कर्मनिर्णयः

change script to

ॐ॥ य इज्यते विधीशानशक्रपूर्वैस्सदा मखैः ।रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥
महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत्षोशी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्यः एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोशिना राध्नोति य एवं वेद । (ऐतरेयब्राह्मणम् २/१६/४)
महानाम्नीनामृचामुपसर्गा ये उपसर्जनभूतास्तानुपसृजति संयोजयति । महन्नाम यास्वृक्षु विद्यते ता महानाम््नयः । परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महत् । महदि्ध तत्परं ब्रह्म । अशेषगुणपूर्तेः ॥
तत्रैक आहुरगुणं ब्रह्मेति । न तद्युक्तं श्रुतियुक्तिविरोधात् ॥
तथाहि श्रुतिः । ''सत्यं ज्ञानमनन्तं ब्रह्म''' । ''विज्ञानमानन्दं ब्रह्म''' । ''यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः''' । ''तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते''' । ''दिव्योह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः''' । ''एतावानस्य महिमातो ज्यायांश्च पुरुषः''' । ''यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा''' । ''पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते''' । ''सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोवाक्यनादरः''' । ''विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि''' । ''परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति''' । ''न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप''' इत्यादिका ॥
युक्तिश्च । बुदि्धपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः । ''कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्''' इति च भागवते ॥
न च ''एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च''' इत्यादिविरोधः । सत्वादिगुणाभावोक्तेस्तत्र । अन्यथा ''एको देवस्सर्वभूतेषु गूढः''' इत्यादीनामपि गुणत्वात् स्वोक्तिविरोधः ॥
न च निर्विशेषं नाम किञ्चिदस्ति । निर्विशेषत्वोक्तेरेव व्याहतत्वात् । निर्विशेषत्वेन विशिष्टं तन्न वेत्युक्ते, यद्यविशिष्टं तर्हि न विशेषनिराकरणं विशेषवत्त्वमेव भवति । यदि तेन विशिष्टं स एव विशेष इति व्याहतिः ।
न च निर्विशेषत्वे किञ्चिन्मानम् । अशेषविशेषवचनानुभवयुक्तिविरोधश्च ॥
न च मिथ्याविशेषवत् । व्याहतेः । मिथ्याविशेष इत्युक्ते ह्यसद्विशेष इत्येव भवति । तथा च विशेषविशिष्टपक्षोक्तदोष एव ॥
न चानिर्वचनीयविशेष इति भवति । अनिर्वचनीयासिद्धेः । न हि तत्र प्रत्यक्षमस्ति । मिथ्याशब्दस्त्वभाववाच्येव । तदन्यत्र प्रमाणाभावात् । न चान्यत् प्रमाणम् । प्रतिज्ञाव्याहतेः । नहि सदन्तरादसतश्चान्यत् सदसद्विलक्षणं प्रसिद्धम् । असन्न भवतीत्युक्ते ''द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः''' इति सदेव भवति । असदन्तरं वा विशेषविवक्षायाम् ॥
किञ्चैतद्वैलक्षण्यं भेदोभेदो भेदाभेदो वा? न तावद्भेदः । अनङ्गीकारात् । व्यावहारिकभेदश्चानिर्वाच्यसिद्धौ वक्तव्यः । न चाव्यावहारिकं किञ्चित् । न चाशेषव्यवहारनिवृत्तौ किञ्चिन्मानम् । न च मिथ्यातथ्ययोस्सामान्यं व्यावहारिकत्वं धूमबाष्पयोर्धूमत्ववत् । न चाभेदोनङ्गीकारदेव । तथैवोभयम् अभेदे चानिर्वाच्यब्रह्मणोस्तच्छब्दयोः पर्यायत्वम् ॥
न च व्यावर्त्यविशेषेणापर्यायत्वं क्वचित् । व्यावर्त्यविशेषस्तद्व्यावृत्ते ब्रह्मणि विशेेषमापादयति चेद्विशिष्टवाक्यार्थता । न चेन्न ब्रह्मज्ञानार्थिने पदान्तरं वाच्यम् । असङ्गतत्वात् । मिथ्याविशेषस्य चासिदि्धरुक्ता । अतोन्योन्याश्रयतानवस्थितिश्चक्रकं वा । भेदाभेदविलक्षणमप्युक्तरीत्यैवापाकृतम् ॥
किञ्चासद्विलक्षणमित्यत्राभावान्यविरोधानां मध्ये नञः कोर्थः ? यद्यभावः, न, असद्विलक्षणत्वं भावत्वमेव जगतः स्यात् । न च सतोन्यस्मादसतो विलक्षणं जगत् । असतोन्यत्वादिधर्मानङ्गीकारात् । ब्रह्मणश्च । असतोनिर्वचनीयत्वाङ्गीकाराच्च न वैलक्षण्यं ततोनिर्वाच्यस्य । तथापि चेद्वैलक्षण्यं नानिर्वाच्यत्वं जगतः । न च विरोधः । विरोधिनोरन्यतरनिषेधेन्यतरव्याप्तत्वानुभवात् । अविद्यमानं न भवतीत्युक्ते विेद्यमानमित्येव हि सर्वलोकानुभवः । अतोनन्तगुणे भगवान्नारायणो इति सिद्धम् ॥
न च सिद्धेर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिदि्धः । सिद्धातिरिक्तकार्याभावात् । लिङाद्यर्थस्त्विष्टसाधनत्वमेव । न हि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किञ्चिदस्ति । तन्माना-भावात् । शब्दस्तु न तद्वक्तीत्युक्तम् । लिङादेरिष्टसाधनार्थ-त्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवं च ॥
न च तत्कल्पकं किञ्चित् । विप्रतिपत्तौ चान्यन्मानं वक्तव्यं तद्भावे । न चानुमा । अप्रसिद्धविशेषणत्वात् न चार्थापत्तिः । अनुपपत्त्यभावात् ।
कार्याभावादेव कार्यान्वयिनि (कार्यान्वयान्वयिनि वा) व्युत्पत्तिरित्यादि दूरतो निरस्तम् । कार्यान्विते व्युत्पत्तिरिति वदतोकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम् ? अध्याहार इत्युक्ते लोप इत्युत्तरम् । अशेषसिद्धपदार्थलोपाल्लिङ्गाद्यर्थमात्रलोप एव गरीयान् । हससि हसामीत्यादिसिद्धार्थ एव बालानां व्युत्पत्तेः । प्रथमप्राप्तत्वान्न तत्त्यागे कारणम् । तथैव व्युत्पत्तिदर्शनाच्च । अतः सिद्धार्थे प्रामाण्यसिद्धेश्च सिद्धं महागुणवत्वं विष्णोः ॥
ताश्च विदा मघवन् इत्याद्याः ।
विदा मघवन् विदा गातुमनुशंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरुवसो ॥ १ ॥ हे मघवन् धनवन् यशस्विन् मखपत इति वा ।
''तं वा एतं मघ(ख)वन्तं सन्तं मघवानित्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः''' । ''तेभिरिन्द्रं चोदय दातवे मघम्''' । ''तन्न आयातु मघाय । यशो वा मघम् । मघमनुप्रापत्सि''', ''आ मामेतु मघम् । मघमनुप्रापत्सि । धनं वाव मघम्''' इत्यादिश्रुतिभ्यः ।
गातुं त्वां स्तोतुम् । विद वेदयेति सामान्यतोपेक्षिताशेषवेदनमुक्त्वा तात्कालिका-पेक्षितार्थं प्रार्थयति गातुं विदेति । त्वमेवानुशंसिषो दिशः मार्गान् । आत्मनः स्तुतिप्रकारांस्त्वमेवोपदिशेत्यर्थः । पूर्वीणां भगवत्सम्प्रदायागतानां परमविद्यानामर्थे शिक्ष, शचीनां विद्यानां पते, वाचां पते इति वा । पुरुवसो बहुवित्त बहुज्ञानेति वा बहुषु वसति बहूनामावास इति वा ॥
आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्र द्युम्नाय न इष एवाहि शक्रः ॥ २ ॥
आभिरभिष्टिभिः एवम्भूतैस्त्वत्पर्येषणैस्त्वत्प्रार्थनैः कञ्चिन्मदादिकं प्रचेतय प्रबोधय । प्रकृष्टचेतन सर्वज्ञ परमात्मन् । द्युम्नाय ज्ञानाय वित्ताय यशसे वा । इषे अन्नाय च नः प्रबोधय । एतादृशो हि शक्रः । शक्र एवेति वा । शक्तिरतिरूपत्वाच्छक्रः ॥ २ ॥
राये वाजाय वज्रिवश्शविष्ठ वज्रिन्नृञ्जसे । मंहिष्ठ वज्रिन्नृञ्जस आयाहि पिब मत्स्व ॥ ३ ॥
राये वित्ताय वाजाय अन्नाय, वज्रिणम् इन्द्रं वर्तयतीति वज्रिवः नियामकत्वेन गच्छतीति वा, शविष्ठ बलवत्तम सुखवत्तमेति वा, ऋञ्जसे प्रेरयसि सर्वान् । ''मंहिष्ठ वज्रिन्नृञ्जस''' इत्यभ्यासस्तात्पर्यार्थः । मत्स्व मदं कुरु ॥ ३ ॥
विदा रायस्सुवीर्यं भुवो वाजानां पतिर्वशा अनु । मंहिष्ठ वज्रिन्नृञ्जसे यश्शविष्ठश्शूराणाम् ॥ ४ ॥
विदा वेदय लम्भय रायस्सुवीर्यं च । वाजानां प्रजानां पतिः भुवः अभवः । ''प्रजा वै वाजः''' इति श्रुतेः । वशान् अनु यथावशम् । ''वश इच्छायाम्''' इति धातोः यथावशं यथेच्छम् । शूराणां सकाशाद्बलवत्तमः ॥ ४ ॥
यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय । इन्द्रो विदे तमु स्तुषे वशी हि शक्रः ॥ ५ ॥
मघोनां यशस्विनां महत्तमः । चिकित्वः ज्ञातः कर्तरिति वा, नः अभितः सर्वतो नय । इन्द्रो विदे समस्तं व्यजानात् । तमेव स्तुषे ॥ ५ ॥
तमूतये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ ६ ॥
ऊतये रक्षायै, अभिप्रायसिद्धये वा । स नो द्विषः शत्रूनतिपारयतु, पापानि तमांसि वा । क्रतुर्ज्ञानरूपः । छन्दः इच्छारूपः । छन्द्यत्वाच्छादनत्वाद्वा । ऋतमशेषशास्त्रावगतम् ॥ ६ ॥
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । सनः पर्षदति द्विषः स नः पर्षदति स्रिधः ॥ ७ ॥
सातये लब्धये । स्रिधो विनाशान् ॥ ७ ॥
पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो । पूर्तिश्शविष्ठ शस्यत ईशे हि शक्रः ॥ ८ ॥
पूर्वस्यानादेः सतस्ते सकाशात् यत्सुम्नं सुखं तस्मिन् नः आधेहि । तव पूर्तिः शस्यते ॥ ८ ॥
नूनं तन्नव्यं सन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥ ९ ॥
तन्नव्यं स्तुत्यं ब्रह्म । तत्सम्यक् हृदि न्यसे जनस्योपदेशेन । त्वत्स्वरूपेषु त्वं चाहं च सम्ब्रवावहै । गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवति । सुशेवः सुसुखः समाधिकवर्जितोद्वयः ॥ ९ ॥
एवाह्येवैवाह्यग्ना३ इ । एवाह्येवैवाहीन्द्र । एवाह्येवैव•हिविष्णा३ उ । एवाह्येवैवाहि पूषन् । एवा हि शक्रो वशी हि शक्रो वशा अनु ॥ १० ॥
''एवाह्येवैवाहि''' इत्यग्न्यादिदेवतानां संवादरूपेणोक्तमर्थमतिशये-नावधारयति । अभ्यासो हि तात्पर्यार्थः । एवं हि एवमेव हीत्यर्थः । ''विनिश्चिते तु संवादे विभागो रङ्ग एव च''' इति शब्दनिर्णये । अतो ''अग्नाई''' इत्यादि । एवमेव हि शक्रः । वशाननु यथावशं स्वतन्त्रो वर्तत इत्यर्थः ॥ १० ॥
आयोमन्याय मन्यव उपोमन्याय मन्यवे । उपेहि विश्वध ॥ विदा मघवन्विदोम् ॥ ११ ॥
''अय पय गतौ''' इति धातोः आयो इत्यायतिः । उपो इतिवदतिशयार्थे ओकारः । ''ओ अतिशये''' इति च सूत्रम् । आयोजानातीत्यायोमन्यः, समीपस्थमपि जानातीत्युपोमन्यः । अन्येषामिन्द्रियाणां पराङ्मुखत्वान्न ह्यान्तरं जानन्तीति । अयं त्वान्तरमप्यापरोक्ष्येण पश्यति । अयनेन गमनेन प्राप्यं दूरस्थम् आयो इति वा । ''मनु अवबोधने''' इति धातोर्मन्युरिति ज्ञानी, बाह्यज्ञाय ज्ञानिने आन्तरज्ञाय ज्ञानिने इत्यभ्यासो हि तात्पर्यार्थः । एवंविधं मद्गतं त्वामुद्दिश्यैवोपेहि विश्वध विश्वधारक । समीपतो दूरतश्च त्वां मन्यमानाय मह्यं मन्यवे ज्ञानाय मामुपेहीति वा ।
''समीपे दूरतोभिज्ञं त्वामुद्दिश्यैव मद्गतम् ।
एहि विष्णो न मे शक्तिस्त्वदाह्वाने हि मामुप ॥
इति ब्रह्मास्तुवद्विष्णुं तन्नाभ्युत्थितपद्मगः''' इति पाद्मे ।
''समीपे दूरतश्चैव ध्यायन्तं त्वा सदा प्रभो ।
मामेहि ज्ञानदानायेत्याह गाधिसुतो हरिम्''' इति स्कान्दे ।
''ओतमस्मिन् जगद्यस्मादोमित्युक्तो हरिस्सदा ।
तमेव जगदाधारं यतयस्समुपासते''' इति मान्यसंहितायाम् ॥ ११ ॥
''इन्द्रो वा एताभिर्महानात्मानन्निरमिमीत''' इत्यस्याप्युक्त एवार्थः । निर्माणं नामात्मनस्तद्व्याख्यानेन ख्या(स्था)पनम् । न ह्यन्यथा तासां करणत्वं भवति ।
''यस्तद्वेद स पितुष्पितासत्''' इति (च) श्रुतिः । ''त्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुष्पितासत्''' ''स्त्रियस्सतीस्ता उ मे पुंस आहुः पश्यदक्षण्वान्न विचेतदन्धः । कविर्यः पुत्रः स ईमाचिकेत यस्ता विजानात्स पितुष्पितासत्''' इत्यादिश्रुतिभ्यो विज्ञानमेव तन्निर्माणम् । ''इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः''' इत्यादेर्विज्ञापनं वा ॥
''प्रचेतन''' ''प्रचेतय''' । ''आयाहि पिब मत्स्व''' । ''क्रतुश्छन्द ऋतं बृहत्''' । ''सुम्न आधेहि नो वसो''' इत्युपसर्गाः । अंशा अप्यंश्यपेक्षयोपसर्गा भवन्ति । उपसृष्टत्वादुपसर्गाः ।
''अन्तर्गतं बहिर्गञ्च द्विधा स्यादुपसर्जनम् ।
हस्तवद्धेतिवच्चैव पदानां चोपसर्गवद्''' इति शब्दनिर्णये ।
''अधत्तान्यञ्जठरे प्रेम रिच्यत प्रचेतन''' ॥ १ ॥
''दाता राधस्तुवते काम्यं वसु प्रचेतय''' ॥ २ ॥
''अस्माकं बोधि चोदितायाहि पिब मत्स्व''' ॥ ३ ॥
''तं त्वा परिष्वजामहे क्रतुश्छन्द ऋतं बृहत्''' ॥ ४ ॥
''या ते रातिर्ददिर्वसु सुम्न आधेहि नो वसो''' ॥ ५ ॥
इत्युपसृजति ॥
अशेषमहानाम््नयर्थसंस्मरणपरिज्ञानपूर्वकमुपसर्गसंयोजनं कर्तव्यमित्येदर्थत्वेन महानाम्नीप्रशंसा क्रियते । अन्यथा तावन्मात्रप्रशंसामृते अशेषमहानाम्नीप्रशंसाया व्यर्थत्वात् । तृचविभागेन ''विदा मघवन्''' ''तमूतये''' ''नूनम्''' इति वा तिस्त्रो महानाम््नयः ।
''प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः ।
द्वितीयाया आन्तरिक्ष्यस्तृतीयाया द्युगः प्रभुः''' इत्यृक्संहितायाम् ॥
''तृचास्तिस्त्रो महानाम््नयः पञ्चर्चा प्रथमा परा ।
तृचा द्व्यृचा च निगदैस्तार्तीया सप्तभिर्युता ।
इति द्वेधा विभागस्स्याज्जपध्यानादिकर्मसु''' इति च ।
''त्रिलोकगेन हरिणा निर्मितष्षोशीक्रतुः ।
एवं ज्ञात्वा हरिं तं च कर्म कुर्वन्न जायते''' । इति प्रवृत्ते ।
''एवाह्येही'''त्युपसर्गस्यार्थोप्युक्तावधारणरूपत्वात् पूर्वोक्तार्थज्ञानं विना न स्मर्तुं शक्यते । एवं निर्मितेन षोशिना ऋद्धो (राध्नो) भवत्येवंवित् ॥
प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरा येन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति ॥ १ ॥ (ऋ.मं.८, सू.६९/१)
प्रप्र वः । हे ऋत्विजः प्रजा वा वः त्रिष्टुभमिषं त्रिष्टुभाख्यमन्नम् इन्द्रः परमेश्वरः सोमाय आविवासति । पुरन्ध्या धिया अशेषप्राणिदेहाश्रयया स्वबुद्ध्या प्रप्र प्रकर्षेण प्रकर्षेणातितरां शस्यमाना त्रिष्टुप् प्रीतिं करोति सोमपानार्थमित्यर्थः । मन्दद्वीराय तस्य वीरस्य परमेश्वरस्य मदं प्रीतिं करोतीति मन्दद्वीरः सोमः । न त्वात्मप्रयोजनाय प्रीतिं करोति, किं तर्हि? वो मेधसातये यज्ञसिद्ध्यर्थम् । व इति गुरुत्वाद्, ईश्वरं प्रत्येव वा बहुवचनम् । तदा वः अन्नं त्रिष्टुभं वो मेधसातये भवद्दैवत्ययज्ञसिद्ध्यर्थं भवान् प्रप्राविवासतीत्यर्थः ॥ २ ॥
नदं व ओदतीनान्नदं योयुवतीनाम् । पतिं वो अघ््नयानां धेनूनामिषुध्यसि ॥ ३ ॥ (ऋ.मं.८, सू.६९/२)
ओदतीनाम् उन्दनकर्त्रीणां वः अपां भवदीयानां पतिं वः पुरुषं प्राणं नदं नदनकर्तारं प्रति इषुध्यसि पतिर्भवसि । सृष्टौ सृष्टौ यो यः प्राणस्तं तं प्रति पतिर्भवसीति नदमिति पुनर्वचनम् । योयुवतीनां गमनशीलानाम् आकाशे पोप्लूय-मानानाम् अघ्न्यानां धूमरूपेणादाह्यानां रेतोरूपेणाजराणां वा । धेनूनां जगत्पोषकाणाम् । ''धिनु पुष्टौ''' इति धातोः । ''ता नदेन विहरति''' इत्यादिश्रुतेः । पयसा सेचकानां देशाद्देशान्तरगमनशीलानाम् अघ््नयानां हन्तुमयोग्यानां धेनूनां गवां पतिं वायुं प्रति इषुध्यसीति वा । ''वायुर्वाव गवां पतिः''' इति श्रुतेः । धेनुशब्दाच्च ओदतीनां भक्त्या सेचकानां योयुवतीनाम् अतिशयेनात्मतत्वावगमकानाम् अघ्न्यानां नित्यानां धेनूनां धर्मार्थकामपोषकाणां वाचां पतिं वायुं प्रति पतिर्भवसीति वा । ''वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनास्स्वाहाकारो वषट्कारो हन्तकारस्स्वधाकार इति । तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च, हन्तकारं मनुष्यास्स्वधाकारं पितरः तस्याः प्राण ऋषभो मनो वत्सः''' इत्यादिश्रुतिभ्यः ॥ २ ॥
ता अस्य सूददोहसस्सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः ॥ ३ ॥ (ऋ.मं.८, सू.६९/३)
ताः पृश्नय आपो गावो वाचो वा, अस्य सूददोहसः प्राणस्य वायुस्थस्य परमेश्वरस्य सोमं श्रीणन्ति । अदि्भर्हि संसृष्टो भवति सोमः पयआदिना च शृतो भवति मन्त्रैर्वा गृह्यते । ''अथ सूददोहाः प्राणो वै सूददोहाः''' इति श्रुतिश्च । शोभनमुदं कर्म ज्ञानं वा दोग्धीति सूददोहाः । उदेति उच्चो भवत्यनेन पुरुष इत्युदं ज्ञानादि । ''मनो वाव सोमः''' तद्वाचः श्रीणन्ति स्वार्थैः । प्रश्नयोग्यत्वात्पृश्नयो वाचः, प्रशंसनरूपत्वात्प्रशंसनीयत्वाद्वा । प्रशंसनीयत्वमेवापां गवां च । देवानां जन्मनि यज्ञे । तत्र हि तेषामभिव्यक्तिः । पूर्वं ज्ञाने वा विशः प्रजाश्च श्रीणन्ति । मुख्यतस्ता एव श्रीणन्तीति चशब्दवर्जनम् । दिवस्त्रिषु आरोचनेषु । आदित्यचन्द्रविद्युत्पर्यन्तं स्थितानां देवानां जन्मनि । ''यज्ञो वै देवजन्म तत्र हि देवाः प्रादुर्भवन्त्यासूर्याचन्द्रमसावाविद्युतम् । ते वै लोकानधिश्रिताः''' इत्यादिश्रुतेः । ''द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव परमुपगच्छति सैषा ब्रह्मलोके विराजते''' इत्यादि श्रुतेर्द्यौरेव विद्युत् ॥ ३ ॥
अर्चत प्रार्चत प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरन्न धृष्णवर्चत ॥ १ ॥ (ऋ.मं.८, सू.६९/८)
अर्चनं यज्ञादि, प्रार्चनं ज्ञानध्यानादि । ''श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप''' इति भगवद्वचनात् । प्रिययज्ञा अर्चत प्रियज्ञानाः प्रार्चत । पुत्रका अल्पज्ञाना अप्यर्चत ।
''न बुदि्धभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत् सर्वकर्माणि विद्वान्युक्तस्समाचरन् ॥''' इति च ।
उतशब्दाज्ज्ञानिनामप्यर्चनं युक्तम् । स्वाश्रमानुसारेणेति । ''अधा ते विष्णो विदुषा चिदर्ध्यस्तोमो यज्ञश्च राध्यो हविष्मता''' इति श्रुतेः । किं तदर्चनीयम् ? धृष्णु धृष्टं परं ब्रह्म वासुदेवाख्यम् । पुरं देहं नार्चत ।
''प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथस्सुमध्यमे ।
प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥'''
इति भागवते ।
''सदेहमानिहरये प्रणमेत्केवलाय वा ।
न देहाय न तन्मानपराय च कथञ्चन ॥''' इति व्यास---स्मृतौ ।
पुनरर्चतेति तात्पर्यार्थः ॥ १ ॥
अवस्वराति गर्गरो गोधा परि सनिष्वणत् । पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥ २ ॥ (ऋ.मं.८, सू.६९/९)
गर्गरगोधापिङ्गादीनां घोषा अपि नादमात्रव्यञ्जकत्वेन भगवद्वाचका एवेत्याह अवस्वराति गर्गर इत्यादिना । एतत्समस्तमिन्द्रायैवेत्यर्थः । ब्रह्म वेदो विशेषत इन्द्रायैवोद्यतः । गर्गर इति पादभूषणमहामत्रकदधिपात्रहस्तिहस्तानां नाम । पिङ्गा चकोरी । अवपरीत्यल्पाधिक्यादिविशेषोपि तद्वाचक एवेति ज्ञापनाय । चनिष्कददित्यनुकरणशब्दः । सनिष्वणदित्यतिशयार्थे ।
''ता वा एतास्सर्वा ऋचस्सर्वे वेदास्सर्वे घोषा एकैव व्याहृतिः प्राण एव''' इति श्रुतिः । ''दध्नो मथनशब्दश्चाप्यन्तर्नादस्वरूपतः । भीषकत्वं हरेर्ब्रूया-दन्तर्नादो हि भीषणे । गजबृंहितमप्येवं धिक्कारसहितं वदेत् । स्वरितेन समायोगादि्धक्कृतौ स्वरितो यतः । महामत्रं जलाद्यैश्च युक्तमेतादृशं वदेत् । पादभूषा च धिक्कारं तत्कृतं स्वरितं वदेत् । अद्भुतत्वं हरेर्वक्ति पिङ्गाकण्ठगशब्दवत् । तामेवाद्भुततां वक्ति गृहगोधा परापि च''' इति शब्दतत्वे ॥ ३ ॥
आ यत्पतन्त्येन्यस्सुदुघा अनपस्फुरः । अपस्फुरङ् गृभायत सोममिन्द्राय पातवे ॥ ३ ॥ (ऋ.मं.८, सू.६९/१०)
यच्च एन्यो नद्य आपतन्ति तद्धोषश्चेन्द्रवाचकः । ''नदीसमुद्रघोषाश्च नादत्वाच्छ्रैष्ठ्यवाचकाः । नादो हि श्रैष्ठ्यवाची स्यादेवं घोषाः परेपि च''' इति च । तदर्थं च नद्य आपतन्ति । ''भूतादिभूतोम्बुनिधानमध्ये भूत्वा हरिस्सर्वहरोतिधाम्ना । अगाधमम्भो विदधाति भस्म यो वाडवाग्निर्नृहरिर्विचिन्त्यः''' इति वैहायससंहितायाम् । सुदुघाः सुष्ठु अपां दोहनकर्त्र्यः । स्फुरणापगमनमासां नास्तीत्यनपस्फुरः । नित्यचलनस्वभावाः । अपगतस्फुरण-त्वेन सोमं गृभायत । अचलत्वेन मनो वा ॥ ३ ॥
यो व्यतीरफाणयत्सुयुक्ता उप दाशुषे । तक्वो नेता तदिद्वषुरुपमा यो अमुच्यत ॥ १ ॥ (ऋ.मं.८, सू.६९/१३)
व्यतीन् विशेषेणाधिकान् देवान् अफाणयत् विस्तारयामास । दाशुषे यजमानाय तत्समीपे । ''फण विस्तारे''' इति धातोः । सुयुक्तान् सुयोगरतान् ।
''विशेषेणाधिकत्वेन व्यतयो देवतास्---स्मृताः ।
नित्ययोगरताश्चैव नारायणपरायणाः ।
ता एव चेन्द्रियात्मानस्तान्विस्तारयतीश्वरः ।
मन आदीन्द्रियाणान्तु शक्तिविस्तार एव तु ।
विस्तारो देवतानां स्याद् भक्तेषु हरिणा कृतः'''
इति प्रकाशसंहितायाम् ।
''चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यती रवीविपत्''' इति च श्रुतिः । ''स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम्''' इति च ।
''न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥''' इति भारते ।
तक्वो जगत्कर्ता । ''तक निर्माणे''' इति धातोः । ''न वर्तवे प्रसवः सर्गतक्तः''' इति प्रयोगाच्च । नेता सर्वस्य । तदेव वपुस्सः । यत्तज्जगत्कर्तृ नेतृरूपम् । ''देहदेहिविभागश्च न क्वचित्परमेश्वरे । गुणतद्वद्विभागो वा नेह नानेति हि श्रुतिः''' ॥ इति पाद्मे । ''तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति''' । ''सद्देहस्सुखगन्धश्च ज्ञानभास्सत्पराक्रमः । ज्ञानज्ञानस्सुखसुखस्स विष्णुः परमोक्षरः''' ॥ इति श्रुतेश्च ।
''विशुद्धविज्ञानमरीचिमालया सचित्ररत्नप्रकरप्रकाशया ।
प्रकाशिताशेषजगत्स्वरूपया प्रभुः सदा ह्लादतनुर्विभूषितः''' ॥
इति पुरुषोत्तमसंहितायाम् । उपमा उपमायाम् उपमाविषये, अमुच्यत त्यक्तोभवत् निरुपम इत्यर्थः ।
''अल्पाक्षरेण शक्येपि वक्तुं बह्वक्षरं यदि ।
उक्तस्याधिक्यमेवात्र निषेधेशेषतो भवेत्''' ॥ इति शब्दनिर्णये ॥ २ ॥
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥ २ ॥ (ऋ.मं.८, सू.६९/१४)
विश्वा विश्वान् द्विषो अज्ञानपापादीन् अतीत्य शक्तो विष्णुः स्वभक्तानतिवहत्येव हि । ''यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्''',
''तेषामहं समुद्धर्ता मुत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्'''
इत्यादिप्रसिदि्धमुशब्देनाह ।
द्विषोतीत्यातिशयेनात्मानं प्रत्येव ओहतेत्यतिशब्दद्वयार्थः । ओदनम् उन्दतेः कर्मबन्धनम् अभिनद्भगवान् कानीनो बादरायणः । परः परमात्मा गिरैव पच्यमानं परिपाककाले ।
''संश्लेषादोदनं कर्म पच्यमानं गिरैव हि ।
अभिनद्भगवान् व्यासस्स्वभक्तानामशेषतः'''
इति व्याससंहितायाम् ॥ २ ॥
अर्भको न कुमारकोधितिष्ठन्नवं रथम् । सपक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम्् ॥ ३ ॥ (ऋ.मं.८, सू.६९/१५)
अर्भक इव स्थितः । नवं रथमध्यतिष्ठत् । कुमारकः कुत्सितमारकः । अर्भक इव सूक्ष्मदेहः पूर्वं पूर्वं देहं परित्यज्य नवं नवं देहमध्यतिष्ठज्जीवमादाय ।
''जीवदेहं परित्यज्य सह जीवेन चेश्वरः ।
जीवस्यान्यच्छरीरं च समुत्पाद्य विशत्यजः'''
इति मान्यसंहितायाम् ।
कुमारक इवार्भकः सूक्ष्मदेह इति च । अर्भकस्सूक्ष्मदेहोपि न (कुमारक) कुमार इति वा । सपक्षत् परिपक्वज्ञानादिगुणकमकरोत् । महिषं महान्तं ब्रह्माणम् । मृगं मृगयन्तं स्वात्मानम् । पित्रे स्वस्मै मात्रे लक्ष्म्यै । विभुक्रतुं पूर्णज्ञानम् । पितृमातृविषये पूर्णज्ञानम् । पुनः पूरयामासेत्यर्थः ।
''ज्ञानपूर्णं विधातारं मोक्षदानेन केशवः ।
स्वपुत्रं पूरयामास महिषं महतां महान्''' इति प्रवृत्ते ॥ ३ ॥
यथास्थिताः प्रज्ञाताः । इतस्ततस्संयोजनं विना यथास्थितशंसनं पथिः(थः) प्राप्तिः ॥
व्याप्तो विशेषेणापन्नः । अविहृतमसंसृष्टम् । कृच्छ्रादयथावस्थितशंसननिमित्तदुःखादवाग्गतिं गतश्रीकतामेव न प्राप्नुयाम् ।
''विलोमश्शत्रुज (क्ष)यकृत्संसर्गः पापनाशनः ।
यथास्थितश्श्रीकरस्स्यात्स्वाध्यायश्शंसनेपि च''' इति प्रवृत्ते ।
''गतश्रियः श्रियो हानिं पापहानिं परस्य च ।
संसर्गश्छन्दसां कुर्याच्छ्रियो वृदि्धं यथास्थितः'''
इति स्वाध्यायतत्वे ।
''किञ्चित्वे चोभयत्वे च संशये सदृशे तथा ।
इवशब्दः प्रयुज्येत न्यक्कारेपि च पण्डितैः''' ॥ इति शब्दनिर्णये ।
अतो गतश्रीत्वसंशयेपीत्यर्थः ॥
इतस्ततो विशेषेण (सं)हृतं (संयोजितं) विहृतम् ।
''पापानां व्यतिषिक्तत्वाद्व्यतिषक्तं विनाशकम् ।
धनस्याव्यतिषङ्गेण व्यतिषङ्गोविनाशकः ।
सदृशं सदृशस्यैव यतस्स्यात्प्रविनाशकम् ।
तथाप्यप्राप्तनाशस्य धनस्य बलवत्त्वतः ।
शक्नुयान्न विनाशाय पापस्येच्छा समेधितम् ।
संसृष्टं स्याद्विनाशाय नहीच्छाधनसङ्क्षये''' ॥ इति स्वाध्यायतत्वे ।
अव्यतिषक्तत्वं च मोक्षे विद्यत इत्यत्रोभयार्थ इवशब्दः । एवम्भूतेन शंसनेन पाप्मानमपहन्ति । शमलं रागादिकं च । पापस्य पृथगुक्तेः ।
''शमलं पापमुद्दिष्टं रागद्वेषादिकं तथा ।
अपराधश्च शमलं मलं च शमलं विदुः''' ॥ इति शब्दनिर्णये ।
य एवमुपास्ते सोपि पाप्मानमपहन्ति ।
''ऋक्षु संसृज्यमानासु प्रोच्यमानं जनार्दनम् ।
पुंसंसृष्टस्य पापस्य निहन्तारं विशेषतः ।
तत्प्रसादेन मुक्तस्य पापासंसृष्टतामपि ।
ध्यायन्कर्माणि कृत्वापि मुच्यते सर्वपातकैः''' ॥ इति प्रवृत्ते ।
न चैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः । सिद्धार्थे प्रामाण्यस्य साधितत्वात् । अविरोधाच्च । न च बह्नर्थेषु तात्पर्यकल्पने कल्पनागौरवम् । वचनेनैव प्रतीयमानत्वाद् अर्थस्य कल्पनाभावात् । न च वाचनिकार्थस्तात्पर्यार्थ इति विशेषः । तन्मानाभावात् ॥
यत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु न तत्र साक्षाद्वचनं प्रबोधकम् । वचनलिङ्गाकानुमा हि सा । विरोधादमुख्यवृत्तिर्वा । आप्तत्वनिश्चये । आप्तत्वानिश्चये प्रामाण्यमेव न भवति ॥
वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते ॥
वाचनिकानां तु बहूनामप्यविरोधे स्वीकार्यता । ''ओं स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि''' इति सूत्रम् ।
''वानात्सूतेर्देवनाद्वासुदेवो वासाद् द्युतेश्छादनात्क्रीडया त ।
बलादसुत्वाद्दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः''' ॥
इत्यादि च सौकरायणश्रुतिः ।
मोक्षेपि सुप्तिरस्तीत्याशङ्कानिवृत्त्यर्थमेवान्यतरपदम् ।
''रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत् ।
तत्रापि यौगिको मुख्यस्सर्वत्रास्ति स वैदिके ।
अनवस्थानिवृत्त्यर्थं यौगिके रूढकल्पना ।
ज्ञाते विशेषविज्ञानं व्यवहारोपि रूढितः''' ॥ इति ब्रह्मतर्के ॥
वाचनिकमर्थं परित्यज्य नियोगार्थकल्पने श्रुतहानिरश्रुतकल्पनेति सर्वदोषाधिकौ तस्य व्यर्थमापद्येते । एवं च वदतो विधिशब्दा निरर्थकाः सिद्धार्था वा, सिद्धशब्दाः वा स्वार्थे प्रमाणभूता इत्युक्ते किमुत्तरम् ? न च कारणं किञ्चिद्वाचनिकानां बहूनामप्यर्थानां त्यागे । प्रतीयमाने तु विरोधे तदन्योर्थः स्वीकार्यः । वाचनिक एव । सोपि वाचनिक एवेत्यपि तत एव सिद्ध्यति ।
''मुख्यार्थानां च सर्वेषां तारतम्यं च विद्यते ।
तत्रापि परमो मुख्यो वाच्योशेषरवैर्हरिः ।
तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहः ।
स्वतो मुख्यविरोधे तु त्याज्योन्योर्थोखिलेष्वपि ।
इति सर्वत्र नियमः शब्दार्थज्ञानभूमिषु''' इति च ॥
न च क्रियायामेव प्रयोजनं न सिद्ध इति युक्तम् । ज्ञानमात्रेपि महाप्रयोजनदर्शनात् पितृजीवनादिवाक्ये । आह च स्वयं भगवान्–
''द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।
यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः ।
अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुदि्धमान् स्यात्कृतकृत्यश्च भारत''' ॥ इति ।
''श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप''' इति च ।
''ध्यानं त्वखिलकर्मभ्यो ध्यानाच्च ज्ञानमुत्तमम् ।
न ज्ञानसदृशं किञ्चित् पुरुषार्थप्रसिद्धये''' इति प्रवृत्ते ।
''दूरेण ह्यवरं कर्म बुदि्धयोगाद् धनञ्जय''' । इति च ।
''अशेषकर्मपूगोपि न विष्णुध्यानलेशभाक् ।
तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्यते''' इति कर्मविवेके ।
''तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते''' इति च श्रुतिः ॥
न च कर्ममात्रे पर्यवसितिर्वेदस्य । सुखज्ञानस्यैव प्रयोजनत्वात् । अतस्सिद्धस्यैव प्रयोजनत्वं वाच्यम् । (सिद्धम्)
प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवता, ओं ''भाक्तं वानात्मवित्त्वात्तथा हि दर्शयति''' इति । तस्माद्विरुद्धवत्प्रतीयमानानि प्रशंसादीनि ज्ञानसहकार्यपेक्षया योजनीयानि । पुराणादीनां तु श्रुत्यादि विरोधे गौणोप्यर्थो युज्यते ।
''कुहकञ्चेन्द्रजालं च विरुद्धाचरणानि च ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर''' ॥ इत्यादि वाराहे ।
उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि । मध्वः पीत्वा सचेवहि त्रिस्सप्त सख्युः पदे ॥ १ ॥ (ऋ.मं.८, सू.६९/७)
ब्रध्नस्य सूर्यस्य विष्टपं स्वर्गमुद्गन्वहि इन्द्रोहं च । यत्तदिन्द्रगृहं ब्रध्नविष्टपं मध्वः पीत्वा तत्र सचेवहि सुखमनुभवाव । सख्युरिन्द्रस्य त्रिस्सप्तस्थानेषु ।
''एकविंशति दिव्यानि स्थानानि दिवि चक्रिणः ।
वज्रिणो वापि तद्भक्तैर्भुज्यन्ते तानि याज्ञिकैः''' ॥ इति प्रवृत्ते ।
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । ममदि्ध सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आवृषस्व ॥ २ ॥ (ऋ.मं.१०, सू.९६/१३)
पूर्वान्सुतान् प्रातस्सवनगान्सोमानपाः । हरीनिन्द्रियाणि वर्तयतीति हरिभिर्वर्तत इति वा । इदं माध्यन्दिनसवनं केवलम् ते । अथो इत्यर्थान्तरम् । मधुमन्तं सोमं जठरे आवृषस्व आसिञ्च, ममदि्ध च । सत्रा अस्मत्त्राणेन सह । पीतशब्दवत् । अपूर्वपानत्वात्तदेव पानं मुख्यमिति पीतशब्दः । इन्द्रस्य केवलत्वात्केवलं माध्यन्दिनं सवनम् । ममद्धीति तृतीयसवनम् । तत्र हि मदो विशेषतो भवति, पूर्तेः । इति सवनत्रयरूपता षोशिनः । वृषण्वत् वृष्णः इन्द्रस्य विशेषतः प्रियत्वात् । एवं चतूरूपता षोशिनः । राध्नोति ऋद्धो भवति ॥
विहृतपक्षे तु– पादान्व्यवधायार्धर्चशश्शंसेत् । पूर्वासां पूर्वाणि पदानि । गायत्र्यः पङ्क्तिभिः पङ्क्तीनान्तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात् । उष्णिहो बृहतीभिः । उष्णिहान्तूत्तमान्पादान् द्वौ द्वौ कुर्याच्चतुरक्षरमाद्यम् । द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभा । उत्तरा जगतीभिः । उत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याद्यमुत्तरस्य । अनुष्टुभमतिच्छन्दःस्ववददध्यात् । द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् । प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम् । उत्तरास्वितरान् पादान् षष्ठान्कृत्वानुष्टुप्कारं शंसेत् ॥ (आ.श्रौ.सू.६-३)
महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु । एवाह्येवा अपाः पूर्वेषां हरिवस्सुतानाम् एवाहीन्द्रं अथो इदं सवनं केवलन्ते । एवाहि शक्रो ममदि्ध सोमं मधुमन्तमिन्द्र वशी हि शक्रः सत्रा वृषञ्जठर आवृषस्वेति ॥
भगवद्भक्तिज्ञानवैराग्यपूर्वकं च कर्म कर्तव्यम् । ''इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेनु भूत्वा इमं लोकं हीनकरं वा विशन्ति''', ''नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनश्शश्वदभद्रमीश्वरे विनार्पितं कर्म यदप्यकारणम्''', ''यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिदि्धं विन्दति मानवः''', ''त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्''', ''मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः''', ''ये मे मतमिदं नित्यमनुतिष्टन्ति मानवाः । श्रद्धावन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढास्तान्विदि्ध नष्टानचेतसः''',
''तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः''',
''एष उ एव दाश्वान्य एवं वेद''',
''यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति''',
''परं भावमजानन्तो मम भूतमहेश्वरम् ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः''',
''सर्वगुह्यतमं भूयश्शृणु मे परमं वचः ।
इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे''',
''विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।
तिष्ठमानस्य तद्विदः''' इत्यादिश्रुतिस्मृतिभ्यः ॥
नमो नारायणायाजभवशक्रोष्णरुङ्ग्मुखैः ।सदा वन्दितपादाय श्रीपाय प्रेयसेधिकम् ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः कर्मनिर्णयः समाप्तः ॥