आथर्वणोपनिषद्भाष्यम्

change script to

आनन्दमजरं नित्यमजमक्षयमच्युतम् । अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ।।
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठा मथर्वाय ज्येष्ठपुत्राय प्राह ।। १ ।।
मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि । मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च ।। ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः । सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोऽग्रजः ।। इति ब्रह्माण्डे ।
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ।। २ ।। शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।। ३ ।।
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च ।। ४ ।।
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ।। ५ ।।
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ।। इति परमसंहितायाम् । ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये । विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति ।। स्तुवन्त्यथर्वणैश्चैनं सेतिहासपुराणकैः । न विष्णुसदृशं किंिचत् परमं वाऽपि मन्वते ।। सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः ।। वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ।। एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम् । ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति ।। यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । स्तुवन्ति सत्यकर्माणं सत्यं सत्येन सामसु ।। सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ।। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । इति च भारते । चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति इति च मूलश्रुतिः । पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराऽऽभवत् । मूलवेद इति ह्याख्या काले कृतयुगे तदा ।। नैवर्क्सामादिनामानि तदा वेदस्य चाभवन् । नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित् ।। ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः । देवतात्वेन चेज्यस्स ब्रह्माद्या मनुनामकाः ।। वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात् । इज्यन्ते देवताः सर्वा न तु देवतया क्वचित् ।। अनन्ययाजिनस्ते तु तस्मात् कार्तयुगा जनाः । प्राप्नुवन्ति हरिं तं च तस्माद्वेदे न किञ्चन ।। पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात् । ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत् ।। तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा । यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात् ।। अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाथ तं यजेत् । ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः ।। द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवलैः । कलौ तु नाममात्रेण पूज्यते भगवान् हरिः ।। एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाऽभवत् । स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् ।। उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः । मुख्यो धर्मः कार्तयुगो वर्तितव्यः कलावपि ।। त्रेतादौ तदशक्त्या हि धर्मोऽन्यः सम्प्रकीर्तितः । कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा ।। त्रेतायां भिन्नविषयास्ततस्त्रैविद्यतां गताः । तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः ।। पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा ।। इत्यादि नारायणसंहितायाम् । वेदवादाश्चानुयुगं ह्रसन्तीति हि नः श्रुतिः ।। इति भारते । वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।। इत्यादि वाराहे । अत्रापि तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन् इत्यादिना कर्मविषयामपरविद्यामुक्त्वा येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह । चतुर्वेदसंस्कारवतामेव च विद्यायामधिकार उक्तः तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् इति । शिरोव्रतमित्युपलक्षणम् । स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि । अधिकारोऽस्ति विद्यासु नावेदव्रतिनः क्वचित् ।। इति व्यासस्मृतौ ।। १५ ।।
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ।। ६ ।।
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ।। ७ ।।
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ।। ८ ।।
यस्सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ।। ९ ।।
एतद्ब्रह्म चतुर्मुखः ।। ६९ ।।
इति प्रथमः खण्डः