षट्प्रश्नोपनिषत्

change script to

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तं मह्यं ब्रवीहीति ।
तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ।। १ ।।
कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी ।
लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ।। तपोभिमानी वह्निश्च वरुणो वीर्यदेवता ।
अन्नस्य देवता सोमो मनो नामानिरुद्धकः ।।
इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः ।
रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः ।।
श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया ।
तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः ।।
तस्यापीशः कारणं च वासुदेवः परोऽव्ययः ।
न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत् ।।
तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम् ।। इति तत्त्वविवेके ।
तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ।। स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ।। स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योऽतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ।। २ ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।। इति मन्त्रोक्त एव क्रमः । न हीन्द्रियेभ्यो मनः पश्चात् । तत्प्राक् श्रुतेश्च इति च भगवद्वचनम् ।। विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः ।
तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ।।
ततश्च वरुणस्सृष्टस्तस्मादग्निस्ततोऽवरः ।
आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत् ।।
तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः ।
ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता ।।
उदात्मको बुधस्तस्या उषा नामात्मिका ततः ।
ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः ।।
क्रमात् प्रत्यवरा ह्येते मुक्ताः सर्वगुणैरपि ।
नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः ।। इति च
स यथेमाः नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ।। ३ ।।
समुद्रे इत्येव प्रोच्यते । पुरुषे इत्येवं प्रोच्यते । भिद्येते तासां नामरूपे । भिद्येते चासां नामरूपे इत्युक्तत्वात् । अज्ञैरनवगतान्यपि समुद्रे स्थितानां नदीनां विष्णौ स्थितानां मुक्तानां च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः ।
न च भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः । घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते । नाशस्त्वर्थतः एवावगम्यते । न चात्रार्थतोऽपि नाशोऽवगम्यते । न हि नामानि रूपाणि च कपालवद् बहुधा भूतानि तिष्ठन्ति । अतो भिद्येते इति पृथक्त्वमेवोच्यते । अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः इति वाक्यशेषाच्च । अतः पुरुषे भिन्नानि नामरूपाणि प्रतिष्ठितानीत्येवार्थः । नामरूपाणि नित्यान्येव , अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव ।
प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः ।
पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते ।। इति सत्तत्त्वे ।।
नामरूपाद्विमुक्तः इत्यनेनापि नामरूपामुक्तत्वमुच्यते । विप्रिय इत्यादिवत् । नामरूपे अविहायेति च पूर्वत्र । अनन्तं वै नामानन्ता विश्वेदेवाः इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति । यत्र पूर्वे साध्या सन्ति देवाः स तत्र पर्येति जक्षन् क्रीडन् रममाणः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु इत्यादेश्च । अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम्
तदेष श्लोकः
अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथाः इति ।।
तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ।। ४ ।।
इति षट्प्रश्नोपनिषत् समाप्ता ।।
नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे ।
परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम् ।।