माण्डूक्योपनिषत्

change script to

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टं अव्यवहार्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १ ॥
विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः ।
मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् ।
अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ॥
अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च ।
बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ॥
यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता ।
एतत्सर्वं तुरीयेण रूपेण न करोत्यजः ॥
सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ॥ इति ब्रह्माण्डे ।
अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते ।
तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः ॥
विना मुक्तिं ततस्तेनाव्यवहार्य इतीरितः ।
जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ॥
अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च ।
तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः ॥
मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः ।
एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ॥
तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः ।
प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ॥
प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः ।
उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥
प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः ।
प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ॥
निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः ।
अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ॥
औतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ॥ इति माहात्म्ये ॥
अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपया ।
इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ॥ इति सङ्कल्पे ।
स आत्मा स विज्ञेयः इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । सोऽयमात्माऽध्यक्षरम् इति पृथगारम्भात् ।
विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः ।
निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥ इति प्रत्यये ।
अत्रैते श्लोकाः भवन्ति ।
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ २ ॥
सर्वदुःखानां निवृत्तेः कारणभूतस्तुरीयो देवः ।
हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः ।
देवः स सर्वजीवानां गम्यत्वात् समुदीरितः ।
भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः ॥
ईशानामपि मुक्तानां ईशानः सोऽननाच्छ्रुतः ॥ इति प्रत्याहारे ।
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥ ३ ॥
कार्यकारणबन्धस्य तदधीनत्वतो विभुः ।
विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ ।
कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः ॥ इति च ।
स बद्धः स दुःखी स बन्धयति स दुःखयतीति । स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति । सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति इति कौषारवश्रुतिः । विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः ।
तदर्थमन्यद्वचनमतस्तस्य विरोधि यत् ॥
तन्ममार्थो न हि क्वापि साऽहं तत्सरणात् सदा ।
सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया गुणा हरेः ॥ इति महोपनिषदि ॥
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ॥ ४ ॥
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
प्राज्ञः संवेदयेत् किंिचज्जीवकालतमो विना ॥
सुप्त्यवस्थां सुखं चापि विना नान्यत् प्रदर्शयेत् ।
सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः ॥ इति प्रत्यये ।
स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा ।
सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम् ॥ इति ब्रह्मतर्के ।
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ ५ ॥
निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा ।
यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः ॥ इति च ।
अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः ।
करोति न करोतीति व्यवहार्यं स्वशक्तितः ॥ इति च ।
न संवेदयतीत्यस्वीकारे । तुर्यं तत्सर्वदृक् सदा द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः इति च विरुद्धम् । द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः ।
द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन ।
द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता ॥ इति प्रकटश्रुतिः ।
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ६ ॥
अन्यथागृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ७ ॥
विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायते ।
अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ॥ ८ ॥
अनादिमायया विष्णोरिच्छया स्वापितो यदा ।
तया प्रबोधमायाति तदा विष्णुं प्रपश्यति ॥
इति प्रकाशिकायाम् ॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ९ ॥
तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः ।
वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ॥
तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते ।
अतः स विद्यत इति ह्यङ्गीकारो भवेद्यदि ॥
तथापि भगवज्ज्ञानात् स निवर्तेदसंशयम् ॥ इति ब्रह्मतर्के । औतमनन्यथा ज्ञातम् । परब्रह्मादिवस्तु तत् । द्वैतं द्विधा ज्ञातमन्यथाज्ञातमज्ञैः । परमार्थतः परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितम् । तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते ।
परेण ब्रह्मणा यत्तु द्विधा न ज्ञातमञ्जसा ।
तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा ॥
जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च ।
परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु ॥
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम् ।
उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरव्ययः ॥ इति च ।
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १० ॥
अनन्यथा इतमवगतमद्वैतम् । द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोऽप्युपदेशान्निवर्तते । अयं सतां वादः । ज्ञाते सति ब्रह्मणि द्वैतमन्यथाज्ञानं निवर्तते इति ॥ विकल्पो देहबन्धादिः केनचित् कारणेन तु ।
कल्पितो विनिवर्तेत गुरुवाक्यादसंशयः ॥
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः ।
निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ ॥
इति च ॥ १० ॥
इति द्वितीयखण्डः ॥