापरादिपर्यन्तम् ॥ ८ ॥ ९ ॥
मटचीहतेषु कुरुष्वाटक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ॥ १ ॥
उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः । इति शब्दनिर्णये । आसन्नयौवना योषिदाटकीत्यभिधीयते । इति च । प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः । इति च ॥ १० ॥
तं होवाच नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इत्येतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच न स्विदेतेऽप्युच्छिष्टा इति ॥ २ ॥
न वा अजीविष्यमिमान् अखादन्निति होवाच कामो म उदपानमिति स ह खादित्वातिशेषान् जायाय आजहार साग्र एव सुभिक्षा बभूव तान् प्रतिगृह्य निदधौ स ह प्रातः संिजहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्रां राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ३ ॥
तं जायोवाच हन्त पत इम एव कुल्माषा इति तान् खादित्वामुं यज्ञं विततमेयाय तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोप विवेश स ह प्रस्तोतारमुवाच प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीत्येवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीत्येवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ ४ ॥ १० ॥
अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैशिषं भगवतो वा अहमवित्त्याऽन्यानवृषि भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ॥ १ ॥
तथेत्यथ तर्ह्येत एव महतिसृष्टास्तुवन्तां यावत्तेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ २ ॥
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ॥ ३ ॥
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति ॥ ४ ॥
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यादित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेत्यथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेत्यन्नमिति होवाच ॥ ५ ॥
सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ ६ ॥ ११ ॥
प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः । प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः ॥ आदित्यसंस्थितो विष्णुर्यत्सदा सर्वगीतभुक् । राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता ॥ उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः । अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना ॥ प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम् ॥ इति च । उच्चैः सन्तमुत्तमं सन्तम् ॥ ११ ॥
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायाम वा इति ॥ १ ॥
तान् होवाचेहैव सा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिञ्चक्रुरो३मदा३मोम्पिबा३मों देवो वरुणः प्रजापतिः सविता३न्नमिहा३हरदन्नपते३न्नमिहा३हराऽहरोमिति ॥ २ ॥ १२ ॥
दल्भपुत्रो बको मित्रया पुत्रार्थे स्वीकृतो ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जातः । अत उभयथाऽस्य निर्देशो भवतीत्यर्थः । प्रसादार्थं बकस्यापि वायुनोक्तः श्वरूपिणा । शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम् ॥ उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः । सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः ॥ ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः । वायुस्थविष्णुमुद्दिश्य हिङ्कृत्य प्रापुरीप्सितम् ॥ देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु । वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः ॥ प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ ॥ इति च ॥ १२ ॥
अयं वाव लोको हावुकारो वायुर्हायिकारश्चन्द्रमा अथकार आत्मेहकारोऽग्निरीकार आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं याया वाग्विराडनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुप्कारो दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेद इति ॥ १ ॥ १३ ॥ ॥ इति श्रीमच्छान्दोग्योपनिषदि प्रथमोऽध्यायः ॥
हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं ततः । हेत्याश्वर्यवदायाति हेति वा सुखकृत्त्वतः ॥ हायिकारस्ततो वायुरथेत्युक्तमनन्तरम् । आनन्तर्यात् प्रकाशस्य सूर्याचन्द्रस्तथेरितः ॥ सर्वसामीप्यतो विष्णुरिहेति कथितः सदा । इन्धनादग्निरीकार ऊकारस्सूर्य उष्टितः ॥ नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः । एतीत्येकार एवासौ औहोयीत्यखिलाः सुराः ॥ उच्चत्वाद्विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः । मुक्तावौहोयिनस्तस्मात् सर्वदेवाः प्रकीर्तिताः ॥ हीति निश्चय उद्दिष्टो निश्चयज्ञानतस्सदा । ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः ॥ स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः । ययिर्नित्यगतेर्वायुस्तद्गायाया सरस्वती ॥ सैवान्नदेवता प्रोक्ता याऽत्त्रा प्राणेन नीयते । सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात् ॥ विराडुक्ता निरुक्तस्तु व्याप्तो नारायणस्तु यः । आहूत एव पातीति हुप्कार इति कीर्तितः ॥ हुबित्याक्रियते यस्माद् हुप्कारस्तु जनार्दनः । अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः ॥ इति माहात्म्ये । सम्यक् चरतीति स एव सञ्चरः ॥ १३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये प्रथमोऽध्यायः ॥