छान्दोग्योपनिषत्

change script to

ॐ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥
यदिदमस्मिन् ब्रह्मपुर इति ब्रह्मपुरशब्देन ब्रह्माख्यं पुरं पूर्णत्वात् पुरमिति परं ब्रह्म ब्रह्मणः पुरमिति शरीरं चोभयं विवक्षितम् । प्राप्तोऽवध्यं ब्रह्मपुरं राजेव निवसाम्यहम् । अस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितम् ॥ यदैतज्जराऽवाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युः इत्यादि वाक्यशेषाद्भगवद्वचनाच्च ब्रह्मपुरशब्देन पुरं ब्रह्मोच्यत इत्यवसीयते । यत्पुण्डरीकं पुरमध्यसंस्थं यदिदं शरीरं तदेतदाद्यं देवसदनम् इत्यादेः शरीरं च । यद्धैतद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः । यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति इत्यादिना परब्रह्मण्येव हृदयं स्थितम् ।
तं चेद्ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥
यावान् वा अयमाकाशस्तावनेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति ॥ ३ ॥
दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् । दहरोस्मिन्नन्तर आकाशः किं तदत्र विद्यते इत्यत्राकाशशब्देन भूताकाशो विवक्षितः । किं तदत्र विद्यत इत्यस्यायं परिहारः– अस्मिन् भूताकाशे परब्रह्माख्य आकाशो विद्यते । आसमन्तात् काशनादाकाशः । आसमन्तात् कमश्नातीति वा । अस्मिन् कामाः समाहिताः इति वाक्यशेषात् । आसमन्तात् कामानश्नातीति वा । स च यावान् बहिः परमात्मा व्याप्तोऽस्ति तावानेव विद्यते गुणतः । पूर्णगुणत्वात् । अल्पपरिमाणस्यापि महत्परिमाणत्वं च युज्यते । अचिन्त्यशक्तित्वात् । यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति विद्यादयो विविधशक्तय आनूपूर्व्या इति वचनात् । आनुपूर्व्येति श्रुतिप्रमाणादित्यर्थः । आनुपूर्वी श्रुतिर्वेद आम्नायश्चेति कथ्यते इत्यभिधानात् । अन्यथाऽनिशमित्युक्तिविरोधात् । एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्याः इति हृदयस्थस्यैवाणुत्वमहत्वोक्तेश्च । गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्रशङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ॥ इति च श्रुतिः । सुविरुद्धा अश्रुताश्च गुणाः सन्त्येव सर्वशः । दोषाः केऽपि न सन्त्येव श्रुता अपि तु सर्वशः ॥ इति गारुडे ॥ किं तदत्र विद्यत इति पृष्टत्वात् हृद्गत आकाशो हृदयशब्देनोच्यते । हृद्ययनात् । तस्मिन् हृदयाख्य आकाशे बहिराकाशो विद्यत इत्यर्थः । अन्यथा कथं भूताकाशस्य दहरस्य ब्रह्माख्य आकाशो विद्यत इत्यर्थः । अन्यथा कथं भूताकाशस्य दहरस्य बहिराकाशसमत्वम् ? दहरोऽस्मिन् अन्तराकाश इति पूर्वोक्ताकाशस्य दहरत्वमुक्तम् । उत्तरस्य तु यावान् वा अयमाकाश इत्यनन्तरपरिमाणत्वम् । अतो ब्रह्माकाश एवोत्तरः । पूर्वोक्तस्याभूताकाशत्वे तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं तत्रापि दहरं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यं, सहस्रशीर्षं देवम् इत्यादि कथं युज्यते? न हि भगवदन्तःस्थितमेवान्यत् किञ्चिद्विजिज्ञास्यम् । तद्वावेत्यवधारणाय । उत्तरस्यापरब्रह्मत्वे च सर्वाधारत्वं नास्य जरयैतज्जीर्यते न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा इत्यादि न युज्यते । किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम् इत्यस्य य एषोऽन्तर्हृदय आकाश इत्येव परिहारः । न तु उभे अस्मिन् द्यावापृथिवी इत्यादि । तत्तु विजिज्ञासितव्यत्वे हेतुत्वेन सामर्थ्यकथनमेव । न हि द्यावापृथिव्यादेरेव विजिज्ञास्यत्वम् । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ इति हि श्रुतिः । उभे अस्मिन् द्यावापृथिवीत्याद्युभयशब्दो मुक्तामुक्तराशिव्यपेक्षया । यच्चास्येहास्ति यच्च नास्ति इति वाक्यशेषात् । अस्येति संसारिणः । न हि संसारिणो मुक्ता उपकारकाः । यद्यस्य नोपकारकं तत्तस्य नास्तीत्युच्यतेऽन्यस्य सत्वेऽपि । यथा वित्तादि ।
तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरावाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥
स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥
यथायोग्यमेवैनं भगवन्तं प्रजा मुक्ता अन्वाविशन्ति तच्छासनानुसारेण यं यं कामं कामयते तं तस्मादेवोपजीवन्ति ।
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामां स्तेषां सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामां स्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥ १ ॥
तदविदुषां पुण्यानि क्षयिष्णुफलान्येव भवन्ति । एतांश्च सत्यान् कामान् भगवदीयान् । बृहत्त्वात् पूर्णकामत्वाद् विष्णुर्ब्रह्मपुराभिधः । तस्मिंस्तस्य पुरं देहस्तस्मिन् हृदयमास्थितम् ॥ हृदयाकाशगो विष्णुस्तस्मिन् सर्वमिदं स्थितम् । स सत्यकामो भगवान् यदिष्टं तस्य तद्भवेत् ॥ तस्मिन् समाहिताः कामाः सत्याः पुंसामपि ध्रुवम् । तस्यैव ह्यनुसारेण सत्यत्वं नान्यथा क्वचित् ॥
स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥
अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥
अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥
अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥
अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥
अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥
अथ यद्यन्नपालोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतः तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥
अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतः तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥
अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेवास्य समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥ २ ॥
यथा बिम्बानुसारेण प्रतिबिम्बप्रकाशनम् । संसारे आकाङ्क्षितं सर्वं कुतो न लभ्यते इत्यत्र कारणवर्णनम्
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥
तस्माद्ये मुक्तियोग्याः स्युस्तेषां कामाः पुराऽपि तु ॥ सत्याः सन्तस्तदज्ञानान्न दृश्यन्ते तथाऽखिलाः । अज्ञानमनृतं प्रोक्तमृगताविति धातुतः ॥ तस्माद् द्रष्टुं यदिष्टं स्यात् तद्दृष्टिनियमो न तु । अमुक्तस्य ........ ...... .............
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहतमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वा प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥
........ हरेर्लोकं मुक्तो गत्वा हि पश्यति ॥ अज्ञत्वादेव सुप्तौ तु नित्यं यान्तोऽपि माधवम् । नैव पश्यन्त्यसौ विष्णुर्हृदयं नाम हृद्गतेः ॥ एवं हृदयनामानं विष्णुं जानन्ति नित्यशः । विष्णुलोकगतेः पुण्यमाप्त्वा विष्णुं व्रजेत् तथा ॥
अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥४॥
यस्य सम्यक् प्रसादोऽस्ति विष्णोरेव स उच्यते । सम्प्रसादः स उत्थाय शरीरात् प्राप्य केशवम् ॥ यथास्वरूपस्तु भवेद्यं प्राप्यासौ स्वरूपताम् । आप्नोति स परो ह्यात्मा भगवानिन्दिरापतिः ॥ इत्याह सा रमादेवी पश्यन्ती परमं पदम् ।
तानि ह वा एतानि त्रीण्यक्षराणि सत् ति यमिति तद्यत् सत् तदमृतमथ यत् ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित् स्वर्गं लोकमेति ॥ ५ ॥ ३ ॥
सदित्यमृतधर्माणो मुक्ताः श्रीरपि चेरिताः ॥ तीत्युक्ता मर्त्यधर्माणस्तेषां नियमानाद्धरिः । सत्यमित्युच्यते सदि्भः ........ .........
अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतंसेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥
........ ......... सेतुश्चापि विधारणात् ॥ सितमस्मिन् जगत्सर्वमिति सेतुरितीरितः ।
तस्माद्वा एतं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतं सेतुं तीर्त्वाऽपि नक्तमहरेवाभिनिष्पद्यतेऽसकृद्विभातो ह्येवैष ब्रह्मलोकः ॥२॥
एतं सेतुं प्रतिपुमानन्यत्तीर्त्वा ह्यदोषवान् ॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥ ४ ॥
स प्राप्यो ब्रह्मचर्येण मनोवाक्कर्मभिस्तु यत् । चरणं ब्रह्मणि परे ब्रह्मचर्यं हि तत्स्मृतम् ॥ तेनैव ब्रह्मचर्येण भवेयुर्ब्रह्मलोकगाः । एतेषां ब्रह्मलोकः स्यात् परं ब्रह्मैव लोकनात् ॥ ब्रह्मलोक इति प्रोक्तं तस्य लोकोऽपि कथ्यते ।
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वाऽऽत्मानमनुविन्दते ॥ १ ॥
अथ यत्सत्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्येमेव तद्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ २ ॥
अथ यदनाशकायनमित्यचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
अऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेवतत् । अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ३ ॥
तद्य एवैतावरं च वै ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥ ५ ॥
यज्ञ इष्टं च सत्रं च मौनं चानशनं तथा ॥ परस्य ब्रह्मणो ज्ञानं सर्वमेतदुदीरितम् । परस्य ब्रह्मणो लोके श्वेतद्वीपाभिधे परे ॥ अरण्यौ चार्णवौ दिव्यौ चिदानन्दरसात्मकौ । यावानुच्चः स्वर्गलोकस्तावानुच्चस्तथा स च ॥ श्वेतद्वीपो दिविष्टोऽतस्तत्र मद्यं सरोवरम् । सर्वभोज्यात्मकं दिव्यं तत्राश्वत्थाः सुधास्रवाः ॥ तत्र विष्णोः पुरं दिव्यमपराजितनामकम् । विमिताख्यं च पर्यङ्कं विष्णोर्मानेन संमितम् ॥ चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्तत् स्वरूपिणी । स श्वेतद्वीपगो विष्णुः पर्यङ्कब्रह्मनामकः ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥
स एष हृदि नाडीषु पञ्चरूपः प्रतिष्ठितः । विष्णोरणिम्नो रूपाणि पञ्चनाडीस्थितानि तु ॥ नारायणाख्यं सौषुम्नं मध्यस्थं रक्तवर्णकम् । शुक्लं तु वासुदेवाख्यं नान्दिन्यामग्रतः स्थितम् ॥ पिङ्गलायां पिङ्गलं च रूपं सङ्कर्षणाभिधम् । पश्चिमे वज्रिकायां च पीतं प्रद्युम्ननामकम् ॥ इडायामनिरुद्धाख्यं नीलरूपं व्यवस्थितम् । सूर्येऽप्येवं पञ्चरूपो भगवान् संव्यवस्थितः ॥ आदित्यनामा चादित्वात् .................
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुष्मादादित्यात् प्रतायन्ते त आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥
................. तद्व्याप्तं सूर्यमण्डलम् । तद्रश्मिभिस्तथा व्याप्ताः समस्ताः सूर्यरश्मयः ॥ तस्मिन्नाडीषु च प्रोक्तास्तथा नाडीस्थरश्मयः ।
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥
तन्नीडीसंस्थितं विष्णुं मध्ये जीवः प्रपद्यते ॥ तत्तेजसा हि सम्पन्नः सुप्त इत्यभिधीयते ।
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥
अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वं आक्रमते स ओमिति वा होद्वा मीयते स यावत् क्षिप्येन्मानस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥
तदेष श्लोकः शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वंङ्गन्या उत्क्रमणे भवन्ति उत्क्रमणे भवन्ति ॥ ६ ॥ ६ ॥
ओमित्येव वहन्नित्यं वायुरोंवाडितीरितः ॥ तेन वामत्वमायाति मुक्तिकाले ह्युपासकः । दिव्यचिद्रूपभावो हि वामभाव उदीरितः ॥ यदैनं नेतुमन्विच्छन्मनः क्षिपति मारुतः । आदित्याख्यं तदा विष्णुं याति जीवः स्वविद्यया ॥इति पर्यङ्कोपासनायाम् ॥ १६ ॥
य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति स सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥
तद्धोभये देवासुराः अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥
तौ ह द्वात्रिंशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तामिति तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह भगवतो वचो हरन्तो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥
तौ ह प्रजापतिरुवाच य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येव उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥ ७ ॥
इन्द्रो विरोचनश्चैव श्रुत्वा तु ब्रह्मणोऽक्षिगम् । विष्णुमानन्दरूपं तं सम्यग्ज्ञानविपर्ययौ ॥ आपतुस्तत्र देवेन्द्रो जानन्नपि विरोचनम् । मोहयन्ननुरूपाणि तस्य वाक्यान्युवाच ह ॥ यथा विरोचनो नैव जानीयाद्विष्णुमञ्जसा । स्ववाक्यं चानृतं न स्यात् तथा ब्रह्माऽप्युवाच ह ॥ अयोग्या ह्यसुरा ज्ञाने वक्तव्यं नैव चानृतम् । मच्छापादासुरो भावो प्रह्लादादेर्न तु स्वतः ॥ अयं त्वासुर एवातो वक्ष्याम्यस्योभयं यथा । इन्द्रस्तु शुद्धभावत्वात् पुनरायास्यति ध्रुवम् ॥ इत्यभिप्रायतः प्रोक्तो ब्रह्मणाऽक्षिगतो हरिः । अयोग्यत्वात्तु तच्छ्रुत्वा प्रतिरूपं विरोचनः ॥ मत्वाऽप्स्वादर्शके चैव पप्रच्छ कतमस्त्विति । तत्रापि तु हरेर्भावं हृदि कृत्वा चतुर्मुखः ॥ दृश्यते ह्येष एवेति तत्त्ववेदिविवक्षया ॥ ७ ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आलोमभ्य आनखेभ्यः प्रतिरूपमिति ॥ १ ॥
तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृताविति एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महय्यन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥ तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत् प्रेतस्य शरीर भिक्षया वसनेनालङ्कारेणेति संस्कुवर्न्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥ ८ ॥
तथापि योग्यतैवात्र भूयसीति निवेदितुम् ॥ दर्शयन् प्रतिरूपस्य दोषानाह प्रजापतिः । अलङ्कारादिभिर्युक्तः पश्यस्वेति विवेचयन् ॥ यथा देहगुणे गौण्यं दोषे दोषास्तथैव तु । तथाऽप्यशुद्धभावत्वात् प्रतिरूपस्य तद्गुणान् ॥ परस्य ब्रह्मणो जानन्ययौ तुष्टमनाः स्वयम् । असुराणामविश्वासनिवृत्त्यर्थं पितामहः ॥ माध्यस्थ्यं ज्ञापयानश्च जानन् वैरोचनं मनः । प्राहाज्ञानां पराभाव इत्युच्चैश्च पुनः पुनः ॥ तथाप्यशुद्धभावत्वादजानन्नेव निर्ययौ । गत्वा चैव परम्ब्रह्म प्रतिरूपात्मकं सदा ॥ दिदेश सर्वासुराणां शरीरालङ्कृतेरपि । अलङ्कृतिं ब्रह्मणश्च प्रत्यक्षेणोपलम्भिताम् ॥ अतोऽसुरा न दास्यन्ति न यजन्त्यात्मनः परम् । स्वभोगेनैव तृप्तिः स्यादिति सर्वेऽपि मेनिरे ॥ तत्संस्कारवशेनैव स्वयं ब्रह्मेतिवेदिनः । अभवन्नपतंश्चैव तमोऽन्धे नित्यदुःखिताः ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति ॥ १ ॥
नाहमत्र भोज्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति स होवाच यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोज्यं पश्यमीति ॥ २ ॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै स होवाच ॥ ३ ॥ ९ ॥
इन्द्रस्तु जानन्नपि तु मोहयन्नसुरं तदा । गत्वा निववृते पश्चादिव पश्यन् सदोषताम् ॥ पुनः पुनश्च मोहाय गत्वा गत्वा निवर्तते । कथञ्चिदेव विज्ञातं मयेत्यज्ञान् विमोहितुम् ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यदपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥
न वधेनास्य हन्यते नास्य स्रामेण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोज्यं पश्यामीति ॥ २ ॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति स होवाच तद्यदपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥
न वधेनास्य हन्यते नास्य स्रामेण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोज्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै स होवाच ॥ ४ ॥ १० ॥
तद्योग्यान्येव वाक्यानि ब्रह्माप्याह पुनः पुनः । गरीयसी योग्यतेति ज्ञापयन्पूर्ववत् पुनः ॥ सन्दिग्धान्येव वाक्यानि प्रोवाचेन्द्राय चात्मभूः । स्वप्नं प्रदर्शयन्यस्तु पूज्यते सर्वदैवतैः ॥ स एव विष्णुरित्याह तत्राप्याह पुरन्दरः । दर्शयन्नासुरीं बुदि्धं स्वप्नदृश्यविवक्षया ॥ घ्नन्तीवैनमदन्तीव तथा च स्यात् परो हरिः ॥ १० ॥
तद्यत्रैतत्सुप्तः समस्तः सन् प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ १ ॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमेवेच्छन् पुनरागम इति स होवाच नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ २ ॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद् वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतं सम्पेदुरेतत् तद्यदाहुरेकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास तस्मै स होवाच ॥ ३ ॥ ११ ॥
इत्युक्त आह ब्रह्मैव सुप्तिस्थो भगवानिति ॥ यत्र सुप्तो ह्ययं जीव इत्युक्तः प्राह वासवः । नाहं जानामि मत्तोऽन्यं सुप्तौ नान्योऽपि दर्शयेत् ॥ अहमस्मीति भूतानि न च पश्यन्ति कानिचित् । यदि जीवः परात्मा वाऽप्यन्योन्यस्मिन्नपीतताम् ॥ गतौ तदाऽप्यपीतस्तु शं विनैव भवेदिति ॥ ११ ॥
मघवन् मर्त्यं वाव इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
उक्तो ब्रह्माऽब्रवीच्छक्रं ज्ञापयंस्तत्त्वमञ्जसा ॥ योऽयं शरीरसम्बन्धी जीव इत्यवधार्यताम् । भूतैष्यद्वर्तमानेषु यस्य नो देहसङ्गतिः ॥ सोऽशरीरः परो विष्णुरमृतो नित्यपूर्तिमान् । अधिष्ठाय तथाऽपीमं देहमास्ते स ईश्वरः ॥ जरामृत्युपरीतोऽयं जीवात्मा देहसङ्गतेः । परेणेयं सुखं प्रोक्तं प्रियमित्येव पण्डितैः ॥ परेणेयमभद्रं यदप्रियं तदुदीरितम् ।आपतुस्तत्र न जीवस्य तयोर्हानिः कदाचिद्विद्यते क्वचित् ॥ अशरीरं परं ब्रह्म नैव ते स्पृशतः क्वचित् ।
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादकाशात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥
एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स यत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥
अम्नामा भगवान् विष्णुर्व्याप्तत्वात् परमेश्वरः ॥ तेनैव म्रियमाणत्वाद् ब्रह्माभ्रमिति कीर्तितः । वायोः पत्नी विद्युदुक्ता विशेषद्युतिहेतुतः ॥ ब्रह्माणी स्तनयित्नुः स्यात् सर्वशब्दात्मिका यतः । एतेषां ज्ञानवैशेष्यान्नातिदेहेन सङ्गतिः ॥ अतः प्रियाप्रिये तेषामपि न ब्रह्मणः किमु । विष्ण्वीयं हि सुखं तेषां स्वभर्त्रीयमथापि च ॥ न ह्यन्येयं सुखं तेषामतस्ते प्रियवर्जिताः । यथा ते परमाकाशाद्विष्णोरेव समुत्थिताः ॥ तमेव प्राप्य संयान्ति नैजमानन्दमूर्जितम् । एवं सम्यक्प्रसादेन विष्णोर्मुक्तोऽपि योऽपरः ॥ यं प्राप्य ते निजानन्दमाप्नुवन्ति स केशवः । तं प्राप्य रमते मुक्तः स्त्रीभिर्यानैश्च बन्धुभिः ॥ यथैव सारथिर्याने एवं देहे च मारुतः । यथा रथी तथा विष्णुर्जीवोऽन्यरथगो यथा ॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥
अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते ॥ ५ ॥
य एते ब्रह्मलोके तं वा एतं देवा आत्मानमुपासते तस्मात् तेषां सर्वे च लोकाः आत्ताः सर्वे च कामाः सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥ १२ ॥
यदाश्रितानीन्द्रियाणि प्राणश्चापि यदाश्रयः । यदाश्रयोऽप्ययं जीवो यो वेदैषां प्रवर्तनम् ॥ दर्शनं श्रवणं घ्राणं जिह्वां स्पर्शं मनस्तथा । तदीयान् विषयांश्चैव यो वेदाखिलमञ्जसा ॥ स विष्णुः परमो ज्ञेयो देवताः करणानि च । स एतैरिन्द्रियैर्विष्णुर्भोगाननुभवत्यजः ॥ स्वरूपेणैव शक्तोऽपि जीवदेहस्थितो हरिः । भुङ्क्ते तदिन्द्रियैर्भोगाञ्छुरितैरिन्द्रियैः स्वकैः ॥ जीवं तदिन्द्रियाण्येवं प्राणं च व्याप्य कृत्स्नशः । भुङ्क्तेतत्तद्गुणान् विष्णुर्नैव दोषान् कदाचन ॥ तमेवं देवताः सर्वाः वाय्वाद्याः समुपासते । तस्माद्देववशा लोकाः सर्वकामाः सजीवकाः ॥ तमेतं यो यथा ज्ञात्वा पश्येद्विष्णुं सनातनम् । आप्नोति सर्वकामांश्च सर्वलोकांश्च कामतः ॥ इति सामसंहितायाम् । उभौ लोकाववाप्नोति वचनान्न लोकायतिकमतं विरोचनोक्तम् । किन्तु बिम्बप्रतिबिम्बयोरभिमान्यैक्याभिप्रायेण जीवात्मैव महय्य इति मायावाद एव । न चात्र जीव आत्मशब्दोक्तः । तदस्यामृतस्याशरीरस्यात्मनोधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इतीशजीवयोः सतात्पर्यं भेदाभिधानात् । न हि जीवादन्यस्य प्रियाप्रियानुभवोऽस्ति । न च मुक्तस्यापि प्रियाप्रियापहतिरस्ति । न च विष्णोरत्र विवक्षितं प्रियम् । पराधीनरतिप्राप्तिर्हि प्रियमत्र विवक्षितं न हि तद्भगवतः । मुक्तानां तु भगवदधीनरतित्वात् प्रियमस्त्येव । जीवा मुक्ता अमुक्ताश्च पराधीनरतित्वतः । न प्रियापहतिः क्वापि स्वातन्त्र्यान्न हरेः प्रियम् ॥ पराधीनरतिर्यस्मात् प्रियमित्युच्यते बुधैः । हरेरधीनता तु स्याद्यद्यपि ब्रह्मवायुवोः ॥ तदन्यवशताभावादप्रियाविति तौ श्रुतौ । यथा राज्ञः स्वराट्शब्दो रुद्रस्येश्वरता तथा ॥ यथा शक्रस्य चेन्द्रत्वं तद्वदप्रियता तयोः । यथा राज्ञ्याः स्वराज्ञीत्वं यथैवोमेश्वरी स्मृता ॥ विद्युतः स्तनयित्नोश्च तथैवाप्रियता श्रुता ॥ इति च परमश्रुतौ । स एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति मुक्तस्य तत्प्रसादात् तत्प्राप्त्या निजानन्दानुभवश्रुतेश्च । स उत्तमः पुरुष इति तस्य जीवादुत्तमत्वश्रुतेश्च । अपरपुरुषापेक्षया ह्युत्तमपुरुषशब्दो भवति । अन्यथोत्तमशब्द एव स्यात् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति च । ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति एतमानन्दमयामात्मानमुपसङ्क्रम्येमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः कृष्णो मुक्तैरिज्यते वीतमोहैः इत्यादेश्च । स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् इत्यत्रापि भेदेनावस्थानश्रुतेः । उपशब्दादन्तरशब्दाच्च मुक्तस्य परञ्ज्योतिःसमीपावस्थानावगतेश्च । न च जीवमात्रं देवा उपासते । ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते इति हि श्रुतिः । भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा इत्यादेश्च । भूतैर्महदि्भर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ इत्यादौ भगवत एवेन्द्रियैर्भोगोक्तेश्च । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे इति च । ओं गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् इति भगवद्वचनं च । इदं पश्यामि जिघ्राणीत्यपि जीवा न वै विदुः । द्रव्याणामपरिज्ञानाद्वेदासौ पुरुषोत्तमः ॥ इति च । स उत्तमः पुरुषः इति भगवत एवायं परामर्शः । ॐ अन्यार्थश्च परामर्शः इति भगवद्वचनात् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति च । ॐ जगद्व्यापारवर्जम् इत्यल्पैश्वर्यत्वं च मुक्तस्य भगवताऽभिहितम् । अतो यं प्राप्य जीवः स्वेन रूपेणाभिनिष्पद्यते स भगवानुत्तमः पुरुष इति परामर्शः । स्वप्ने महीयमानश्चरति यत्रैतत्सुप्तः इति पुरस्तादपि भेदोक्तेः । न हि महीयमान एव जीवश्चरति । प्रायोग्यः सारथिः । प्रयोगेन यानस्य । यन्ता सारथिरानेता प्रायोग्य इति कीर्त्यते इत्यभिधानात् । अन्येभ्यो दीप्यमानत्वाद् दैवं चक्षुर्मनः स्मृतम् इति च । य एते ब्रह्मलोके तेषु रमते । अनुविद्य । शास्त्राचार्यानुसारेण विदित्वा विजानात्यापरोक्ष्येण । वेदनं शास्त्रतो ज्ञानं विज्ञानं ब्रह्मदर्शनम् इति च ॥ ७१२ ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छयामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १३ ॥
श्यामो हृदिस्थितो विष्णुः शबलो विश्वरूपवान् । जीववर्णो जीवगतो लोहितश्चक्षुषि स्थितः ॥ इति मानसे ॥ हयग्रीवमुखोत्थानि यानि वाक्यानि तानि तु । रमा ददर्श तान्येव ब्रह्मा तान्येव नारदः ॥ यानि विष्णोरयोग्यानि प्रार्थनाद्यात्मकानि तु । तान्युत्तरेषां वाक्यानि भविष्याण्यवदद्धरिः ॥ एवं रमा तथा ब्रह्मा छान्दोग्योपनिषदि्ध सा ॥ इति सामसंहितायाम् ॥ १३ ॥
आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवानि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्वेतमदत्कमदत्कं श्वेतं लिन्दु माऽभिगां लिन्दु माऽभिगाम् ॥ ११४ ॥
आकाशोऽतिप्रकाशत्वान्नामरूपे ऋते स्थितः । ब्रह्माख्यो भगवान् विष्णुस्तद्वेश्म प्राप्नुयामहम् ॥ यशोऽहं सर्ववर्णानां मत्तोऽन्येषां यशो भवेत् । सोऽहं मम यशोदातृ यशसां यश उत्तमम् ॥ विष्ण्वाख्यं परमं ब्रह्म श्वेतं श्वसनगं यतः । अदत्कमद्यमानं कं स्वानन्दानुभवात्मकम् ॥ लिन्दु तद्रतिदं यस्माद् तदहं प्राप्नुयां सदा ॥ १४ ॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषणाभिसमावृत्य कुटुम्बी शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १५ ॥ ॥ इति श्रीमच्छान्दोग्योपनिषदि अष्टमोऽध्यायः ॥ ॥ इति श्रीमच्छान्दोग्योपनिषत् सम्पूर्णा ॥
उपदिष्टः परेणैव त्वेवमाह चतुर्मुखः । उवाच च मनोर्विद्यां प्रजाभ्यो मनुरेव च ॥ तस्मात् सर्वेन्द्रियाणीशो निधाय पुरुषोत्तमे । दृष्ट्वा तं परमं विष्णुं तल्लोकं प्रतिपद्यते ॥ नावर्तेत पुनस्तस्मात् कदाचित् केनचित् क्वचित् ॥ इति च ॥ १५ ॥ पूर्णानन्दमहोदधिः परतमो विष्णुः परस्मात् सदा सर्वज्ञः सकलेशिता गुणनिधिर्नित्योत्सवस्तद्विदाम् । सर्वस्मादधिकं मम प्रियतमस्त्विष्टादपीष्टोत्तमः सर्वस्माच्च हितात् सदा हिततमः प्रीतो भवेन्मे हरिः ॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः म्ध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥ हनुशब्दो ज्ञानवाची हनुमान् मतिशब्दितः । रामस्य स्वृतरूपस्य वाचो नेता गुणोदधिः ॥ भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृतः । ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ॥ प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीतनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ॥ यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥ इति सद्भावे । आनन्दतीर्थ इति तु यस्य नाम तृतीयकम् । पूर्णप्रज्ञेन तेनेदं कृतं भाष्यं हरेः प्रियम् ॥ नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्येऽष्टमोऽध्यायः ॥ ॥ इति श्रीमच्छान्दोग्योपनिषद्भाष्यम् सम्पूर्णम् ॥ ॥ श्रीकृष्णार्पणमस्तु ॥