न्यायविवरणम्

change script to

न च श्रवणाद्यनवृत्त्यापरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुणः । महाफलत्वात् सर्वेषामशक्यताया एवोपपन्नत्वात् । अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षापत्तेः ॥1॥
न च शश्वदतिप्रसिद्धत्वात् आत्मशब्दोदितं स्वामित्वं न नित्यशः उपास्यम् । अन्येभ्योधिकफलत्वेन सविशेषत्वादात्मत्वस्य ॥2॥
तर्हि विशेषवत्वादेव प्रतीकमपीश्वर इत्युपास्यमिति नास्ति । यत्र सन्धिरुपपत्तिर्विद्यते तस्यैव ग्राह्यत्वात् । अन्यस्येशत्वग्रहणस्य मिथ्याज्ञानत्वादेवानुपपत्तेः ॥3॥
न च प्रतिदिनं विविधगुणन्यासेन भगवत्प्रीत्युपपत्तेर्न ब्रह्मतादृष्टिनियम इति वाच्यम् । अशेषगुणान्तर्भावेन तस्यैवाधिकसाधनत्वात् ॥4॥
न च विविधस्थानेष्वादित्यादीनां चरणाद्विष्ण्वङ्गेष्वादित्यादिमतिनियमो नास्तीति वाच्यम् । तत्कृतावेव कृत्यस्याप्त्तवादादित्यादीनाम् ॥5॥
न च ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमिति वाच्यम् । आसनादिना निश्चलत्वादिविशेषकार्योपपत्तेः ॥6॥
न चान्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमिति वाच्यम् । ध्यानं विनापरोक्षज्ञानाख्यविशेषकार्यानुपपत्तेः ॥7॥
न च ज्ञानोदयेशेषकर्मक्षये कृतकृत्यत्वात् तदैव मुक्तिः न चेत् कर्माक्षय इति वाच्यम् । प्रारब्धस्यैव कृतस्य यावज्ज्ञानं संस्थितेः । कर्माणि क्षपयेद्विष्णुरप्रारब्धानि विद्यया । प्रारब्धानि तु भोगेन क्षपयन् स्वगतिं नयेत् ॥ इति वचनात् ॥8॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य प्रथमः पादः ॥
न च वाक् पूर्वरूपं मन उत्तररूपं "मनः पूर्वरूपं वागुत्तररूपम्' इत्युक्तेः व्यामिश्रत्वादनिर्णीतिरेव । "वाक् पूर्वरूपं मन उत्तररूपं' इति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनःपूर्वरूपं इत्यनेन साम्यम् । "मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति' इति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एव हि ज्ञायते ।सृष्टौ च वलिये चैव सदा पूर्वप्रवर्तने । नियन्तृत्वे च वचसो मनोधीशं शिवो हि तत् ॥ इति श्रुतेश्च ॥1॥
न च मनःपूर्वकत्वनियमादशेषदृष्टादृष्टव्यापाराणां तस्य प्राणादनूनता इन्द्रियस्थैः स्वरूपैस्तु ज्ञानानि जनयत्यसौ । मनस्स्थेन विशेषेण कार्मै कर्मकृदेव च ॥ पृथक्स्थितेन रूपेण जीवं धारयति प्रभुः । जीवस्थितेन रूपेण वेदयत्यहमित्यपि ॥ प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वरः । तान्येतान्यवशान्येव तथापि कृपयैव सः ॥ पृथक्शक्तोपि तद्गैस्तु स्वरूपैस्तद्गकार्यकृत् । तस्येशो भगवान् विष्णुरेवमेष यथान्यगः ॥ इत्यादिश्रुतेः प्राणस्यैवाढ्यतावगमात् ॥2॥
सोध्यक्षे इत्यस्याप्येवमेवाशङ्का परिहारश्च । श्रुतिबाहुल्यमेवाशङ्कायां परिहारे च विशेषहेतुः ॥3॥
न च भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्तेर्मुक्तलिययोर्विशेषभावाच्चैकस्मिन्नेव भूते सर्वेषां लयोर्थतः क्लृप्तः इति वाच्यम् । तत्तद्भूतोद्भवत्वात् तत्तद्देवानां तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेः । विशेषश्रुतेश्च ॥4-5॥
न च प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात् सर्वसाम्यमेवेश्वरेण, न चेत् संसारित्वमिति युक्तम् । ईश्वरस्य महामहिमत्वात् । नित्यमसंसारित्वस्य नित्यं तदनुग्रहेणैवोपपत्तेः । सदानित्यतयानित्यं नित्यं नित्यात्मना यतः । नित्ययैव स्वशक्त्यैशो नियामयति नित्यदा ॥ द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । प्रकृतिः पुरुषश्चैव न सन्ति यदुपेक्षया ॥ इत्यादिश्रुतेश्च ॥6॥
न चान्यदेवादीनां प्राणाधीनत्वात् तत्प्राप्तिनियमात् परप्राप्तिर्नास्त्येव । प्राणं प्राप्य परं देवास्तदन्ये चैव तद्गताः । प्राप्नुवन्ति परं देवं वसन्ति च यथासुखम् ॥ इति विशेषश्रुतेः ॥7॥
न च सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनुसारित्वनियमे संसारसमानधर्मत्वं मुक्तेरिति वाच्यम् । कृतार्थत्वेन विशेषोपपत्तेः । अपूर्णतादिभावो वा दुःखं वा नास्ति किञ्चन । मुक्तस्य पारतन्त्र्येपि तारतम्येप्यतः सुखी ॥ इति च श्रुतिः ॥8॥
न च प्रारब्धकर्मशेषत्वात् उत्क्रान्तावविशेषो ज्ञानिनः । ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेः । प्रारब्धकर्मशेषस्तु विरजातरणावधिः । स्वोदयात् फलदं ज्ञानमादेहं कर्म वारवेः ॥ तथापि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते ॥ इति हि श्रुतिः । "शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते । स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स सम्प्राप्नोति विरजां नदीं तत्सुकृतदुष्कृते विधूनुते' "ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे' इति च । "अन्यथाभावनियमोनृतता कार्यकारणे' इति च ॥9॥
न च कृष्यादिलौकिकसाधनस्य फलस्मरणानपेक्षत्वात् स्वर्गमोक्षयोरपि तथात्वमिति वाच्यम् । "क्रियानुवृत्तिर्लौकिके साधने तु मनोनुवृत्तिर्वैदिके साधने स्यात् । भवेत् फलं सर्वथेत्येव तस्मात् स्मरेत् सदा निश्चितत्वेन विद्वान् ॥' इति श्रुतेस्तदनुसार्यनुवृत्तेः लौकिकवैदिकयोः साम्यात् । अतोत्र फलानुस्मरणं लवनादिकृष्यनुवृत्तिवद् द्रष्टव्यम् । वचनप्रामाण्यात् ॥10॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य द्वितीयः पादः ॥
न च तत्र तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ्मार्गसुक्रमोपपत्तिरिति वाच्यम् । "सर्वे वा एत उत्क्रामन्ति तेर्चिषमेवाभियन्ति ततो वायुं ततोहः पूर्वपक्षमित्येष उ एव ब्रह्मपथः । द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च' इति विशेषश्रुतितो ज्ञानिनामेकमार्गस्यैव प्राप्तत्वात् । "एष एव ब्रह्मपथः' इत्यवधारणविरोधोन्यथा । एजदिति वैदिकानुष्ठानवत उक्तेर्नाधोगतिविरोधः । पुनरावर्तिनो ये तु तेषां धूम्रपथो ध्रुवः । अन्येषामर्चिरादिश्च तद्भेदो मध्यसंस्थितिः ॥ धूमार्चिरादिदेवेभ्यः प्राप्यानुज्ञां तु मध्यगाः । विहृत्य स्वेष्टदेशेषु तदूर्ध्वं याति वाधरम् ॥ अत्यल्पानामविज्ञाताप्यनुज्ञावर्तिनां भवेत् । पुन्द्वारेण स्वदृष्ट्या वा यथायोग्यं विमुच्यताम् ॥ अतो न मार्गभेदोस्ति न हि मार्गोत्र सम्भवः । प्रेतत्वं चाधरो मार्गः पापजत्वात् तयोः पृथक् ॥ इति स्मृतेश्च ॥1-4॥
न च सोमादग्निमग्नेरिन्द्रमिति सोमादग्नेरवरस्यापि प्राप्तेः प्रधानवायोरप्यवरोन्यः प्राप्योस्त्विति वाच्यम् । उत्तमत्वात् तस्यैव ब्रह्मप्रापयितृत्वशक्तेः । "वायुरेव ब्रह्म गमयति तस्य ह्येषा शक्तिः । न ह्यन्यो ब्रह्म गमयति प्रियो ह्येनद्गमयति । न ह्यन्यः प्रियो ब्रह्मणः' इति श्रुतेः । मार्गे त्ववरस्यापि यथामार्गं पश्चात् प्राप्तिर्भवति लोकवत् । न हि राजानं यः कश्चित् प्रापयति क्लृप्तमतिप्रियं चातिहाय ॥5॥
न च चतुर्मुखस्य प्राप्तिपर्यन्तं सन्ततत्वनियमात् बन्धस्य तावद्भगवत्प्राप्तिर्नास्तीति नियमः । यान्ति देवं परं केचित् पूर्वं केचिल्लये विभुम् । योग्यतातारतम्येन विशेषोथमपीष्यते ॥ इति श्रुतेस्तथाप्राप्तत्वात् । न च परब्रह्मणः एव ब्रह्मशब्दमुख्यार्थत्वेन प्रथमप्राप्तत्वादपोहायुक्तेस्तस्यैव प्राप्तिनियमः । "यान्ति देवं परं केचित्' इति प्रमाणप्राप्तत्वादेव । न च परप्राप्तिर्यस्याभीष्टा तस्य तत्प्राप्तिरिति नियमः । क्रमानुरागी भगवान् क्रमात् पुम्भिरवाप्यते । अतः क्रमात् समृद्धे तु ज्ञाने ब्रह्मलये नरैः ॥ प्राप्यते नियमेनैव कैश्चिदेवाप्यते मृतौ ॥ इति भगवतः क्रमानुरागित्वश्रुतेः । न च बहुधाश्रुतेर्यथासौकर्यं चतुर्मुखस्य परस्य वा प्राप्तिरिति वाच्यम् । श्रुत्युक्तानुवृत्तेरेव न्याय्यत्वात् । "सप्रतीकाश्चतुर्मुखमप्रतीकाः परममु हैते गच्छन्त्यागच्छन्ति च चतुर्मुखात् परमं परमाच्चतुर्मुखं यावद्वलियमथ सह चतुर्मुखेन विमुच्यन्ते आनन्दीभवन्ति' इति हि श्रुतिः । अन्तर्भेदाधिकरणत्वात् समुदायोक्तिः ॥6॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य तृतीयः पादः ॥
न च "एतं सेतुं तीर्त्वा' इत्यत्रातिक्रमोक्ते र्मुक्तो ब्रह्म तीत्वा गच्छतीति । तरतीति सामान्य प्रतीतेः ब्रह्म तीत्वेदं गच्छतीति विशेषानुक्तेः । "इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पद्यत' इति विशेषोक्तेश्चैतं सेतुं प्रत्यन्यत् तीर्त्वेत्यन्यथोपपत्तेः ॥1॥
न च कृतिमत्त्वादमुक्त एवोच्यते । "स तत्र पर्येति' इत्यादौ "स्वेन रूपेणाभिनिष्पद्यते' इति मुक्तस्य स्पष्टं प्रतिभातत्वाच्छ्रुतौ । स तत्र पर्येतीति श्रुत्यैक्यप्रतीतेश्च ।एवम्भूतस्यापि प्रकरणत्वं परिकल्प्य श्रुतिबाधाङ्गीकारे सा श्रुतिरप्येवं विभज्य किं योजयितुं न शक्या इति श्रुतेरेवाभावप्रसङ्गः । सत्यं ज्ञानमित्यादावपि सत्यमित्यस्यान्यमित्यनेननान्वय इत्यादिप्रसङ्गात् ॥2॥
न च परञ्ज्योतिःशब्देनादित्यज्योतिरङ्गीकारे "स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्त' इत्यादिनैकार्थतेति प्रयोजनम् । "अथ किमुच्यते परं ज्योतिरित्यात्मैव परञ्ज्योतिः स हि परमो द्योतते जीवाच्चाजीवाच्च तस्मादाहुः परञ्ज्योतिरिति । तमेव जीवोभिसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति तस्यैव परञ्ज्योतिष्ट्वोक्तेः । सावकाशलिङ्गान्निरवकाशश्रुतेरेव बलवत्वात् ॥3॥
न च परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्ति । ईश्वरस्य स्वत एव पूर्णानन्दत्वादभोगस्यापि सम्भवादिति वाच्यम् । पूर्णानन्दः पूर्णभुक् पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः । "आश्चर्यत्वात् भगवान् वासुदेवो विरुद्धशक्तिर्न च दोषस्पृगीशः' इत्याश्चर्यतयैव ब्रह्मण उभयोक्तेः । सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव बलवत्वात् ॥4॥
न च पारगतत्वान्मुक्तस्य चिन्मात्रदेहोपि नास्तीति वाच्यम् । अकृत्रिमत्वात् तस्य देहस्याप्यनपगमात् । "अथ विमुक्तस्य चिन्मात्र एव देहो भवति चिन्मात्राणि करणानि तैरीशानुगृहीतैर्भोगान् भुङ्क्ते' इति श्रुतेः ॥5॥
न च भगवदोकः स्थितत्वात् मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्यभोगसाधनत्वं वाच्यम् । निर्दोषत्वात् तदोकसो मुक्तस्य च सङ्कल्पादेवेति श्रुत्युक्तानुसारेणोपपत्तेः ॥6॥
न च परगृहगतत्वादस्य राजगृहगतस्यैव स्वाधमा अपि कदाचिदीशते । निर्दोषत्वादेव मुक्तस्येश्वरस्य तत्रस्थानां मुक्तान्तराणां च राजदोषवद्दोषासम्भवाद्यथा योग्यमेव स्वीकारोपपत्तेः ।मुक्तानां पतयो देवा देवानां च प्रजापतिः । तस्य विष्णुर्न चैवेदं पारावर्यं विनश्यति ॥ इति च श्रुतिः ॥7॥
न च देहभावे तत्कार्यदुःखादिस्तदभावे भोगासम्भव इति दोषः । देहाभावाच्च भावाच्च निर्भोगित्वं च दुःखिताम् । यान्त्यमुक्ता नोभयं च मुक्तानां वशिता यतः ॥ इति श्रुत्यैव विशेषक्लृप्तेः ॥8॥
न च सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिसमस्तकार्यसम्भवः । व्यापारो जगतो शुद्धमपि वह्निकार्यकरं भवेत् । अयोग्याशक्तितस्त्वेव नाधिकानन्दसम्भवः ॥ न हि कश्चित् सुशक्तोपि चकाराचेतनं चितिम् । न च कामस्तथा भूयात् ततः स्यात् सत्यकामता ॥ इति श्रुत्या विशेषक्लृप्तेरेव । मुक्तानां न जगद्यत्नस्तथापि विबुधाः सदा । मुक्तानां तु नियन्तारस्तेषां ब्रह्मास्य वै हरिः ॥ इति च विशेषक्लृप्तिः ॥9॥
न च वशित्वान्मुक्तस्यापि वृद्धिः । कृतकृत्यत्वेन निःश्रमत्वादुपासनादावभ्यासपाटवात् निर्दोषत्वात् स्नेहाधिक्याच्च तस्यैव परमसुखरूपत्वेन फलस्वरूपत्वात् । अभ्यासपाटवात् स्नेहादश्रमत्वादुपासना । भक्तिश्च सुखरूपैव मुक्तानां न तु साधनम् ॥ इति च श्रुतिः ॥10॥
न चानन्तत्वात् कालस्य त्रयोदशीपञ्चदशीवत् कदाचित् समस्तस्यापि सम्भवान्मुक्तस्यापि पुनरावृत्त्याशङ्केति वाच्यम् । सत्यकामत्वादिमाहात्म्यात् । "अदोषकामसत्यत्वात् मुक्तानामपुनर्भवः । यस्मात् स कामयेदेव नित्यमात्मापुनर्भवम् ॥' इत्यनन्तमहान्यायमीमांसापारवारिधेः । उत्तारणात्यशक्त्यैव व्याकुलीकृतचेतसाम् ॥ मन्दानामुपकाराय महतां चोच्छ्रितात्मनाम् । तद्विशेषपरिज्ञानप्रदीप्तार्काभचेतसाम् ॥ विशेषगाढे मनसि नितरामुपकारकः । न्यायप्लवो मयाकारि सङ्क्षेपात् प्रमिताक्षरैः ॥ विस्तरोप्ययमेव स्यात् तद्विशेषातिवेदिनाम् । व्याख्यानुव्याख्यायोरेव विस्तारो यदुदीरितः ॥ अनल्पचेतसां पुंसामलं विज्ञानसिद्धये । तन्न्यायोद्धरणेशक्ता अपि ह्येतेन सुस्थिरम् ॥ साक्षाद्विद्याधिराजेन न्यायामृतमनुत्तमम् । अशेषतोधिगच्छेत वन्द्यो वृन्दारकोपि सन् ॥ एवं सुदुर्लभेप्यद्धा महान्यायपरामृते । केचनाधिक्रियन्तेत्र तत्प्रसादानुरञ्जिताः ॥ ब्रह्माद्या अमृते यद्वत् सागरोन्मथनोद्धृते । अहं तु तत्प्रसादैकमहास्पदबलोद्धतः ॥ न्यायमृतार्णवमिममवगाह्य विभज्य च । सङ्क्षेपविस्तराभ्यां च चकार व्याकृतिं कृतिम् ॥ तत्प्रसादमृते कस्य शक्तिः संसारसागरे । मग्नस्य चेतनस्य स्यात् तत्कृतानुकूतौ क्वचित् ॥ नित्यानन्दामृतस्यन्दितत्कटाक्षैधितस्य तु । का नु शक्तिर्भवेन्नैव ततः को वातिविस्मयः ॥ विद्याविद्ये सुखं दुःखमशक्तिः शक्तिरेव च । उत्पत्तिस्थितिनाशाश्च विशेषाश्च परेखलिाः ॥ चेतनाचेतनस्यास्य समस्तस्य यदिच्छया । स मम स्वकृतेनैव प्रीयतां पुरुषोत्तमः ॥ यस्य त्रीण्युदितानि वेदवचने रूपणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचो नयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ नमोजभवभूर्यक्षपुरःसरसुराश्रय । नारायणारणं मह्यं मापते प्रेयसां प्रिय ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य चतुर्थः पादः ॥