ईशावास्योपनिषत्

change script to

नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये ।
पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥ १ ॥
यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च ।
ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ॥ २ ॥
स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव । स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः । ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना ॥ रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा । स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वाऽवध्यतां गतान् ॥ प्रादादि्ध भगवांस्तेषामवध्यत्वं हरः प्रभुः । तैर्वध्यत्वं तथाऽन्येषामतः कोऽन्यो हरेः प्रभुः ॥ इति ब्रह्माण्डे । भागवते चायमर्थ एव उक्तः ॥
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम् ॥ १ ॥
ईशस्यावासयोग्यमीशावास्यम् । जगत्यां प्रकृतौ । तेन ईशेन । त्यक्तेन दत्तेन । भुञ्जीथाः । स्वतः प्रवृत्यशक्तत्वादीशावास्यमिदं जगत् । प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः ॥ तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत् । तद्दत्तेनैव भुञ्जीथाः अतो नान्यं प्रयाचयेत् ॥ इति ब्राह्मे ॥ १ ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतग्ं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
अकुर्वतः कर्म न लिप्यत इति नास्ति । अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः । ज्ञानिनोऽपि यतो ह्रासः आनन्दस्य भवेद् ध्रुवम् ॥ अतोऽलेपेऽपि लेपः स्यादतः कार्यैव सा सदा ॥ इति नारदीये ॥ २ ॥
असुर्या नाम ते लोकाः अन्धेन तमसाऽऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
सुष्ठु रमणविरुद्धत्वादसुराणां प्राप्यत्वाच्चासुर्याः । न च रमन्त्यहो असदुपासनयाऽऽत्महनः इत्युक्तत्वात् । महादुःखैकहेतुत्वात् प्राप्यत्वादसुरैस्तथा । असुर्या नाम ते लोकास्तान् यान्ति विमुखा हरौ ॥ इति वामने । ये के चेत्यनेन नियम उक्तः । नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ । इति च ॥ ३ ॥
अनेजदेकं मनसो जवीयो नैनद् देवा आप्नुवन् पूर्वमर्षत् ।
तद् धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
अनेजन्निभर्यत्वात्तदेकं प्राधान्यतस्तथा । सम्यग्ज्ञातुमशक्यत्वादगम्यं तत्सुरैरपि ॥ स्वयं तु सर्वानगमत् पूर्वमेव स्वभावतः । अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत्परम् ॥ द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत् । मारुत्येव यतश्चेष्टा सर्वा तां हरयेर्पयेत् ॥ इति ब्रह्माण्डे । ऋष ज्ञाने ॥ ४ ॥
तदेजति तन्नेजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ५ ॥
तदेजति तत एव एजत्यन्यत् । तत् स्वयं नेजति । ततो बिभेति सर्वोऽपि न बिभेति हरिः स्वयम् । सर्वगत्वात् स दूरे च बाह्येऽन्तश्च समीपगः ॥ इति तत्त्वसंहितायाम् ॥ ५ ॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
सर्वगं परमात्मानं सर्वं च परमात्मनि । यः पश्येत् स भयाभावान्नात्मानं गोप्तुमिच्छति ॥ इति सौकरायणश्रुतिः ॥ ६ ॥
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥
यस्मिन् परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेष्वभूत् । एवं सर्वभूतेष्वेकत्वेन परमात्मानं विजानतः को मोहः । यस्मिन् सर्वाणि भूतानि स आत्मा सर्वभूतगः । एवं सर्वत्र यो विष्णुं पश्येत् तस्य विजानतः ॥ को मोहः कोऽथवा शोकः स विष्णुं पर्यगाद्यतः ॥ इति पिप्पलादशाखायाम् । पूर्वोक्तानुवादेन शोकमोहाभावो विजानतश्चात्रोच्यते । अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः ॥ ७ ॥
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८ ॥
शुक्रं तच्छोकराहित्यादव्रणं नित्यपूर्णतः । पावनत्वात्सदा शुद्धमकायं लिङ्गवर्जनात् ॥ स्थूलदेहस्य राहित्यादस्नाविरमुदाहृतम् । एवम्भूतोऽपि सार्वज्ञ्यात् कविरित्येव शब्द्यते ॥ ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च । ईशितृत्वान्मनीषी स परिभूस्सर्वतो वरः ॥ सदाऽनन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः । स सत्यं जगदेतादृङ् नित्यमेव प्रवाहतः ॥ अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः । नियमेनैव ससृजे भगवान् पुरुषोत्तमः ॥ सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः । सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान् ॥ एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् । अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुः ॥ इति वाराहे ॥८॥
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ॥ १० ॥
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११ ॥
अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम् । ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः ॥ तस्माद्यथास्वरूपं तु नारायणमनामयम् । अयथार्थस्य निन्दां च ये विदुः सह सज्जनाः । ते निन्दयाऽयथार्थस्य दुःखाज्ञानादिरूपिणः ॥ दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः । यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम् ॥ यान्ति ... ॥ ९-११ ॥
अन्धन्तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ॥ १३ ॥
सम्भूतिं च विनाशं यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४ ॥
... एवं सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः । तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम् ॥ नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम् । सर्वकर्तारमीशेशं सर्वसंहारकारकम् ॥ यो वेद संहृतिज्ञानाद्देहबन्धाद्विमुच्यते । सुखज्ञानादिकर्तृत्वज्ञानात् तद्व्यक्तिमाव्रजेत् ॥ सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम् । जानीयान्न गुणानां च भागहानिं प्रकल्पयेत् ॥ न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम् । नैव प्रचिन्तयेत् तस्मात् ब्रह्मादेः साम्यमेव वा ॥ मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् । ततो विष्णोः परोत्कर्षं सम्यग्ज्ञात्वा विमुच्यते ॥ इति कौर्मे ॥ १२-१४ ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम् ।
विष्णोः सत्यस्य तेनैव सर्वदाऽपिहितं मुखम् ॥ तत्तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम् । सत्यधर्माय भक्ताय... ॥ १५ ॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।
समूह तेजो यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ १६ ॥
... ... प्रधानज्ञानरूपतः । विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः ॥ सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः । विशेषेणैव गम्यत्वात् ... ॥ १६ ॥
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७ ॥
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ॥ १८ ॥
ॐ क्रतो स्मर कृतं स्मर ॐ क्रतो स्मर कृतं स्मर ॥ १९ ॥
...अहं चासावहेयतः । अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः ॥ स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः । स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः ॥ इति ब्रह्माण्डे । सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा । एकोऽसौशब्दः प्राणे स्थित इति ॥ यस्मिन्नयं स्थितः सोऽप्यमृतः किमु परः । अः ब्रह्मैव निलयनं यस्य वायोः सोऽनिलम् । अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतः । मुख्यामृतः स्वयं रामः परमात्मा सनातनः ॥ इति रामसंहितायाम् ॥
भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः । अनुग्रहोन्मुखत्वं तु नैवान्यत् क्वचिदिष्यते ॥ इति ब्रह्मतर्के ॥ १७-१९ ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ २० ॥
वयुनं ज्ञानम् । त्वद्दत्तया वयुनयेदमचष्ट विश्वम् इति वचनात् । जुहुराणं अस्मानल्पीकुर्वत् । युयोधि वियोजय । यदस्मान् कुरुतेऽत्यल्पांस्तदेनोऽस्मद्वियोजय । नय नो मोक्षवित्तायेत्यस्तौद्यज्ञं मनुः स्वराड् ॥ इति स्कान्दे । युयु वियोगे इति धातुः । भक्तिज्ञानाभ्यां भूयिष्ठां ते नम इत्युक्तिं विधेम ॥ पूर्णशक्तिचिदानन्दश्रीतेजःस्पष्टमूर्तये । ममाभ्यधिकमित्राय नमो नारायणाय ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् ईशावास्योपनिषद्भाष्यं सम्पूर्णम् ॥