न्यायविवरणम्

change script to

"भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्' इति वचनात् स्वाभाविकमरणमेव मुक्तिरिति न मन्तव्यम् । मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशात् मरणे भूतवियोगस्यैवाभावात् । "भूतयुक्तः परं लोकमिमं लोकं च गच्छति' इत्यादिवचनात् ॥1॥
"इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्यत्र भूतानीति सामान्यनामानुक्त्वापामिति विशेषनामकथनादपामेव सहगतिरिति न वाच्यम् । त्र्यात्मकत्वादपामर्थतः सर्वभूतानां गतिप्राप्तेः ॥2॥
न च भूतानि गच्छन्तीति सहैवानुक्तेस्तदभावः । प्राणगतेरुपपत्तित उक्तत्वात् ॥3॥
न च "अग्निं वागप्येति' इत्याद्यन्यथोक्तेः प्राणानां च न सहगतिः द्विरूपत्वात् प्राणानाम् ॥4॥
न च "प्रथमतो भूतानि जुह्वति' इति विशेषानुक्तेः भूतानामसहगतिः "भूतानि जुह्वति' इत्युपक्रमादपि "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्युपसंहारस्याधिक्यात् तदनुसारेणोपक्रमोक्तश्रद्धाशब्दस्यापि ता एवार्थ इत्यापत्तेः । उपक्रमविरोधेनोपसंहारानुपपत्तेः । उपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकर्तव्यम् । व्याख्यानस्य पश्चात्तनत्वनियमात् । उपक्रमानुसारित्वनियमेप्युपसंहारस्योपसंहारेणैवोपक्रमार्थो ज्ञायते ॥5॥
न च विशेषाश्रवणनियम एव बलवान् । स्थानान्तरश्रवणस्याप्येतदनुरूपत्वात् । आर्थिकश्रवणमप्यनुक्तिं बाधत एव । किमु स्थानान्तरगतं स्पष्टश्रवणमिति कैमुत्यार्थमेव नेष्टादिकारिणां प्रतीतेरिति परिहारान्तरमुक्तम् ॥6॥
न च "अपाम सोमममृता अभूम' इति विशेषत एव मोक्षफलस्याप्युक्तेः कर्मैव तत्साधनमिति मन्तव्यम् । "नान्यः पन्थाः अयनाय विद्यते' "स च आत्मानामेव लोकमुपास्ते । यावदिन्द्रो यावन्मनुर्यावदादित्यः' इत्यादिश्रुतिबलादमृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेः ॥7॥
न चानुशयस्यापि सहभावात् स्वर्ग एव फलदत्वम् । भुक्तशेषानुशयवान् इत्यादिवचनाद्यथायोग्यमेव फलदानोपपत्तेः ॥8॥
न च मार्गस्यापि सहभावाद्यथागतमेवागमनमिति नियमः । वचनबलाद्यथायोग्यमेवागमनोपपत्तेः ॥9॥
न च "इष्टापूर्ते दत्तमित्युपासते' इत्युपशब्देनेष्टादिभिराचारस्य सहपाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमात् वदन्तीति वाच्यम् । "नान्यः पन्थाः' इत्यादिवचनादेवोभयोरपि चरणशब्देनैवोक्तेर्योग्यत्वात् ॥10॥
न च भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसारः । अनिष्टकादिकारिणां तदभावान्मुक्तिरिति वाच्यम् । तेषां प्रबलदोषश्रुतेः ॥11॥
न च नरकभोगस्यानित्यत्वकथनान्नित्यनरकोक्तिः विरुद्धा ।रौरवोथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥ तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ॥ इति विभागात् ॥12॥
न च सहस्थानादीशस्यापि नरकदुःखप्राप्तिः । स्वातन्त्र्यात् कारणाभावात् ॥13॥
न च साधनेन सह श्रुतेस्तद्वत् फलेपि जीवस्य स्वातन्त्र्यम् । अविहितत्वेन कारणाभावात् । अथैतयोः पथोः इत्यस्य च साधनार्थत्वात् ॥14॥
न च दुःखसहस्थायित्वादन्धेतमस्यपि सुखम् । ईशस्याप्रियत्वेनैव कारणाभावात् ॥15॥
न च धूमादिदेवतासहावस्थानात् कर्मिणोपि तत्पदप्राप्तिः । तन्निमित्तविद्याख्यकारणाभावात् ॥16॥
न च तैस्तैः सहावस्थानादतिचिरत्वम् । "वत्सरात् पूर्वमेवतु' इति क्लृप्तकालादधिकावस्थाने कारणाभावात् ॥17॥
न च व्रीह्यादिजीवैः सहावस्थानात् दुःखप्राप्तिः । शब्दविहितत्वेन पापाख्यकारणाभावात् ॥18॥
ईशक्लृत्प्यैव पितरं प्रविश्यायाति न च वैयर्थ्य पितृशरीरगमने मातरम् इतीशक्लृप्तत्ववचनात् ॥19॥
न च पितुः सकाशादन्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेर्योनिप्रवेशाभाव इति वाच्यम् । "योनिद्वारेण देहं च प्राप्नोति प्रायशो नरः' इति वचनात् सामान्यतो गत्यन्तराभावात् । विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नृणां सामान्यहेतुतः ॥ इति वचनाच्च ॥20॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य प्रथमः पादः ॥
पश्चाददृष्टेः स्वप्नविषयस्यासत्त्वं न वाच्यम् । अशक्यकरणशक्तिमत्त्वादीश्वरस्य संस्कारेण सृष्ट्वा पुनः संस्कारमात्रतामापाद्य तस्यापि तिरोधानोपपत्तेः। जाग्रत्वप्रतीतिमात्रस्य भ्रमत्वात् ॥1॥
न चाविज्ञानमात्रेण स्वप्नप्रतीत्या ज्ञानशक्त्यैव स्वप्नतिरोधानं नेशेनेति वाच्यम् । बोधे जीवस्यास्वातन्त्र्यात् । ज्ञानाज्ञानयोस्तदन्यत्वे जडत्वात् कैमुत्येनास्वातन्त्र्यात् । तत्स्वरूपत्वे तेनैव व्याख्यातत्वात् । उभयात्मकत्वे दोषद्वयापातात् । अनुभयत्वस्य व्याहतेः । तावन्मात्रनिमित्तत्वे मानाभावात् । सर्वस्येशहेतुत्वे मानाच्च ॥2॥
न च कालापेक्षयैव जागरितम् । अचेतनत्वादेव कालस्य । चेतनान्तरस्याप्यस्वातन्त्र्यात् ॥3॥
न च परमात्मनोन्यत्राभावस्थाने दुःखित्वप्राप्तेर्नाडीषु सुप्तिर्न भवति उभयस्वीकारोपपत्तौ मानस्य क्लृप्तकारणमित्यनवस्थितिदोषादतिप्रसङ्गात् ॥4॥
न च प्रबोधस्य पृथगपि कारणदृष्टेः क्वचित् तदेव । न ऋते त्वत्क्रियते इति श्रुतेस्तत्रापि ईशकृतत्वे सम्यङ्मानात् ॥5॥
न च राजादीनां पृथग्दर्शनादीशान्तरकल्पना । देशकालविशेषेपि स्वप्नादीनां स एव हि । तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत् ॥ इति श्रुतिमानात् ॥ 6॥
न च मोहे ब्रह्मप्राप्तिरेव पृथगवस्थात्वादिति वाच्यम् । परिशेषमानादर्धप्राप्तित्वावगमात् ॥7॥
न च स्थानभेदाद्विष्णोरपि भेदः । अयमेव सः । नेह नानास्ति किञ्चन इत्यादि श्रुतिबलात् स्थानानां भेदस्तस्याभेद इति व्यवस्थोपपत्तेः ॥8॥
न च रूपवत्त्वारूपवत्त्ववचनयोः विरोधादप्रामाण्यम् । अप्राकृतरूपवत्त्वमिति व्यवस्थोपपत्तेः ॥9॥
न च परमात्मना चेतनत्वन्यायसाम्येन जीवस्याप्यभेदः । अल्पगुणत्वादिविरोधात् ॥10॥
न च सादृश्यस्य सत्त्वात् साधनं विनैव जीवस्य तादृक्त्वव्यक्तिः । अनादितः संसारस्यानिवृत्तत्वेन भावात् ॥11॥
न च मुक्तत्वादिगुणसाम्यात् ब्रह्मादीनां भक्त्यादिगुणसाम्यम् । यथा यथाधिकारो विशिष्यते एवं ज्ञानं भक्तिर्बलं च विशिष्यते । मुक्तावानन्द एते च गुणा विशिष्यन्ते अत आहुब्रह्मणे मुक्ता बलिं हरन्ति इत्यादिविशेषदृष्टेः ॥12॥
न च संहारकर्तुरसंहारादन्यरक्षाया अयोगः । स सृजति स पालयति स विनाशयति इत्यादि विशेषवाक्यात् । अन्नदानाद्युपपत्तेश्च ॥13॥
न चाव्यक्तस्वभावस्य दर्शने तर्कबाधः । अनन्तशक्तित्वात् विष्णोस्तच्छक्त्या अव्यक्तस्यापि दर्शनोपपत्तेः ॥14॥
न च गुणानां गुणिस्वरूपत्वं विरुद्धम् । कालादिदृष्टान्तात् ॥15॥
न च ब्रह्मानन्दादीनामन्यथात्वात् अतच्छब्दत्वं तच्छब्दत्वे लोकोपमत्वं चेति विलोमता । अलौकिकास्तस्य शब्दास्तथार्था अलौकिको ह्येष विष्णुः परत्वात् । तथापि शब्दा लौकिका अप्यमुष्मिन् प्रवर्तमाना अधिकार्थान् वदन्ति ॥ इत्यादि श्रुतिभ्योलौकिकत्वावगमात् ॥16॥
न च ब्रह्माद्यानन्दवैचित्र्ये बिम्बभूतविष्ण्वानन्दवैचित्र्यम् । आदित्यादिवदाधिक्यात् । न हि सूर्यकान्तप्रतिबिम्बस्याग्निजनकत्वशक्तिर्न जलगतस्येत्येतावता सूर्यवैचित्र्यात् । आधिक्यं हि तत्र निमित्तम् । सूर्यचन्द्रादिप्रतिबिम्बं विनान्यत्र तथा विशेषादृष्टेः ॥ 17॥
न च नानाभावात् विष्णोश्चित्तप्रतिबिम्बरूपता । आधिक्यादेव । प्रतिबिम्बे हि दोषाश्च प्रतीयन्ते । अतो हि श्रुतिः प्रतिषेधति नेदं यदिदमुपासते इति ॥ 18॥
न च नानावतारकौतुकदर्शनात् विष्णोः क्वचिद्देशकालान्तरे कौतुकादेव सृष्ट्यादिकमकुर्वन् अन्यमेव सामस्त्येन नियोजयति । सर्वत्र सर्वमेतस्मात् इति क्रीडायामपि स्वातन्त्र्यात् । स्वातन्त्र्यात् क्रीडते विष्णुर्न च स्वातन्त्र्यमन्यगम् । करोति क्वपि नियता क्रीडा सृष्ट्यादिगास्य च ॥ नियतक्रीडनादेव कर्ता नान्योस्ति कस्यचित् । अस्वतन्त्रो हि चलति चलचित्तादशक्तितः ॥ स्वतन्त्रः पूर्णशक्तिः सन् कुतोसौ नियतिं त्यजेत् ॥ इति श्रुतेश्च ॥19॥
न च कर्मान्वयव्यतिरेकात् फलस्येश्वरः फलदातेति प्रलोभमात्रम् । तस्यैव स्वातन्त्र्यात् । कर्माण्यनन्तानि यथेष्टमीशः सम्पाद्य तेषां फलमिच्छयैव । क्वचिद्ददाति क्व च नो ददाति न ह्यानन्त्यात् कर्मणां भोगनाशः ॥ स्वातन्त्र्यं चेत् कर्मणां सर्वभोगः स्यान्न ह्येवं क्वापि तत् केनचित् स्यात् । अतोपि स स्वेच्छया किञ्चिदेव फलं कुर्यात् विफलं प्रायशश्च ॥ क्वचिज्ज्ञानं जनयन् भस्म कुर्यात् स्वेच्छावृत्तिस्तस्य विष्णोः सदैव ॥ इति ब्रह्माण्डे । स्वतन्त्रः ईश एवैकस्तद्वशं कर्म सर्वदा । अत ईशत्वमीशस्य न हीशोन्यः कथञ्चन ॥ इति श्रुतिः ॥ अतो प्रलोभकल्पने श्रुतहानिरश्रुतकल्पना चेति हरिरेव फलप्रदः ॥20॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य द्वितीयः पादः ॥
न च प्रतिशाखमुच्यमानानामर्थानां पृथकत्वात् तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियमः । "नानावेदैरितिहासैः पुराणैः सुज्ञेय एको भगवान् युक्तिभिश्च' इति श्रुतेः सुष्टु ज्ञेयत्वात् विष्णोः ॥1॥
न चाशक्यतया कस्यापि सर्वगुणोपसंहारो नास्ति । "सर्वे गुणाः सर्वदैव ह्युपास्यास्तेनैव विद्वान् विधिकृन्नान्यथा स्यात्' इति श्रुतेर्विहितक्रियालोपप्रसङ्गात् ॥2॥
केषाञ्चित् सर्वगुणोपसंहारस्य कर्तव्यत्वे सर्वेषामपि तथा स्यात् अनेन नोपसंहर्तव्या अनेनोपसंहर्तव्या इत्यनिर्णीतेरिति न मन्तव्यम् । यस्य यावद्गुणाः स्पष्टं प्रतिभासन्त्युपासते । युगपत् स्वभुजौ यद्वद् ध्यायेत् तावत एव सः ॥ युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः । तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः ॥ इति श्रुतेर्युगपद्गुणप्रतीत्यादिमाहात्म्यान्निर्णयोपपत्तेः ॥3॥
न च फलानिर्णीतिः । माहात्म्येनैवान्यत् फलं महतामिति निर्णयोपपत्तेः ॥4॥
आनन्दादीनां केषाञ्चित् समुच्चये प्राप्ते सर्वगुणसमुच्चयः सर्वेषां स्यादिति न मन्तव्यम् । अल्पशक्तित्वात् तेषां पुंसाम् ॥5॥
प्रियशिरस्त्वादीनामानन्दादिविशेषत्वेनैव दर्शनात् तेषामपि सर्वोपसंहार्यत्वमिति न मन्तव्यम् ।यथायोग्यान् गुणपूगानुपास्य फलं भवेन्मुक्तिगं नान्यथा स्यात् । नित्यैकाग्र्यव्यङ्ग्यताहेतुतश्च साक्षाद्दृशिर्नो तद्विशेषैः स्मृतैश्च ॥ इति श्रुतेः स्वयोग्यगुणैरेव फलभावात् ॥6॥
तर्हि ब्रह्मणोन्येषां देवादीनामपि बहुगुणोपासनया कार्यं नास्ति मध्ये नियमासिद्धेरिति न मन्तव्यम् । तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेः । यो यो भावो देवतानां विमुक्तौ तत्तत् प्राप्तौ सुगुणानीशितुश्च । ब्रह्मा दिशत्यथ तांस्ते विचिन्त्य तत्तद्भावं प्राप्नुवन्त्यात्मशक्त्या ॥ इति श्रुतेः ॥7॥
न च नानास्थानेषूक्तगुणानामनुपासनार्थता । विप्रकीर्णगुणान् पिण्डीकृत्योपासितुस्तत्सदृशफलप्राप्तेस्तथा ध्यानार्थमेव गुणानामुक्तिरित्युपपत्तिः ॥8॥
न चाश्वापरोक्ष्यायानन्दादीनामपि लोपेनात्मेत्येतावता पूर्यते । आत्मशब्दार्थविशेषत्वादानन्दादीनाम् ॥9॥
न चात्मशब्दो विभ्रमकरः । गुणाधिकानामधिकारिणां भगवद्गुणानधिकान् प्रकाशयतीत्यवधारणोपपत्तेः ॥10॥
अलौकिकगुणानामप्रतीतेर्लौकिकगुणाध्याने तदपाकृतिरेव भवतीति न मन्तव्यम् । लौकिकवलिक्षणा अत्युत्तमा इति ध्यानस्यैव प्राधान्यात् ॥11॥
ब्रह्मणो ब्रह्माण्याश्च स्थानैक्यं गुणतारतम्यं च यथागुणोपासनं मुक्तावाधिक्यं न भवतीत्यत्र लिङ्गम् । समविषमोपासनायुक्तेरिति न मन्तव्यम् । यथाशक्ति स्मृतान् धात्रा गुणान् विष्णोः सरस्वती । स्मरेत् त्रैविक्रमाद्यांस्तु नित्यविक्रान्तिपूर्वकैः ॥ कदाचिल्लोपेयेद्देवी स्थानैक्यं न गुणैस्ततः । साम्यं तयोर्यथाविष्णोर्गुणोपासा फलं भवेत् ॥ इत्यध्यात्मवचनाद्यथाशक्ति क्रिया देव्याः ॥12॥
न चात्मशब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्त इति व्यवस्थित्यभावः । यस्य यावन्तोर्था युगपद् ध्यातुं शक्यन्ते तस्य तावन्त इति सन्धेः ॥13॥
न च मुमुक्षव इत्यविशेषाद् भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्तौ अपि सामान्ये । सत्यो ज्ञानं परमानन्दरूपं आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते ॥ गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते । न व्याप्तिर्जगदस्मृत्या नानाशक्तिर्यतो मता ॥ देवानां युगपदज्ज्ञानं मानुषाणां तथा न तु । पर्यायेणापि सत्याः स्युर्नैवान्यथा कथञ्चन ॥ इत्यादिप्रमाणबलात् ॥14॥
क्वचिद् बहुगुणाः क्वचिदल्पगुणाः श्रुतिष्वेवोच्यन्ते इत्युपसंहारस्याप्रयोजनतेति न वाच्यम् । गुणा सर्वे ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः । इति श्रुतेः । सर्वगुणोपासकस्याप्यधिकारिणो भावादेकत्रापृथक्सर्वगुणानुक्तेः बलादुपसंहारानतेः ॥15॥
न च मुक्तावुपासनभावे फलादिकमपि स्यादित्यतिप्रसङ्गः । उपासनायाः संस्काराख्यकारणस्य सत्त्वात् । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते इत्यवृद्धिप्रमाणभावाच्च ॥16॥
न च कर्मकरणशक्तेरप्यदूरत्वात् तत्संश्रयनियमः । उपासनाख्यकार्ये नित्यकृतिसंस्कारो न तथा कर्मणीति कार्यवैशेष्यात् ॥17॥
न चायोग्यताख्यविशिष्टकारणाज्ज्ञानिष्वपि केषाञ्चिन्मोक्षो न भवतीति नियमः । ज्ञानिनां मोक्षं ददात्येवेश्वरः स्वभावात् । अयोग्यानां ज्ञानस्यैवानुपपत्तेः ॥18॥
न च प्रयत्नानुसारिणो मुक्तावाधिकारिका आनन्दादयः । अधिकारानुसारित्वात् प्रयत्नस्य । कथञ्चिदधिकयत्ने तत्साधनादिवस्तूनां दूषणप्राप्तेः । स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित् समापतेत् ॥ इति वचनाच्च ॥19॥
न चैकस्मादेको विशिष्टो दृष्ट एवेति प्राणाद् विशिष्टजीवाभावे दृष्टवैरूप्यमिति दोषः ।यः सर्वमवजानीयादृते देवं नारायणं देवीं च परमां श्रियम् । स प्राणानवरुद्ध्येमं मन्त्रमावर्तयीत । आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥ इति । "स ह्येषां भूतानां वरिष्ठो न ह्येतस्मात् कश्चनोपरि विना देवं नारायणं देवीं च परमां श्रियम्' इति प्रतिक्रियाविधानादिविरोधात् ॥20॥
"अस्ति भगवः प्राणाद्भूय' इति प्रश्नाद्यभावात् प्राणस्यैवोन्नतिप्रतीतेर्न विष्णोरपि ततः परत्वमिति न मन्तव्यम् । एष तु वा अतिवदति इति विशेषणात् प्रश्नप्रतिवचनप्रतिसन्धानोपपत्तेः ॥21॥
न च सत्यादीनाभेदानुक्तेरन्यत्वम् । "सत्यं पूर्णं विज्ञानं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा मति पूर्णा सुखं पूर्णं भूमा पूर्णोहं पूर्ण आत्मा पूर्णो नात्र किञ्चिदूनं पूर्णमेवाधस्तात् पूर्णमुपरिष्ठात् पूर्णं मध्यतः पूर्णं सर्वतः । तदेष श्लोको भवति । पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥' इति श्रुतेः सर्वेषामनूनत्वात् । "सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते ॥' इति वचनाच्च ॥22॥
न च श्रियोप्रयत्नत्वादनुपासनं संसारो वा । नित्यं भगवदुपस्थितेरतिप्रियत्वात् संस्कारपाटवान्नित्योपासोपपत्तेश्च ॥23॥
न च बन्धदाढ्ये श्रवणादीनामफलता । अन्यथोपासां विनैव श्रवणादिज्ञानमात्रेण मुक्तिरिति दोषः । श्रवणादित्रयोत्पन्नदृष्ट्यैव स्वेच्छया हरिः । प्रसन्नो मुक्तिदो नित्यमन्यथा न कथञ्चन ॥ इतीश्वरेच्छानियतिश्रुतेः ॥24॥
न च गुर्वधीनत्वे ज्ञानमोक्षयोर्ज्ञानिनोपि कदाचित् गुरुकोपाज्ज्ञानपराभावेनामुक्तिप्रसङ्गान्न गुर्वधीनत्वमिति । ज्ञानिनो गुरुशापेपि नामुक्तिः संसृतेः क्वचित् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति ॥ इति वचनान्मुक्तिदूषणेनैव गुरुशापादेः कृतार्थत्वात् । ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादिति गुरोर्वरेण वा मुक्त्युपपत्तेः ॥25॥
शिष्यस्यापि पुरुषत्वसाम्यात् धारणादेस्तत्प्रयत्नस्य न दौर्बल्यमिति न मन्तव्यम् । "गुरुप्रसादो बलवान्' इत्यादिविशेषोक्तेः ॥26॥
न चोत्तमगुरुस्वीकारार्थत्वेन प्राप्तसन्त्यागनिमित्तदोषः । तत्र दोषे मानाभावात् ॥27॥
न च विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णयः । "नान्यः पन्था अयनाय विद्यते' इत्यवधारणात् विद्यावचनस्य प्राधान्यात् ॥28॥
न च विद्यावचनस्य प्राधान्यं भ्रमः । "प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः' इति भगवतस्तस्मिन्नेवाधिकप्रीतिवचनात् । "यमेवैष वृणुते तेन लभ्यः' इति तत्प्रीतेरेव मोक्षवचनाच्च ॥29॥
न च कस्यचिद्विशेषज्ञानोपपत्तेर्भक्त्यादिकं विना मुक्तिः । "भक्त्यैवैनं जानाति भक्त्यैवैनं पश्यति भक्त्यैव बन्धात् विमुच्यते भक्त्यैवानन्दीभवति' "यमेवैष वृणुते तेन लभ्यः' "भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिः' इत्याद्यागमात् ॥30॥
न च "दृष्ट्वैव तं मुच्यते नापरेण' "यावान् यश्चास्मि तत्त्वतः' "ततो मां तत्त्वतो ज्ञात्वा' इत्यादि सामान्यालापमात्रेण दर्शनस्याविशेषः । "यथायोग्यमेवैष आत्मानं दर्शयति यथाधिकारं देवेभ्योतो ब्रह्मैवैनमभिपश्यत्यथात्मैवात्मानं अभिपश्यति सुस्थिरो ह्येष नियमः' इति दर्शनविशेषनियमस्य सुस्थिरत्ववचनात् । यावान्यश्चास्मीति ब्रह्मण एव ज्ञानोपपत्तेः । "यावान्' इत्यत्रापि सामान्यविशेषज्ञानोपपत्तेश्च ॥31॥
न च भगवतः सर्वत्र गुणसाम्याद्यस्य कस्यापि रूपस्य दर्शनात् सर्वेषां मुक्तिः । "समोपि भगवान् स्वबिम्बदर्शन एवैनं मोचयति । यथा समेष्वपि कर्मसु स्वकृतमेवैनं भोजयति ॥' इति श्रुत्युक्तस्वकृतप्राप्तिदृष्टान्तात् ॥32॥
भक्तिरेवैनमिति भक्तेरेव पृथङ्मोचकत्वदर्शनान्नेशकृत्यमिति न मन्तव्यम् । अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् । जीवं तद्गुणसुव्यक्तिं कृत्वैनं मोचयेद्धरिः ॥ कञ्चिन्न मोचयेद्वासौ स्वातन्त्र्यं तस्य तेन हि । भक्तिवाक्करणत्वेन सावकाशेशवागथ ॥ भक्त्यैनं मोचयेद् विष्णुरिति मानत्वमेष्यति ॥ इति ब्रह्मतर्कवचनादनादिगुणविस्तरे सत्यप्यव्यक्त्यादिना तदिच्छां विना मोक्षाप्राप्तेः ॥33॥
न चांशिमार्गस्यांशेनागम्यत्वात् तयोर्भेदः । साधनोत्तमस्यादृष्टस्यांशिकृतस्यांशेन भुज्यमानत्वात् । अन्यथादृष्टं विना शरीराद्यनुपपत्तेः ॥34॥
न च गुणान्तरसन्धानस्य क्वचित् दर्शनमात्रेण समाधिकाङ्गदेवतान्तरगुणा अप्यङ्गदेवतान्तर उपसंहर्तव्याः । नानागुणत्वेन तेषां श्रुतिषुदृष्टेः । अनिषिद्धगुणानां वाक्यान्वयन्यायेनोपसंहारान्न शाखास्वित्यादिविशेषः । उत्तमेष्वधमगुणापेक्षया मन्त्रादिवद्वेति ॥35॥
न च भूमगुणस्योपासकं प्रति विशेषाभावेपि तत्तदिष्टगुणानुसारेण फलोपपत्तिरित्यविशेषः । "भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते' इत्यादिशिष्टेः ॥36॥
न च भूमगुण उपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यम् । विशेषस्य कल्पनोपपत्तेरिति न मन्तव्यम् । "यावानेवाधिकारेषु विशेषोनून एव हि । ततो भूमत्वदृष्टौ च ब्रह्मादीनां पृथक् पृथक् ॥' इति विशेषस्यानूनत्ववचनात् ॥37॥
न च शुद्धमोक्षसाधनवैरूप्यान्मोक्षसाधनत्वेनोपदिष्टं विना विष्णोरेवेवोपासनान्तरस्याकर्तव्यता । अविघ्नतासाधनत्वात् ॥38॥
न च काम्यसाधनानामपि गुणानामङ्गत्वादेवोपसंहर्तव्यतानियमः । अनुपसंहारे विरोधाभावात् । काम्यानामनियताङ्गत्वाच्च । "अर्थादिधर्मसिद्धौ हि न नियत्याङ्गमिष्यते' इति ब्रह्मतर्के ॥39॥
न च देवादीनामिति तत्रैव विशेषवचनाभावात् ब्रह्मा शिरसि ललाटे रुद्र इत्यादीनां नावश्योपास्यता ।"देवादीनामेव ध्यायेदङ्गदेवताः परस्य विशिष्टा हि गुणा मुक्तौ देवानां भवन्ति ते हि तादृशास्ते हि हरेरनुरूपाः' इति श्रुतेर्गुणवैशेष्यात् ॥40॥
न च क्रियात्वादुपासनाया अग्निष्टोमादिवत् प्रतिशाखं वक्तव्यता । उपासना यजनं चेति साम्यं तत्तद्विशेषान् संहरेत् सर्वतश्च । तथाकर्तॄणां तत्फलानां विशेषाद् व्यर्था हि शाखा अन्यथैवं च सार्थाः ॥ इत्युपासनाविशेषाणामधिकारिविशेषाणां चागमेवगमात् ॥41॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य तृतीयः पादः ॥
न च ज्ञानिन औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवात् तदुक्तिः प्रशंसामात्रमिति वाच्यम् । प्रायशो न सम्भवत्येव । कस्यचित् सौभरिवत् सा भवति चेज्ज्ञानेनैवाशेषमभीप्सितं भवतीति व्यवस्थोपपत्तेः ॥1॥
न चाधिकारे समेपि तेषामेवोच्चावचशक्तियोगात् फलभेदोपपत्तेरधिकारविशेषकल्पनं व्यर्थम् । भक्त्याद्यधिकारतारतम्येन शास्त्रात् फलप्राप्तेः सर्वेषामविशेषम् । दृश्यमानत्वाच्च भक्त्याद्यधिकारतारतम्यस्य । उच्चवचशक्तेरपि तन्निबन्धनत्वात् ॥2॥
न च ज्ञानिनामात्मस्वरूपदार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्योरविशेषः । एतावतोधिका नास्ति प्राप्तिरित्यन्ततः स्थिता । या स्थितिस्तां समाप्नोति यथाशक्ति प्रयत्नतः ॥
विपरीतप्रवृत्तेस्तु तस्य ह्रासोधिकं भवेत् ॥ इति वचनात् स्थितिविशेषोपपत्तेः ॥4-5॥
न च सर्वजीवानामेकप्रकार एव निजस्वभावश्चैतन्यमिति फलेप्यविशेषः । निषेधसामान्यविधिक्रियाणां विभक्तत्वात् । "नादेवो देवपदमन्विच्छेदन्विच्छन् यात्यधरं तमः । न देवः स्वीयं पदमन्विच्छन् विदुष्यति । तदेव ह्यस्य स्वम्' इति निषेधविभागः । "स्थिरं ज्ञानं स्थिरो हरावभिषङ्गः स्थिरमोजो बलं विराग एतद्धि सामान्यं देवानाम् । अथान्येषामस्थिराण्येवेतानि सर्वाण्यथापि यथायोगं विनेयानि' इति सामान्यविभागः । "ज्ञानदानमेव देवानां विहितं तप एवर्षीणामाचार एव मनुष्याणां तदविरोधेनान्यानि करणीयानि' इति विधिविभागः । चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याः इति क्रियाविभागः ॥6॥
न च स्वातन्त्र्याद् देवानामेव ज्ञानादिफलं, न चकिञ्चिदन्येषामिति वाच्यम् । त्वरयैव मनुष्याणां सिद्धिरत्वरयैव तु । देवानां तत्प्रसादेन मुक्त्या एव सतां नृणाम् ॥ इति मानुषमुक्त्यर्थमेव देवानामत्वरया सिद्धिश्रुतेः ॥7॥
न च गृहस्थानामशेषकर्मविशेषयोग्यत्वादाधिक्यं मुक्तौ । त्वरयैव गृहिणः साधयन्ति मुक्तिमत्वरयैव यतयस्तेभ्यश्चात्वरया देवास्तेषु च ब्रह्मा । तदेष श्लोकः ।शतं परानभिपश्यैव देवं ब्रह्माचरद्दुश्चरं यत्तपोग्र्यम् । विहाय रागं मनसश्चोपरिष्ठः ततोभवत् परमेष्ठी स मुक्तौ ॥ इति । यो हि त्वरया साधयेत् स मन्दं सुखमाप्नुयात् । यो ह्यत्वरया स महत् ॥ इति श्रुतेर्गृहिस्थो यतीनां तेभ्यो देवानामत्वरया सिद्धेः । बहुकालसाधनात् बहुकर्माधिकारमात्रस्य दुर्बलत्वात् ॥8॥
न चाविष्कारेण कथनादशेषतोपि योग्या ज्ञानिनो भवन्तीत्यास्थानचत्वरादिषु स्थित्वैव प्रकथनीयम् । न ह्येवं त्वरमाणे सिद्धिभर्वति । अयोग्यानामपि ग्रहणप्रसङ्गात् । तस्मात् विचार्य योग्यानामेवात्वरयैव कथयित्वा सिद्धिर्भवति । "त्यक्त्वा त्वरां ब्रह्मविद्यां वदेत जनाय योग्याय सदैव विद्वान्' इति श्रुतेः "मा न स्तेनेभ्यः' इत्यादेश्च ॥9॥
न च विरोधाभावात् साधनानुष्ठानजन्मन्येवापरोक्षज्ञानं मुक्तिश्चेति नियमः । प्रतिबन्धे सति तन्निरासेनात्वरयैव सिद्ध्युपपत्तेः । "यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य' इत्यादिश्रुतेः । "अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति भगवद्वचनम् ॥10-11॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य चतुर्थः पादः ॥