छान्दोग्योपनिषत्

change script to

अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥
यद्वेत्थ तेन तदुक्त्वा मामुपसीद ।
ऋग्वेदं यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
पितृलक्षणं तु पित्र्यं स्याद्राशिः स्यात् पूगलक्षणम् । देवतालक्षणं दैवं निधिश्च निधिलक्षणम् ॥ वाकोवाक्यं मूलवेदो वेदसारोपसंहृतिः । एकायनमितिप्रोक्तं देवविद्या त्वमानुषी ॥ देवज्ञेयैव या विद्या ब्रह्मविद्या तथाऽऽरणम् । भूतविद्या भूतचिह्नं क्षत्रविद्या तु नीतिका ॥ नाक्षत्री ज्यौतिषाख्या च सर्पलक्षणमेव च । सर्पविद्येति सम्प्रोक्ता या देवपरिचारगा ॥ सा देवजनविद्या स्यादेता वेद स नारदः ॥ इति सामसंहितायाम् ।
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तन्मा भगवांञ्च्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
नाम वा ऋग्वेदः यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमः वेदानां वेदः पित्र्यो राशिः दैवो निधिः वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्वेति ॥ ४ ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाग्वा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ५ ॥ १ ॥
विद्यानां निर्णयाज्ञानादविद्वानुच्यते पुमान् । सर्वविद्याविदप्यद्धा तस्मान्निर्णयवित्तये ॥ कुमारमैच्छद्देवर्षिर्नारदो ब्रह्मवित्तमम् ॥ इति च । विष्णोर्नाम यतो विद्याः सर्वनामेत्यतः स्मृताः । नामाभिमानिनी चोषा तस्या ब्रह्म परं स्मरेत् ॥ यदेषा न त्वमेया स्यान्मीयते ह्युषसि ध्रुवम् । रात्रिमानमजानदि्भस्ततो नामेत्युषा स्मृता ॥ १ ॥
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्च्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्ग्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ २ ॥
तस्यास्तु भूयसी स्वाहा धर्मज्ञानसुखादिभिः । सर्वैगुणैर्विमुक्तौ च तथा बन्धे च सर्वदा ॥ वाचोभिमानिनी सैव वाङ्ग्नाम्नी चाञ्चनाद्वसोः ॥ २ ॥
मनो वाव वाचो भूयो यथा वै द्वे वाऽऽमलके द्वे वा कोले द्वौ वाऽक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्रांश्च पशूंश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥
स यो मनो ब्रह्मेत्युपास्ते स यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ३ ॥
एवं तस्या विमुक्तौ च पर्जन्यः सर्वतो वरः । मनोभिमानी सम्प्रोक्तो वृष्ट्या निर्माणतो मनः ॥ ३ ॥
सङ्कल्पो वाव मनसो भूयान् यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नामि्न मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशश्च समकल्पन्तामापश्च तेजश्च तेषां सङ्क्लृप्त्यै वर्षं सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नं सङ्कल्पतेऽन्नस्य सङ्ग्क्लृप्त्यै प्राणाः सङ्कल्पन्ते प्राणानां सङ्क्लृप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणां सङ्क्लृप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्क्लृप्त्यै लोकाः सङ्कल्पन्ते लोकानां सङ्क्लृप्त्यै सर्वं सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥
स यः सङ्कल्पं ब्रह्मेत्युपास्ते क्लृप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति । यावत् सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति सङ्कल्पात् भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ४ ॥
तथा तस्माद्वरो मित्रो मुक्तौ सङ्कल्पदेवता । अह्नि सङ्कल्पयेद्यस्मात् स्वप्स्यन्ति निशि यत्ततः ॥
चित्तं वाव सङ्कल्पाद् भूयो यदा चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नामि्न मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मकानि चित्ते प्रतिष्ठितानि तस्माद् यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पवित् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥
स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति यावत् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ५ ॥
तथा मित्राद्वरस्त्वग्निर्मुक्तौ चित्तस्य देवता । चितत्वाच्चित्तनामा च .................
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीव द्यौर्ध्यायतीवान्तरिक्षं ध्यायन्तीवापो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥
स यो ध्यानं ब्रह्मेत्युपास्ते यावत् ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद् भूय इति ध्यानात् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥६॥
.................तस्माद्वरुण एव च ॥ ध्यानस्य देवता चासौ तन्नामा च निधानतः । सत्यानृतविवेकार्थं ...............
विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीन् श्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकान् ज्ञानवतोऽभिसिद्ध्यति यावद् विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद् भूय इति विज्ञानाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥७॥
.................तथा तस्मान्निशाकरः ॥ विज्ञानदेवता चासौ तन्नामा च विवेचनात् । सत्यस्य ..........
बलं वाव विज्ञानाद्भूयोऽपीह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेनापो बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकं बलेन वै लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥ स यो बलं ब्रह्मेत्युपास्ते यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद् भूय इति बलाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ८ ॥
......... तस्माच्च तथा वायुर्भूतात्मको वरः ॥ बलात्मकस्तथा ..........................
अन्नं वाव बलाद् भूयस्तस्माद्यद्यपि दशरात्रीर्नाश्नीयाद्यदु ह जीवेऽथवाऽद्रष्टाऽश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवत्यथान्नस्याशी द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान् पानवतोऽभिसिद्ध्यति यावत् अन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नात् भूय इति अन्नात् वाव भूयोस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ९ ॥
................. तस्मादन्नदेवोऽनिरुद्धकः । अन्ननामाऽनुनादित्वात् .................
आपो वावान्नाद् भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥
स योऽपो ब्रह्मेत्युपास्ते आप्नोति सर्वान् कामान् तृप्तिमान् भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवो अद्भ्य भूय इति अद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १० ॥
................. तैजसाहम्भवस्ततः ॥ तथा वरिष्ठः प्राणाख्यो वायुः सोऽपां च देवता । अम्नामा देहसंव्याप्तेः ........................
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युदि्भराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान् भास्वतोऽपहततमस्कानभिसिद्ध्यति यावत् तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवो तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ११ ॥
................. तथा तस्मात् पुरन्दरः ॥ तेजोभिमानी तन्नामा तेजो ह्योज इतीर्यते ।
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेन आह्वयत्याकाशेन शृृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशेन रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥
स य आकाशं ब्रह्मेत्युपास्ते आकाशवतो हवै स लोकान् प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिद्ध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगवो आकाशाद्भूय इति आकाशाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १२ ॥
तथा तस्मादुमा चैव सा चाकाशाभिमानिनी ॥ आकाशनाम्नी दीप्तत्वात् .................
स्मरो वा आकाशाद्भूयांस्तस्माद्यद्यपि बहव आसीरन्नस्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन् यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन् स्मरेण वै पुत्रान् विजानाति स्मरेण पशूं स्मरमुपास्स्वेति ॥ १ ॥
स यः स्मरं ब्रह्मेत्युपास्ते यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवो स्मराद् भूय इति स्मराद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥१३॥
................. तस्याश्चैव सदा शिवः । स्थिरस्मृत्यभिमानी स सममेव रतेः स्मरः ॥
आशा वाव स्मराद् भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥
स य आशां ब्रह्मेत्युपास्ते आशायास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याऽऽशिषो भवन्ति यावद् आशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगवो आशाया भूय इति आशाया वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १४ ॥
मुख्यवायुप्रिया तस्मात् परमैव सरस्वती । बन्धमुक्त्योः सर्वगुणैः सर्वदाऽऽशास्वरूपिणी ॥ शमित्यानन्द उद्दिष्ट आशापूर्णसुखत्वतः ।
प्राणो वा आशाया भूयान् यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥
तस्याः श्रेष्ठो मुख्यवायुः प्रकृष्टानां च नायकः ॥ प्राणनामा णइत्येव ह्यानन्दः समुदीरितः । आणा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः ॥ प्राण इत्युच्यते वायुः .... ..... ........। .... .......... ...... सर्वे त्वेते दशोत्तराः । पर्जन्यमित्रशिखिनो भूतवायुस्तथैव च ॥ द्विगुणा एवानिरुद्धोऽनिलात् पञ्चगुणाधिकः । पादोनो वरुणादग्निरध्यर्धोनस्स सोमतः ॥ शिवादाशा तथैवास्या मुख्यवायुः शतोत्तरौ । सङ्ख्यान्यथात्वं यत्र स्यात् तत्रावेशविशेषतः ॥ अवराणां गुणस्यापि परमीयत्वतस्तथा । प्राणात्तु भगवान् विष्णुरनन्तगुणतोऽधिकः ॥ नित्यमुक्तो नित्यशक्तिर्नित्योद्रिक्तगुणः प्रभुः ॥ इति तत्त्वविवेके । सैषाऽऽनन्दस्य मीमांसा भवति इत्यादेश्च । अथातः सम्भूतिः परमाद्विद्या विद्यायाः प्राणः प्राणाच्छ्रद्धा श्रद्धायाः शिवश्शिवाद् बुदि्धः बुद्धेरिन्द्र इन्द्रात् तैजसः प्राणस्तैजसादनिरुद्धो अनिरुद्धात् स्पर्शवातः स्पर्शवातात् सोमस्सोमाद्वरुणो वरुणादग्निरग्नेर्मित्रो मित्रात् पर्जन्यः पर्जन्यात् स्वाहा स्वाहाया उषा जायते तेषां परः परो ज्यायान् गुणैरुत्तरः उत्तरः प्रत्यवरः परस्मात् परस्मादुत्तर उत्तरो मुच्यते स्वं स्वं भावमापद्यते । नैषां पारावर्यमुच्छिद्यते कदाचन । नैषां पारावर्यमुच्छिद्यते कुतश्चन । पारावर्येणैव ब्रह्मोपयन्ति पारावर्येण मुक्ताः सञ्चरन्ति । इत्यादि श्रुतेश्च । नामादिमारुतान्तेषु देवेष्वेभ्यश्च भेदतः । उपासितो हरिर्मुक्तिं दद्यान्नास्त्यत्र संशयः ॥ इति सत्तत्त्वे ॥ उषादिमारुतान्तेषु समः समगुणोऽपि सन् । ध्यातः प्रीतिं हरिर्यायादधिकामुत्तरोत्तरे ॥ उत्तमेषूत्तमा प्रीतिस्तस्य तत्र स्मृतस्ततः । ध्यातुरप्युत्तमां प्रीतिं यायान्नास्त्यत्र संशयः ॥ तारतम्यपरिज्ञानात् तेषु ध्यातो विमुक्तिदः । प्रीतिं न चान्यथा यायादिति शास्त्रस्य निर्णयः ॥ इति तत्त्वविवेके । नामादिप्राणपर्यन्ताः सप्तम्यर्थाः प्रकीर्तिताः । तृतीयापञ्चमीषष्ठीचतुर्थ्यर्थाश्च सर्वशः ॥ शब्दास्ते ब्रह्मशब्देन सम्बध्येयुर्यदा तदा । ब्राह्मणोऽस्य मुखं यद्वदात्मा वै पुत्रको यथा ॥ यथा च यूप आदित्य एवमेष प्रकीर्तितः । सप्तसु प्रथमा यस्माद् भूयो भूयस्त्वतस्तथा ॥ षट्सुद्वितीया यस्माच्च कारणत्वात् परस्य च । न ह्यन्यदन्यदित्येव ध्यातं स्यात् पुरुषार्थदम् ॥ अनर्थश्च भवेत् तस्माद् भृत्ये राजेति बोधवत् । राजपूजां यथा भृत्ये कुर्याद्राजा हिनस्ति हि ॥ तद्वशत्वात् तथा भृत्य एवं नामादिकं च यः । उपास्ते ब्रह्मरूपेण तं ब्रह्माथेतराणि च ॥ पातयन्ति तमस्यन्धे तस्मान्नेक्षेत तांस्तथा ॥ इति सामसंहितायाम् । अचेतनमयोग्यं च तथैवातात्त्विकं क्वचित् । नोपासीत परोऽनर्थः स्यात् तथोपासनाकृतः ॥ दर्भचर्मादयश्चातो देवता ह्यभिमानिनः । न ह्यचेतनकं किञ्चित् फलदं स्यात् कथञ्चन ॥ औषधादिषु चैतस्माद्देवा एव वरप्रदाः । औषधादिस्थिता देवास्तेऽज्ञे दृष्टफलप्रदाः ॥ ज्ञानिन्यदृष्टदाश्च स्युर्नादैवं किञ्चिदिष्यते । यथाऽज्ञस्यापि राज्ञस्तु भोजनं क्ऌप्तमिष्यते ॥ न त्वविज्ञाय राजानं ग्रामप्राप्तिस्ततो भवेत् । एवं देवा दृष्टफलं दद्युरज्ञस्य चाल्पतः ॥ किञ्चिज्ज्ञानकृतादृष्टात् तच्च नैवान्यथा भवेत् । अदृष्टाख्यं फलं यत्तु तज्ज्ञस्यैव न चान्यगम् ॥ तस्मादचेतनोपासां न कुर्यात् क्वापि कश्चन । न चासत्यां न चायोग्यां यदीच्छेदुत्तमं फलम् ॥ यदि नेच्छेत् तमो गन्तुं यदि चेच्छेद्धरेः प्रियम् । अथ कर्तव्यकारी च मुमुक्षुरथवा भवेत् ॥ सोऽपीच्छेत हरेः प्रीतिं नात्र कार्या विचारणा ॥ इत्युपासनालक्षणे । ओम् अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओं पयोम्बुवच्चेत् तत्रापि इति भगवद्वचनम् । देवेषु चर्मादिनामानि संवादादेः इति च देवमीमांसायाम् । अचेतनासत्यायोग्यन्यनुपास्यान्यफलत्वविपर्ययाभ्याम् इति सङ्कर्षणसूत्रम् । ओषधयः संवदन्ते सोमेन सह राज्ञा । प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्च । न देवानामतिव्रतं शतात्मा न जीवति । अनेहसो व ऊतयः सु ऊतयो व ऊतयः । द्यावापृथिवी जनयन्नभिव्रताय ओषधीर्वनिनानि यज्ञिया । अन्तरिक्षं स्वारापरूतये वशं देवासस्तन्वी३ नि मामृजुः ॥ अचेतनं चेतनेभ्यो दैवतेभ्यश्च चेतनाः । देवाः प्राणाच्च स प्राणो विष्णोरेव सदैव तु ॥ स्वभावं च प्रवृत्तिं च विकारं च समाप्नुयुः । कश्चिद्भाव ऋते तेषां नैतत्स्याच्च कदाचन ॥ अचेतनप्रवृत्तौ तन्न दृष्टान्तोऽस्ति कश्चन । चेतनानां प्रवृत्तेश्च दृष्टत्वादेव सर्वशः ॥ अदृष्टं दृष्टवज्ज्ञेयं यथा दृष्टप्रणेतृकम् । विसर्पत् तण्डुलं दृष्ट्वा कल्प्या तत्र पिपीलिका ॥ न तद्दृष्ट्वैव दृष्टानामपिपीलिकसर्पणम् । एवं दृष्टानुसारेण चिदधीनमचेतनम् । दुर्घटा शक्तिरपि हि पिशाचानां हि दृश्यते । देवानां किमु किम्वेव परमस्य हरेः प्रभोः ॥ इत्यादेश्च ब्रह्मतर्के । हृदयज्ञो भगवत्तत्त्वज्ञः । हृद्ययनाद्धृदयम् । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयः इति श्रुतिः । कोलं पूगफलं प्रोक्तं कलं ताम्बूलपत्रकम् इत्यभिधानम् । भूतानां भौतिकानां च मन्त्राहुतिगणस्य च । अचेतनगणस्यास्य कल्पको मित्रनामकः ॥ प्राणा भूतानि मन्त्राद्याश्चिदचित्त्वविभेदिनः । अचितां कल्पको मित्रश्चितां वाय्वादयः स्मृताः ॥ इति वस्तुतत्त्वे । सर्वमचेतनं सङ्कल्प्यते । अस्थिरस्मरणं चित्तं स्थिरसंस्मरणं स्मरः इति शब्दनिर्णये । वेदनं ज्ञानमात्रं स्याद् विद्वत्त्वं तु विशेषतः इति च । मोक्षे यस्मिन् प्रवेशः स्यात् सा प्रतिष्ठा हि मुख्यतः । उपचारतस्त्ववस्थानमिति शब्दविदो विदुः ॥ इति च । देवा मनुष्यतां प्राप्ता विज्ञेया देवमानुषाः । ध्यानं कुर्वन्त इव ते नैव स्युर्बहुभाषिणः ॥ ब्रूयुरर्थवतीं वाचं नानर्थां प्रायशो हि ते ॥ इति पाद्मे । बलं ज्ञानबलं चैव बाह्यं चेति द्विधा मतम् । युक्तिज्ञता ज्ञानबलं सा ज्ञानादधिका मता ॥ इति तत्त्वसारे । अन्नं ज्ञानरसान्नं च बाह्यमन्नमिति द्विधा । ज्ञानान्नं ज्ञानबलतः श्रेष्ठं ज्ञानरतिर्हि तत् ॥ यद्बाह्यं तु बलं तस्माद् बाह्यमन्नं विशिष्यते । आपश्च द्विविधः प्रोक्तास्तृप्तिर्या ज्ञानतो रतेः ॥ ता ज्ञेया आन्तरा आपो बाह्यास्तु द्रवरूपकाः । आन्तरान्नादान्तरापो बाह्याद्बाह्यास्तथा वराः ॥ एवं तेजः प्रातिभाख्यं बाह्यं चेति द्विधा मतम् । प्रातिभं ज्ञानतृप्तेश्च परमाकाश एव च ॥ स्थिरा तु प्रतिभान्तस्थाः छिद्रमेव तु बाह्यगः । स्थिरा हि प्रतिभा श्रेष्ठा चञ्चला या स्मराभिधा ॥ एकधैव स्मृतिः श्रेष्ठाऽऽशाऽपरोक्षदृगात्मकम् । श्रेष्ठं सुखं ततो मोक्षे प्राणाख्यं परमं सुखम् ॥ उत्तरोत्तरमेतदि्ध वाय्वन्ताभिमतं सदा । बाह्याद्भ्यो बाह्यमन्नं च जायतेऽन्यत् तदन्यथा ॥ व्यक्तिरन्तर्गतानां तु विपरीतक्रमाद्भवेत् । तथापि मोक्षगं यस्मात् स्वभावो नित्य एव तु ॥ अतस्तस्मादापरोक्ष्यं कादाचित्कं हि जायते । दृष्ट्यधीना स्मृतिश्चेयं प्रतिभा स्मृतिसम्भवा ॥ स्थैर्यमालम्ब्य तु चलमन्यथा नैव तिष्ठति । प्रतिभातस्य तृप्तिः स्यादतृप्तस्य तु का रतिः ॥ तत एवं क्रमादेवं वरिष्ठः प्राणजो गुणः ॥ इति च ॥ योऽसौ प्राणः स प्राणेन परब्रह्मणा याति । स एष भगवान् प्राणं प्रत्यभीष्टं ददाति । प्राणस्य प्राणमिति श्रुतेः । प्राणो वायुः परमात्मानं च ज्ञानेन दर्शयन् ददाति ।
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाऽऽचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्च्छूलेन समासं व्यतिषन् दहेन्नैवैनं ब्रूयुः पितृहाऽसीति न मातृहा असीति न भ्रातृहा असीति न स्वसृहाऽसीति नाचार्यहाऽसीति न ब्राह्मणहाऽसीति ॥ ३ ॥
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीत्येव ब्रूयान्नापह्नुवीत ॥ ४ ॥ १५ ॥
सर्वस्मादतीतमुत्तमं वदतीत्यतिवादी ॥ १५ ॥
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ ११६ ॥
एष तु वा अतिवदति इति तुशब्दोऽर्थान्तरवाची । अस्ति भगवः प्राणाद्भूय इति प्रश्नो व्यतिहार्यः । यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् । यत्र प्रमाणं वाक्यं वा व्यतिहार्यं न संशयः ॥ ओं व्यतिहारो विशिंषन्ति हीतरवत् इति च भगवद्वचनम् । अतिवादी प्राणवादी विष्णुवादी विशेषतः । स सत्यो भगवान् विष्णुर्यन्निर्दोषो नियामकः ॥
यदा वै विजानात्यथ सत्यं वदति नाविजानन्त्सत्यं वदति विजानन्नैव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ ११७ ॥
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥११८॥
विशिष्टज्ञानरूपश्च सामान्यज्ञानरूपकः ।
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति॥ ११९ ॥
यदा वै निस्तिष्ठत्यथ श्रद्धधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञस इति ॥ १२० ॥
नित्यश्रद्धास्वरूपश्च तथैव स्थैर्यरूपकः ॥
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ १२१ ॥
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ १२२ ॥
स एव सर्वकर्ता च सुपूर्णानन्दरूपकः ।
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १२३ ॥
स च सर्वगुणैः पूर्णो भूमेत्युच्चार्यते ततः ।
यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिमि्न यदि वा न महिम्नीति ॥ १ ॥
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेव ब्रवीमीति होवाचान्यो ह्यन्यस्मिन् प्रतिष्ठित इति ॥ २ ॥ २४ ॥
यदधीनं विना नान्यत् किञ्चिदस्ति कुतश्चन ॥ स भूमोक्तोऽतिपूर्णत्वादन्यदल्पमुदीर्यते ।
स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वमित्यथातोऽहङ्कारादेशो एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ॥ १ ॥
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवत्यथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥ २५ ॥
स सर्वगुणसम्पूर्णः सर्वदेशेषु सर्वदा ॥ स्वतन्त्रः सर्ववस्तूनि तदधीनानि सर्वशः । पूर्णत्वात् सुखरूपोऽसौ सर्वकर्ता सुखत्वतः ॥ कर्तृत्वात् सुस्थिरश्चासौ स्थिरत्वादास्तिकस्तथा । आस्तिकत्वाच्च मन्ताऽसौ विज्ञाता च ततो हरिः ॥ विज्ञातृत्वाच्च निर्दोषः सर्वस्यापि नियामकः । भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः ॥ आकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ॥ सोऽप्यणुत्वेऽपि संव्यापी परमैश्वर्ययोगतः । यथा बालतनौ विष्णौ मार्कण्डेयेन धीमता ॥ प्रविश्य नान्तोऽधिगत एवं व्याप्तो हरिः परः । अणुरूपोऽपि भगवान् वासुदेवः परो विभुः ॥ आत्मेत्युक्तः स च व्यापी न च भेदो हरौ क्वचित् ॥ इति परमसारे । भूमप्रसादं विना नाल्पे सुखमस्ति । मर्त्यं च पूर्वम् । अल्पापि ह्यमृता देवी श्रीः पूर्णातिप्रियत्वतः इति च । आत्मरतिर्भगवद्रतिः । स्वो भगवान् । सोऽस्य प्रत्यक्षतः आज्ञापयिता भवतीति स्वराट् ।
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशाऽऽत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्पः आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतो कर्माण्यात्मत एवेदं सर्वमिति ॥१॥
तदेष श्लोकः ॥
न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति ॥
स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः ।
शतं च दश चैकं च सहस्राणि च विंशतिः ॥
आहारशुद्धौ सत्त्वशुदि्धः सत्त्वशुद्धौ ध्रुवा स्मृतिः ॥
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसः पारं दर्शयति देवर्षये नारदाय भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षते तं स्कन्द इत्याचक्षते ॥ २ ॥ २६ ॥ इति श्रीमच्छान्दोग्योपनिषदि सप्तमोऽध्यायः ॥
आत्मतः प्राण आत्मत आशेत्यादि मुक्तः सन् प्राणादीनां सृष्ट्यादिकं पश्यतीत्यर्थः । सर्वं हि पश्यः पश्यति इति वाक्यशेषात् । पश्य इति द्रष्टा । यदा पश्यः पश्यते रुक्मवर्णम् इति श्रुतेः । भूमोपासनयोग्यस्तु साक्षाद्ब्रह्मैव मुख्यतः । स तद्विद्याबलेनैव विष्णुना रतिमाप्नुयात् ॥ तेनैव क्रीडते नित्यं स्त्रीरूपो मिथुनीभवेत् । तदानन्दः स एवास्य राजा भवति नापरः ॥ पश्येच्च प्राणसृष्ट्याद्यं ये तदन्य उपासकाः । ते यथायोग्यमाप्स्यन्ति फलं मुक्तौ न संशयः ॥ इति परमतत्त्वे । न च भूमानं भगवो विजिज्ञास इति पृष्टः सन् भूम्नो लक्षणं स एवाधस्तात् स उपरिष्टादित्यादिना पूर्णत्वं भगवतोऽन्यस्याहङ्कारस्योपदिशतीति युज्यते । न चाहङ्कारस्य पूर्णत्वमस्ति । न च मुख्ये पूर्णत्वे युज्यमाने उपचरितं युज्यते । न चाहङ्कारस्य काचित् प्रस्तुतिः । अथशब्दस्तु रूपान्तरापेक्षया युज्यते । अतःशब्दस्तत्प्रसादादिति । आत्मरतिः स्वराडित्यादि । यो ब्रह्माणं विदधाति पूर्वमिति ब्रह्मण उत्पत्तिप्रसिद्धेः स्वयम्भूरात्मभूरित्यादिष्वात्मशब्दः स्वयंशब्दश्च यथा विष्णुवाची तद्वदेवात्राप्यात्मशब्दो विष्णुवाच्येव । न च मुक्तेभ्यः प्राणादिकमुत्पद्यते । ओं जगद्व्यापारवर्जम् इति वर्णितत्वाद् भगवता । आत्मत एव प्राणो जायत इत्यवधारणान्न भगवतोऽन्यस्मात् प्राणो जायते । आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारतः । तथैव स्व इति प्रोक्तस्तस्माद् ब्रह्माऽऽत्मभूः स्वभूः ॥ इति स्कान्दे । इदं नामातिसामीप्यात् सर्वं पूर्णगुणत्वतः । भूमाऽहमात्मेति हरिस्त्रिविधोऽपि हि सर्वदा ॥ इति विश्वनिर्णये । स्त्रीगुणाः पुङ्गुणाश्चैव नपुंसकगुणा अपि । यदधीना व्यत्ययः स्याद् लिङ्गानां तत्र सर्वशः ॥ कः किं कं तत्सर्वमात्माऽदितिर्देवादयस्ततः ॥ इति लिङ्गनिर्णये । गुरोर्विद्याहृतिर्या तु स आहार इति स्मृतः । तच्छुद्धौ ज्ञानशुदि्धः स्याज्ज्ञानशुद्धी स्थिरा स्मृतिः ॥ स्मृतिस्थैर्ये त्वापरोक्ष्यं हरेर्मोक्षस्ततो भवेत् ॥ इति साधननिर्णये ॥ २६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये सप्तमोऽध्यायः ॥