श्रीश्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् ऋग्भाष्यम्

change script to

मङ्गलाचरणम्
नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम् ।
सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ १ ॥
ओमशेषगुणाधार इति नारायणोऽप्यसौ ।
पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः ॥ २ ॥
व्याहृत्यर्थः गायत्र्यर्थश्च एक एव
गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः ।
भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः ॥
नारायणो ध्येयः
प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः ॥ ३ ॥
भगवान् सर्ववेदार्थः
स पूर्णत्वात् पुमान्नाम पौरुषे सूक्त ईरितः ।
स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च ॥ ४ ॥
स एव सर्वशब्दार्थः इत्याहोपनिषत् परा ।
ऋङ्मन्त्रव्याख्यानं भगवत अतितुष्टिकरम्
‘ता वा एता ऋचः’ इति विशेषेणाप्यृगर्थताम् ॥ ५ ॥
ऋङ्मन्त्रव्याख्यानकरणे हेतुप्रदर्शनम्
‘यो देवानाम्’ इति श्रुत्या देवनाम्नां विशेषतः । स्पष्टत्वात् तद्गतत्वेन
अग्निशब्दार्थनिर्वचनम्
तत्राहाग्रेऽग्निनामकम् ॥ ६॥
अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् ।
एवमेवाह भगवान्निरुक्तिं बादरायणः ॥ ७ ॥
शब्दार्थनिर्वचने विशेषकारणनिरूपणम्
(ऋग्भाष्यम्) यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने ।
तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये ॥ ८ ॥
मण्डलम्—१. अध्यायः –१. अनुवाकः–१. सूक्तम्–१.
अग्निं नवर्चम्, वैश्वामित्रो मधुच्छन्दा ऋषिः, गायत्री छन्दः, अग्निर्देवता
ओ३म् ॥ अग्निमीळेे पुरोहितं यज्ञस्य देवमृत्विजम् ॥ होतारं रत्नधातमम् ॥ १ ॥
अग्निम् । ईळे । पुरःऽहितम् । यज्ञस्य । देवम् । ऋत्विजम् । होतारम् । रत्नऽधातमम् ॥ १ ॥
ओ३म् ॥ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ १ ॥
अग्निम् । अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् । होता॑रम् । र॒त्न॒ऽधात॑मम् ॥ १ ॥
अग्निशब्दार्थो भगवान्
........अग्निशब्दोऽयमग्र एवाभिपूज्यताम् । अग््रयत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम् ॥ ९ ॥
आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम् । ऋत्विङि्नयामकत्वेन यज्ञानामृत्विजं सदा ॥ १० ॥
देवशब्दनिरुक्तिः
द्योतनाद्विजयात् कान्त्या स्तुत्या व्यवहृतेरपि । गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः ॥ ११ ॥
अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता ।
होतृशब्दस्याध्यात्मार्थनिरूपणम्
इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः ॥ रतिधारकोत्तमत्वात् स रत्नधातम ईरितः ॥ १२ ॥
अग्निस्तुतौ आचारकथनम्
पिपीलिका मध्या निचृद् गायत्री
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत॥ स देवा एह वक्षति ॥ २ ॥
अग्निः । पूर्वेभिः । ऋषिऽभिः । ईड्यः । नूतनैः । उत ॥ सः देवान् । आ । इह । वक्षति ॥ २ ॥
अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥ २ ॥
अ॒ग्निः । पूर्वे॑भिः । ऋषि॑ऽभिः । ईड्यः॑ । नूत॑नैः । उ॒त । सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥ २ ॥
स पूर्वैर्नूतर्नैरेष्यैर्विज्ञानादृषिनामकैः । ईड्यो देवादिभिस्सर्वैस्स च देवानिहानयेत् ॥ १३ ॥॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥
अग्निना । रयिम् । अश्नवत् । पोषम् । एव । दिवेऽदिवे ॥ यशसम् । वीरवत्ऽतमम् ॥ ३ ॥
तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम् । दिवसे दिवसे नित्यं पुष्टिमेव न हीनताम् ॥ यशश्च पुत्रसंयुक्तं वीर्यवत्तममेव वा ॥ १४ ॥॥
अग्निस्तुतिः
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥
अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परिऽभूः । असि ॥ सः । इत् । देवेषु । गच्छति ॥ ४ ॥
यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च । विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम् ॥ १५ ॥
अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः ॥ देवो देवेभिरागमत् ॥ ५, १ ॥
अग्निः । होता । कविऽक्रतुः । सत्यः । चित्रश्रवःऽतमः ॥ देवः । देवेभिः । आ । गमत् ॥ ५, १ ॥
सोऽखिलग्रहणप्रज्ञः सद्गुणैः सन्ततोऽखिलम् । यमयत्यग््रयकीर्तीनाम् उत्तमो विबुधैः सह । आगन्ताऽखिलभक्तानां पूजास्वीकारतत्परः ॥ १६ ॥ ॥
निचृद् गायत्री
यदङ्ग दाशुषे त्वमग्ने भद्रङ्करिष्यसि ॥ तवेत्तत् सत्यमङ्गिरः ॥ ६ ॥
यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि ॥ तव । इत् । तत् । सत्यम् । अङ्गिरः ॥ ६ ॥
यजमानाय यद्भद्रं कर्तुमिच्छसि सत्प्रिय । त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम् ॥ १७ ॥
तवैव सत्यमङ्गानां रसयद्वह्निगो हरिः । अङ्गिरा अङ्गिरःपुत्रो यतोऽग्निरभवत् क्वचित् ॥ १८ ॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धियावयम् ॥ नमो भरन्त एमसि ॥ ७ ॥
उप । त्वा । अग्ने । दिवेऽदिवे । दोषाऽवस्तः । धिया । वयम् ॥ नमः । भरन्तः । आ । इमसि ॥ ७ ॥
वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा । अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम् । उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः ॥ १९ ॥
यवमध्या विरा गायत्री
राजन्तमध्वराणा ङ्गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥ ८ ॥
राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम् ॥ वर्धमानम् । स्वे । दमे ॥ ८ ॥
देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम् । यथार्थज्ञानगोपं त्वामुपेमसि पितेव नः ॥ २० ॥
विरा गायत्री
स नः पितेव सूनवेऽग्ने सूपायनो भव ॥ सचस्वानस्स्वस्तये ॥ ९, २, १ ॥
सः । नः । पिताऽइव । सूनवे । अग्ने । सुऽउपायनः । भव ॥ सचस्व । नः । स्वस्तये ॥ ९,२,१ ॥
सूपाश्रयो भव त्वं च यद्वदौरससूनवे । रक्ष सन्ततसौख्याय सम्यक्सत्त्वाय वा सदा ॥ २१ ॥ ॥
मन्त्रादीनाम् ऋष्यादिस्वरूपनिरूपणम्
मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः । विशेषतश्च वेदानां ‘यो ब्रह्माणम्’ इति श्रुतिः ॥
भगवतः सर्वविद्यानाम् ऋषित्वे प्रमाणानि
ऋग्वेदादिकमस्यैव श्वसितं प्राह चापरा ॥ २२ ॥
‘वाचो बभूवुरुशतीर्हयग्रीवात्’ इति स्फुटम् । वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथा परम् ॥ २३॥
हयग्रीवादिमा विद्याः श्वसितत्वेन निःसृताः । ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि ॥ २४ ॥
दक्षाद्याः सनकाद्याश्च शक्राद्या मनवस्तथा । जगृहुस्ते च विश्वस्मिंश्चक्रुर्व्याप्तास्ततोऽखिलाः ॥ २५ ॥
उक्तं पद्मपुराणे च ‘कपिलो भगवानजः । प्रोवाच ब्रह्मणे विद्याः’ ‘हृदिस्थो बादरायणः ॥ २६॥
ओङ्कारपूर्विका विद्याः प्रेरयत्यखिलेष्वपि । सदैव ब्रह्मणे पूर्वम्’ इति सात्वतसंहिता ॥ २७॥
सकृन्निगदमात्रेण गृहीतं ब्रह्मणाऽखिलम् । अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः ॥ २८ ॥
सर्ववेदानां चतुर्मुखब्रह्मा अपि प्रथमद्रष्टा ऋषिः
तेन चानन्तशक्तित्वात् युुगपत् समुदीरितम् । प्रथमप्रतिपत्तृत्वान्मुनिर्ब्रह्माऽखिलस्य च ॥ २९ ॥
पञ्चरात्रद्रष्टा शेषः
सुपर्णोऽखिलवेदानां पञ्चरात्रस्य नागरा ।
गरुडशेषयोः सर्वविद्यामुनित्वे द्वितीयं स्थानम्
द्वितीयप्रतिपत्तृत्वान्मुनित्वे सम्प्रकीर्तितौ ॥ ३० ॥
ऋषिलक्षणम्
यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः । अर्वाक्तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः ॥ ३१॥
विरिञ्चादीनामध्ययने कारणनिरूपणम्
यत्स्वयं प्रतिभातस्य संशयार्थं गुरोर्वचः । सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणम् ॥ ३२ ॥
अवान्तरभेदेन यजुर्वेदादीनाम् ऋषयः
ऋचामृषिस्ततः शक्रो यजुषां सूर्य एव च । सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः ॥ ३३ ॥
अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम् । इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक् पृथक् ॥ ३४ ॥
ऋषिस्मरणफलम्
एतज्ज्ञानाददृष्टस्य फलस्याप्तिः स्फुटं भवेत् । द्रष्टॄणां तु चतुर्थानां ज्ञानादप्यैहिकं भवेत् ॥ ३५ ॥
ते चैकस्यापि बहवः स्युः सूक्तस्यर्च एव वा ॥
स्वायोग्यार्थप्रतिपादक(प्रार्थनादि)वाक्यानां तात्पर्यम्
तस्यां तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः ॥ ३६॥
तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति । विष्णुर्ब्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः ॥ ३७ ॥
सर्ववेदाभिमानिन्यः श्रीः भारती च
सर्ववेदाभिमानित्वाच्छ्रीर्ब्रह्माणी च भारती । द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत् ॥ ३८ ॥
देवतास्त्रीणामपि स्वभर्त्रनन्तरं सर्ववेदद्रष्ट्रुत्वम्
स्वभर्त्रनन्तरं द्रष्ट्र्यस्तेभ्यस्तन्नोदिता हिरुक् । ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः ॥ ३९ ॥
श्रीभारत्यादीनां छन्दोऽभिमानित्वेन स्मरणकथनम्
छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता । स्मर्तव्यास्ते च सर्वेऽपि मुनित्वेन पृथक्पृथक् ॥ ४०॥
छन्दोऽभिमानिदेवतानिरूपणम्
गायत्री बृहती चैव ताः सर्वा गरुडस्तथा । ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टप् स्वाहेति चोच्यते ॥ ४१ ॥
गायत्री जगती चैव वारुणी रोहिणी तथा । अनुष्टुप् बृहती चैव तारा पङ्क्तिः शची तथा ॥ ४२ ॥
उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः । विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते ॥ ४३ ॥
अतिछन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्किताः । विराडिति च नामासां तास्ता ऊनाधिकेष्वपि ॥ ४४ ॥
छन्दस्सु अवान्तरभेदनिरूपणम्
निचृद् भुरिग् विरा सञ्ज्ञा प्रस्तारेत्यादि नाम च । बह्वीनामेकमानेन त्वेकं नाम च युज्यते ॥ सर्वाभिमानिता चैव तिसृणां तु यथाक्रमम् ॥ ४५ ॥
देवता सर्वविद्यानां स्वयं नारायणः प्रभुः । ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथाऽत्र च ॥ ४६ ॥
ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च ।
सर्वविद्याप्रतिपाद्यदेवतासु तारतम्यनिरूपणम्
पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः ॥ ४७॥
मुक्तावपि ज्ञानादिगुणेषु देवानां तारतम्यम्
ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ कामपुत्रमनुदक्षाङ्गिरस्सुताः ॥ ४८ ॥
तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः । प्रधानमरुतो वारिपतिरग्निश्च मारुताः ॥ ४९ ॥
निर्ऋतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा । अनन्तकोटिशतकदशार्धाद्यंशतः क्रमात् ॥ ५० ॥
ज्ञानभक्तिबलैश्वर्यपूर्वाखिलगुणैरपि । मुक्तावपि क्रमो ह्येष देवता उदिता इमाः ॥ ५१ ॥
इन्द्रावरा विशेषेण लिङ्गेनैव पृथक्पृथक् । देवतास्तत्र तत्र स्युरेष एव परो विधिः ॥ ५२॥
विद्यावाच्यदेवतास्वरूपनिरूपणम्
वेदादिवर्णपर्यन्तैर्मूर्तयः केशवस्य तु । समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक् । यथायोगं यथान्यायमन्यासामपि मूर्तयः ॥ ५३ ॥
यास्कनिरुक्तिः न प्रमाणम्, व्यासनिरुक्तिरेव मानम्
ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते । प्रवृत्ते चैतदखिलमुक्तं हि प्रभुणा स्वयम् ॥ ५४ ॥
‘सर्वे वेदाश्च’ ‘नामानि’ ‘ता वा एता ऋचस्तथा । ‘इन्द्रं मित्रं वरुणम्’ इत्याद्यत्र प्रमा परा ॥ ५५ ॥
तारतम्यज्ञानेनैव मोक्षः
देवतातारतम्यं च सर्वोत्कृष्टं च केशवम् । ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन ॥ ५६॥
इति पैङ्गिश्रुतिश्चाह दृश्यतेऽत्र च सर्वशः । ‘न ते महित्वम्’ इत्यादिनैश्वरानेव केवलान् । गुणान् विष्णोः श्रुतिर्ह्याह नैव दोषान् कथञ्चन ॥ ५७ ॥
‘जाता परिबभूव’ इति मर्यादां ब्रह्मणोऽपि हि । ‘नैव रेमे बिभेद् ब्रह्मा ‘नासीत्’ इत्यादिकानपि ॥ ५८ ॥
दोषान् रुद्रे च तानेव ‘न मिनन्ति’ इति पूर्वकान् । ‘यं कामये तं तमुग्रं’ ‘रुद्राय धनुः’ इत्यपि ॥ ५९ ॥
‘अस्य देवस्य’ ‘मा शिश्नदेवा अपि गुः’ इत्यपि । ‘घ्नञ्छिश्नदेवान्’ इत्याद्या दोषा बहव ईरिताः ॥ ६० ॥
‘ततो वितिष्ठे योनिः’‘स एतावत्यहम्’ इत्यपि । अन्याश्रयत्वं देव्याश्च कथितं बहुशोऽपि हि ।
लक्ष्म्याः ब्रह्माद्युत्तमत्वे मानम्
तदाश्रयत्वमन्येषामपि तत्रैव निश्चयात् ॥ ६१ ॥
ब्रह्मणः रुद्राद्युत्तमत्वे मानम्
‘ब्रह्मैवाग्रे’ इति ह्युक्त्वा रुद्रादीनां ततो जनिः । उक्ता जातानि विश्वानि स पर्यभवदित्यपि । ‘यस्य च्छायामृतं मृत्युः’ इति चादरतोऽब्रवीत् ॥ ६२ ॥
वायोः रुद्राद्युत्तमत्वे प्रमाणम्
अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक् । तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोऽपरे । सौपर्णश्रुतिरित्याह सप्ताक्षितय इत्यपि ॥ ६३ ॥
वायुरस्मा उपामन्थद् विश्वदेवाय वायवे । विश्वैर्देवैः स इत्याद्याः प्रमा अत्रापरा अपि ॥ ६४ ॥
वायोरिन्द्राद्युत्तमत्वे विप्रतिपत्तिनिरासः
नारायणोऽदितिर्वायुर्वाणी रुद्र उमा विभुः । इतरे च क्रमाद्धीनाः शतांशाद्वायुतोऽवराः ॥ ६५ ॥
इति बर्कश्रुतिश्चाह शक्रात् सप्ताक्षितिश्रुतिः ।
‘अयं त एमि तन्वेति’ पूर्वा अन्या अपि स्फुटम् ॥ वायोराधिक्यमप्याहुः
वायोः रुद्राद्युत्तमत्वे मानम्
इन्द्रं सोमं हुताशनम् ॥ ६६ ॥
सूर्यं रुद्रमिमान्् पञ्च देवानेको महात्मनः । सृजत्यत्ति महान्प्राण इति चाह तुरश्रुतिः ॥ ६७ ॥
विष्णोरिन्द्रादाधिक्ये विप्रतिपत्तिनिराकरणम्
‘वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । न यस्येन्द्रः’ इति ह्याह विष्णोरिन्द्रस्य हीनताम् ॥ ६८ ॥
‘वेधा अजिन्वत्’ इत्यादि वचनं विष्णुनामतः । आनन्दश्रुतिरप्यस्य जीवतामेव दर्शयेत् ॥ ६९ ॥
आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम् । ‘यः सूर्यं य उषसम्’ ‘म्रियन्ते पञ्च देवताः’ ॥ ७० ॥
‘चक्षुषा द्यौश्चादित्यश्च’ ‘चक्षोः सूर्यो अजायत’ । ‘यमादित्यो न वेद’ इति पूर्वा श्रुतिरथापरा ॥ ७१ ॥
‘विष्णोर्वातोऽजनिष्ट वातादिन्द्रस्ततो रविः । सोमश्चेति लयोऽप्येवं पूर्वे पूर्वे गुणाधिकाः’ ॥ ७२ ॥
‘विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः । लयोऽप्येतादृशस्तेषां पूर्वः पूर्वो गुणाधिकः’ ॥ ७३ ॥
तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी । अतः सर्वाधिको विष्णुर्निर्णीतः श्रुतिसञ्चयात् ॥ ७४ ॥
अतो दोषवचो यत्र तद्वाक्यमवरं वदेत् । निर्दोषतैव विष्णोस्तु क्रमान्मध्यगतेष्वपि ॥ ७५ ॥
वेदादिषु नैकधार्थकत्वमिति निरूपणम्
‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्’ ॥७६ ॥
इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया । निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात् ॥ ७७ ॥
तारतम्यस्य विज्ञप्त्यै वचो दोषस्य चार्थवत् ।
अदोषः प्रायशो ब्रह्मा इति निरूपणम्
‘गुणाः श्रुताः’ इति ह्याह गुणैकनियतिं हरौ ॥ ७८ ॥
‘निर्दोषगुणपूर्णश्च विष्णुरेको न चापरः । अपूर्णा दोषरहिता मायैका तद्वशैव च ॥ ७९ ॥
अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे’ । इति मान्यश्रुतिश्चाह भेदोऽर्थानां ततो मतः॥ ८० ॥
विष्णौ योग-रूढ्यादिना शब्दसमन्वयक्रमः
रूढिमेव समाश्रित्य विभज्यार्थान् यथाक्रमम् । विदोषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत् ॥ ८१ ॥
पश्चादेव यथायोगमितरेष्वपि संनयेत् ।
सूक्तभेदे कारणनिरूपणम्
ऋग्वेदसंहितायां च प्रभुणैवं समीरितम् ॥ ८२ ॥
पृथग्रूपाणि विष्णोस्तु देवतान्तरगाणि च । अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥ ८३ ॥
‘नकिर्माकिः स्मसि’ इत्यादि प्रोक्ताऽधिक्यविवक्षया । ‘आधिक्येऽधिकम्’ इत्येव हरिणा सूत्रमीरितम् ॥ ८४ ॥
‘कृत्वी हत्वी’ इति पूर्वाश्च ‘तृतीयोऽतिशये’ यतः । विश्लिष्टार्थे च विश्लिष्टमूनार्थे चोनमिष्यते। व्यत्ययोऽभेदकरणस्वातन्त्र्येषु समीरितः ॥ ८५ ॥
अभेदस्थलेषु व्याख्यानप्रकारनिरूपणम्
अभेदो हरिरूपाणां गुणानां च क्रियासु च । तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः ॥ ८६ ॥
मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते । ऋग्वेदसंहितायां च प्रोक्तमेतत्समस्तशः ॥ ८७ ॥
भेद-अभेद-भेदाभेदस्थलनिरूपणम्
अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः । भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि । जडानामंशतो भेदः समुदायेन चोभयम् ॥ ८८ ॥
मुक्तस्वरूपनिरूपणम्
मनुष्यगन्धर्वपितृगणकार्मिकतात्विकाः । देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः ॥ ८९॥
शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः । ’इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम् ॥ ९०॥
मोक्षसाधननिरूपणम्
स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागता । निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया ॥ ९१॥
सदा विष्णुस्मृतिश्चैव केवलं मोक्षसाधनम् । एतैर्विना न मोक्षः स्याद्भवेदेतैरपि ध्रुवम् ॥ ९२॥
छन्दोज्ञानमपि अवश्यमेवेति निरूपणम्
‘ऋषिच्छन्दोदैवतानि ज्ञात्वाऽर्थं चैव भक्तितः । स्वाध्यायेनैव मोक्षः स्याद्विरक्तस्य हरिस्मृतेः’ ॥ ९३॥
गायत्रीमन्त्रजप्तुरेव ब्राह्मणत्वम्
‘जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥’ ९४ ॥
‘तस्मान्नित्यं हरिं ध्यायन्कुर्यात् स्वाध्यायमञ्जसा ।’ ‘ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते ।’ इति स्वाध्यायवचनं स्वयं भगवतोदितम् ॥ ९५ ॥
स्वाध्यायात्तु प्रवचने सहस्रगुणितं फलम् । अर्थद्रष्टुः कोटिगुणं ततोऽनन्तं नियामके ॥ ९६ ॥
तर्कागमाभ्यां नियतिं यः करोत्यधिकं ततः । पूर्णं वेदाखिलद्रष्टुर्ब्रह्मणः फलमुच्यते ॥। ९७ ॥
स्वराणामर्थनिरूपणम्
दार्ढ्यमेवानुदात्तार्थ उदात्तस्योच्चतार्थता । नीचता स्वरितस्यार्थः प्रचयस्य यथास्थितिः ॥ समाहारेऽखिला अर्थाः स्वरार्थानामियं स्थितिः ॥ ९८ ॥
स्वरभेदे कारणनिरूपणम्
स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा । साधारणो विधिस्त्वेष विशेषो यत्र यत्र च ॥ ९९ ॥
क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः ।
वेदार्थव्याख्यानस्य सत्-असत्फलकत्वे कारणनिरूपणम्
विपर्ययार्थकथने विपरीतं तथा तमः ॥ १०० ॥
यावत्प्रयोजको ज्ञाने तावत्तावच्छुभाधिकः । तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत्समम् ॥ १०१ ॥
योग्यतावशात् वेदार्थज्ञानम्
तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः । योग्यतातारतम्येन फलं सर्वेषु चोच्यते । इति प्रवृत्तवचनं विवेकेऽप्येतदीरितम् ॥ १०२ ॥
यादृशो योग्यतां यायात् स ज्ञेयोऽर्थस्तथा स्फुटम् । अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः । वेदा इति समासेन नियमोऽयं समीरितः ॥ १०३ ॥
ऋक्संहितागतं वाक्यमिति चान्यन्नियामकम् ।
प्राचीनव्याख्यातृवन्दनादिकरणे कारणनिरूपणम्
तस्माद्वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः । गुरुत्वेन क्रमादेव विशेषेणैव केशवः ॥ १०४ ॥
आरभ्य स्वगुरुं यावद्विष्णुरेवोत्तरोत्तराः । क्रमान्निष्फलताऽन्यत्र गुरुतत्त्वे समीरिता ॥ १०५ ॥
एवं स्थितेऽग्निगं विष्णुमग्निनामानमेव च । मधुच्छन्दा ऋक्शतेन वाय्वादिगतमेव च । साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च ॥ १०६ ॥
मण्डलम्—१. अध्यायः –१.अनुवाकः–१. सूक्तम्–२.
वायो नवर्चम् , मधुच्छन्दा वैश्वामित्रः ।१-३ वायुः,४-६ इन्द्रवायू, ७-९ मैत्रावरुणः, गायत्री छन्दः ।
पिपीलिकामध्या निचृद् गायत्री
वायवायाहि दर्शतेमे सोमा अरङ्कृताः ॥ तेषाम्पाहि श्रुधी हवम् ॥ १ ॥
वायो इति । आ । याहि । दर्शत । इमे । सोमाः । अरम्ऽकृताः ॥ तेषाम् । पाहि । श्रुधि । हवम् ॥ १ ॥
(वायुशब्दनिर्वचनम् )
बलत्वादयनाच्चैव वायुरित्यभिधीयते । वात्यायुरिति वा ज्ञानात् वरणादाश्रयत्वतः ॥ १०७ ॥
वायुशब्दस्य निर्वचनान्तरम्
‘वय बन्धने’ इत्यस्मात् संसारादेर्व्ययादपि । व्येत्यस्मिन्निति वा वायुः ‘वय श्रेष्ठत्वे’ इत्यपि ॥१०८॥
मुख्यतो वासुदेवे ते गुणाः सन्त्येव सर्वशः । अनिषिद्धास्तदन्येषु यथायोग्यतया मताः ॥ १०९ ॥
दर्शतस्ततदृष्टित्वात् सर्वज्ञोऽसौ यतो विभुः । भक्त्या ह्यलङ्कृताः सोमा मनांसि अन्ये हिरण्यतः ॥ हिरण्यालङ्कृता यस्माद्धूयन्ते वायवे सुताः ॥ ११० ॥
तान् पाहि श्रुधि चाह्वानं स्वातन्त्र्ये व्यत्ययोऽप्ययम् । मनोऽपि भोग्यमीशस्य प्रीतिमात्रेण केवलम् ॥ १११ ॥
वेदार्थः भगवद्गुणाधिक्यनिष्टः
गुणाधिक्यं येन भवेद् वेदस्यार्थः स एव हि । प्रयोजकत्वान्नान्यस्य फलाभावात्तदर्थता ॥ ११२॥
उपक्रमादयो यत्र तात्पर्यार्थस्स एव हि ॥ स्तुवन्ति शस्त्रैः स्तोतारो यथावद्यज्ञवेदिनः ॥ ११३ ॥ २॥
पिपीलिका मध्या निचृद् गायत्री
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुतसोमा अहर्विदः ॥ २ ॥
वायो इति । उक्थेभिः । जरन्ते । त्वाम् । अच्छ । जरितारः ॥ सुतऽसोमाः । अहःऽविदः ॥ २ ॥
वायुस्तुतिः यजमानाभीप्सितसाधनस्वभावा
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ॥ उरूची सोम पीतये ॥ ३ ॥
वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ॥ उरूची । सोमऽपीतये ॥ ३ ॥
वाक् त्वत्स्मम्पर्किणी यज्ञकृते प्रापयतीप्सितम् । सोमपायातिमहती महार्थत्वात्त्वदर्थतः ॥ ११४॥३ ॥
इन्द्रवायू देवते
इन्द्रवायू इमे सुता उपप्रयोभिरागतम् । इन्दवो वामुशन्ति हि ॥ ४ ॥
इन्द्रवायू इति । इमे । सुताः । उप । प्रयःऽभिः । आ । गतम् । इन्दवः । वाम् । उशन्ति । हि ॥ ४ ॥
इन्द्रः स परमैश्वर्यादिदमुद्दिश्य च द्रुतेः । ददर्शेदं दीप्तिमत्त्वादिदं रातीति वा भवेत् ॥ ११५ ॥
सोमाभिमानिनो देवा वामिच्छन्ति हि सोमगाः ।
इन्द्रवायुशब्दवाच्यौ उपेन्द्रसङ्कर्षणौ
प्रियैरुपागतं तेनोपेन्द्रः सङ्कर्षणो हरिः ॥ ११६ ॥
भगवतः द्विरूपत्वाद् बहुत्वव्यपदेशः
द्विरूपत्वाद् बहुत्वं च विशेषादेव केवलम् । एकस्यैव हरेर्नात्र भेदः शङ्क्यः कथञ्चन ॥ ११७ ॥
एकमेवाद्वितीयं तत् ‘नेह नानास्ति किञ्चन ।’ ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥११८ ॥
‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति’॥ ११९ ॥
उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि । विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः ॥१२०॥४ ॥
वायविन्द्रश्च चेतथस्सुतानां वाजिनीवसू । तावायातमुपद्रवत् ॥ ५, ३ ॥
वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ॥ तौ । आ । यातम् । उप । द्रवत् ॥ ५, ३ ॥
विजानतः सुतानन्नपतौ सूर्ये सदा स्थितौ । द्रवद्द्रुतं सुतात्पर्यद्योतकोऽभ्यास इष्यते ॥१२१॥ ५, ३ ॥
निचृद् गायत्री
वायविन्द्रश्च सुन्वत आयातमुपनिष्कृतम् ॥ मक्ष्वि१त्था धिया नरा ॥ ६ ॥
वायो इति इन्द्रः । च । सुन्वतः । आ । यातम् । उप । निःऽकृतम् ॥ मक्षु । इत्था । धिया । नरा ॥ ६ ॥
यजन् सुन्वन् कृतस्यानुसारिकर्मैव निष्कृतम् । तदर्थं क्षिप्रमायातं धियेत्थम्भूतयाचलौ ॥ १२२॥
नरौ तावविनाशित्वादुपचारः क्वचिद्भवेत् । अमरत्ववद्यतो मोक्षो देवतानां सुनिश्चितः ॥ १२३॥ ६ ॥
मित्रावरुणौ देवते
मित्रं हुवे पूतदक्षं वरुणञ्च रिशादसम् ॥ धियङ्घृताचीं साधन्ता ॥ ७ ॥
मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ॥ धियम् । घृताचीम् । साधन्ता ॥ ७ ॥
मित्रशब्दस्य त्रेधा निरुक्तिः
मित्वा त्रातीति मित्रोऽयं मितमह्ना करोति वा । मितं रातीति वा नित्यं मितं रमयतीति वा ॥ १२४ ॥
वरुणशब्दनिर्वचनम्
आवृणोतीति वरुणस्तमसाऽज्ञानतोऽपि वा । वरमुन्नयतीत्यस्मात् वरानन्दत्वतोऽपि वा ॥ १२५ ॥
पूता दक्षा अनेनेति पूतदक्ष इतीरितः ।
तमाह्वयामि सुखिनं शमदन् रमते यतः । अनूनसुखभोक्तृत्वाद् रिशादा इति कीर्तितः ॥ १२६ ॥
हरिर्घृतः सुशुद्धत्वाद् घृताची च तदञ्चनात् । स्वधीतिसाधको विष्णुर्भक्तानां च यथार्थतः ॥ १२७ ॥॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ॥ क्रतुम्बृहन्तमाशाथे ॥ ८ ॥
ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ॥ क्रतुम् । बृहन्तम् । आशाथे इति ॥ ८ ॥
ऋतस्पृक् भगवान्
नित्यवृद्धः स भगवानृतेनानुपचारतः । ऋतस्पृक् वेदवाच्यत्वात् अन्यौ चेद्भगवान् ऋतः । ऋ गतावित्यतः सर्ववस्तुष्वनुगतत्वतः ॥ १२८ ॥
तेन वृद्धौ तत्स्पृशौ च सर्वदा मित्रवारिपौ ॥
संहितायां दैर्घ्ये अर्थविशेषनिरूपणम्
संहितायां तु दैर्ध्यादिरुक्ताधिक्ये पदेऽन्यथा ॥ १२९ ॥
अनन्यार्थत्वविज्ञप्त्यै ईशाथे च महाक्रतुम् ।
महत्सुखं वा ........................... ॥ ८ ॥
कवीनो मित्रावरुणा तुविजाता उरुक्षया । दक्षन्दधाते अपसम् ॥ ९, ४, २ ॥
कवी इति । नः । मित्रावरुणा । तुविऽजातौ । उरुऽक्षया ॥ दक्षम् । दधाते इति । अपसम् ॥ ९, ४, २ ॥
............ तुविजौ ब्रह्मजातौ तथाविधौ । हरिस्तथैव भूतत्वात् स्थानं क्षय इहोच्यते ॥१३०॥
कर्मापसं च कर्तारं दक्षं कर्तारमेव वा । अस्मदर्थे दधाते तौ नित्यं बुद्धौ गतागतौ ॥ १३१॥
॥ इति द्वितीयं सूक्तम्॥
मण्डलम्—१. अध्यायः –१.अनुवाकः–१. सूक्तम्—३.
अश्विना द्वादशर्चम्, मधुच्छन्दा वैश्वामित्रः, १-३ अश्विनौ । ४-६ इन्द्रः । ७-९ विश्वेदेवाः । १०-१२ सरस्वती । गायत्री छन्दः(२, ४,११ निचृत्, ४,११ पिपीलिकामध्या)
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ॥ पुरुभुजा चनस्यतम् ॥ १ ॥
अश्विना । यज्वरीः । इषः । द्रवत्पाणी इति द्रवत्ऽपाणी । (शुभस्पती इति शुभःऽपती इति) । शुभः । पती इति ॥ पुरुऽभुजा । चनस्यतम् ॥ १ ॥
अन्नानि यज्ञयोग्यानि क्षिप्रहस्तौ शुभाधिपौ । बहुगोपौ बहुभुजौ नो योयजतमश्विनौ ॥ यज्ञे वृत्तान् स्वभागान् वा संयोजयतमाशु वै ॥१३२॥
अश्विशब्दनिर्वचनम्
आशुवानाद् गतेरश्वी क्षिप्रावगतितोऽथवा । अश्नुतेऽखिलमित्येवाप्यश्वजत्वात् तथाऽश्विनौ ॥ १३३ ॥
निचृद् गायत्री
अश्विना पुरुदंससा नरा शवीरया धिया ॥ धिष्ण्या वनतङ्गिरः ॥ २ ॥
अश्विना । पुरुऽदंससा । नरा । शवीरया । धिया ॥ धिष्ण्या । वनतम् । गिरः ॥ २ ॥
बहुकर्मकृतौ सौख्यवीर्यात्मिक्या धिया गिरः । अस्मदीयाः सम्भजतं धिष्ण्यौ सर्वाश्रयौ सदा ॥ १३४ ॥
अश्विनीस्तुतिः
दस्रा युवाकवस्सुता नासत्या वृक्तबर्हिषः ॥ आयातं रुद्रवर्तनी ॥ ३ ॥
दस्रा । युवाकवः । सुताः । नासत्या । वृक्तऽबर्हिषः ॥ आ । यातम् । रुद्रवर्तनी इति रुद्रऽवर्तनी ॥ ३ ॥
भेदकौ सर्वशत्रूणां दस्रौ सम्बन्धिनौ हि वाम् । सुता युवाकवः सोमा यज्वनः स्तृतबर्हिषः । नासत्यौ नासिकासंस्थौ नैव चासद्गुणौ क्वचित् ॥ १३५॥
रुद्रवर्तनिशब्दार्थः
रुजां द्रावणतो रुद्रो वायुस्तदनुवर्तनात् । स्नेहतोऽनुवशत्वाद्वा तन्मार्गगतितोऽथवा । ‘कस्मिन्न्वहम्’ इति श्रुत्या वासुदेवोऽश्विनावपि ॥ १३६ ॥
रुद्रवर्तनिशब्दोक्ताः ................. ॥ ३ ॥
(पिपीलिका मध्या निचृद् गायत्री) इन्द्रो देवता
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ॥ अण्वीभिस्तना पूतासः ॥ ४ ॥
इन्द्र । आ । याहि । चित्रभानो इतिचित्रऽभानो । सुताः । इमे । त्वाऽयवः ॥ अण्वीभिः । तना । पूतासः ॥ ४ ॥
पञ्चधा चित्रशब्दनिर्वचनम्
.................... चित्रं भद्रं रतं चितौ ॥
चिद्रतेश्चायनीयत्वाद् अदनाद्वा चितोऽभिदा । तादृशा रश्मयो ज्ञानमस्येति भगवान् परः ॥ १३७ ॥
चित्रभानुरिति प्रोक्तस्तेजो वा तादृशं प्रभोः । त्वदिच्छव इमे सोमाः पटीभिस्सूक्ष्मतन्तुभिः ॥ विस्तृत्य शोधिताः ....
सोम-मनसोरभिमानी चन्द्र एव
.............सूक्ष्मप्रमाभिर्वा मनांसि च ॥१३८॥
सोमानां मनसां चैव देवताः सोमरश्मिगाः । सोमभृत्याः समस्तस्य सोम एवाधिपो हरिः ॥ १३९ ॥
इन्द्रप्रार्थना
इन्द्रायाहि धियेषितो विप्रजूतस्सुतावतः ॥ उप ब्रह्माणि वाघतः ॥ ५ ॥
इन्द्र । आ । याहि । धिया । इषितः । विप्रऽजूतः । सुतऽवतः । उप । ब्रह्माणि । वाघतः ॥ ५ ॥
अस्मद्बुद्ध्या प्रार्थितो वा स्वबुद्ध्या प्रेरितोऽपि वा । ब्राह्मणैः प्रेरितो भक्त्या वदतो होतुरञ्जसा ॥ १४० ॥
ब्रह्माणि सोमयुक्तानि यजमानस्य वेच्छतः ।
यज्ञ-होतृ-यजमानानामध्यात्मपरत्वम्
उपायाह्यपि यः कोऽपि साधको यज्ञकृन्मतः । मानसो वाचिको वा स्याद्यज्ञो होता ह्वयन् स च ॥ १४१॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ॥ सुते दधिष्व नश्चनः ॥ ६, ५ ॥
इन्द्र । आ । याहि । तूतुजानः । उप । ब्रह्माणि । हरिऽवः ॥ सुते । दधिष्व । नः । चनः ॥ ६, ५ ॥
वेगवांस्तूतुजानः स्यात् संसारमुपसंहरन् । वर्तते येन हरिवा हरिभिर्वर्ततेऽथ वा ॥ १४२ ॥
पञ्चप्राणाः हरिशब्दवाच्याः
हरणाद्विषयाणां च प्राणा हरय ईरिताः । तेषु वर्तत इत्यस्मात्तान् वाऽथ गमयेदसौ ॥१४३ ॥
हरिवा हरिवान् वाऽपि विष्णुना वर्ततेऽथवा । चनो मन इह प्रोक्तं सुखं च क्वचिदीर्यते ॥१४४॥६,५॥
विश्वेदेवा देवताः
ओमासश्चर्षणीधृतो विश्वेदेवास आगत ॥ दाश्वांसो दाशुषस्सुतम् ॥ ७ ॥
ओमासः । चर्षणिऽधृतः । विश्वे । देवासः । आ । गत ॥ दाश्वांसः । दाशुषः । सुतम् ॥ ७ ॥
आ समन्तात् स्वीकृता मा ओमा इति च शब्दिताः । ओनामा भगवान् विष्णुस्तेन वा निर्मिताः सुराः ॥ ओता मानेषु मावैषु प्रोता ओमा इतीरिताः ॥१४५॥
प्रजाश्चर्षणयः प्रोक्ता विश्वे ते च प्रवेशनात् । सर्वे वाऽथ विशां वानाच्छब्दः कस्मै यथा भवेत् ॥१४६॥
दातारो यजमाना वा... .......... ॥ ७ ॥
अप्शब्दः कर्मवाची
विश्वे देवासो अप्तुरस्सुतमागन्त तूर्णयः ॥ उस्रा इव स्वसराणि ॥ ८ ॥
विश्वे । देवासः । अप्ऽतुरः । सुतम् । आ । गन्त । तूर्णयः ॥ उस्राः ऽइव । स्वसराणि ॥ ८ ॥
..................अप्तुरः कर्मवेगिनः ।
उस्रास्तु रश्मयश्चैव स्वसराणि दिनानि च ॥ १४७ ॥ ८ ॥
विश्वे देवासो अस्रिध एहि मायासो अद्रुहः ॥ मेधञ्जुुषन्त वह्नयः ॥ ९ ॥
विश्वे । देवासः । अस्रिधः । एहिऽमायासः । अद्रुहः ॥ मेधम् । जुषन्त । वह्नयः ॥ ९ ॥
असंसारादस्रिधस्ते देवाश्चेन्मोक्षनिश्चयात् । यथेष्टनिश्चितज्ञाना एहिमायाः समन्ततः ॥१४८ ॥
अदुःखत्वादद्रुहस्ते मेधं यज्ञं जुषन्तु नः । वह्नयो वहनादस्य ॥ ९ ॥
सरस्वतीदेवता
पावका नस्सरस्वती वाजेभिर्वाजिनीवती ॥ यज्ञं वष्टु धिया वसुः ॥ १० ॥
पावका । नः । सरस्वती । वाजेभिः । वाजिनीऽवती ॥ यज्ञम् । वष्टु । धियाऽवसुः ॥ १० ॥
सरस्वतीशब्दार्थो भगवान्
...............शोधकत्वात्तु पावका ॥ १४९ ॥
सरणात् सर्वगत्वेन सर्वज्ञो वा सरो हरिः । सरसः सरतित्वाद्वा तद्वत्येव सरस्वती । हरौ गुणाः सरश्शब्दा देवी तु हरिवाचिनी ॥ १५०॥
हरिप्रियत्वतो वायुः सरस्वांस्तत्प्रियाऽथवा । गुणस्त्वेन ततत्वाद्वा भगवांस्तु सरस्वती ॥ १५१॥
स्त्रीरूपश्चैव पुंरूपो भगवान्न नपुंसकः । स्त्रीपुन्दोषविहीनत्वादपि तच्छब्दगोचरः ॥ १५२ ॥
वाजिनीशब्दार्थनिरूपणम्
अन्नेनो वाजिनामीशो वाजिनी सूर्य उच्यते । वाजीनच्छन्दसां वाऽपि स्वामी प्रोक्तः स वाजिनी ॥ १५३॥
छन्दांस्यश्वा यतस्तस्य ते चेना अन्यवाजिना । अन्नवत्त्वाद्वाजिनी वाग् ज्ञानयुद्धत्वतोऽपि वा ॥१५४॥
वाजिनीवती सरस्वती
स पुत्रो वागुमा तस्याः पुत्री तद्वाजिनीवती ॥ सरस्वती हरिर्वाऽपि यज्ञं वहतु नोऽशनैः ॥ १५५ ॥
अन्नदा हि सदा देवी धिया सह वसेद्यतः । धियावसुर्नित्यबोधा .............. ॥ १० ॥
पिपीलिकामध्या निचृद् गायत्री
चोदयित्री सूनृतानाञ्चेेतन्ती सुमतीनाम् ॥ यज्ञन्दधे सरस्वती ॥ ११ ॥
चोदयित्री । सूनृतानाम् । चेतन्ती । सुऽमतीनाम् । यज्ञम् । दधे । सरस्वती ॥ ११ ॥
सर्वकर्मणां वाक्-बुद्धिमूलत्वम्
....................सुवाचां प्रेरका सदा ॥ १५६ ॥
वेदे णिज्लोपनिमित्तकथनम्
सुबुद्धिज्ञापिका सैव स्वातन्त्र्याल्लुप्तयो भवेत् । अनेनैव प्रकारेण सैव यज्ञादिधारिणी ॥ १५७ ॥ ११ ॥
महो अर्णस्सरस्वती प्रचेतयति केतुना ॥ धियो विश्वा विराजति ॥ १२, ६, ३, १ ॥
महः । अर्णः । सरस्वती । प्र । चेतयति । केतुना ॥ धियः । विश्वाः । वि । राजति ॥ १२,६,३,१ ॥
महो अर्णः परं ब्रह्म तेजस्त्वाच्च महत्त्वतः ।
अर्णो भगवान्
अरमानन्दरूपत्वात् णो हि निर्वृतिवाचकः ॥ १५८ ॥
तज्ज्ञापयति सा देवी ज्ञानं दत्वा महत्तरम् । महो अर्णः स्वयं देवः स्वमात्मानं प्रकाशयेत् । विराजयति विश्वाश्च धियः सुज्ञानदानतः ॥ १५९ ॥
॥ इति तृतीयं सूक्तम् ॥
सूक्त-अनुवाकयोः लक्षणम्
सूक्तं त्वनारतं प्रोक्तम् अनुवागेककालिका ॥ (वेदेषु आवापोद्वापे हेतुनिरूपणम्) अन्यथात्वं च तत्र स्यादावापोद्वापतस्त्वृचाम् ॥ १६०॥
वेदानन्तत्वविज्ञप्त्यै तौ चक्रे बादरायणः ।
मूलवेदे शाखादिविभागकारणनिरूपणम्
ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि निगदाच्चैव तथा सामानि सामतः ॥१६१॥
एवं पुराणवचनादुद्धृता हि ततस्ततः । ऋचः शाखात्वमापन्नाः शिष्यतच्छिष्यकैरिमाः ॥१६२॥
मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थतः । शुनःशेपोदिताभ्यश्च पठ्यन्तेऽन्यत्र काश्चन ॥ १६३॥
अत्राप्यक्रमतो दृष्टिरिति नैकक्रमो भवेत् ।
अष्टकाध्यायादिविभागभेदे कारणनिरूपणम्
अनन्तत्वात्तु वेदानां प्रायः कर्मानुसारतः । सङ्क्षेेपं कृतवान् देवः शिष्याश्च तदनुज्ञया ॥ १६४ ॥
अष्टकाध्यायवर्गादि भेदं च कृतवान् प्रभुः । स्वाध्यायविश्रमार्थाय तस्मात् क्रमविपर्ययः ॥ १६५ ॥
वेदोद्धारे कारणान्तरनिरूपणम्
तत्र तत्रैवान्तरिता दृश्यन्ते च खिला अपि । यत्रार्थे न विशेषोऽस्ति पदान्तरितताऽत्र च । यत्राल्पोऽपि विशेषोऽस्ति पदं नान्तरितं भवेत् ॥ १६६ ॥
॥ इति तृतीयं सूक्तम् ॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–२ सूक्तम् – ४
सुरूपकृत्नुं दशर्चम्, वैश्वामित्रो मधुच्छन्दा ऋषिः, गायत्री,३ विरा १० निचृत् , इन्द्रः देवता
मुद्गलः– द्वितीयानुवाके चत्वारि सूक्तानि । तत्र सुरूपम् इत्यादिकम् दशर्चं प्रथमसूक्तम् । इन्द्रं पृच्छ इति चतुर्थ्याम् ऋचि लिङ्गदर्शनात् इन्द्रो देवता ॥
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ॥ जुहूमसि द्यविऽद्यवि ॥ १ ॥
सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ॥ जुहूमसि । द्यविऽद्यवि ॥ १ ॥
इष्टार्थसिद्धये रक्षणाय च भगवति प्रार्थना
विष्णुं सुरूपकर्तारमभिप्रेतार्थसिद्धये । त्राणाय वा कामधेनुमिव दोहाय तत्स्थितेः ॥१६७॥
दिने दिने स्वाह्वयामः.......... ॥ १ ॥
सोमपानार्थमिन्द्रप्रार्थना
उप नस्सवना गहि सोमस्य सोमपाः पिब ॥ गोदा इद्रेवतो मदः ॥ २ ॥
उप । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब ॥ गोऽदाः । इत् । रेवतः । मदः ॥ २ ॥
................ज्ञानदोऽस्यैव चाधिकम् । ज्ञानाख्यरयियुक्तस्य हिरण्यादिमतोऽपि वा ॥ १६८॥
सुखकारी भवान् ......॥ २ ॥
विराड् गायत्री
अथा ते अन्तमानां विद्याम सुमतीनाम् ॥ मानो अतिख्य आगहि ॥ ३ ॥
अथ । ते । अन्तमानाम् । विद्याम । सुऽमतीनाम् ॥ मा । नः । अति । ख्यः । आ । गहि ॥ ३ ॥
.................तस्माल्लभेम सुमतीस्तव । अन्ते मितास्त्वद्विषया मतयो ह्युत्तमोत्तमाः ॥ अस्मानतीत्य मा पश्य करुणार्द्रदृशा सदा ॥१६९॥ ३ ॥
परेहि विग्रमस्तृतमिन्द्रम्पृच्छा विपश्चितम् ॥ यस्ते सखिभ्य आवरम् ॥ ४ ॥
परा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छा । विपःऽचितम् ॥ यः । ते । सखिऽभ्यः । आवरम् ॥ ४ ॥
मन्मनो वाऽथ शक्रो वा दूरेऽपि परमेश्वरम् । गच्छाग्राह्यमनष्टं च व्याप्तचित्तं य एव च ॥ सखिभ्य उत्तमो नित्यम् ................॥ ४ ॥
उत ब्रुवन्तु नोनिदो निरन्यतश्चिदारत । दधाना इन्द्र इद्दुवः ॥ ५, ७ ॥
उत । ब्रुवन्तु । नः । निदः । निः । अन्यतः । चित् । अरत ॥ दधानाः । इन्द्रे । इत् । दुवः ॥ ५, ७ ॥
..................निदस्तस्य समीपगाः ॥ १७०॥
तेऽपि ब्रुवन्तु नो देवं प्रापुर्ये चान्यतोऽपि तम् । निर्गत्याज्ञानतस्त्वस्माद् दधाना ईश एव च । दुवः प्राणान् ब्रुवं त्वेव तेऽपि नः परमेश्वरम् ॥१७१॥५ ॥
उत नः सुभगा अरिर्वोचेयुर्दस्म कृष्टयः ॥ स्यामेदिन्द्रस्य शर्मणि ॥ ६ ॥
उत । नः । सुऽभगान् । अरिः । वोचेयुः । दस्म । कृष्टयः । स्याम । इत् । इन्द्रस्य । शर्मणि ॥ ६ ॥
अरयोऽपि प्रजा अस्मान् वोचेयुः सुभगान् सदा । शत्रुभेदिंस्तवेन्द्रस्य स्यामैवानुग्रहे सुखे ॥१७२॥ ६ ॥
एमाशुमाशवे भर यज्ञश्रियन्नृमादनम् ॥ पतयन्मन्दयत्सखम् ॥ ७ ॥
आ । र्इम् । आशुम् । आशवे । भर । यज्ञऽश्रियम् । नृऽमादनम् । पतयत् । मन्दयत्ऽसखम् ॥ ७ ॥
आशुवीर्य तवैवाशुं सोमं क्षिप्रं मनोऽपि वा । आभरस्वोदरे तुष्ट्या हृदि वा यज्ञभूषणम् ॥ १७३॥
ईमेव पुंमदकरं मदादुत्पतनादिके । हेतुं मन्दत्वहेतुं च तत्सखीनां पुरोगतेः ॥१७४॥७॥
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ॥ प्रावो वाजेषु वाजिनम् ॥ ८ ॥
अस्य । पीत्वा । शतक्रतो इतिशतऽक्रतो । घनः । वृत्राणाम् । अभवः । प्र । आवः । वाजेषु । वाजिनम् ॥ ८ ॥
एनं पीत्वा बहुज्ञानाभूस्तमोभिरनावृतः । प्रसादादेव मुक्तेषु तमो सह्यतया घनः ॥ १७५॥
आवृतेरेव वृत्राणि ह्यज्ञानान्यन्नदं नरम् । प्रावो युद्धेषु योद्धारं भक्तं ज्ञानिनमेव च ॥ १७६॥ ८ ॥
अज्ञानादिभिः सह युद्धे रक्षणाय इन्द्रप्रार्थना
तन्त्वा वाजेषु वाजिनं वाजयामश्शतक्रतो । धनानामिन्द्र सातये ॥ ९ ॥
तम् । त्वा । वाजेषु । वाजिनम् । वाजयामः । शतक्रतो इति शतक्रतो ॥ धनानाम् । इन्द्र । सातये ॥ ९ ॥
योधयामो वयं तं त्वां ज्ञानादिधनलब्धये । अज्ञानाद्यस्मदरिभिः ..............॥ ९ ॥
यो रायो३ऽवनिर्महान्त्सुपारस्सुन्वतस्सखा ॥ तस्मा इन्द्राय गायत ॥ १०, ८, ४ ॥
यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ॥ तस्मै । इन्द्राय । गायत ॥ १०, ८, ४ ॥
............ योऽशेषद्रविणावनिः । सुखदः संसृतेः पारस्तस्मा इन्द्राय गायत ॥ १७७ ॥
कम्पस्वरस्य अर्थविशेषनिरूपणम्
कम्पोऽशेषग्रहे क्वापि लज्जायां वा पुरातने । पृथक्त्वे धृष्यतायां वा हरिणर्क्संहितोदितः ॥१७८ ॥ १० ॥
॥ इति चतुर्थं सूक्तम् ॥
मण्डलम्—१. अध्यायः–१. अनुवाकः–२. सूक्तम्–५.
‘आ त्वा’ दशर्चम् । वैश्वामित्रो मधुच्छन्दा गायत्री (१ विरा, ३ पिपीलिका मध्या निचृत्, ५-७, ९ निचृत्, ८ पादनिचृत्) इन्द्रो देवता
विराड् गायत्री
आ त्वेता निषीदतेन्द्रमभि प्र गायत ॥ सखायस्स्तोमवाहसः ॥ १ ॥
आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत ॥ सखायः । स्तोमऽवाहसः ॥ १ ॥
आर्ची उष्णिक्
पुरूतमम्पुरूणामीशानं वार्याणाम् ॥ इन्द्रं सोमे सचा सुते ॥ २ ॥
पुरुऽतमम् । पुरूणाम् । ईशानम् । वार्याणाम् । इन्द्रम् । सोमे । सचा । सुते ॥ २ ॥
सुपूर्णानां पूर्णतमं वरेण्यानामधीश्वरम् । सुते सोमे सुखेनैव स चागायत तं प्रभुम् ॥१७१॥ २ ॥
पिपीलिकामध्या निचृद् गायत्री
स घा नो योग आभुवत्स राये स पुरन्ध्याम् ॥ गमद्वाजेभिरास नः ॥ ३ ॥
सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरम्ऽध्याम् ॥ गमत् । वाजेभिः । आ । सः । नः ॥ ३ ॥
घशब्द अवधारणार्थः
मुक्तौ योगायाऽसमन्ताद् भवेन्नो घोऽवधारणे । स एव भगवान् ज्ञानवित्ताय स च बुद्धिगः ॥ १८०॥
बुद्धिः पुराश्रयत्वेन पुरन्धिः पत्न््नयथापि वा । पत्न््नयर्थत्वे तु तादर्थ्यं सोऽन्नैः सह न आव्रजेत् ॥१८१॥३ ॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ॥ तस्मा इन्द्राय गायत ॥ ४ ॥
यस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रवः । तस्मै । इन्द्राय । गायत ॥ ४ ॥
यस्य स्थितौ न वृणुते हर्यग्रमपि शत्रवः । मनः पुरो वा विषयहरणान्मन एव च । बुद्धिश्च हरिशब्दोक्ते तमआदीनि शत्रवः ॥१८२॥४ ॥
निचृद् गायत्री
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ॥ सोमासो दध्याशिरः ॥ ५, ९ ॥
सुतऽपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये ॥ सोमासः । दधिऽआशिरः ॥ ५, ९ ॥
सोमपे शुचयः सोमाः प्राप्त्यै दधिविमिश्रिताः । मनांसि ध्यानयुक्तानि वायान्ति हरये सदा ॥ १८३ ॥५,९ ॥
निचृद् गायत्री
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ॥ इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ ६ ॥
त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः ॥ इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥ ६ ॥
सदा पूर्णः शुभज्ञानज्यैष्ठ्यव्यक्त्यै सुताप्तये । न क्षुदादेरभिव्यक्तोऽभवः......... ॥ ६ ॥
निचृद् गायत्री
आ त्वा विशन्त्वाशवस्सोमास इन्द्र गिर्वणः ॥ शन्ते सन्तु प्रचेतसे ॥ ७ ॥
आ । त्वा । विशन्तु । । आशवः । सोमासः । इन्द्र । गिर्वणः ॥ शम् । ते । सन्तु । प्रऽचेतसे ॥ ७ ॥
......................... गीर्भिर्वृतप्रभो । प्रकृष्टचेतास्त्वद्भृत्यो योऽस्मै स्युः शङ्कराः सुताः ॥ १८४॥७ ॥
पादनिचृद् गायत्री
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ॥ त्वां वर्धन्तु नो गिरः ॥ ८ ॥
त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ॥ त्वाम् । वर्धन्तु । नः । गिरः ॥ ८ ॥
व्यञ्जयन्त्यधिकं स्तोमाः साम््नयुक्थान्यृक्षु चैव हि । महागुणैः व्यञ्जयन्तु गिरोऽस्माकमपि प्रभो ॥ १८५ ॥
विष्णोः वृद्धित्वे आकाशदृष्टान्तः
आकाशवृद्धिवद् वृद्धिर्विष्णोः स्यान्नैव चान्यथा । ‘न वर्धते नोकनीयान््’ इति ह्येनं श्रुतिर्जगौ ॥ १८६॥
महातात्पर्यरोधाच्च श्रुत्यर्थो नापरो भवेत् । यद्यन्यापेक्षया वृद्धिरीशत्वं स्यात् कुतोऽस्य च ॥ अक्षितोतिरिति ह्यस्मात् पूर्णाभिप्रायतोदिता ॥ १८७॥८ ॥
पादनिचृद् गायत्री
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ॥ यस्मिन्विश्वानि पौंस्या ॥ ९ ॥
अक्षितऽऊतिः । सनेत् । इमम् । वाजम् । इन्द्रः । सहस्रिणम् ॥ यस्मिन् । विश्वानि । पौंस्या ॥ ९ ॥
अनन्तफलदं वाजमस्मत्तो लभतां स च । ददातु वा पौरुषाणि शक्तयो यत्र चाखिलाः ॥ १८८ ॥
अतश्चानन्तशक्तित्वान्न वृद्ध्याद्याः कथञ्चन । सर्वोपेतेत्येतमर्थमभिप्रेत्याह वेदरा ॥ १८९॥९ ॥
भगवति बन्धमुक्ति-संसारवधप्रार्थना
मानो मर्ता अभिद्रुहन्तनूनामिन्द्र गिर्वणः ॥ ईशानो यवया वधम् ॥ १०, १०, ५ ॥
मा । नः । मर्ताः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः ॥ ईशानः । यवय । वधम् ॥ १०,१०,५ ॥
मा मर्तानस्तनूनां तु द्रोग्धारः स्युः कथञ्चन । ईशोऽस्यपाकुरु वधं तेन नो मुक्तिदानतः ॥ १९०॥
मानुषेभ्यस्तनूनां च नैव नः स्युर्विपत्तयः । कालेन दैवतः प्राप्तः स्याददेहत्वतो वधः ॥ १९१ ॥ १० ॥
॥ इति पञ्चमं सूक्तम् ॥
मण्डलम्—१.अध्यायः–१.अनुवाकः–२. सूक्तम्—६.
द्वितीयानुवाके तृतीयं सूक्तम् । युञ्जन्ति दशर्चम् , वैश्वामित्रो मधुच्छन्दाः ऋषिःः १-२,४ मरुतः, ३-५ इन्द्रमरुतौ, ६-१० इन्द्रो देवता गायत्रीछन्दः (१२ विरा, ४.८ निचृत्)
युञ्जन्ति ब्रध्नमरुषञ्चरन्तम्परि तस्थुषः ॥ रोचन्ते रोचना दिवि ॥ १ ॥
युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः । रोचन्ते । रोचना । दिवि ॥ १ ॥
पौंस्यानि वासुदेवस्य ब्रध्नं वृद्धं दिवाकरम् । अरुणं चरन्तं परितो गिरीन्युञ्जन्ति सर्वदा ॥ १९२ ॥
तैरेवान्यानि चन्द्रादि रोचनानि त्रिविष्टपे । रोचयन्ति ॥ १ ॥
विराड् गायत्री
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ॥ शोणा धृष्णू नृवाहसा ॥ २ ॥
युञ्जन्ति । अस्य । काम्या । हरी इति । विऽपक्षसा । रथे ॥ शोणा । धृष्णू इति । नृऽवाहसा ॥ २ ॥
.........हरी चास्य मनोबुद्धी स्वशक्तयः । युञ्जन्त्यधिगुणत्वेन काम्यावश्वावथापि वा ॥ १९३ ॥
विशिष्टपक्षसंयुक्ताविव क्षिप्रतरौ सदा । रथे देहेऽपि वा देवाः स्वमनो बुद्धिमेव च ॥ १९४ ॥
अस्य देहे प्रयुञ्जन्ति सूर्यादीन् स्थापयन्ति च । सूर्यादिस्थापकत्वं च ब्रह्मादीनां भवेत् सदा ॥ १९५॥
शोणौ च शमणौ प्रोक्तौ सुखप्राप्तौ यतस्सदा । श्यामौ मूर्धनि शोणौ च शक्राश्वावग्रगौ स्मृतौ ॥
धृष्टौ नॄन् प्रति तं वेशं वहन्तौ तावुभावपि ॥ १९६॥२ ॥
इन्द्रो मरुतश्च देवताः
केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे ॥ समुषद्भिरजायथाः ॥ ३ ॥
केतुम् । कृण्वन् । अकेतवे । पेशः । मर्याः । अपेशसे ॥ सम् । उषत्ऽभिः । अजायथाः ॥ ३ ॥
अज्ञाय कुर्वन् सज्ज्ञानं हेमाहेमाय चेश्वरः । उषद्भिः सम्प्रकाशद्भिः शक्तिभिर्व्यक्ततामगाः ॥ १९७ ॥
मर्या मरणवन्तोऽपि देवा एवम् ............॥ ३ ॥
निचृद् गायत्री, मरुतः देवताः
आदहस्वधामनु पुनर्गर्भत्वमेरिरे ॥ दधाना नाम यज्ञियम् ॥ ४ ॥
आत् । अह । स्वधाम् । अनु । पुनः । गर्भऽत्वम् । आऽर्इरिरे ॥ दधानाः । नाम । यज्ञियम् ॥ ४ ॥
.......................हरेर्वशात्॥ तदैव सुखमन्वेव पुनर्गूढत्वमापिरे ॥ १९८॥
स्वेच्छयैव परेशस्य शक्तयो देवता अपि । यज्ञे वाच्यं दधानाश्च नाम ........ ॥ ४ ॥
इन्द्रो मरुतश्च देवताः
वीळुचिदारुजत्नुभिर्गुहाचिदिन्द्र वह्निभिः ॥ अविन्द उस्रिया अनु ॥ ५, ११ ॥
वीळुु । चित् । आरुजत्नुऽभिः । गुहा । चित् । इन्द्र । वह्निऽभिः ॥ अविन्दः । उस्रियाः । अनु ॥ ५,११ ॥
....................... वीु दृढं ह्यपि ॥ १९९ ॥
आरुजद्भिः स्वसामर्थ्यैर्गुहायां संस्थितोऽपि सन् । वहद्भिरखिलं लोकं प्रकाशत्वानि लब्धवान् ।
देवैर्वैतादृशैः साकमानुकूल्येन लब्धवान् ॥ २००॥ ५॥
इन्द्रो देवता
देवयन्तो यथा मतिमच्छा विदद्वसुङ्गिरः ॥ महामनूषत श्रुतम् ॥ ६ ॥
देवऽयन्तः । यथा । मतिम् । अच्छ । विदत्ऽवसुम् । गिरः ॥ महाम् । अनूषत । श्रुतम् ॥ ६ ॥
सम्यक्प्रद्योतयन्तोऽमुं मतिरूपं यथास्थितम् । विदद्वित्तं महान्तं च विश्रुतं सुगिरोऽस्तुवन् ॥ २०१ ॥ ६ ॥
इन्द्रो देवता
इन्द्रेण सं हि दृक्षसे सञ्जग्मानो अबिभ्युषा ॥ मन्दू समानवर्चसा ॥ ७ ॥
इन्द्रेण । सम् । हि । दृक्षसे । सम्ऽजग्मानः । अबिभ्युषा ॥ मन्दू इति । समानऽवर्चसा ॥ ७ ॥
तस्य सन्दर्शनायैव सङ्गतस्तेन शङ्करः । मखात्मा पुरुहूतो वा श्रीभूमी च सुखात्मिके ॥ २०२ ॥७ ॥
निचृद् गायत्री, इन्द्रो देवता
अनवद्यैरभिद्युभिर्मखस्सहस्वदर्चति ॥ गणैरिन्द्रस्य काम्यैः ॥ ८ ॥
अनवद्यैः । अभिद्युऽभिः । मखः । सहस्वत् । अर्चति ॥ गणैः । इन्द्रस्य । काम्यैः ॥ ८ ॥
अनवद्यैर्महाज्ञानैः प्रियैर्देवगणैः सह । वायुना च सहार्चन्ति सुधीत्वात् परमेश्वरम् ॥२०३ ॥ ८ ॥
इन्द्रो देवता
अतः परिज्मन्नागहि दिवो वा रोचनादधि ॥ समस्मिन्नृञ्जते गिरः ॥ ९ ॥
अतः । परिऽज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि ॥ सम् । अस्मिन् । ऋञ्जते । गिरः ॥ ९ ॥
अतो हेतोरिहायाहि दिवो वा सूर्यमण्डलात् । परिज्मन् सर्वगास्माकमधिकृत्य समर्हणम् ॥ अस्मिन् गिरः प्राप्नुवन्ति सम्यक्परममुख्यतः ॥ २०४ ॥
अनुक्रमणिकोेक्तदेवताविमर्शः
युञ्जन्तीत्यत्र बाहुल्यात् देवयन्तोत इत्यपि । बाहुल्यादृ(ल्यात् दृष्टि)ष्टितो गीर्भिर्विनाऽर्थो नान्य इष्यते ॥ २०५॥ ९ ॥
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ॥ इन्द्रं महो वा रजसः ॥ १०, १२, ६ ॥
इतः । वा । सातिम् । ईमहे । दिवः । वा । पार्थिवात् । अधि ॥ इन्द्रम् । महः । वा । रजसः ॥ १०, १२, ६ ॥
इतो दिवो वा पातालात् सातिं लाभस्वरूपिणम् । महतो रञ्जकात् विष्णोर्लोकाद्वा तमधीमहे ॥ २०६ ॥ १०,१२,६ ॥
॥ इति षष्टं सूक्तम् ॥
मण्डलम् —१.अध्यायः–१. अनुवाकः-२. सूक्तम्—७.
द्वितीयानुवाके चतुर्थम् ‘इन्द्रं’ दशर्चम्, वैश्वामित्रो मधुच्छन्दाः ऋषिः, गायत्री (२ निचृत्, ८, १० पिपीलिकामध्या निचृत्,९ पादनिचृत्) इन्द्रो देवता
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ॥ इन्द्रं वाणीरनूषत ॥ १ ॥
इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः ॥ इन्द्रम् । वाणीः । अनूषत ॥ १ ॥
तमेव गाथिनः साम्ना स्तुवन्त्यृग्भिश्च बह्वृचाः । बृहन्तमन्यवाणीभिरपि .............. ॥ १ ॥
निचृद् गायत्री
इन्द्र इद्घर्योः सचा सम्मिश्ल आवचो युजा ॥ इन्द्रो वज्री हिरण्ययः ॥ २ ॥
इन्द्रः । इत् । हर्योः । सचा । सम्ऽमिश्लः । आ । वचःऽयुजा ॥ इन्द्रः । वज्री । हिरण्ययः ॥ २ ॥
भक्तशरीररथाधिरूढो भगवान्
.................. हर्यो विमिश्रितः ॥ २०७ ॥ रथेऽथवा मनोबुद्ध्योर्वाङ्मात्रेणैव योगिनोः ॥
हिरण्ययो भगवान्
सचा सुखेन वज्री च ज्ञानानन्दो हि धातुतः । हितश्च रमणीयश्च हिरण्यय इतीरितः ॥ २०८ ॥२ ॥
इन्द्रस्य पर्वतादिनियन्तृत्वमहिमावर्णनम्
इन्द्रो दीर्घाय चक्षस आसूर्यं रोहयद्दिवि ॥ वि गोभिरद्रिमैरयत् ॥ ३ ॥
इन्द्रः । दीर्घाय । चक्षसे । आ । सूर्यम् । रोहयत् । दिवि ॥ वि । गोभिः । अद्रिम् । ऐरयत् ॥ ३ ॥
दीर्घकालं दर्शनाय सूर्यमारोहयद्दिवि । ज्ञानैरादरयोग्यं च प्राणात्मानं समैरयत् ॥ २०९॥३ ॥
निचृद् गायत्री
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ॥ उग्र उग्राभिरूतिभिः ॥ ४ ॥
इन्द्र । वाजेषु । नः । अव । सहस्रऽप्रधनेषु । च ॥ उग्रः । उग्राभिः । ऊतिऽभिः ॥ ४ ॥
बहुभिर्युध्यमानेषु युद्धेष्वपि सदाऽव नः । दुष्टोग्रैः सदभिप्रायैः ...... ॥ ४ ॥
मोक्ष-सासांरिकपुरुषार्थार्थ भगवत्प्रार्थना
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥ युजं वृत्रेषु वज्रिणम् ॥ ५, १३ ॥
इन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अर्भे । हवामहे ॥ युजम् । वृत्रेषु । वज्रिणम् ॥ ५, १३ ॥
.................महदल्पधनार्थिनः । हवामहेऽरिवर्ज्यं तं तमसां प्रतियोगिनम् ॥ २१० ॥ ५॥
अविद्यावरणापसरणार्थं भगवति प्रार्थना
स नो वृषन्नमुञ्चरुं सत्रादावन्नपावृधि ॥ अस्मभ्यमप्रतिष्कुतः ॥ ६ ॥
सः । नः । वृषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुतः ॥ ६ ॥
अस्मदीयं चरुं भोज्यमानन्दं त(त्व)मपावृणु । मोक्षगं सर्वदातस्त्वमप्रतिद्वन्द्व नो वृषन् ॥२११॥६ ॥
स्तोमा अपि न साकल्येन विष्णुवाचकाः
तुञ्जे तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ॥ न विन्धे अस्य सुष्टुतिम् ॥ ७ ॥
तुञ्जेऽतुञ्जे । ये । उत्ऽतरे । स्तोमाः । इन्द्रस्य । वज्रिणः ॥ न । विन्धे । अस्य । सुऽस्तुतिम् ॥ ७ ॥
त्वयैव प्रेरणे जाते तत्र तत्र य उत्तराः । तेऽपि स्तोमाः सुष्टुतित्वमस्यानन्त्यान्न चाप्नुयुः ॥ २१२॥७ ॥
भगवतः प्रेरकत्वे वृषदृष्टान्तः
पिपीलिका मध्या निचृद् गायत्री
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ॥ ईशानो अप्रतिष्कुतः ॥ ८ ॥
वृषा । यूथा इव । वंसगः । कृष्टीः । इयर्ति । ओजसा ॥ ईशानः । अप्रतिऽस्कुतः ॥ ८ ॥
प्रतिवीरो वृषा वंसस्तद्गन्ता वंसगो विभीः । यूथान्याकर्षति यथा प्रजाः प्रेरयति प्रभुः । अल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं तु युज्यते ॥२१३॥८॥
पादनिचृद् गायत्री
य एकश्चर्षणीनां वसूनामिरज्यति ॥ इन्द्रः पञ्च क्षितीनाम् ॥ ९ ॥
यः । एकः । चर्षणीनाम् । वसूनाम् । इरज्यति ॥ इन्द्रः । पञ्च । क्षितीनाम् ॥ ९ ॥
पञ्चविधप्रजापालको भगवान्
राजा भवति वित्तानां प्रजानां चैक एव यः । देवगन्धर्वदैतेयपितृमानुषभेदतः । प्रजानामपि पञ्चानां सामान्याच्च विशेषतः ॥२१४॥९ ॥
केवलशब्दवाच्य इन्द्रः पिपीलिकामध्या निचृद् गायत्री
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ॥ अस्माकमस्तु केवलः ॥ १०, १४, ७, २ ॥
इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः ॥ अस्माकम् । अस्तु । केवलः ॥ १०, १४, ७, २ ॥
सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः । स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः ॥ २१५ ॥ ॥ १०,१४,७,२ ॥
॥ इति सप्तमं सूक्तम् ॥
मण्डलम्—१.अध्यायः–१ .अनुवाकः–३. सूक्तम्– ८.
‘एन्द्रम्’ दशर्चम्, वैश्वामित्रो मधुच्छन्दाः ऋषिः, गायत्री च्छन्दः (१,५,८ निचृत्, २ प्रतिष्ठा, १० वर्धमाना) इन्द्रो देवता
निचृद् गायत्री
इन्द्रे ज्ञानप्रार्थना
एन्द्र सानसिं रयिं सजत्वानं सदा सहम् ॥ वर्षिष्ठमूतये भर ॥ १ ॥
आ । इन्द्र । सानसिम् । रयिम् । सऽजित्वानम् । सदाऽसहम् ॥ वर्षिष्ठम् । ऊतये । भर ॥ १ ॥
जयिना सहितं लाभयुक्तं वित्तं सदाबलम् । वर्षिष्ठं सुमहद्रक्षानिमित्तं नित्यदा भर ॥ २१६ ॥ १ ॥
भगवद्दत्तज्ञानादिना बाह्य-आन्तरशत्रुपराजयः
विराड् गायत्री
नियेन मुष्टिहत्यया नि वृत्रा रुणधामहै ॥ त्वोतासो न्यर्वता ॥ २ ॥
नि । येन । मुष्टिऽहत्यया । नि । वृत्रा । रुणधामहै ॥ त्वाऽऊतासः । नि । अर्वता ॥ २ ॥
येनारीन् मुष्टियुद्धेन तमांसि ज्ञानयुद्धतः । त्वत्प्रेरिता निरुन्धामः कांश्चिद्वा तुरगादिभिः ॥
उपसर्गावृत्त्या क्रियापदावृत्तिः
आवृत्त्यैवोपसर्गस्य क्रियाऽऽवृत्तिर्भविष्यति ॥२१७॥२ ॥
इन्द्र त्वोतास आ वयं वज्रङ्घना ददीमहि ॥ जयेम संयुधि स्पृधः ॥ ३ ॥
इन्द्र । त्वाऽऊतासः । आ । वयम् । वज्रम् । घना । ददीमहि ॥ जयेम । सम् । युधि । स्पृधः ॥ ३ ॥
त्वत्प्रेरिता ज्ञानरतिं दृढत्वेनाऽददीमहि ॥ ३ ॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ॥ सासह्याम पृतन्यतः ॥ ४ ॥
वयम् । शूरेभिः । अस्तृऽभिः । इन्द्र । त्वया । युजा । वयम् ॥ ससह्याम । पृतन्यतः ॥ ४ ॥
त्वया पृतन्यतः शत्रूनभिष्याम सुयोद्धृभिः ॥२१८॥४ ॥
निचृद् गायत्री
महा इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ॥ द्यौर्न प्रथिना शवः ॥ ५, १५ ॥
महान् । इन्द्रः । पर । च । नु । महिऽत्वम् । अस्तु । वज्रिणे ॥ द्यौः । न । प्रथिना । शवः ॥ ५, १५ ॥
जीवस्य ब्रह्मभावो न चिन्त्यः
यस्मान्महाननादिश्च विष्णुर्जीवोऽवरस्तथा । तस्यैवास्तु महत्त्वं तन्न जीवब्रह्मतां स्मरेत् ।
शवशब्दः सुखबलवाचकः
आकाशवत् प्रथिम्नाऽसौ शवः सुखबले तथा ॥ २१९॥५॥
(७६) समोहे वाय आशत नरस्तोकस्य सनितौ ॥ विप्रासो वा धियायवः ॥ ६ ॥
भगवदज्ञानिनः पशवः
अन्यसंवहनेनापि ये तं प्राप्ता जनार्दनम् । ज्ञानलाभेन तु नरस्त एव पशवो परे । विप्राश्चैव धिया युक्ता मूर्खाः शूद्रसमा मताः॥२२०॥६॥
भगवत इष्टदत्वे समुद्रदृष्टान्तः
यः कुक्षिस्सोमपातमस्समुद्र इव पिन्वते ॥ उर्वीरापो न काकुदः ॥ ७ ॥
यः । कुक्षिः । सोमऽपातमः । समुद्रःऽइव । पिन्वते ॥ उर्वीः । आपः । न । काकुदः ॥ ७ ॥
यः कुक्षिस्तस्य देवस्य समुद्र इव सोऽखिलान् । कामान् क्षरति भक्ताय महाप इव तर्पकाः ॥ काकुदस्तस्य जिह्वास्तु बह्व्यो बहुमुखेषु याः ॥२२१॥७ ॥
निचृद् गायत्री
एवा ह्यस्य सूनृता विरप्शी गोमती मही ॥ पक्वा शाखा न दाशुषे ॥ ८ ॥
एव । हि । अस्य । सूनृता । विऽरप्शी । गोऽमती । मही ॥ पक्वा । शाखा । न । दाशुषे ॥ ८ ॥
एवमेवास्य वाणी च वेदेता महती तथा । पक्वा शाखेव यजते वरदात्री विरप्शिनः ॥ २२२॥ बलिष्ठस्य हि ते ................. ॥ ८ ॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ॥ सद्यश्चित् सन्ति दाशुषे ॥ ९ ॥
एव । हि । ते । विऽभूतयः । ऊतयः । इन्द्र । मावते ॥ सद्यः । चित् । सन्ति । दाशुषे ॥ ९ ॥
............सन्ति सद्योऽपि यजते हि ते । मावते ज्ञानिने नित्यमूतयश्च विभूतयः ॥ २२३॥९ ॥
वर्धमाना गायत्री
एवा ह्यस्य काम्यास्तोम उक्थं च शंस्या ॥ इन्द्राय सोमपीतये ॥ १०, १६, ८ ॥
एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या ॥ इन्द्राय । सोमऽपीतये ॥ १०, १६, ८ ॥
स्तोमा उक्थानि चैवास्य तस्मै काम्यानि सर्वदा । गेयाः शंस्यानि सोमस्य पीतये नान्यथा पिबेत् ॥ २२४ ॥ १० ॥
॥ इति अष्टमं सूक्तम् ॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम्—९.
इन्द्रेहि दशर्चम् , ऋषिः - मधुच्छन्दाः, गायत्री छन्दः, इन्द्रो देवता
निचृद् गायत्री
इन्द्रेहि मत्स्यन्धसो विश्वेभिस्सोमपर्वभिः ॥ महा अभिष्टिरोजसा ॥ १ ॥
इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः ॥ महान् । अभिष्टिः । ओजसा ॥ १ ॥
सोमपाः सोमपर्वाणः सर्वं यस्मात्तदिच्छया । अभिष्टिरोजसा नित्यं मदं सुखमवाप्स्यसि ॥२२५ ॥ १ ॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ॥ चक्रिं विश्वानि चक्रये ॥ २ ॥
आ । र्इम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ॥ चक्रिम् । विश्वानि । चक्रये ॥ २ ॥
एनमासृजतेन्दौ च विष्णुं तं मदकारिणम् । मन्दिने विष्णवे सम्यक्कर्मिणं सर्वकर्मिणे ॥ २२६॥२॥
निचृद् गायत्री
मत्स्वा सुशिप्र मन्दिभिस्स्तोमेभिर्विश्वचर्षणे ॥ सचैषु सवनेष्वा ॥ ३ ॥
मत्स्व । सुऽशिप्र । मन्दिऽभिः । स्तोमेभिः । विश्वऽचर्षणे ॥ सचा । एषु । सवनेषु । आ ॥ ३ ॥
स्वानन्द विश्वजीवेश मत्स्वास्मद्रक्षया सह ॥ ३ ॥
वेदोच्चारणं भगवद्गुणप्रतिपादनार्थमेव
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । अजोषा वृषभं पतिम् ॥ ४ ॥
असृग्रम् । इन्द्र । ते । गिरेः । प्रति । त्वाम् । उत् । अहासत ॥ अजोषाः । वृषभम् । पतिम् ॥ ४ ॥
त्वन्निस्सृता वेदवाचस्त्वां प्रत्येवाप्यनारतम् ॥ २२७ ॥
उच्चैर्मुख्यतया सम्यग्विसृष्टाः स्वपतिं प्रति । अजोषाः स्तुत्यरूपेण त्वत्सेव्यास्त्वदृते क्वचित् ॥ २२८॥४ ॥
पिपीलिका मध्या निचृद् गायत्री
सञ्चोेदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ॥ असदित्ते विभु प्रभु॥ ५, १७ ॥
सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् ॥ असत् । इत् । ते । विऽभु । प्रऽभु ॥ ५, १७ ॥
इन्द्रे भगवति ऐश्वर्यार्थं प्रार्थना
अर्वाङ् नीचान् प्रति त्वस्मान् भद्रं राधः प्रचोदय । अस्त्येव ते विशेषेण प्रकृष्टं शुभमच्युतम् ॥ २२९॥५॥
पिपीलिका मध्या निचृद् गायत्री
अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ॥ तुविद्युम्न यशस्वतः ॥ ६ ॥
अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः । तुविऽद्युम्न । यशस्वतः ॥ ६ ॥
रभस्वतः शब्दवतः स्तोतॄनस्मान् यशस्वतः । तत्र त्वयि महाराये महाकीर्ते सुचोदय ॥ २३०॥६ ।
निचृद् गायत्री
सङ्गोेमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ॥ विश्वायुर्धेह्यक्षितम् ॥ ७ ॥
सम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रवः । बृहत् ॥ विश्वऽआयुः । धेहि । अक्षितम् ॥ ७ ॥
अस्मास्वतिबृहज्ज्ञानं नित्यं सन्धेहि चाक्षयम् ॥ ७ ॥
इन्द्रे विद्या-कीर्ति-अविकलदेहादिप्रार्थना
अस्मे धेहि श्रवो बृहद् द्युुम्नं सहस्रसातमम् ॥ इन्द्र ता रथिनीरिषः ॥ ८ ॥
अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ॥ इन्द्र । ताः । रथिनीः । इषः ॥ ८ ॥
प्रार्थनावाक्ये पौनरुक्त्यं न दोषाय
विद्यां कीर्तिं सदेहान्नं बहुलाभयुतं बृहत् । प्रार्थने पौनरुक्त्यं न चोदयेति ततः पुनः ॥२३१॥८ ॥
वसोरिन्द्रं वसुपतिङ्गीर्भिर्गृणन्त ऋग्मियम् ॥ होम गन्तारमूतये ॥ ९ ॥
वसोः । इन्द्रम् । वसुऽपतिम् । गीःऽभिः । गृणन्तः । ऋग्मियम् ॥ होम । गन्तारम् । ऊतये ॥ ९ ॥
वसोर्वसूनां च पतिं देवदेवेश्वरं प्रभुम् । ऋङ्मेयमाह्वयामोऽत्र गृणन्तोऽभीष्टसिद्धये ॥२३२॥९ ॥
निचृद् गायत्री
सुतेसुते न्योकसे बृहद् बृहत एदरिः । इन्द्राय शूषमर्चति ॥ १०, १८, ९ ॥
सुतेऽसुते । निऽओकसे । बृहत् । बृहते । आ । इत् । अरिः ॥ इन्द्राय । शूषम् । अर्चति ॥ १०, १८, ९॥
अविनाश्यरिरुद्दिष्टो बृहच्छूषं सुखं प्रति । सुते सुते सद्गृहाय देवाय बृहतेऽर्चति ॥ २३३ ॥ १० ॥
॥ इति नवमं सूक्तम् ॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम् – १०
तृतीयानुवाके तृतीयं सूक्तम् ऐन्द्रसूक्तम् गायन्ति द्वादश मधुच्छन्दाः अनुष्टुप्, इन्द्रो देवता
विराडनुष्टुप्
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ॥ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ १ ॥
गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः ॥ ब्रह्माणः । त्वा । शतक्रतो इति शतऽक्रतो । उत् । वंशम्ऽइव । येमिरे ॥ १ ॥
ऋक्-सामादिभिः भगवत्स्तुतिः
गायन्ति सामगास्त्वृग्भिः शंसन्त्यृग्वेदिनोऽन्तिकम् । विरिञ्चास्त्वां बहुज्ञान शक्रकेतुमिवोच्छ्रितम् ॥ २३४ ॥
व्यजानन् .............. ॥ १ ॥
विराडनुष्टुप्
यत्सानोस्सानुमारुहद् भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थञ्चेतति यूथेन वृष्णिरेजति ॥ २ ॥
यत् । सानोः । सानुम् । आ । अरुहत् । भूरि । अस्पष्ट । कर्त्वम् ॥ तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥ २ ॥
मुक्तामुक्तसमूहेनापि सेव्यो भगवान्
..........उच्चतोऽप्युच्चं सामर्थ्यं करणे तव । ततोऽपि भूरि यत्तेन चेतत्यर्थमतो भवान् ॥ मुक्तामुक्तसमूहेन शोभते गूढशक्तिमान् ॥ २३५ ॥
उच्चादुच्चं विरिञ्चादिगतं कर्तृत्वमेव यत् । भूरि स्पष्टमभूत्तेन परेशस्य ततश्च सः । चेतत्यर्थानशेषांश्च महायूथेन चेष्टते ॥ २३६॥ २ ॥
इन्द्रे अस्मदीयस्तुतिश्रवणार्थं प्रार्थना
विराडनुष्टुप्
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथान इन्द्र सोमपा गिरामुपश्रुतिञ्चर ॥ ३ ॥
युक्ष्व । हि । केशिना । हरी इति । वृषणा । कक्ष्यऽप्रा ॥ अथ । नः । इन्द्र । सोमऽपाः । गिराम् । उपऽश्रुतिम् । चर ॥ ३ ॥
कक्ष्याभिः पूरकौ पुष्ट्या युङ्क्ष्व त्वं केशिनौ हरी । अथोपगम्य शृणु नो गिरः ............. ॥ ३ ॥
भुरिग् उष्णिक्
एहि स्तोमामभि स्वराभि गृणीह्यारुव । ब्रह्म च नो वसो सचेन्द्र यज्ञञ्च वर्धय ॥ ४ ॥
आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव ॥ ब्रह्म । च । नः । वसा इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥ ४ ॥
..................अभिस्वर च स्तुतिम् ॥ २३७ ॥
प्रशंसां कुरु शब्दं च पुनर्हर्षान्महत्तरम् । ब्रह्म यज्ञं च नोऽन्तस्थो बहिष्ठश्चैव वर्धय ॥ २३८॥४ ॥
विराडनुष्टुप्
उक्थमिन्द्राय शंस्यं वर्धनम्पुरु निष्षिधे ॥ शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥ ५ ॥
उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरु निःऽसिधे ॥ शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ॥ ५ ॥
नित्यवृद्धविष्णोः वर्धनाभिप्रायः
नित्यवृद्धत्वतो विष्णोर्वर्धनं तु प्रकाशनम् । बहुशत्रून्निष्षिदसौ हरिर्दनुजघातकः ॥ २३९ ॥
अस्मत्सख्याय शब्दं च चकारास्मासु संस्थितः । यथा सुतेषु सोमेषु करोत्यृत्विक्षु च स्थितः ॥ २४०॥५ ॥
तमित्सखित्व ईमहे तं राये तं सुवीर्ये । स शक्र उत नश्शकदिन्द्रो वसु दयमानः ॥ ६, १९ ॥
तम् । इत् । सखिऽत्वे । र्इमहे । तम् । राये । तम् । सुऽवीर्ये ॥ सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः ॥ ६, १९ ॥
शक्रशब्दवाच्यो विष्णुः
तमेव शरणं नित्यं सखित्वाद्यर्थमीमहे । शक्त्यानन्दस्वरूपत्वाच्छक्रः सर्वत्र चाशकत् । अस्माकं च सदा वित्तं दददेव प्रवर्तते ॥ २४१॥६॥
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । गवामपव्रजं वृधि कृणुष्व राधो अद्रिवः ॥ ७ ॥
सुऽविवृतम् । सुनिःऽअजम् । इन्द्र । त्वाऽदातम् । इत् । यशः ॥ गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिऽवः ॥ ७ ॥
विस्पष्टं सुष्ट्वकाल्यं यशस्त्वद्दत्तमेव हि । गूढं ज्ञानसमूहं त्वं विवृण्वृद्धिं च नः कुरु ॥२४२॥
अद्रिरादरणीयत्वात् प्राणस्तद्वर्तकोऽद्रिवाः । हरिः शक्रस्तथाऽद्रीणां छेदनाद्वारणादपि ॥ २४३॥ ७ ॥
नहि त्वा रोदसी उभे ऋधायमाणमिन्वतः ॥ जेषस्स्वर्वतीरपस्सङ्गा अस्मभ्यन्धूनुहि ॥ ८ ॥
नहि । त्वा । रोदसी इति । उभे इति । ऋघायमाणम् । इन्वतः ॥ जेषः । स्वःऽवतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि ॥ ८ ॥
न त्वामृघायमाणं हि वर्धमानं तु रोदसी । सम्प्राप्नुतः श्रीभूमी च सहिते वाऽप्रसादतः ॥ २४४॥
अपः प्रजाः सुखवतीरजयस्त्वद्वशत्वतः । ज्ञानानि सन्धूनुहि च प्रापयोच्चा अपि स्वयम् ॥ २४५॥८॥
आश्रुत्कर्ण श्रुधी हवन्नूचिद्दधिष्व मे गिरः । इन्द्र स्तोममिमम्मम कृष्वायुजश्चिदन्तरम् ॥ ९ ॥
आश्रुत्ऽकर्ण । श्रुधि । हवम् । नु । चित् । दधिष्व । मे । गिरः ॥ इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम् ॥ ९ ॥
बहुश्रवणकर्णास्मदाह्वानं शृृणु चादरात् । औव च गिरो धेहि मयि स्तोमं च मत्कृतम् ॥ २४६॥
प्रियं योगादपि कुरु ........... ॥ ९ ॥
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ॥ वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ १० ॥
विद्म । हि । त्वा । वृषन्ऽतमम् । वाजेषु । हवनऽश्रुतम् ॥ वृषन्ऽतमस्य । हूमहे । ऊतिम् । सहस्रसातमाम् ॥ १० ॥
....................विद्म त्वां शक्तिमत्तमम् । श्रोतारं युत्सु चाह्वानमाह्वयामस्तवावनम् ॥ २४७॥
बहुलाभोत्तममिति ............... ॥ १० ॥
मधुच्छन्दसः शतर्चित्वविवरणम्
.................स्थानान्तरगते ऋचौ । दृष्ट्वेन्द्रं यज्ञगं याभ्यां मधुच्छन्दाः समस्तुवत् । आतून इति तेनैव न विरुद्धा शतर्चिता ॥ २४८॥॥
आतून इन्द्र कौशिक मन्दसानः सुतम्पिब ॥ नव्यमायुः प्रसूतिर कृधी सहस्रसामृषिम् ॥ ११ ॥
आ । तु । नः । इन्द्र । कौशिक । मन्दसानः । सुतम् । पिब ॥ नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥ ११ ॥
मात्रा कुशैर्गृहीतत्वाज्जन्मन्यासीत् स कौशिकः । गाधित्वाद्वा हिरण्याण्डकोशस्थत्वात् हरिस्तथा ॥ २४९॥
मन्दसानो नित्यसुखी स्तुत्यमायुश्च नस्तिर । ऋषिं सहस्रलाभं मां कुरु च............... ॥ ११ ॥
वाचां भगवद्विषयकत्वप्रार्थना
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ॥ वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ १२, २०, १० ॥
परि । त्वा । गिर्वणः । गिरः । इमाः । भवन्तु । विश्वतः ॥ वृद्धऽआयुम् । अनु । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः ॥ १२, २०, १० ॥
........................त्वा इमा गिरः ॥ २५०॥
सर्वदा परितः सन्तु मदीयाः सर्वलाभिनम् । वृद्धिरूपा गिरो जुष्टाः सेवारूपाश्च सन्तु नः ॥ २५१॥१२॥
मधुच्छन्दसा पुनर्दृष्टऋक्सङ्ख्याविवरणम्
अष्टावृचः पुनस्तेन दृष्टा अन्यत्र गास्तपः । कुर्वता...............................॥ ॥
॥ इति दशमं सूक्तम् ॥
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम् – ११
इन्द्रम् अष्टौ, मधुच्छन्दाः ऋषिः, अनुष्टुप्च्छन्दः, इन्द्रो देवता
वेदवाचः इन्द्रप्रकाशकाः
निचृद् अनुष्टुप्
इन्द्रं विश्वा अवीवृधन्त्समुद्र व्यचसङ्गिरः ॥ रथीतमं रथीनां वाजानां सत्पतिम्पतिम् ॥ १ ॥
इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रऽव्यचसम् । गिरः ॥ रथिऽतम् । रथिनाम् । वाजानाम् । सत्ऽपतिम् । पतिम् ॥ १ ॥
.... सम्यगुद्रिक्तगुणव्यक्तिस्तथाऽभिधः ॥ १५२ ॥ १ ॥
निचृद् अनुष्टुप्
सख्येत इन्द्र वाजिनो मा भेम शवसस्पते ॥ त्वामभि प्रणोनुमो जेतारमपराजितम् ॥ २ ॥
सख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते ॥ त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराऽजितम् ॥ २ ॥
निचृद् अनुष्टुप्
पूर्वीरिन्द्रस्य रातयो न विदस्यन्त्यूतयः ॥ यदी वाजस्य गोमतस्स्तोतृभ्यो मंहते मघम् ॥ ३ ॥
पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः ॥ यदि । वाजस्य । गोऽमतः । स्तोतृऽभ्यः । मंहते । मघम् ॥ ३ ॥
प्रथमानि महत्त्वेन ते दानान्यवनानि च । न भिद्यन्ते न नश्यन्ति गोमदन्नं यशस्तथा ॥ २५३ ॥
यदि मंहते ददातीशः ............. ॥ ३ ॥
पुराम्भिन्दुर्युवाकविरमितौजा अजायत ॥ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ ४ ॥
पुराम् । भिन्दुः । युवा । कविः । अमितऽओजाः । अजायत ॥ इन्द्रः । विश्वस्य । कर्मणः । धर्ता । वज्री । पुरुऽस्तुतः ॥ ४ ॥
भुरिग् -उष्णिक्
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ॥ त्वान्देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ ५ ॥
त्वम् । वलस्य । गोऽमतः । अप । अवः । अद्रिऽवः । बिलम् ॥ त्वाम् । देवाः । अबिभ्युषः । तुज्यमानासः । आविषुः ॥ ५ ॥
वलशब्दार्थकथनम्
................वलस्तिर्यग्गतिर्धियः । वाचामन्यार्थबुद्धेस्तु बिलं मूलं तमो हि यत् । तदपावृतवांस्त्वं च प्रदर्श्य विनिवार्य च ॥ २५४ ॥
त्वां हि देवा भयापेताः प्रेर्यमाणास्त्वयैव च । छाद्यमानं गिरा दैत्यैररक्षन्निव सद्गिरा ॥ २५५॥
सरमाकथानिरूपणम्
इन्द्रस्य गोसवार्थे च समुत्सृष्टा जगत्यपि । चर्तुं गावो हृता दैत्यैः सरमारक्षिताः पुरा । तस्याः स्वसृत्वमुक्त्वैव तयोच्छिष्टं च गोपयः ॥ २५६॥
तदर्थं पणयो नाम ते दैत्या बलपूर्वकाः । इन्द्रेण निहताः पश्चाज्ज्ञात्वा च सरमाकृतम् ॥ २५७॥
ताडयित्वा पदा वक्त्रात् सृते पयसि तां भयात् । शरणागतां प्रेषयित्वा दूत्येन पणिनां पुनः ॥ २५८॥
भित्वा गिरिव्रजं तं च गावो यत्र प्रतिष्ठिताः । निःसारिताः पुनस्ताश्च गोसवेनेष्टमेव च ॥ तदा देवा भीत्यैव परितो जुगुपुः पतिम् ॥ २५९॥५ ॥
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ॥ उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥ ६ ॥
तव । अहम् । शूर । रातिऽभिः । प्रति । आयम् । सिन्धुम् । आऽवदन् ॥ उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः ॥ ६ ॥
तव दानैरहं सिन्धुं नदीं प्रत्यागमं पुनः । त्वामावदन् स्तुतिपदैर्यज्ञदीक्षार्थमुद्यतः ॥ २६०॥
उपातिष्ठन्त कर्तारो विदुस्त्वां यो गिरोदित ॥ ६ ॥
वृत्रघ्ने इन्द्रे विद्याप्रार्थना
मायाभिरिन्द्र मायिनन्त्वं शुष्णमवातिरः ॥ विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥ ७ ॥
मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः ॥ विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर ॥ ७ ॥
शक्तिभिः शक्तिमन्तं त्वं शोषकं वृत्रमातिरः ॥ २६१॥
तमो वा त्वां विदुर्मेधारतास्तेषां श्रवांसि च । विद्या उच्चैस्तरां देहि .................॥ ७ ॥
निचृदनुष्टुप्
इन्द्रमीशानमोजसाऽभि स्तोमा अनूषत ॥ सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ ८,२१,११,३॥
इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमाः । अनूषत ॥ सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः ॥ ८, २१, ११, ३ ॥
........यस्तुवन्ति त्वां सहौजसा ॥ २६२ ॥ ८, २१, ११, ३ ॥
॥ इति एकादशं सूक्तम् ॥
इति तृतीयोऽनुवाकः
अनुक्रमणिकोक्तऋषिविषये मानाभावः
ऋक्संहितायाः स्वाध्यायात् प्रबन्धाद्व्यासनिर्मितात् । ब्राह्मणेभ्यस्तथा मानात् प्रोक्ताः स्युर्मुनयोऽत्र ये ॥ २६३॥
श्रुत्यभावादलिङ्गाच्च मुनिर्नान्यः प्रतीयते । श्रुतिलिङ्गान्यता यावत्तावत्पूर्वा प्रमा भवेत् ॥ २६४ ॥
शतर्ग्भिरुत्तराभिस्तु वह्निनामानमच्युतम् । अस्तौन्मेधातिथिस्ताभ्य उत्तरा अपि तद्-दृशः ॥ २६५॥
अन्यत्रगास्तपस्यन् स ता ददर्श कदाचन । कालस्थानान्तरत्वं चेत्सङ्ख्यातोऽभ्यधिकं भवेत् ॥ २६६॥
अन्यस्थानगता अन्यदृष्टा अप्यत्रगा यदि । सङ्ख्यान्तर्भावमेष्यन्ति ता इतोपगता यतः ॥ २६७॥
मण्डलम्—१.अध्यायः–१.अनुवाकः–४. सूक्तम्–१२.
मेधातिथिः काण्वः ऋषिः, गायत्री च्छन्दः, अग्निः देवता
अग्निर्देवदूतः
अग्निन्दूतं वृणीमहे होतारं विश्ववेदसम् ॥ अस्य यज्ञस्य सुक्रतुम्
अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ॥ अस्य । यज्ञस्य । सुऽक्रतुम् ॥ १ ॥
दूतलक्षणम्
यज्ञभागार्थमत्रस्थो देवैः सम्प्रेषितो यतः । दूतोऽग्निर्वासुदेवश्च तत्तत्प्रार्थितकृद्यतः । विश्ववेदाः स सर्वज्ञो यज्ञज्ञो यज्ञसुक्रतुः ॥ २६८ ॥ १ ॥
अग्न्यन्तर्गतः अग्निनामा च परशुरामः
अग्निमग्निं हवीमभिस्सदा हवन्त विश्पतिम् ॥ हव्यवाहम्पुरुप्रियम् ॥ २ ॥
अग्निम्ऽअग्निम् । हवीमऽभिः । सदा । हवन्त । विश्पतिम् । हव्यऽवाहम् । पुरुऽप्रियम् ॥ २ ॥
अग्निनामा जामदग्न्यो भगवान् सम्प्रकीर्तितः । तस्य रूपबहुत्वेन वीप्सा चैवोपपद्यते । हवीमभिर्ऋगाह्वानैराह्वयन्त प्रजापतिम् ॥ २६९॥ २ ॥
निचृद् गायत्री
अग्ने देवा इहावह जज्ञानो वृक्तबर्हिषे ॥ असि होता न ईड्यः ॥ ३ ॥
अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्तऽबर्हिषे ॥ असि । होता । नः । ईड्यः ॥ ३ ॥
जज्ञानो व्यज्यमानस्तु वृक्तं प्रस्तुतमुच्यते । यजमानो वृक्तबर्हिः ...................॥ ३ ॥
पिपीलिकामध्या निचृद् गायत्री
ता उशतो विबोधय यदग्ने यासि दूत्यम् ॥ देवैरासत्सि बर्हिषि ॥ ४ ॥
तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् । देवैः । आ । सत्सि । बर्हिषि ॥ ४ ॥
....................बोधयेशेच्छतः सुरान् ॥ २७०॥ देवैः सहोपविशसि.......... ॥ ४ ॥
निचृद्गायत्री
घृताहवन दीदिवः प्रतिष्म रिषतो दह ॥ अग्ने त्वं रक्षस्विनः ॥ ५ ॥
घृतऽआहवन । दीदिऽवः । प्रति । स्म । रिषतः । दह ॥ अग्ने । त्वम् । रक्षस्विनः ॥ ५ ॥
.................... यस्य ते सुघृतं हविः । रिषतो नाशकान् रक्षो जनान् प्रति दहैव च ॥ २७१॥५ ॥
विराड् गायत्री
अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा ॥ हव्यवाड् जुह्वास्यः ॥ ६, २२ ॥
अग्निना । अग्निः । सम् । इध्यते । कविः । गृहऽपतिः । युवा ॥ हव्यऽवा । जुहुऽआस्यः ॥ ६, २२ ॥
अग्न्यादीनां दीप्त्यादिगुणदो भगवान्
यस्याऽस्ये हूयते सोऽग्निः परेशेन समिध्यते । अथवाऽऽहवनीयोऽग्निर्मथितेन समिध्यते ॥ २७२॥६॥
मेधातिथिना स्वात्मानं प्रति बोधनम्
कविमग्निमुपस्तुहि सत्यधर्माणमध्वरे ॥ देवममीवचातनम् ॥ ७ ॥
कविम् । अग्निम् । उप । स्तुहि । सत्यऽधर्माणम् । अध्वरे ॥ देवम् । अमीवऽचातनम् ॥ ७ ॥
सत्यधर्मा सद्गुणभृद् दुःखघ्नोऽमीवचातनः । चातनं कालनं वा स्यात् ..............॥॥
यस्त्वामग्ने हविष्पतिर्दूतन्देव सपर्यति ॥ तस्य स्म प्राविता भव ॥ ८ ॥
यः । त्वाम् । अग्नेे । हविःऽपतिः । दूतम् । देव । सपर्यति ॥ तस्य । स्म । प्रऽअविता । भव ॥ ८ ॥
यो अग्निन्देववीतये हविष्मा आविवासति ॥ तस्मै पावक मृय ॥ ९ ॥
यः । अग्निम् । देवऽवीतये । हविष्मान् । आऽविवासति ॥ तस्मै । पावक । मृय ॥ ९ ॥
...................देववीतिस्तु तद्गतिः ॥ २७३॥ आवासयति यस्त्वां च तं त्वं मृय सर्वदा ॥ ९ ॥
टीकाविवृतिः
स नः पावक दीदिवोऽग्ने देवा इहावह ॥ उप यज्ञं हविश्च नः ॥ १० ॥
सः । नः । पावक । दीदिऽवः । अग्ने । देवान् । इह । आ । वह ॥ उप । यज्ञम् । हविः । च । नः ॥ १० ॥
त्वत्पूजाविषये देवानावहेन्द्रियमानिनः ॥ २७४ ॥ १० ॥
स नस्स्तवान आभर गायत्रेण नवीयसा ॥ रयिं वीरवतीमिषम् ॥ ११ ॥
सः । नः । स्तवानः । आ । भर । गायत्रेण । नवीयसा ॥ रयिम् । वीरऽवतीम् । इषम् ॥ ११ ॥
गायत्रेण स्तूयमानो दृश्यमानेन नो रयिम् । पुत्रयुक्तामिषं चैव वीर्ययुक्तामथावह ॥२७५ ॥ ११ ॥
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ॥ इमं स्तोमञ्जुुषस्व नः ॥ १२, २३, १२ ॥
अग्ने । शुक्रेण । शोचिषा । विश्वाभिः । देवहूतिऽभिः ॥ इमम् । स्तोमम् । जुषस्व । नः ॥ १२, २३, १२ ॥
ज्वलता तेजसा विश्वदेवाह्वानैर्वृणु स्तुतिम् ॥॥ १२,२३,१२॥
॥ इति द्वादशं सूक्तम् ॥
मण्डलम्—१. अध्यायः–१- अनुवाकः–४.सूक्तम्—१३
(सुसमिद्धो द्वादशर्चम्, मेधातिथः काण्वः, गायत्री, आप्रीदेवताः) (इध्मः- सुसमिद्धः अग्निर्देवता)
सुसमिद्धो न आवह देवा अग्ने हविष्मते ॥ होतः पावक यक्षि च ॥ १ ॥
सुऽसमिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते ॥ होतरिति । पावक । यक्षि । च ॥ १ ॥
अस्मद्धविष्मते देवानाहूय यज चादरात् ॥२७६ ॥ १ ॥
तनूनपात् अग्निर्देवता
मधुमन्तन्तनूनपाद्यज्ञन्देवेषु नः कवे ॥ अद्या कृणुहि वीतये ॥ २ ॥
मधुऽमन्तम् । तनूऽनपात् । यज्ञम् । देवेषु । नः । कवे ॥ अद्य । कृणुहि । वीतये ॥ २ ॥
तनूभ्यो वाक् ततो देवो व्यक्तस्तेन तनूनपात् ॥ २ ॥
नराशंसः अग्निर्देवता
नराशंसमिह प्रियमस्मिन् यज्ञ उपह्वये ॥ मधुजिह्वं हविष्कृतम् ॥ ३ ॥
नराशंसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये ॥ मधुऽजिह्वम् । हविःऽकृतम् ॥ ३ ॥
सुसमिद्धादयः अग्नेर्मूर्तयः
नरैः स्तुत्यो नराशंसो वह्नेरन्याऽथवा तनूः ॥२७७॥३॥
इः-ईतिः अग्निर्देवता
अग्ने सुखतमे रथे देवा ईति आवह ॥ असि होता मनुर्हितः ॥ ४ ॥
अग्ने । सुखऽतमे । रथे । देवान् । र्इतिः । आ । वह ॥ असि । होता । मनुःऽहितः ॥ ४ ॥
अध्यात्मरथविवरणम्
मनूनां च हितत्वेन मनुर्हित इतीरितः ॥ ४ ॥
बर्हिर्देवता
स्तृणीत बर्हिरानुषग्घृतपृष्ठम्मनीषिणः ॥ यत्रामृतस्य चक्षणम् ॥ ५ ॥
स्तृणीत । बर्हिः । आनुषक् । घृतऽपृष्ठम् । मनीषिणः ॥ यत्र । अमृतस्य । चक्षणम् ॥ ५ ॥
आनुषक् सर्वतो देवस्थानं बर्हिः स्तृणीत च ॥२७८॥
शुद्धस्य विष्णोर्यत् स्थानं घृतपृष्ठं हि तन्मनः । यत्र स्याद् दर्शनं विष्णोर्नित्यामरणधर्मिणः ॥ २७९॥५॥
श्रियो दास्यः द्वारो देव्यो देवताः
विश्रयन्तामृतावृधो द्वारो देवीरसश्चतः ॥ अद्या नूनञ्च यष्टवे ॥ ६, २४ ॥
वि । श्रयन्ताम् । ऋतऽवृधः । द्वारः । देवीः । असश्चतः ॥ अद्य । नूनम् । च । यष्टवे ॥ ६, २४ ॥
ऋतरूपेण हरिणा समृद्धाया ऋतावृधः । द्वारो देव्यः श्रियो दास्यः श्रयन्तामिह नो मखे ॥ २८०॥
मानसे बाह्ययज्ञे वा ह्यसङ्गत्वादसश्चतः । अद्याहनि तथा नूनमद्यैव यजनार्थतः ॥ २८१॥
द्वारभूतः स भगवानपि साक्षान्मुमुक्षतः । स्त्रीरूपश्च सः ............... ॥ ॥ ६,२४॥
पिपीलिका मध्या निचृद् गायत्री - नक्ता, उषाश्च देवते
नक्तोषासा सुपेशसाऽस्मिन् यज्ञ उपह्वये ॥ इदन्नो बर्हिरासदे ॥ ७ ॥
नक्तोषसा । सुऽपेशसा । अस्मिन् । यज्ञे । उप । ह्वये ॥ इदम् । नः । बर्हिः । आऽसदे ॥ ७ ॥
........नक्ता स्यान्नाक्तो यस्मात् स सर्वतः । उषाः प्रकाशरूपत्वात् सुभद्रे ते उपह्वये ॥ २८२ ॥
अस्मिन् बर्हिषि संस्थित्यै ......... ॥ ७ ॥
पिपीलिका मध्या निचृद् गायत्री - दैव्यौ होतारौ गार्हपत्याहवनीयौ देवते
ता सुजिह्वा उपह्वये होतारा दैव्या कवी ॥ यज्ञन्नो यक्षतामिमम् ॥ ८ ॥
ता । सुऽजिह्वौ । उप । ह्वये । होतारा । दैव्या । कवी इति ॥ यज्ञम् । नः । यक्षताम् । इमम् ॥ ८ ॥
आत्मान्तरात्मेति भगवतो रूपद्वयम्
......................होतारौ देवगावपि । मथ्यमानोऽपरश्चैव वह्नी तद्गोऽथ वा हरिः ॥ २८३॥
आत्माऽन्तरात्मरूपेण द्विरूपो वा व्यवस्थितः । देवेषु यजतां यज्ञमस्मदीयमिमं सदा ॥ २८४॥८॥
निचृद् गायत्री - इा (श्रीः) महीः (भूः भारती च सरस्वती च देवताः
इा सरस्वती मही तिस्रो देवीर्मयोभुवः ॥ बर्हिस्सीदन्त्वस्रिधः ॥ ९ ॥
इा । सरस्वती । मही । तिस्रः । देवीः । मयःऽभुवः ॥ बर्हिः । सीदन्तु । अस्रिधः ॥ ९ ॥
इा-सरस्वत्यादिनामानः भगवत्स्त्रीरूपविशेषाः
ईेड्यत्वाद्धरिः श्रीर्वा भूरूपा सैव चापरा ।
सरस्वती (भारती) अपि महीशब्दवाच्या
मही तु भारती नाम वायव्या ब्रह्मणोऽपरा । तद्गतस्तादृशै रूपैः पृथक्स्थो वा हरिस्तथा ॥२८५ ॥९ ॥
त्वष्टा देवता
इह त्वष्टारमग्रियं विश्वरूपमुपह्वये ॥ अस्माकमस्तु केवलः ॥ १० ॥
इह । त्वष्टारम् । अग्रियम् । विश्वऽरूपम् । उप । ह्वये ॥ अस्माकम् । अस्तु । केवलः ॥ १० ॥
त्वष्टा तेजस्त्वतो विष्णुर्बलत्वाद्वा समीरितः । विश्वरूपकरत्वाच्च विश्वरूपोऽथ पूर्तितः ॥ २८६ ॥ १० ॥
पिपीलिका मध्या निचृद् गायत्री - वनस्पतिर्देवता
अवसृजा वनस्पते देव देवेभ्यो हविः ॥ प्रदातुरस्तु चेतनम् ॥ ११ ॥
अव । सृज । वनस्पते । देव । देवेभ्यः । हविः ॥ प्र । दातुः । अस्तु । चेतनम् ॥ ११ ॥
वनस्पतिर्भगवान्
वननीयपतित्वेन वनस्पतिरितीरितः । ज्ञानं तु चेतनम् ................. ॥ ११ ॥
पिपीलिका मध्या निचृद् गायत्री - स्वाहादेवी देवता
स्वाहा यज्ञङ्कृणोतनेन्द्राय यज्वनो गृहे ॥ तत्र देवा उपह्वये ॥ १२, १५, १३ ॥
स्वाहा । यज्ञम् । कृणोतन । इन्द्राय । यज्वनः । गृहे ॥ तत्र । देवान् । उप । ह्वये ॥ १२, २५, १३ ॥
स्वाहाशब्दस्य त्रेधा अर्थविवरणम्
.......स्वाहा स्वभागगतिमान् स्मृतः ॥ २८७ ॥
अव्ययत्वाद् अमोषश्च ॥ ॥ १२, २५, १३ ॥
॥ इति त्रयोदशं सूक्तम् ॥
मण्डलम् –१.अध्यायः–१. अनुवाकः–४.सूक्तम्– १४.
ऐभिरग्ने द्वादश, मेधातिथिः काण्वः ऋषिः, गायत्री विश्वेदेवाः देवताः
सोमपानार्थं विश्वेदेवप्रार्थना
ऐभिरग्ने दुवो गिरो विश्वेभिस्सोमपीतये ॥ देवेभिर्याहि यक्षि च ॥ १ ॥
आ । एभिः । अग्ने । दुवः । गिरः । विश्वेभिः । सोमऽपीतये ॥ देवेभिः । याहि । यक्षि । च ॥ १ ॥
...............कामदोहा दुवः स्मृताः ॥ १ ॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ॥ देवेभिरग्न आगहि ॥ २ ॥
आ । त्वा । कण्वाः । अहूषत । गृणन्ति । विप्र । ते । धियः ॥ देवेभिः । अग्ने । आ । गहि ॥ २ ॥
इन्द्रवायू बृहस्पतिम्मित्राग्निम्पूषणम्भगम् ॥ आदित्यान्मारुतङ्गणम् ॥ ३ ॥
इन्द्रवायू इति । बृहस्पतिम् । मित्रा । अग्निम् । पूषणम् । भगम् ॥ आदित्यान् । मारुतम् । गणम् ॥ ३ ॥
बृहन्पतिर्बृहत्या वा वाच एव बृहस्पतिः ॥२८८॥
पूषा-भग-आदित्य-मारुतादिशब्दनिर्वचनम्
मित्रेति मित्रावरुणौ पूषा नाम स पोषणात् । पूर्णत्वाद्वा भगः प्रोक्तः पूर्णैश्वर्यादिकत्वतः ॥ २८९ ॥
आदिस्थत्वात् स आदित्य आददानः प्रयाति वा । बहुरूपत्वतश्चैव मानोक्तत्वात्तु मारुतः ॥ २९० ॥ ३ ॥
प्रवो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ॥ द्रप्सा मध्वश्चमूषदः ॥ ४ ॥
प्र । वः । भ्रियन्ते । इन्दवः । मत्सराः । मादयिष्णवः ॥ द्रप्साः । मध्वः । चमूऽसदः ॥ ४ ॥
इन्दुशब्दः सोम-मनोवृत्तिपरः
मत्सरा मदकारित्वात्ताच्छील्यादुत्तरं पदम् । द्रप्सास्ते द्रवणाच्चैव चमसस्थाश्चमूषदः । शिरश्च चमसं प्रोक्तमिष्टदानात् तथेन्दवः ॥ २९१॥ ४ ॥
हविष्मन्तो अरङ्कृतः ॥ ५ ॥
ईते । त्वाम् । अवस्यवः । कण्वासः । वृक्तऽबर्हिषः ॥ हविष्मन्तः । अरम्ऽकृतः । ५ ॥
अवस्युर्यजमानः स्यादवनार्थप्रवृत्तितः । आत्मस्थं वा बहुवचो बहवो मुनयोऽत्र वा ॥२९२॥
उत्तराणां वचस्त्वेन स्वयं वदति चेश्वरः । अरङ्कृतोऽतिकर्तारस्त्वलङ्कर्तार एव वा ॥ २९३॥५ ॥
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ॥ आ देवान् सोमपीतये ॥ ६, २६ ॥
घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्नयः ॥ आ । देवान् । सोमऽपीतये ॥ ६, २६ ॥
स्निग्धपृष्ठाः समारूढा हरिणा वा विदोषिणा । मनोमात्रेण योज्याश्च त्वां देवांश्च वहन्ति ये ॥ २९४॥६॥
पिपीलिकामध्या निचृद् गायत्री
तान्यजत्रा ऋतावृधोऽग्ने पत्नीवतस्कृधि ॥ मध्वस्सुजिह्व पायय ॥ ७ ॥
तान् । यजत्रान् । ऋतऽवृधः । अग्ने । पत्नीऽवतः । कृधि ॥ मध्वः । सुऽजिह्व । पायय ॥ ७ ॥
तैर्देवान् यजतः स्तोतॄन् ज्ञातेन ब्रह्मणैधितान् । पत्नीभिर्योजया गन्तुं सह मध्वश्च पायय ॥ ७ ॥
उदात्तस्वरार्थनिरूपणणम्
निचृद् गायत्री
ये यजत्रा य ईड्यास्तेते पिबन्तु जिह्वया ॥ मधोरग्ने वषकृति ॥ ८ ॥
ये । यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया ॥ मधोः । अग्ने । वषऽकृति ॥ ८ ॥
ते षष्ठ्यतोऽनुदात्तः स्यादुदात्तो बहुवाचकः । आवृत्तस्तु भवेदर्थस्ते पिबन्तु वषकृतौ ॥ २९६॥८ ॥
आकीं सूर्यस्य रोचनाद्विश्वान् देवा उषर्बुधः ॥ विप्रो होतेह वक्षति ॥ ९ ॥
आकीम् । सूर्यस्य । रोचनात् । विश्वान् । देवान् । उषःऽबुधः ॥ विप्रः । होता । इह । वक्षति ॥ ९ ॥
सूर्यस्य रोचनात् स्वर्गादावक्षत्यग्निरिन्दुपान् । उषःप्रकाशनाद् ब्रह्म तद्विदस्त उषर्बुधः ॥ ९ ॥
विश्वेभिस्सोम्यम्मध्वग्न इन्द्रेण वायुना ॥ पिबा मित्रस्य धामभिः ॥ १० ॥
विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना ॥ पिब । मित्रस्य । धामऽभिः ॥ १० ॥
देवास्ते विष्णुधामत्वान्मित्रधामान ईरिताः ॥ २९७ ॥ १० ॥
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ॥ सेम नो अध्वरं यज ॥ ११ ॥
त्वम् । होता । मनुःऽहितः । अग्ने । यज्ञेषु । सीदसि ॥ सः । इमम् । नः । अध्वरम् । यज ॥ ११ ॥
निचृद् गायत्री
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ॥ ताभिर्देवा इहावह ॥ १२, २७, १४ ॥
युक्ष्व । हि । अरुषीः । रथे । हरितः । देव । रोहितः ॥ ताभिः । देवान् । इह । आ । वह ॥ १२ ॥
अग्निवाहा अश्वतर्यो दूर्वापद्माग्निसप्रभाः । लोहिताः क्वचिदश्वाश्च रोहिन्मृग्योऽपि कुत्रचित् ॥ २९८॥ १२,२७,१४॥
॥ इति चतुर्दशं सूक्तम् ॥
मण्डलम् -१अध्यायः–१.अनुवाकः–४. सूक्तम्–१५
(इन्द्रसोमं द्वादशर्चम्, मेधातिथिः काण्वः, गायत्री) (पिपीलिकामध्या निचृद् गायत्री) ऋतवः(कालाभिमानिदेवताः, इन्द्रश्च देवताः
इन्द्र सोमम्पिब ऋतुना त्वा विशन्त्विन्दवः ॥ मत्सरासस्तदोकसः ॥ १ ॥
इन्द्र । सोमम् । पिब । ऋतुना । आ । त्वा । विशन्तु । इन्दवः ॥ मत्सरासः । तत्ऽओकसः ॥ १ ॥
ऋतुर्मार्गस्तु नेतृत्वान्नेष्टाऽग्निर्हरिरेव वा । ईष्टे न कश्चिदस्येति ग्ना नद्यश्च समीरिताः ॥ गतिशीलत्वतो ग्नास्ता ज्ञातृनेतृत्वतो हरिः ॥२९९॥
गमनान्नयनाद्वा ग्ना ..............
ऋतुशब्दार्थजिज्ञासा
....................ऋतुपात्रमृतुस्तथा । सोमास्तदोकसः प्रोक्ता ऋतुपात्रस्थिता यतः ॥३००॥
पत्नीनेतृत्वतो नेष्टा नेष्टर्त्विक् सम्प्रकीर्तितः ।
पोतृदेवताः मरुतः
ज्ञापयन्ति स्वलिङ्गानीत्यृतवः ष प्रकीर्तिताः ॥३०१॥
पावनाच्चैव पोतारो मरुतः पोतृदेवताः । अग्निस्तु देवतानेष्ठुस्त्वष्टेन्द्रो विष्णुरेव वा ॥ ३०२॥१,२,३ ॥
(भुरिक् गायत्री) ऋतवः, मरुतश्च देवताः
मरुतः पिबत ऋतुना पोत्राद्यज्ञम्पुनीतन ॥ यूयं हिष्ठा सुदानवः ॥ २ ॥
मरुतः । पिबत । ऋतुना । पोत्रात् । यज्ञम् । पुनीतन ॥ यूयम् । हि । स्थ । सुऽदानवः ॥ २ ॥
ऋतवः, नेष्टा च (विष्णुः, इन्द्रः, अग्निः, त्वष्टा च)देवताः
अभि यज्ञङ्गृृणीहि नोऽग्नावो नेष्टः पिब ऋतुना ॥ त्वं हि रत्नधा असि ॥ ३ ॥
अभि । यज्ञम् । गृणीहि । नः । ग्नावः । नेष्टरिति । पिब । ऋतुना ॥ त्वम् । हि । रत्नऽधाः । असि ॥
(भुरिग् गायत्री) ऋतवः, अग्निश्च देवताः
अग्ने देवा इहावह सादया योनिषु त्रिषु ॥ परि भूष पिब ऋतुना ॥ ४ ॥
अग्ने । देवान् । इह । आ । वह । सादय । योनिषु । त्रिषु ॥ परि । भूष । पिब । ऋतुना ॥ ४ ॥
प्राग्वंशादिस्थानत्रयनिरूपणम्
वेद्युत्तरासदश्चैव प्राग्वंशो योनयः स्मृताः । भूष भूषय नो यज्ञम् ........ ॥ ४ ॥
ऋतवः, इन्द्रश्च देवताः
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूरनु ॥ तवेद्धि सख्यमस्तृतम् ॥ ५ ॥
ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इत् । हि । सख्यम् । अस्तृतम् ॥ ५ ॥
..................ब्राह्मणाच्छंसिपात्रतः । पिबेन्द्र नो राधसोऽर्थे त्वामनु त्वृतुदेवताः ॥३०३॥
स्तृतं छिन्नमिति प्रोक्तम् .......... ॥ ५ ॥
ऋतवः, मित्रावरुणौ च देवताः
युवन्दक्षन्धृतव्रतमित्रावरुणदूभम् ॥ ऋतुना यज्ञमाशाथे ॥ ६, २८ ॥
युवम् । दक्षम् । धृतऽव्रता । मित्रावरुणा । दुःऽदभम् ॥ ऋतुना । यज्ञम् । अशाथे इति ॥ ६, २८ ॥
.............अस्तभ्यं दुर्दभं स्मृतम् । दक्षाख्यं यजमानं चापीशाथे यज्ञमेव च । सोमं पीत्वर्तुपात्रेण सहवा तेन चर्तुना ॥ ६, २८ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ॥ यज्ञेषु देवमीते ॥ ७ ॥
द्रविणःऽदाः । द्रविणसः । ग्रावऽहस्तासः । अध्वरे ॥ यज्ञेषु । देवम् । र्इते ॥ ७ ॥
होता च होतृकाश्चैव द्रविणोदा द्रवीणसः । अग्निश्चैवाग्नयस्तेषां देवता विष्णुमीते ॥३०५॥ ७ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ॥ देवेषु ता वनामहे ॥ ८ ॥
द्रविणःऽदाः । ददातु । नः । वसूनि । यानि । शृण्विरे ॥ देवेषु । ता । वनामहे ॥ ८ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ॥ नेष्ट्रादृतुभिरिष्यत ॥ ९ ॥
द्रविणःऽदाः । पिपीषति । जुहोत । प्र । च । तिष्ठत ॥ नेष्ट्रात् । ऋतुऽभिः । इष्यत ॥ ९ ॥
पातुमिच्छति सोमं स सोमास्तस्मै प्रतिष्ठिताः । ऋतुपात्रैर्देवताभिः सहैवैनमभीप्सत ॥३०६॥ ९ ॥
यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ॥ अध स्मानो ददिर्भव ॥ १० ॥
यत् । त्वा । तुरीयम् । ऋतुऽभिः । द्रविणःऽदः । यजामहे ॥ अध । स्म । नः । ददिः । भव ॥ १० ॥
चतुर्थवारमपि यत्त्वां यजामो ददिर्भव ॥ १० ॥
(पिपीलिकामध्या निचृद् गायत्री) - ऋतवः, अश्विनौ च देवते
अश्विना पिबतम्मधु दीद्यग्नी शुचिव्रता ॥ ऋतुना यज्ञवाहसा ॥ ११ ॥
अश्विना । पिबतम् । मधु । दीद्यग्नी इति दीदिऽअग्नी । शुचिऽव्रता ॥ ऋतुना । यज्ञऽवाहसा ॥ ११ ॥
.................दीद्यग्नी इति दीप्ताग्नी ॥ ११ ॥
(पिपीलिकामध्या निचृद् गायत्री) - ऋतवः, विष्णुः अग्निश्च देवताः
गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ॥ देवान्देवय ते यज ॥ १२, २९, १५ ॥
गार्हऽपत्येन । सन्त्य । ऋतुना । यज्ञऽनीः । असि ॥ देवान् । देवऽयते । यज ॥ १२, २९, १५ ॥
मासभेदेन भगवतो द्वे द्वे रूपे
...............सन्त्योऽग्निः सन्ततत्वतः ॥३०७॥
विष्णुर्वर्त्वधिपो विष्णुः केशवादिस्वरूपतः । ‘ग्रहान् सोमस्य मिमते’ इति तस्यैव कथ्यते ॥ गार्हपत्येन पात्रेण यजमानस्तु देवयन् ॥ ३०८॥
देवान्पातीति ............. ॥ १२, २९, १५ ॥
(इति एकोनविंशो वर्गः – पञ्चदशं सूक्तम् )
मण्डलम्—१.अध्यायः–१. अनुवाकः–४. सूक्तम्– १६.
आत्वा नवर्चं, मेधातिथिः काण्वः गायत्री(३ पिपीलिका मध्या निचृत्,९ विरा) इन्द्रो देवता
आ त्वा वहन्तु हरयो वृषणं सोमपीतये ॥ इन्द्र त्वा सूरऽचक्षसः ॥ १ ॥
आ । त्वा । वहन्तु । हरयः । वृषणम् । सोमऽपीतये ॥ इन्द्र । त्वा । सूरऽचक्षसः ॥ १ ॥
..............सुष्ठूरीकुर्वति विषयान् यतः । चक्षूंषीन्द्रस्य हरयस्तेनोक्ताः सूरचक्षसः ॥ ३०९ ॥ १ ॥
इमा धाना घृतस्नुवो हरी इहोपवक्षतः ॥ इन्द्रं सुखतमे रथे ॥ २ ॥
इमाः । धानाः । घृतस्नुवः । हरी इति । इह । उप । वक्षतः ॥ इन्द्रम् । सुखऽतमे । रथे ॥ २ ॥
धानाशब्दस्याध्यात्मार्थनिर्वचनम्
भक्तिस्नुतानि धानानि बुद्धेर्धाना इति ह्यपि ॥२ ॥
पिपीलिकामध्या निचृद् गायत्री
इन्द्रम् प्रातर्हवामह इन्द्रम् प्रयत्यध्वरे ॥ इन्द्रं सोमस्य पीतये ॥ ३ ॥
इन्द्रम् । प्रातः । हवामहे । इन्द्रम् । प्रऽयति । अध्वरे ॥ इन्द्रम् । सोमस्य । पीतये ॥ ३ ॥
सोमपीतिशब्दः तृतीयसवनवाची
‘प्रातः’ इत्यादिवाक्येन सवनत्रयमीरितम् । समाप्तत्वात् सोमपीतिस्तृतीयं सवनं स्मृतम् ॥३१०॥
सदा ........ ॥ ३ ॥
(१६२) उप नस्सुतमागहि हरिभिरिन्द्र केशिभिः ॥ सुते हि त्वा हवामहे ॥ ४ ॥
उप । नः । सुतम् । आ । गहि । हरिऽभिः । इन्द्र । केशिऽभिः ॥ सुते । हि । त्वा । हवामहे ॥ ४ ॥
पिपीलिकामध्या निचृद् गायत्री
सोमपाने गौरमृगदृष्टान्तः
सेमन्नः स्तोममागह्युपेदं सवनं सुतम् ॥ गौरो न तृषितः पिब ॥ ५, ३० ॥
सः । इमम् । नः । स्तोमम् । आ । गहि । उप । इदम् । सवनम् । सुतम् ॥ गौरः । न । तृषितः । पिब ॥ ५, ३० ॥
इमे सोमास इन्दवस्सुतासो अधि बर्हिषि ॥ ता इन्द्र सहसे पिब ॥ ६ ॥
इमे । सोमासः । इन्दवः । सुतासः । अधि । बर्हिषि ॥ तान् । इन्द्र । सहसे । पिब ॥ ६ ॥
भगवतो वृद्धिर्नास्तीति निरूपणम्
..... विष्णुविवक्षायां यजमानबलं सहः । तदिष्टस्यैव दानाय तद्गुणव्यक्तिरेव वा ॥ ३११॥
‘पूर्णमदः पूर्णमिदम्पूर्णात् पूर्णमुदच्यते’ । ‘हेयोपादेयरहितगुणपूर्णो हरिः सदा । अनुग्रहव्यक्तिरेव तद्गुणानां च नान्यथा’॥ ३१२ ॥
इत्यादि वेदवाक्येभ्यो नैव वृद्धिर्हरेः क्वचित् ॥ ६ ॥
अयन्ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः ॥ अथा सोमं सुतम् पिब ॥ ७ ॥
अयम् । ते । स्तोमः । अग्रियः । हृदिऽस्पृक् । अस्तु । शम्ऽतमः ॥ अथ । सोमम् । सुतम् । पिब ॥ ७ ॥
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ॥ वृत्रहा सोमपीतये ॥ ८ ॥
विश्वम् । इत् । सवनम् । सुतम् । इन्द्रः । मदाय । गच्छति ॥ वृत्रऽहा । सोमऽपीतये ॥ ८ ॥
विराड् गायत्री
सेमन्नः काममापृण गोभिरश्वैश्शतक्रतो ॥ स्तवाम त्वा स्वाध्यः ॥ ९, ३१, १६ ॥
कामम् । आ । पृण । गोभिः । अश्वैः । शतक्रतो इति शतऽक्रतो ॥ स्तवाम । त्वा । सुऽआध्यः ॥ ९, ३१, १६ ॥
पृण सम्पूरय स्वाध्यः सुधीतय इतीरिताः ॥३१३ ॥ ९, ३१, १६ ॥
मण्डलम्–१. अध्यायः-१.अनुवाकः–४– सूक्तम् – १७.
(इन्द्रावरुणयोर्नवर्चम् , मेधातिथिः काण्वः, छन्दः– गायत्री, २ यवमध्या विरा, ४ पादनिचृत्(ह्रसीयसी),६ निचृत्, ५ भुरिगार्ची, ८ पिपीलिकामध्या निचृत्, इन्द्रावरुणौ देवते)
(१६८) इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ॥ ता नो मृात र्इदृशे ॥ १ ॥
इन्द्रावरुणयोः । अहम् । सम्ऽराजोः । अवः । आ । वृणे ॥ ता । नः । मृातः । र्इदृशे ॥ १ ॥
अविकारेण संस्थानमीदृक्त्वं नाम कीर्तितम् ॥ १ ॥
यवमध्या विरा गायत्री
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ॥ धर्तारा चर्षणीनाम् ॥ २ ॥
गन्तारा । हि । स्थः । अवसे । हवम् । विप्रस्य । माऽवतः ॥ धर्तारा । चर्षणीनाम् ॥ २ ॥
मावतो ज्ञानयुक्तस्य प्रजाश्चर्षणयः स्मृताः ॥ २ ॥
अनुकामन्तर्पयेथामिन्द्रावरुण राय आ ॥ ता वान्नेदिष्ठमीमहे ॥ ३ ॥
अनुऽकामम् । तर्पयेथाम् । इन्द्रावरुणा । रायः । आ ॥ ता । वाम् । नेदिष्ठम् । र्इमहे ॥ ३ ॥
नेदिष्ठत्वं समीपत्वं क्षिप्रं शरणमीमहे ॥३१४॥ ३ ॥
पादनिचृद् गायत्री
युवाकु हि शचीनां युवाकु सुमतीनाम् ॥ भूयाम वाजदाव्नाम् ॥ ४ ॥
युवाकु । हि । शचीनाम् । युवाकु । सुऽमतीनाम् ॥ भूयाम । वाजऽदाव्नाम् ॥ ४ ॥
युवयोरेव वाक्यानां सुमतीनां च सर्वशः । भवेमान्नप्रदातॄणां सर्वदा विषया वयम् ॥ ३१५॥४ ॥
भुरिगार्ची ह्रसीयसी - गायत्री
प्रथमाध्यायः
इन्द्रस्सहस्रदाव्नां वरुणश्शंस्यानाम् ॥ क्रतुर्भवत्युक्थ्यः ॥ ५, ३२ ॥
इन्द्रः । सहस्रऽदाव्नाम् । वरुणः । शंस्यानाम् ॥ क्रतुः । भवति । उक्थ्यः ॥ ५, ३२ ॥
क्रतुः प्रधान उक्थ्यश्च शस्त्रैस्स्तुत्यो विशेषतः ॥ ५,३२ ॥
निचृद् गायत्री
तयोरिदवसा वयं सनेम नि च धीमहि ॥ स्यादुत प्ररेचनम् ॥ ६ ॥
तयोः । इत् । अवसा । वयम् । सनेम । नि । च । धीमहि ॥ स्यात् । उत । प्रऽरेचनम् ॥ ६ ॥
रक्षणेन तयोर्वित्तं ज्ञानं वा प्राप्नुमः सदा । निधीमहि च दानं च स्यादेवास्माकमर्थिने ॥ ३१६॥६ ॥
इन्द्रावरुण वामहं हुवे चित्राय राधसे ॥ अस्मान्त्सु जिग्युषस्कृतम् ॥ ७ ॥
इन्द्रावरुणा ॥ वाम् । अहम् । हुवे । चित्राय । राधसे ॥ अस्मान् । सु । जिग्युषः । कृतम् ॥ ७ ॥
संहितायां ह्रस्वान्तपदप्रयोगे कारणनिरूपणम्
ह्रस्वता संहितायां तु देवतैक्यप्रदर्शिनी । स्वरूपैक्यं हरौ तत्तु मत्यैक्यं भिन्नयोरपि ॥३१७॥ ७॥
पिपीलिकामध्या निचृद् गायत्री
इन्द्रावरुण नूनुवां सिषासन्तीषु धीष्वा ॥ अस्मभ्यं शर्म यच्छतम् ॥ ८ ॥
इन्द्रावरुणा । नु । नु । वाम् । सिसासन्तीषु । धीषु । आ ॥ अस्मभ्यम् । शर्म । यच्छतम् ॥ ८ ॥
स्तुत्यादौ परमेश्वर एव स्वतन्त्रः, न जीवः
अद्य वां नु नुमो लोपः स्वातन्त्र्यार्थे हि सूत्रतः । साधयन्तीषु धीष्वेव शर्मास्मभ्यं प्रयच्छतम् ॥ ८ ॥
प्रवामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ॥ या मृधाथे सधस्तुतिम् ॥ ९, ३३, १७, ४ ॥
प्र । वाम् । अश्नोतु । सुऽस्तुतिः । इन्द्रावरुणा । याम् । हुवे ॥ याम् । ऋधाथे इति । सधऽस्तुतिम् ॥ ९, ३३, १७, ४ ॥
यथास्थितस्तुतिं यां च वर्धयेथे सदैवमे ॥ ३१८ ॥९॥
मण्डलम्–१.अध्यायः–१.अनुवाकः-५. सूक्तम् –१८.
सोमानं नवर्चम्, मेधातिथिः काण्वः ऋषिः, छन्दः– गायत्री,१ विरा,३-६-८ पिपीलिकामध्या निचृत्, ४ निचृत्,,५ पादनिचृत्, छन्दः । देवता–१-३ ब्रह्मणस्पतिः, ४ (सोमः) ब्रह्मणस्पतिरिन्द्रश्च, ५ बृहस्पतिः दक्षिणः, ६-८ सदसस्पतिः, ९ सदसस्पतिः नाराशंसो वा देवताः
विरा गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता
सोमानं स्वरणङ्कृणुहि ब्रह्मणस्पते ॥ कक्षीवन्तं य औशिजः ॥ १ ॥
सोमानम् । स्वरणम् । कृणुहि । ब्रह्मणः । पते ॥ कक्षीवन्तम् । यः । औशिजः ॥ १ ॥
सौम्यं शब्दं कृणु त्वं नो विष्णो वायो सुवाक्पते । कक्षीवन्तं प्रति हि यो दत्तो यः स उशिक्सुतः । विवक्षितो मुनिः सोऽपि तस्मादर्थोऽपि मां प्रति ॥३१९ ॥ १ ॥
विरा गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ॥ सनस्सिषक्तु यस्तुरः ॥ २ ॥
यः । रेवान् । यः । अमीवऽहा । वसुऽवित् । पुष्टिऽवर्धनः ॥ सः । नः । सिषक्तु । यः । तुरः ॥ २ ॥
वित्तवान् रोेगहा ज्ञानवेत्ताऽस्माभिः सयुग् भवेत् । तुरो वेगाद्धरिर्वायुः ..................... ॥ २ ॥
पिपीलिकामध्या निचृद् गायत्री - ब्रह्मणस्पतिः (विष्णुः वायुश्च) देवता
मानश्शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ॥ रक्षाणो ब्रह्मणस्पते ॥ ३ ॥
मा । नः । शंसः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य ॥ रक्ष । नः । ब्रह्मणः । पते ॥ ३ ॥
..................अररुचातिरोषणात् । तस्य धूर्तिर्वचो नोऽस्मान् पूरयेद्रक्ष नो हरे ॥३॥
निचृद् गायत्री - ब्रह्मणस्पतिः इन्द्रः सोमश्च देवताः
सघा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ॥ सोमो हिनोति मर्त्यम् ॥ ४ ॥
सः । घ । वीरः । न । रिष्यति । यम् । इन्द्रः । ब्रह्मणः । पतिः ॥ सोमः । हिनोति । मर्त्यम् ॥ ४ ॥
घेति हावधृतिश्चैव सोमः सौम्यत्वतो हरिः । उना मया च युक्तत्वादूमैर्युक्तत्वतोऽपि वा ॥३२१ ॥ अमः स इति वा ....................... ॥ ४ ॥
पादनिचृद् गायत्री - ब्रह्मणस्पतिः, सोमः, इन्द्रः, दक्षिणा च देवताः
त्वन्तम्ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ॥ दक्षिणा पात्वंहसः ॥ ५, ३४ ॥
त्वम् । तम् । ब्रह्मणः । पते । सोमः । इन्द्रः । च । मर्त्यम् ॥ दक्षिणा । पातु । अंहसः ॥ ५, ३४ ॥
.................साक्षाच्छ्रीर्दक्षेनेति तु दक्षिणा । दक्षिणा चतुरत्वाद्वा स्वयमेव जनार्दनः ॥ ५, ३४ ॥
पिपीलिकामध्या निचृद् गायत्री - सदसस्पतिः( विष्णुर्वायुः अग्निर्वा) देवता
सदसस्पतिमद्भुतम्प्रियमिन्द्रस्य काम्यम् ॥ सनिम्मेधामयासिषम् ॥ ६ ॥
सदसः । पतिम् । अद्भुतम् । प्रियम् । इन्द्रस्य । काम्यम् ॥ सनिम् । मेधाम् । अयासिषम् ॥ ६ ॥
हरि-वायु-अग्निषु शरणागतिः
सदसस्पतिर्हरिस्साक्षाद् वायुरग्निरथापि वा । लाभज्ञानस्वरूपोऽसौ शरणं तमयासिषम् ॥३२३॥६॥
सदसस्पतिर्देवता
यस्मादृतेन सिध्यति यज्ञो विपश्चितश्चन ॥ सधीनां योगमिन्वति ॥ ७ ॥
यस्मात् । ऋते । न । सिध्यति । यज्ञः । विपःऽचितः । चन ॥ सः । धीनाम् । योगम् । इन्वति ॥ ७ ॥
धीप्रेरकः स ध्येयश्च धीभिर्योगं तदाऽप्नुते ॥ ७ ॥
पिपीलिकामध्या निचृद् गायत्री - सदसस्पतिः देवता
आदृध्नोति हविष्कृतिम्प्राञ्चङ्कृणोत्यध्वरम् ॥ होत्रा देवेषु गच्छति ॥ ८ ॥
आत् । ऋध्नोति । हविःऽकृतिम् । प्राञ्चम् । कृणोति । अध्वरम् ॥ होत्रा । देवेषु । गच्छति ॥ ८ ॥
तस्माद्धविष्कृतः स्वृद्धिं करोति यजतो विभुः । करोति चोत्तमं यज्ञं देवाह्वानानि गच्छति ॥ ३२४॥८ ॥
सदसस्पतिः(वायुः), नराशंसो (विष्णुः,अग्निः - वा देवता
नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ॥ दिवो न सद्ममखसम् ॥ ९, ३५, १९ ॥
नराशंसम् । सुऽधृष्टमम् । अपश्यम् । सप्रथःऽतमम् ॥ दिवः । न । सद्मऽमखसम् ॥ ९, ३५, १८ ॥
नराशंसो विष्णुः
नरैः स्तुत्यो नराशंसो हरिर्धृष्टतमश्च सः । गुणानां प्रथिमाधिक्यात् सप्रथस्तम ईरितः । यस्य स्वर्गादपि गृहं मखः प्रियमिवेयते ॥ ३२५॥९, ३५, १८ ॥
मण्डलम्–१. अध्यायः–१.अनुवाकः – ५.सूक्तम्–१९.
(प्रतित्यं नवर्चंं, मेधातिथिः काण्वः ऋषिः, अग्नामरुतश्च देवते, छन्दः– गायत्री,(२ निचृत्, ९ पिपीलिकामध्या निचृत्,)
प्रतित्यञ्चारुमध्वरङ्गोेपीथाय प्रहूयसे ॥ मरुद्भिरग्न आगहि ॥ १ ॥
प्रति । त्यम् । चारुम् । अध्वरम् । गोऽपीथाय । प्र । हूयसे ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ १ ॥
यज्ञं प्रतिप्रति त्यं तं सम्यक् शास्त्रोक्तलक्षणम् । आहूयसे ............................ ॥ १ ॥
निचृद् गायत्री
न हि देवो न मर्त्यो महस्तव क्रतुम्परः ॥ मरुद्भिरग्न आगहि ॥ २ ॥
नहि । देवः । न । मर्त्यः । महः । तव । क्रतुम् । परः । मरुत्ऽभिः । अग्ने । आ । गहि ॥ २ ॥
महान्नैव त्वदन्योऽस्ति (हि) क्रतुं प्रति ॥ ३२६ ॥
विष्णौ हि मुख्यतोऽर्थोऽयमग्नौ कांश्चिदृते सुरान् ॥ २ ॥
ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ॥ मरुद्भिरग्न आगहि ॥ ३॥
ये । महः । रजसः । विदुः । विश्वे । देवासः । अद्रुहः । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ३ ॥
महतो रञ्जकात् स्वर्गादद्रोग्धारोऽखिलं विदुः ॥ ३ ॥
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ॥ मरुद्भिरग्न आगहि ॥ ४ ॥
ये । उग्राः । अर्कम् । आनृचुः । अनाधृष्टासः । ओजसा ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ४ ॥
प्राप्ता अर्कं विशेषेण सन्निधिस्तत्र यद्धरेः ॥ ४ ॥
ये शुभ्रा घोरवर्पस सुक्षत्रासो रिशादसः ॥ मरुद्भिरग्न आगहि ॥ ५, ३६ ॥
ये । शुभ्राः । घोरऽवर्पसः । सुऽक्षत्रासः । रिशादसः ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ५, ३६ ॥
प्राण-इन्द्रिय-अग्न्यादिगतभगवद्रूपविशेषाः
शुद्धा घोरबलाः क्षेत्रत्रातारः क्षतितोऽपि वा । रम्यसत्सुखभोक्तारो मरुतो मारुतत्वतः ॥ ३२८ ॥
एतादृशानि रूपाणि प्राणाग्निस्थानि चेशितुः । पृथग् वा तादृशान्येव देवगान्यपि सर्वशः ॥३२९॥५॥
येनाकस्याधि रोचने दिवि देवास आसते ॥ मरुद्भिरग्न आगहि ॥ ६ ॥
ये । नाकस्य । अधि । रोचने । दिवि । देवासः । आसते । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ६ ॥
स्वर्गोपरि प्रकाशे च सूर्यादावासते सुराः । नाको निर्दुःखरूपत्वाद् द्यौः प्रकाशस्वरूपतः ॥३३०॥६॥
य ईङ्खयन्ति पर्वतान् तिरस्समुद्रमर्णवम् ॥ मरुद्भिरग्न आगहि ॥ ७ ॥
ये । ईङ्खयन्ति । पर्वतान् । तिरः । समुद्रम् । अर्णवम् ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ७ ॥
प्रतोलयन्ति च गिरींस्तिरस्कृत्य च सागरम् । पुरुषान् प्रकृतिं वाऽपि पर्ववन्तो हि जन्मना ॥
समुद्रशब्दार्थः प्रकृतिः
पुरुषाः सुसमुद्रेकात् समुद्रः प्रकृतिर्मता ॥ ३३१॥
प्रकृतेः पुरुषाणां च प्रेरकः सन् सदा हरे । स्वरूपैर्बहुभिर्युक्त आयाहि सम सद्गुणैः ॥३३२॥ ७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऋक्संहिताभाष्ये प्रथमोध्यायः ॥ १ ॥
ऋतवः, द्रविणोदाश्च (अग्निः) देवताः
आये तन्वन्ति रश्मिभिस्तिरस्समुद्रमोजसा ॥ मरुद्भिरग्न आगहि ॥ ८ ॥
आ । ये । तन्वन्ति । रश्मिऽभिः । तिरः । समुद्रम् । ओजसा । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ८ ॥
पिपीलिकामध्या निचृद् गायत्री
अभि त्वा पूर्वपीतये सृजामि सोम्यम्मधु ॥ मरुद्भिरग्न आगहि ॥ ९, ३७, १, १९ ॥
अभि । त्वा । पूर्वऽपीतये । सृजामि । सोम्यम् ॥ मधु । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ९, ३७, १, १९ ॥
इत्येकोनविंशं सूक्तम्
॥ इति प्रथममण्डले प्रथमाष्टके प्रथमोऽध्यायः ॥