तलवकारोपनिषत्

change script to

ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानन्त । किमिदं यक्षमिति ॥ २ ॥
तेऽग्निमब्रुवन् । जातवेद एतद्विजानीहि किमेतद् यक्षमिति ॥ ३ ॥
तथेति तदभ्यद्रवत् तमभ्यवदत् कोऽसीति । अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४ ॥
तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥
तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाक दग्धुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ ६ ॥
अथ वायुमब्रुवन् वायवेतद् विजानीहि किमेतद् यक्षमिति । तथेति ॥ ७ ॥
तदभ्यद्रवत् तमभ्यवदत् कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीत् मातरिश्वा वा अहमस्मीति ॥ ८ ॥
तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वमाददीयं यदिदं पृथिव्यामिति ॥ ९ ॥
तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकादातुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥ १० ॥
अथेन्द्रमब्रुवन् । मघवन्नेतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे ॥ ११ ॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीम् । तां होवाच किमेतद् यक्षमिति ॥ १२ ॥
इति तृतीयः खण्डः ॥
इत्यत्राख्यायिकां वच्मि शृणु तां त्वं महेश्वर ।
स्थित्वा देवेषु तद् ब्रह्म व्यजयद्दैत्यदानवान् ॥
देवेभ्योऽर्थाय विजयं ते देवा मेनिरे स्वकम् ।
आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः ॥
यक्षरूपः प्रादुरभूदुमाशिवसमन्वितः ।
ब्रह्मणा चापि सहित एतेभ्योऽपि परो ह्यहम् ॥
एतेऽपि मे भृत्यभूताः परिवार्य व्यवस्थिताः ।
इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः ॥
यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति ।
तज्ज्ञानार्थं हुताशश्च नासिक्यो वायुरेव च ॥
इन्द्रश्च क्रमशो जग्मुस्तं ज्ञातुं नैव चाशकन् ।
तत्रेन्द्रोऽधिकबुदि्धत्वात् पृच्छतीति जनार्दनः ॥
मत्तः शिवाद् ब्रह्मणश्च श्रोतुं नैवापि शक्तिमान् ।
इति ज्ञापयितुं तत्र नादृश्यत स केशवः ॥
एषैव ज्ञानदाने ते योग्योमेति व्यदर्शयत् ॥
॥ इति तृतीयः खण्डः ॥