सदाचारस्मृतिः

change script to

यस्मिन् सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो याति परं जयति सोच्युतः॥ १॥
स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि ।
धौतदन्तः समाचम्य स्नानं कुर्याद् विधानतः॥ २॥
उद्धृतेति मृदालिप्य द्विषडष्टषडक्षरैः ।
त्रिर्निमज्याप्यसूक्तेन प्रोक्षयित्वा पुनस्ततः ।
मृदालिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम्॥ ३॥
स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम् ।
यतश्वासो निमज्याप्सु प्रणवेनोत्थितस्ततः ।
सिञ्चत् पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन्॥ ४॥
वसित्वा वास आचभ्य प्रोक्ष्याचम्य च मन्त्रतः ।
गायत्र्या चाञ्जलिं दत्वा ध्यात्वा सूर्यगतं हरिम्॥ ५॥
मन्त्रतः परिवृत्याथ समाचम्य सुरादिकान् ।
तर्पयित्वा निपीड्याथ वासो विस्तृत्य चाञ्जसा॥ ६॥
अर्कमण्डलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत् ।
सहस्रपरमां देवीं शतमध्यां दशावराम्॥ ७॥
आसूर्यदर्शनात्तिष्ठेत्ततस्तूपविशेत वा ।
पूर्वां सन्ध्यां सनक्षत्रामुत्तरां सदिवाकराम् ।
उत्तरामुपविश्यैव वाग्यतः सर्वदा जपेत्॥८॥
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः॥९॥
गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् ।
प्रणम्य देवान्विप्रांश्च गुरूंश्च हरिपार्षदान् ।
एवं सर्वोत्तमं विष्णुं ध्यायन्नेवार्चयेद्धरिम्॥ १०॥
ध्यानप्रवचनाभ्यां च यथायोग्यमुपासनम् ।
धर्मेणेज्यासाधनानि साधयित्वा विधानतः ।
स्नात्वा सम्पूजयेद्विष्णुं वेदतन्त्रोक्तमार्गतः॥ ११॥
वैश्वदेवं बलिं चैव कुर्यान्नित्यं तदर्पणम् ।
इष्टं दत्तं हुतं जप्तं पूर्तं यच्चात्मनः प्रियम् ।
दारान्सुसान्प्रियान्प्राणान् परस्मै सन्निवेदयेन्॥ १२॥
भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः ।
भुञ्जीत हृद्गतं विष्णुं स्मरंस्तद्गतमानसः ।
आचम्य मूलमन्त्रेण कोष्ठं स्वमभिमन्त्रयेत्॥ १३॥
वेदशास्त्रविनोदेन प्रीणयन् पुरुषोत्तमम् ।
अहःशेषं नयेत्सन्ध्यामुपासीताथ पूर्ववत्॥ १४॥
यामात्परत एवाथ स्वपेद्ध्यायन् जनार्दनम् ।
अन्तराले ततो बुद्ध्वा स्मरेत बहुशो हरिम्॥ १५॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्स्वभावम् ।
करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत्॥ १६॥
''द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते॥ १७॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ १८॥
यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः ।
अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ १९॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत॥ २०॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुदि्धमान्स्यात्कृतकृत्यश्च भारत'''॥ २१॥
''रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः'''॥ २२॥
''ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः '''॥ २३॥
''ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विदि्ध नष्टानचेतसः'''॥ २४॥
''द्वौ भूतसर्गौ लोकेस्मिन्दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः'''॥२५॥
''स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः'''॥२६॥
''धर्मो भवत्यधर्मोपि कृतो भक्तैस्तवाच्युत ।
पापं भवति धर्मोपि यो न भक्तैः कृतो हरेः'''॥२७॥
''मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
नित्यं भवेच्च मन्निष्ठो बुभूषुः पुरुषस्सदा'''॥२८॥
एष नित्यः सदाचारो गृहिणो वनिनस्तथा ।
वैश्वदेवं बलिं दन्तधावनं चाप्यृते वटोः॥२९॥
एवमेव यतेः स्वीयवित्तेन तु विना सदा ।
मूलमन्त्रैः सदा स्नानं विष्णोरेव च तर्पणम्॥३०॥
विशेषो निष्क्रिययतेरजलाञ्जलिना तथा ।
तर्पणं तु हरेरेव यतेरन्यस्य चोदितम्॥३१॥
समिद्धोमो वटोश्चैव स्मृत्वा विष्णुं हुताशने ।
सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा ।
रमाब्रह्मादयस्तस्य परिवारत एव तु॥३२॥
''कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद् यः ।
सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्॥३३॥
''वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि विचिन्त्य धीरः नामानि कृत्वाभिवदन् यदास्ते॥ ३४॥
धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते'''॥ ३५॥
आनन्दतीर्थमुनिना व्यासवाक्यसमुद्धृतिः ।
सदाचारस्य विषये कृता सङ्क्षेपतः शुभा॥ ३६॥
अशेषकल्याणगुणनित्यानुभवसत्तनुः ।
अशेषदोषरहितः प्रीयतां पुरुषोत्तमः॥ ३९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता सदाचारस्मृतिः समाप्ता॥