माण्डूक्योपनिषत्

change script to

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैतः ओङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १ ॥
आत्मैव भूत्वाऽन्याभिमानं त्यक्त्वा परमात्मनैव परमात्मानं प्रविशत्युपासकः । अव्यवहार्यत्वादिकमत्र साम्यमिति दर्शयितुं पुनरप्युक्तमव्यवहार्यत्वादिकम् ॥ १ ॥
अत्रैते श्लोकाः भवन्ति ।
ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः ।
ओङ्कारं पादशो ज्ञात्वा न किंिचदपि चिन्तयेत् ॥ २ ॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ ३ ॥
प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतम् ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ ४ ॥
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ ५ ॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ ६ ॥
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ।
स मुनिर्नेतरो जन इति ॥ ७ ॥
इति चतुर्थः खण्डः ॥
इति श्रीमाण्डूक्योपनिषत् समाप्ता॥
तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम् ।
तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान् ॥
ज्ञानानन्दौ च शक्तिश्च तथापि न समाः क्वचित् ।
विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा ॥
चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि ।
जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात् ॥
ओमित्याक्रियमाणत्वादोङ्कारः सम्प्रकीर्तितः ।
आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः ॥
अपूर्वः कारणाभावान्नाशाभावादनन्तरः ।
पराधीनस्थित्यभावादनपर उदाहृतः ॥
सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते ॥ इति च ॥
परत्वमपरत्वं च विष्णोरेकस्य वै यदा ।
श्रूयते न तु सामर्थ्यभेदस्तत्र कथञ्चन ॥
अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम् ॥ इति ब्रह्मतर्के ।
पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादेरर्थः ॥
एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् ।
यस्तं वन्दे चिदात्मानं विष्णुं विश्वादिरूपिणम् ॥
इति चतुर्थः खण्डः ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं माण्डूक्योपनिषद्भाष्यं समाप्तम् ॥