द्वादशस्तोत्रम्

change script to

वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।
इन्दिरापतिमाद्यादिवरदेश वरप्रदम् ॥1॥
नमामि निखिलाधीशकिरीटाघृष्टपीठवत् ।
हृत्तमःशमनेर्काभं श्रीपतेः पादपङ्कजम् ॥2॥
जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।
स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया ॥3॥
उदरं चिन्त्यमीशस्य तनुत्वेप्यखलिम्भरम् ।
वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया ॥4॥
स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः ।
अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥5॥
शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोनिशम् ॥6॥
सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम् ।
वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेनिशं यतः ॥7॥
स्मरेत यामिनीनाथसहस्रामितकान्तिमत् ।
भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥8॥
पूर्णानन्दसुखोद्भासि मन्दस्मितमधीशितुः ।
गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥9॥
स्मरामि भवसन्तापहानिदामृतसागरम् ।
पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥10॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥11॥
सन्ततं चिन्तयेनन्तमन्तकाले विशेषतः ।
नैवोदापुर्गृणन्तोन्तं यद्गुणानामजादयः ॥12॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे प्रथमोध्यायः ।