माण्डूक्योपनिषत्

change script to

पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् ।
चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ॥
ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥
सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥
मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते ।
ध्यायन् नारायणं देवं प्रणवेन समाहितः ।
मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥ इति पाद्मे ।
ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् ।
औतमत्र जगद्यस्मादों तस्मात् भगवान् हरिः ॥
तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् ।
भाविभूतभवत्कालेष्वेकरूपतया हरिः ॥
सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥
इति बृहत्संहितायाम् ।
ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः ।
सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥ इति नैर्गुण्ये ।
सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥
सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म । सोयमात्मा चतुष्पात् ॥ २ ॥
परमं यो महद्ब्रह्म तदेव ब्रह्म परमं कवीनाम् पूर्णमदः पूर्णमिदम् इत्यादिषु प्रसिद्धं च ब्रह्मणः पूर्णत्वमित्याह– सर्वं ह्येतत् ब्रह्मेति ॥ श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोऽपि स एवेति दर्शयति– अयमात्मा ब्रह्मेति । पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन ।
विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥
कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः ।
अभिमानात्तु जीवानां न कालातीतता भवेत् ॥
मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः ।
पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥
सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा ।
आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥
इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम् ॥
इति हरिवंशेषु ॥ २ ॥
जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३ ॥
चतुर्धाऽवस्थितो देहे परमात्मा सनातनः ।
वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥
निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः ।
अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥
मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् ।
पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥
स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् ।
विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥
तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः ।
विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ॥
तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् ।
चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥
एवम्भूतगुणो विष्णुश्चतुरात्मा परात् परः ॥ इति महायोगे ॥ ३ ॥
स्वप्नस्थानोऽन्तप्रज्ञः । सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥
जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् ।
प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥
इति वाराहे ॥४॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥
सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः ।
न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥
कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् ।
चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥
न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः ।
एकीभावं व्रजेतां च तेन विश्वश्च तैजसः ॥
एकीभूतस्त्वतः प्राज्ञो घनो जीवस्तमोवृतः ।
तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥
इति प्रकाशिकायाम् ।
आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयत्व चेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी ।
एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ॥
परमात्मा चतूरूपः सर्वप्राणिशरीरगः ।
विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु ।
चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥
मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः ।
तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ॥
ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥
इति मार्कण्डेये ॥
पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा ।
यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥
इति ब्रह्मतर्के ॥ ६ ॥
अत्रैते श्लोका भवन्ति ।
बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥
प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने ।
ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥
अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥
इति गारुडे । खण्डचतुष्टयेऽपि पृथक् पृथक् ॥ ७ ॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥
विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ९ ॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।सर्वं जनयति प्राणश्चेतोंऽशून् पुरुषः पृथक् ॥ १२ ॥
प्रभवः सर्वभावानां विष्णुरेव न संशयः ।
इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥
सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः ॥ १२ ॥
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ १३ ॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १४ ॥
तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा ।
विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥
तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः ।
स्वप्नप्रमायासरूपां च केचिदज्ञा जना विदुः ॥
अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् ।
उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥
पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः ।
सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥
तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् ।
यथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥
केचित् कालत एवैतां सृष्टिमाहुरकोविदाः ।
केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥
विमूढाः सर्व एवैते यतो नारायणः परः ।
सर्वकर्ता सर्वशक्तिरेक एव न चापरः ॥
प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः ।
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।
देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति ॥ १५ ॥
तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः ।
सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥
इति हरिवंशेषु ॥
इति प्रथमखण्डः ॥