षट्प्रश्नोपनिषत्

change script to

नमो भगवते तस्मै प्राणादिप्रभविष्णवे ।
अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ।
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः । ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः । एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ।। १ ।।
तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ।। २ ।।
अथ कबन्धी कात्यायनः उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः। स तपोऽतप्यत ।। ३ ।।
प्रजानां पालनाद्विष्णुः प्रजापतिरितीरितः ।
स मिथुनमुत्पादयते । रयिं च प्राणं चेति । एतौ मे बहुधा प्रजाः करिष्यत इति । आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ।।
स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम् ।।
सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः ।
तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः ।।
रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ।। अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते । यद् दक्षिणां यत्प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ।। ५ ।।
अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती ।
आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत् ।।
प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः ।
प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः ।
शेषमित्राववाचीनौ वीन्द्रकामावुदक्तनौ ।
सभार्याः कोणपैः सार्धं चत्वारो दिशि दिश्यपि ।।
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ।।
विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ।। ६ ।।
संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते । कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ।। ७ ।।
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः ।
तदेष श्लोकः ।।
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षर आहुरर्पितमिति ।। ८ ।।
संवत्सरस्थो भगवान् वागीरावयनस्थितौ  ।
मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति । इतर इतरस्मिन् । अहोरात्रे वै प्रजापतिः । तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ।। ९ ।।
मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः ।।
अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ् निशि ।
दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती ।
भर्तृस्थः स स्वयं वायुरेवं जानन् विमुच्यते ।।
इति प्रजापतिसंहितायाम्
अन्नं वै प्रजापतिः । ततो ह वै तद्रेतः । तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति ।। ये मिथुनमुत्पादयन्ते ।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ।। ११ ।।