तलवकारोपनिषत्

change script to

अनन्तगुणपूर्णत्वादगम्याय सुरैरपि ।
सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥
न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः ।
न विद्म न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥
अन्यदेव तद् विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥
यद् वाचाऽनभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ५ ॥
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ६ ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ७ ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ८ ॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ९ ॥
इति प्रथमः खण्डः
वैजयन्ते समासीनमेकान्ते चतुराननम् ।
विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः ॥
यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः ।
केन तत्प्रेरितं याति प्राणः सर्वोत्तमस्तथा ॥
चक्षुःश्रोत्रं तथा वाचं को देवो विनियोजयेत् ।
इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥
ध्यात्वा नारायणं देवं सर्वाधारमनूपमम् ।
सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥
यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः ।
अगम्यस्सर्वदेवैश्च परिपूर्णत्वहेतुतः ॥
प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः ।
सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥
॥ इति प्रथमः खण्डः ॥