न्यायविवरणम्

change script to

चेतनाचेतनजगन्नियन्त्रे शेषसंविदे ।नमो नारायणायजशर्वशक्रादिवन्दित ॥1॥
कृत्वा भाष्यानुभाष्येहमपि वेदार्थसत्पतेः ।कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृत्तिः स्फुटम् ॥2॥
करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् ।प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ॥3॥
जीवव्यतिरिक्तेश्वरस्याभावात् तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते "अथातो ब्रह्मजिज्ञासा' इत्याह । "तद्विजिज्ञासस्व तद्ब्रह्म' इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । "अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः' इति श्रुतेः ॥1॥
न जीव एवायं ब्रह्मशब्दः । "यतो वा इमानि भूतानि जायन्ते' इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः ॥2॥
न च रुद्रादौ सममेतल्लक्षणम् । शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य ॥3॥
न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम् । किन्तूपक्रमादलिक्षणः समन्वय एव ॥4॥
न च तस्यावाच्यत्वं श्रुत्यभिप्रायः । "सर्वे वेदा यत्पदमामनन्ति' इत्यादि श्रुतिसहितानुभवस्य बलवत्वात् ॥5॥
न चावयवत्वविरोधः "नेह नानास्ति किञ्चन' इति श्रुतेरवयवाद्यभेदात् ॥6॥
न च "ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोनुक्लृप्तं वाचो वीर्यं तपसान्वविन्दत् ।' इत्यादि शब्दानामन्यविषयत्वम् । श्रुतिसन्देेहेनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः ॥7॥
अधिभूताध्यात्माधिवेदगतानामपि शब्दानामचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु विद्यमानेष्वपि भगवद्विषयत्वमेवानन्यथा सिद्धलिङ्गैः । "तावानस्य महिमा ततो ज्यायांश्च पुरुषः' इत्यादिशब्दसहितलिङ्गैश्च । सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामपि असन्दिग्धयोः केवलयोरेव बलवत्वात् ॥8-11॥
न च चानन्यथासिद्धत्वमन्यत्र श्रुतिलिङ्गादेः । अन्यगतलिङ्गदीनामपि तद्गभगवदपेक्षया युक्तेः ॥12॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः ॥
बहुलिङ्गसहितश्रुतेरपि सावकाशायाः निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषूक्त्वादित्येनुक्तिरित्यादिलिङ्गं च । तथापि निरवकाशा एतमेवेत्यवधारणादयः ॥1॥
सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिः लिङ्गं चादितिशब्दोदितत्वं च ॥2॥
द्विवचनश्रुतेरपि निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥3॥
"सोहमस्मि' "स एवाहमस्मि' इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥4॥
पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः विष्णोरपि ॥5॥
"अक्षरात् परतः परः' इति श्रुतेरपि नाक्षरात् सम्भवतीह विश्वं इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥6॥
श्रुतिसाधारण्येपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबलात् निश्चयः ॥7॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥
"प्राणानां ग्रन्थिरसि' "रुद्रो वै लोकायतनम्' "वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।' "सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकिनश्च विष्णोरेवोताश्च प्रोताश्च भवन्ति' इत्यादेः द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम् ॥1॥
"यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः' इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दलिङ्गबाहुल्यम् । "प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः ।' "प्राणेश्वरः कृत्तिवासाः पिनाकी' "मनो वै रुद्र ओतं च प्रोतं च' "रुद्रो वाव लोकाधारः' इत्यादिकं शब्दबाहुल्यम् ॥1॥
तेषामेव लिङ्गशब्दानां "प्राणानां ग्रन्थिरसि' इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ॥1॥
"प्राणो वा आशाया भूयान्' "विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम' इत्यादेर्भूमशब्दोज्ञानां साधारणः ॥2॥
"प्राणो वा आशाया भूयान्' इत्युक्त्वा प्राणाद्भूयसोनुक्तिः ॥2॥
प्राणस्य विष्णोः सकाशात् भूयस्त्वानुक्तिः । चशब्देन "एष तु वा अतिवदति' इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ॥2॥
विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः ॥3॥
अत्तेत्युक्त्वा "न तदश्नाति किञ्चन' इति विरुद्धता ॥3॥
सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम् । "पतिं विश्वस्यात्मेश्वरं' "विश्वात्मानं परायणम्' इत्यादिश्रुतेः । अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ॥3॥
कारणत्वसाम्यात् विष्णोरचेतनप्रकृतेश्च "सदेव सोम्येदमग्र आसीत्' इत्यादिसृष्टिस्थानं साधारणम् ॥4॥
"बहु स्यां प्रजायेय' इत्यन्यस्यान्यभावादृष्टिः ॥4॥
अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ॥4॥
लिङ्गं हृत्पद्मस्थितत्वं साधारणम् ॥5॥
"दहरोस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्' इत्यनेन "यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः' इत्यस्यान्वयाभावः ॥5॥
आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु योन्वेष्टव्यो भगवान् तस्यान्तर्हृदये यावान् वायमाकाशस्तावानाकाशः तस्मिन् द्यावापृथिवी अन्तरेव समाहिते स भगवानपहतपाप्मेत्यन्वयः ॥5॥
"कथं नु तद्विजानीयाम्' इत्यानुकूल्येन ग्रहणं कस्येति विचार्यमनुग्रहः ॥6॥
"तदेतदिति मन्यन्ते' "कथं नु तद्विजानीयाम्' इति "तेषां सुखं शाश्वतं नेतरेषाम्' इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ॥6॥
यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ॥6॥
"ऊर्ध्वं प्राणमुन्नयति' इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते इत्यादिवाक्यात् भ्रमः ॥7॥
लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ॥7॥
वज्रशब्द उद्यतलिङ्गं च तादृग्द्वयम् ॥10॥8॥
वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ॥10॥8॥
आदित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणम् "आदित्येनैवायं ज्योतिषास्ते' इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ॥11॥9॥
"अयं पुरुषः' इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । "आदित्येनैव' इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात् ॥11॥
पुनः शब्दाः "ईशानो वज्रो ज्योतिराकाशः' इति ॥7॥10-12॥
"वै नाम' इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ॥12॥11॥
वै नामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम् ॥12॥
लिङ्गं स्वप्नादिदर्शनं कस्येति ॥13॥
सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोः भेदोक्तेरसङ्गतत्वादि चेश्वरस्यैवेत्यर्थात् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ॥13॥
शब्दो ब्राह्मण इति ॥14॥
ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य सह परमात्मनाभेदं विनावकाशराहित्यदर्थादभेदप्राप्तिरिति समस्तमेतत् ॥14॥12॥ पूर्वपक्षः॥
ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोपि तस्मिन्नेव । चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेदोर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेनवकाश इति समस्तमेतत् ॥14॥
जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ॥13॥11॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ॥
अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्वं चेति द्विविधं ह्यवरत्वादि । "निरनिष्टो निरवद्यः' इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमात् विष्णोः "नामानि सर्वाणि यमाविशन्ति' इति श्रुतिबलाच्च नियन्तृत्वमवरत्वादिकमित्यापतति । श्रुतिद्वयस्यापि निरवकाशत्वात् । मृत्युशब्दादिषु प्रसिद्धेश्च । प्रसिद्धत्वाच्च कर्तृव्युत्पत्तेः । "तमेव मृत्युममृतं तात दैवं सर्वात्मनावैहि परं परायणम्' इत्यादेश्च । उपचारकल्पनायाश्च क्लिष्टत्वात् । प्रमाणाभावाच्च । नाव्यक्तादिशब्दानां परमात्मविषयत्वङ्गीकारे सर्वमानविरोधः ॥1॥
रूढिः (रूढो रूढयोगो महारूढो महायोगो महारूढयोगो - पा) योगः रूढियोगः महायोगो रूढी रूढियोगो महायोगो महारूढियोगो रूढोपचारो रूढलक्षणोपचारो लक्षणेति शब्दवृत्तिभेदात् रूढिपूर्वकत्वेन महायोगवृत्या परमेश्वरे अखलिशब्दव्युत्पत्युपपत्तिः ॥2॥
बहुरूपत्वादधिकरणाधेयत्वादिकं तस्यैव युज्यते ॥3॥
व्यक्त्यपेक्षया कार्यत्वं च ॥4॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः ॥