न्यायविवरणम्

change script to

रुद्रादीनां सकाशात् विष्ण्वादीामेवाप्तत्वम् । श्रुत्यनुसारित्वात् ॥1॥
न च श्रुतेः रुद्रादिस्मृतिसाम्यं किन्तु साक्षिप्रत्यक्षसाम्यमेव निरपेक्षत्वात् ॥2॥
न मृदादीनां वचनाद्यदृष्टिः श्रुत्यप्रामाण्यकारणम् । अपि तु वचनादिशक्ताया देवताया मृदादिशब्दवाच्यत्वद्योतिकैव ॥3॥
ईश्वरस्य स्रष्टृत्ववदसतोपि स्रष्टृत्वं श्रूयत इति नास्ति । सोसच्छब्दो ब्रह्मशब्दवदेव ब्रह्मवाचक इति श्रुतिसाम्यम् ॥4॥
"कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति' इति श्रुतिबलान्नैक्यम् । किन्तु भेदापादकमेवैतत् "निरञ्जनः परमं साम्यमुपैति' "परात् परं पुरुषमुपैति दिव्यम्' इति सन्निहितवाक्यबलात् । एकीभावशब्दस्तु सान्निध्येपि भवति । "एकीभूता तु सा सेना पाण्डवानभ्यवर्तत' इतिवत् ।यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ इति वाक्यान्तराच्च ॥5॥
न च लौकिकसर्वकार्यानुसारेणाकर्तृतन्त्रत्वं सर्वानुसारः । किं तर्हि तद्वैलक्षण्येन सर्वकर्तृवलिक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारि । "एष सर्वेश्वरः' इति श्रुतेः । युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवती ॥6॥
न चेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवम् । श्रुतिसिद्धत्वेनाकल्पनात् । अश्रुतजीवकर्तृत्वाङ्गीकारे गौरवमेव । तदभावात् सिद्धान्ते लघुता । "नान्यः कर्ता स हि स्वतन्त्रः परमात् परमो हरिः' इत्यादेश्च । अभेदपक्षस्तु निराकृतः । श्रुत्यनुभवविरोधाच्च ॥7॥
शब्दैकसमधिगम्यत्वसर्वशक्तित्वादीनां विशेषाणामदर्शनं जीवे । न जीवाद्विशेषादर्शनं परमेश्वरे । विशेषश्रुतेरेव ॥8॥
न च प्रयोजनाभावोकर्तृत्वे कारणम् । अशेषकर्तृत्वापादकश्च । फलापेक्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिः इतरस्य पूर्णत्वादेवानन्तशक्तित्वाच्च लीलयैव कर्तृत्वम् ॥9॥
नेशस्य पूर्णत्वासिद्धिः । कर्मसापेक्षत्वेनीशत्वमनपेक्षत्वे श्रुतेरप्रामाण्यमिति । कर्मणोपि तदधीनत्वम् । तथापि तदनुसारेण फलदानमित्यनङ्गीकार एवेष्टश्रुतिप्रामाण्यासिद्धिः ॥10॥
सर्वचेतना अपूर्णगुणा इति नियमो न । स्वतन्त्रस्य पूर्णगुणत्वनियमात् "अपूर्णोयं जीवसङ्घोस्वतन्त्रः पूर्णो हरिर्यः स्वतन्त्रः सदैव । न हि स्वतन्त्रोपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्रः कुतः सः ॥' इति श्रुतेः ॥11॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य प्रथमः पादः ॥
उक्तविरोधिनस्तत्तत्समयसिद्धाः पूर्वपक्षन्यायाः तद्विरोधिनोन्ये इति प्रसिद्धा एव ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य द्वितीयः पादः ॥
न च वियतः उत्पत्तिमत्वेनुभूतियुक्तिबहुवाग्विरोधोस्ति व्यवस्थायोगात् । अवकाशमात्रस्याव्याकृतात्मकत्वादनुत्पत्तिवचनानां तद्विषयत्वं उत्पत्तिवचनानामसितवर्णभूताकाशतदभिमानिशरीरविषयत्वं पराधीनविशेषत्वमात्रविषयत्वं चेति व्याख्या । आकाशो नीलिमोदेति न प्रदेशः कथञ्चन । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपि ॥ इति पैङ्गिश्रुतिः ॥1॥
ततोधिकमेतत्सर्वमनुभूत्यादिविरुद्धत्वं वायूत्पत्ताविति न वायोरेवानुत्पत्त्यनुपपत्तेः । पराधीनविशेषमात्रं ह्युत्पत्तिः । तदभाव उभयोः स्वातन्त्र्यं विरुद्धमेव । सर्वोत्तमत्वानुपपत्तेः । उभयोरपि पराधीनत्वप्राप्तेश्चान्योन्यानुरोधे अननुरोधे तु न सर्वैश्वर्यम् । ज्ञानाविस्मृत्या वायावपि व्यवस्थेत्यतिदेशः । अनुपपत्तिस्तु तत्प्रापिका । पराधीनविशेषवत्त्वमात्रं त्वाव्याकृताकाशस्य तदभिमानिप्रकृतेश्च सममेव ॥2॥
न च सतः पराधीनविशेषवत्वं स्वातन्त्र्यात् ॥3॥
न च विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्यम् । द्वारमनुसृत्यैव विष्णोः प्रवृत्तेः ॥4॥
न च तेजस एवापामुत्पत्यङ्गीकारे घर्मात् स्वेदादिदृष्ट्यनुसारित्वमिति गुणाधिक्यम् । मुख्यार्थपरित्यागप्राप्तेः ॥5॥ न चअद्भ्यो वान्नमुत्पद्यते इत्याद्युक्तप्रसिद्धान्नाख्यान्यार्थाविरोधेन प्रसिद्धान्ननामस्वीकारे बहुवाक्यानुवर्तितेति गुणः । अन्नशब्दस्य प्रयोगबाहुल्यात् पृथिव्यामपि शक्तिमत्वात् । अधिकारादीनां निरवकाशत्वाच्च । बहुवाक्यानुरोधोप्यत्रैवेति ॥6॥
न च रुद्रादीनां लयकारित्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेः लोकदृष्ट्यनुसारित्वमिति गुणः । लोकपितृवैरूप्यात् विष्णोर्यथावाक्यमङ्गीकारोपपत्तेः । अन्यथा "न विष्णोरन्यो वलियकृन्न विष्णोरन्यो विमुक्तिदः' इत्यादि श्रुतिविरोधात् । रुद्रस्य तु क्वचित् संहारद्वारत्वेनैव तद्वाक्यानां सावकाशत्वात् ॥7॥
न च लोकानुसारित्वम् । क्रमादुत्पद्यते क्रमात् विलीयते क्रमेणैवोत्पत्तिः वलियश्च क्रमेणैवास्योत्पत्तिवलियौ इत्यादि लोकानुसारिबहुश्रुत्यनुरोधश्च यथोत्पत्तलिये ।द्विविधः क्रम उद्दिष्टो व्यत्क्रमनुक्रमस्तथा । सुष्टावन्यो लये चान्य इति वेदविदो विदुः ॥
इति श्रुतेः क्रमवाक्यस्य सावकाशत्वात् वैरूप्यं बहुप्रकारत्वं क्रमस्य ॥8॥
न च केषाञ्चित् क्रमाल्लयः केषाञ्चित् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्ट्यनुसारादन्तरा विज्ञानमनसी व्युत्क्रमः । सर्वं वा एतत् क्रमादुत्पद्यते व्युत्क्रमाल्लीयते इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लयसङ्ग्रहात् तल्लिङ्गस्य तु चराचरव्यपाश्रयविज्ञानादिविषयत्वेवैव सावकाशत्वात् ॥9॥
न च चेतनत्वसाम्यात् विष्णोरपि देहलयः । "सर्वे वा एते चिदात्मानो ब्रह्मंल्लयमनुप्राप्य विष्णोरुदरे संविशन्ति' इति तस्योदरे सर्वसङ्ग्रहादिश्रुतिभ्यो नित्यत्वावगमात् तद्देहस्य । अश्रुतत्वाच्चान्यथा ॥10॥
न चानादित्वाज्जीवस्य पराधीनविशेषाप्राप्तिः । "इदं सर्वमसृजत' इति सर्वस्मिन् गृहीतत्वात् । पराधीनविशेषवत्वेप्यनादित्वस्याविरोधात् ॥11॥
न च सर्वदेहे स्पर्शज्ञानाद्रसादीनां च तत्र तत्र परिज्ञानाज्जीवस्यानणुत्वम् । उत्क्रान्तिगत्यादेः । आदिशब्देन सूक्ष्मतेजोरूपेण व्याप्त्या स्पर्शादिज्ञानोपपत्तिः । अतोणुत्वमनणुत्वं चेति भावः ॥12॥
न च जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यम् । ईशशक्त्यैव बहुरूपत्वादेः ॥13॥
न च श्रुत्या जीवेश्वरैक्यम् । सर्वमानविरोधात् । श्रुतेः सादृश्यैक्यवादिना सावकाशत्वात् । बहुमानविरोधे एकस्य दौर्बल्याच्च । धर्मिग्राहकविरोधाच्च ॥14॥
न चोत्पत्तिमत्वाद्विनाशित्वं जीवस्य । अनित्यत्वे तदभीष्टमोक्षाद्यसिद्धेः । न च पराधीनविशेषवत्वमात्रेण विनाशित्वम् । तादृशानामेव नित्यत्वश्रुतिविरोधात् ॥15॥
न च स्वगुणाननुभूतत्यनुपपत्तेः पूर्वं ज्ञानादीनां सामस्त्येनाभावः । पूर्वमव्यक्तानां पश्चात् सुव्यक्त्युपपत्तेः ॥16॥
न चेश्वरस्यैव कर्तृत्वे कल्पनालाघवम् । जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यात् । तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्च ॥17॥
न च नानाश्रुतेरप्रामाण्यम् । दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यकल्पनस्य विपरीतज्ञानमूलत्वात् ॥18॥
न च वैचित्र्यमनाभासत्वे कारणम् । जीवानां सामान्यतः आभासत्वेपि विशेषादृष्टात् वैचित्र्योपपत्तेः ॥19॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य तृतीयः पादः ॥
न च प्राणानामुत्पत्यङ्गीकारे "प्राणा एवानादयः' इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः । "आत्मैवेदमग्र आसीत् स प्राणमसृजत स प्राणान्' इत्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधात् । "इदं सर्वमसृजत' इति सामान्यवचनस्याधिक्यं सिद्धान्ते । विशेषमात्रश्रुतेः सावकाशाया उभयश्रुतेः प्राबल्यात् ॥1॥
न च "नित्यं मनोनादित्वात्' इति विशेषश्रुतिविरोधः । "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति विशेषश्रुतेः ॥2॥
न च "वाग्वाव नित्या' इति विशेषश्रुतिविरोधः "मनसो वाव वागुत्पद्यते वाचो व्याहरणम्' इति विशेषश्रुतेः ॥3॥
न च "दशेमे पुरुषे प्राणाः आत्मैकादशः' "सप्त प्राणाः प्रभवन्ति तस्मात्' इति सङ्ख्याविशेषश्रुत्योरेव परस्परविरोधः । "गुहायां निहिताः सप्त सप्त' इति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वात् सङ्ख्याश्रुत्योः विषयवैलक्षण्यात् ॥4॥
न च "दिवीव चक्षुराततम्' इति व्याप्त्याख्यविशेषवाचकश्रुतिविरोधः । "अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्याततः' इति ततोप्यणुत्ववाचकविशेषश्रुतिविरोधात् ॥5॥
न च यत्प्रीतिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥ इत्यादिमाहात्म्यवचनात् मुख्यप्राणस्य नोत्पत्तिरिति वाच्यम् । महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट् । किं नाम न सृजेदेष येन शक्येदमावृतम् ॥ इति श्रुतेस्ततोपि माहात्म्याद् विष्णोः ॥6॥
न च प्राणादिपञ्चस्य व्यक्तसद्गुणत्वान् मुख्यप्राणवृत्तित्वमेव । अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्येपि प्राणाद्याः सद्गुणैर्युताः ॥7॥
इति श्रुतेः मुख्यप्राणस्य ततोपि व्यक्तसद्गुणत्वात् ॥8॥
न चाणुत्वे प्राणस्य "महान् वै मुख्यप्राणो येन व्याप्तं चराचरम्' इति दृष्टायुक्तिः । "अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिः' इति दृष्टायुक्तेरनणुत्वे प्राणस्य ॥9॥
न चेन्द्रियाणां जीवाकरणत्वे दृष्टायुक्तिः । क्वचिदतद्वशत्वस्यापि दृष्टत्वात् । "यच्चक्षुषि तिष्ठन्' इत्यादिदृष्टात्युक्तेरीशाधीनत्वानङ्गीकारे । लौकिकदृष्टेस्त्वीशेनैव जीवानुसारित्वक्लृप्त्योपपत्तेः ॥10॥
न चेशवशत्वसाम्यात् मुख्यप्राणस्याप्यन्यसाम्यम् "यस्मिन्निदं सर्वमध्याधर्नोत्' "प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्' इत्यादि श्रुतेरीशसाम्यस्यापि भावात् । "प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः' इति श्रुतेर्मध्यमत्वोपपत्तेः ॥11॥
न च विरिञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टा ।त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥ अतो रूपस्य नाम्नश्च व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पितातो भगवान् प्रभुः ॥ इत्यादेस्तस्यैव कर्तृत्वशक्तेर्विरिञ्चस्य तु द्वारतयोपपत्तेः ॥12॥
न च मिश्रत्वाद् भूतानां मिश्रतायामविशेषः । "अन्नमशितं त्रेधा विधीयते' इत्यादिना मिश्रतायामपि विशेषोक्तेः ।सर्वं च भौतिकं मिश्रं मिश्रत्वेपि विशेषतः । भौमं मांसमसृग्वारि तेजो मज्जा विशेषतः ॥ इत्यादेश्च ॥13॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य चतुर्थः पादः ॥