माण्डूक्योपनिषत्

change script to

सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति ॥
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद् वा ।
आप्नोति ह वै सर्वान् कामानादिश्च भवति । य एवं वेद ॥ १ ॥
अधिकं सर्वतोऽविनाशि चेत्यध्यक्षरम् । अधिका एव मात्रा अंशा यस्य तदधिमात्रम् । अ इत्यनेनाभिधानेनाक्रियत इत्यकारः । तत्र पूर्वोक्तो वैश्वानरः प्रथमा मात्रेत्याद्यनुवादः । अकार इत्यादिकं विधेयम् । प्राज्ञस्तैजसश्चादिरस्येत्यादिमात्रम् । सुप्तेरुत्थाने प्राज्ञाद्विभक्तो भवति विश्वः । स्वप्नादुत्थाने तैजसात् । आदिश्चास्योपासकस्य भवति ॥ १ ॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा । उत्कर्षादुभयत्वात् वा । उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति । य एवं वेद ॥ २ ॥
शरीराभिमानादुत्थाप्य कर्षतीत्युत्कर्षः । निद्रा विषयानुभवश्चानेन क्रियत इत्युभयत्वम् । समानः सर्वेषां मध्यस्थो भवति ॥ २ ॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा । मितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपीतिश्च भवति । य एवं वेद ॥ ३ ॥
मितेरन्तर्गमनात् ।
अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः ।
येंऽशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशो विभोः ॥
अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः ।
श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः ॥
आद्यस्तदंशो ह्याप्तिः स्याद् विषयानापयेद्यतः ।
जीवस्य तु यतः प्राज्ञात् तैजसाद्वा समुत्थितः ॥
अविभागोऽपि भगवानादिमांस्तेन कीर्तितः ।
तस्मादुत्पद्यते मुक्तस्तज्ज्ञानानन्दलक्षणः ॥
आप्नोति विषयान् सर्वान् निद्राया विषयस्य च ।
उभयोः कारणत्वेन ह्युभयस्तैजसः श्रुतः ॥
देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले ।
उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम् ॥
आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम् ।
मध्यस्थश्च भवेत् स्नेहाद्दोषाभावाच्च सर्वशः ॥
स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता ।
जीवमन्तर्गतं कृत्वा तज्ज्ञानलयकृद् यतः ॥
प्राज्ञो मानमपीतिश्च तज्ज्ञोऽप्येवं विमुक्तिगः ।
व्याप्त्याऽन्तर्गमयेत् सर्वं दुःखाद्यं तु विलापयेत् ॥
अणूनामपि जीवानां प्रकाशो व्यापको भवेत् ।
अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम् ॥
अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत् ॥
इति ब्रह्मतर्के ॥ ३ ॥
अत्रैते श्लोकाः भवन्ति ।विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ ४ ॥
मात्रासम्प्रतिपत्तौ अंशध्याने । आदिमत्वं विश्वस्य विद्यते । तदुपासकस्यापि भवतीत्यादिसामान्यम् ।
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ ५ ॥
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ ६ ॥
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम् ।
स पूज्यस्सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ ७ ॥
अकारो नयते विश्वमुकारश्चापि तैजसम् ।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेऽगतिरिति ॥ ८ ॥
अमात्रेऽप्यगतिर्न विद्यते । प्रतिदिवसं विभाग एकीभावश्च विद्यते विश्वादीनाम् । तुरीयस्य तन्न विद्यत इत्यमात्रः । विश्वादीनां व्यवहारकारणत्वं विद्यते । तुरीयस्य तन्न विद्यत इत्यतो गम्यत्वमपि नास्तीत्याशङ्कां निवर्तयति– अगतिर्न विद्यते इति । आत्मानं संविशति इति गतिवचनात् । आदिमत्त्वेन सामान्यमुपास्येन भवेदिति ।
उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान् ॥
सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः ।
अमात्रत्वं तुरीयस्याप्यविभागाद् दिने दिने ॥
जाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत् ॥ इति च ।
आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः ।
अमात्रत्वं तुरीयस्याप्यविभागाद्दिने दिने ॥
इत्यात्मसंहितायाम् ॥
इति तृतीयखण्डः ॥