तलवकारोपनिषत्

change script to

यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते ॥ १ ॥
मन्ये विदितं नाहमन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २ ॥
मन्ये विदितं नाहमन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २ ॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
इति द्वितीयः खण्डः ॥
यं सम्यङ् नैव जानाति कश्चिन्निरवशेषतः ।
सर्वात्मना विजानामीति तु यस्य मतं भवेत् ॥
तस्याज्ञातस्स भगवान् यो नैवं मन्यते सदा ।
ज्ञातस्तस्य तथाऽस्यैव निश्शेषं मननं कृतम् ॥
इति यो मन्यते नास्य मतस्स पुरुषोत्तमः ।
नातिवेद्यो न चावेद्यस्तस्मात् स परमेश्वरः ॥
नेदं जीवस्वरूपं तद् ब्रह्म विष्ण्वाख्यमव्ययम् ।
किन्तु यत्ते समीपस्थमास ते विनियामकम् ॥
तदेव ब्रह्म विदि्ध त्वं विष्ण्वाख्यं परमव्ययम् ।
नियामकं तद्देवानां मर्त्यानां किमुतोत्तमम् ॥
तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः ।
किमु जीवस्य तद्भावो न मन्तव्य इतीर्यते ॥
॥ इति द्वितीयः खण्डः॥