तत्त्वोद्योतम्

change script to

सर्वत्राखलिसच्छक्तिः निर्दोषोशेषसद्गुणः ।नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः ॥
विमतो भिन्नः मुक्तत्वात् यदित्थं तत्तथा यथा सम्प्रतिपन्नम् । न च भेदे विकल्पो युज्यते । अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव । शशविषाणं गोविषाणं वोच्यत इतिवत् । न चानिर्वचनीये किञ्चिन्मानम् । मिथ्याशब्दोनिर्वचनीयं वदतीत्यत्र च । अनुमानस्य चाप्रसिद्धविशेषणः पक्षः । न च धूमत्ववत् मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति । न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति । न च भावाभाववलिक्षणं क्वचिदागमो वक्ति । "नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमापरो यत्' इत्यत्र च । पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे "आनीदवातं स्वधया तदेकम्' इति तदानीं परिशिष्टत्वाद् ब्रह्मण एवानिर्वचनीयत्वं स्यात् ।
मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते ।
मूर्तामूर्तेतरं ब्रह्म न सत्तन्नासदुच्यते ॥ इति पैङ्गिश्रुतिः ।
यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत् इति माध्यन्दिनश्रुतिः ।
अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च ।
अचिन्त्यं तत एवैतदतर्क्याज्ञेयमेव च ॥
ऋ गताविति धातोस्तु पूर्वावगतवत् सदा ।
स्थितेब्रह्मर्तमित्युक्तमनृतं परिणामतः ॥
प्रकृतिप्राकृतं प्रोक्तमसत्तदशुभत्वतः ।
असतां बुद्धिगम्यत्वादसत्यमिति चोच्यते ॥
नियमेन बहिश्चित्तास्ते सन्तो ब्रह्मणि स्थिताः ।
विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः ॥
न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः ।
असत्यमप्रतिष्ठं ये जगदाहुरनीश्वरम् ॥
त आसुरा स्वयं नष्टा जगतः क्षयकारिणः ॥ इत्यादि व्यासस्मृतौ ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोहिताः ॥ इत्यादि च गीतासु ।
"विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम् ।"'
"प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्"'
"सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्ररातज्ये'
"कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः" इत्यादि श्रुतिभ्यश्च ।
न चार्थापत्त्यानिर्वचनीयसिद्धिः । असतः प्रतीतिं विनासद्वैलक्ष्ण्यज्ञानानुपपत्तेः । न च बाध्यं जगदित्यत्र किञ्चिन्मानम् । बाध्यत्वमपि हि तेषां मिथ्या । तस्य च मिथ्यात्वेबाध्यत्वमेव सत्यं स्यात् ।
सद्वलिक्षणत्वं च सज्जातिवलिक्षणत्वं सन्मात्रवलिक्षणत्वं वा । जात्यङ्गीकारे सद्बहुत्वम् । सन्मात्रवलिक्षणत्वं चेत् सिद्धसाधनता । ब्रह्मवैलक्षण्याङ्गीकारात् । न च कयापि युक्त्या मानेन वा भेदनिराकरणं भवति । अङ्गीक्रियमाणत्वात् । अनिर्वचनीयासिद्धेश्च । सद्वलिक्षणत्वमसद्वलिक्षणत्वं च मिथ्येत्यवलिक्षणत्वमेव सत्यं स्यात् ।
एवमेव हेत्वादिष्वपि विकल्पो निराकरणीयः ।
दृश्यत्वानुमानेष्वपि एते एव दोषाः ।
आत्मनोपि दृश्यत्वादनैकान्तिकता च । न चात्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम् । तदज्ञाननिवृत्तिश्च तेन भवति । न च तदाकारम् । अतद्विषयत्वादेव । तद्विषयत्वमेव हि तदाकारत्वम् । न हि अतद्विषयत्वादेव । तद्विषयत्वमेव हि तदाकारत्वम् । न हि ज्ञानज्ञेययोरेकाकारता । न ह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वास्ति । पुङ्गतमेव हि तमः ज्ञानेन निवर्तते । विषयाश्रयं चेदज्ञानं निवर्तते तह्येकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात् । अतद्विषयज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेत । अविषयत्वादेव तस्य ज्ञानत्वं न स्याद् घटवत् ।
जडत्वं चाप्रमातृत्वमेव । न च प्रमातृमात्मनस्तैरङ्गीक्रियते । अतस्तदप्यनैकान्तिकम् । मिथ्याप्रमातृत्वं चानिर्वचनीयनिरासादेव निरस्तम् । यदि जडत्वं नामाप्रकाशत्वं तदप्यात्मनः स्वविषयप्रकाशत्वाभावात् परविषयप्रकाशत्वाभावाच्च अनैकान्तिकमेव । स्वविषयत्वं हि कर्तृकर्मविरोधात् तैर्नाङ्गीक्रियते । मिथ्याभूतपरविषयत्वं चानिर्वचनीयनिरासादेव निरस्तम् । विषयवर्जितः प्रकाश एव न भवति घटवत् । तत्प्रमाणाभावात् ।
देशतः कालतः परिच्छिन्नत्वं प्रकृतिकालादिष्वभावात् भागासिद्धम् । वस्तुतः परिच्छिन्नत्वमात्मनोपि भेदाङ्गीकारादनैकान्तिकम् ।
प्रत्यक्षबाधितं च जगन्मिथ्यात्वम् । सदिति प्रतीयमानत्वात् । न च प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टम् । चन्द्रप्रादेशत्वादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वात् अपटु । न च जगत्प्रत्यक्षस्यापटुत्वे किञ्चिन्मानम् ।
न च जगतोज्ञानजन्यत्वे किञ्चिन्मानम् ।
न च मायाविना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ॥
अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।
सर्वापरोक्षविद्विष्णुर्विश्वदृक्तन्न तन्मृषा ॥ इति ब्रह्माण्डे ॥
ईशोनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
एक आत्मा परब्रह्मभावो मुक्तिरिति ह्यपि ॥
एवमादि विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिः ज्ञेया आभासा इति वैदिकैः ॥
वेदवेदानुसारेषु विरोघेन्यार्थकल्पना । इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ॥ इति व्यासस्मृतौ ॥
"नासतो दृष्टत्वात्'
"नाभाव उपलब्धेः'
"वैधर्म्याच्च न स्वप्नादिवत्' इत्यादि भगवद्वचनेनापि निरस्ताः ।
न च शून्यवादिसकाशात् वैलक्षण्यं मायावादिनः । व्यावहारिकसत्वस्य तेनाप्यङ्गीकारात् ।
सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् । सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ॥
विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते । यस्य तत्सांवृतं ज्ञेयं व्यवहारपदं च यत् ॥ इत्यादिना ।
न च निर्विशेषब्रह्मवादिनः शून्यात् कश्चित् विशेषस्तस्य ।
निविशेषं स्वयं भातं निर्लेपमजरामरम् । शून्यं तत्त्वमविज्ञेयं मनोवाचामगोचरम् ॥
जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत् । नित्यभावनया भातं तद्भावं योगिनं नयेत् ॥
भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः । विश्वाकारं च संवृत्त्या यस्य तत्पदमक्षयम् ॥ इत्यादि तद्वचः ।
"अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्' इति च मायावादी ।
नास्य सत्त्वमसत्त्वं वा न दोषो गुण एव वा ।
हेयोपादेयरहितं तच्छून्यं पदमक्षयम् ॥ इति च शून्यवादी ।
सत्त्वादयो धर्माः परमार्थतो मायावादिनापि नाङ्गीक्रियन्ते । सर्वविशेषविनिर्मुक्तत्वाङ्गीकारात् ।
अवाच्यं सर्वशब्दैस्तल्लक्ष्यते चाखिलैः पदैः ।
अज्ञेयं ज्ञानलक्ष्यं च तच्छून्यं पदमक्षयम् ॥ इति च शून्यवादी ।
न चाखण्डत्वेन कश्चिद्विशेषः ।
यदखण्डपदं लक्ष्यं सर्वैरपि विशेषणैः । सर्वैर्विशेषणैर्मुक्तं तच्छून्यं पदमक्षयम् ॥ इति च शून्यवादी ।
एवमेव मायावादिराद्धान्तः । न च मायावादिनो भावत्वं नाम धर्मः । न च शून्यवादिनः शून्यत्वं नाम धर्मः ।
मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे । यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ इति भगवद्राद्धान्तः ।
"परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इत्यादि श्रुतिः ।
प्रकृष्टप्रकाशश्चन्द्रः इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम् । अनित्यदेशकालसम्बन्धित्वस्य सत्त्वान्न सोयं देवदत्तः इत्याद्युपमा च । देवदत्तादिस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः । नक्षत्रादिव्यातिरेकमात्रस्यापि सिद्धत्वान्न व्यतिरेकमात्रे । अन्यथा प्रश्नस्यैवासम्भवात् । अतः कैर्विशेषणैर्विशिष्ट इति प्रश्ने प्रकृष्टप्रकाशतद्देशकालादिविशिष्ट एव वाक्यार्थः । अङ्गीक्रियमाणत्वाद्विशिष्टादेरनिर्वचनीयाभावाच्च सत्यत्वं च सिद्धम् ।
दृष्टस्य वस्तुनो बलवद् दृष्टिं विना नान्यद्बाधकमिति दुर्घटत्वे सुघटत्वे वा नानिर्वचनीयसिद्धिः । सर्ववैलक्षण्याङ्गीकारात् दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव । जगतो भिन्नमभिन्नं भिन्नाभिन्नं वेत्यादिविकल्पस्तत्रापि युज्यते । भिन्नं चेद्भेदादिविशिष्टाच्छुद्धं भिन्नमभिन्नं वेत्याद्यनवस्था । अभिन्नं चेन्मिथ्यारूपेण जगता ब्रह्मापि मिथ्यैव स्यात् । भिन्नाभिन्नं चेद्दोषद्वयमपि । उभयवलिक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवापतितम् । यद्येवमपि नानिर्वचनीयत्वं ब्रह्मणस्तर्हि जगतोपि न स्यात् । "विश्वं सत्य"मित्यादिवचनमत्राप्युक्तम् । "न सत्तन्नासदुच्यते "। "असद्वा इदमग्र आसीत्" ।" नासदासीन्नो सदासीत् तदानीम् "। इत्यादि ब्रह्मणोपि मिथ्यात्वे प्रमाणमस्ति ।
न हि दृष्टेर्बलवत् किञ्चित्प्रमाणम् । न हि युक्तिपराजितोपि क्षुधितो नान्नमत्ति । बलवद्दृष्ट्यबाधे । न चान्नत्वे दुर्घटे तस्यानन्नत्वं भवति । दृष्ट्यबाधितदृष्टस्य । न चान्नानन्नवैलक्षण्यमनुभूयते । न च तथा व्यवहारः । न च तत्र किञ्चिन्मानम् । अतो विशिष्टादिनिराकरणयुक्तीनामपि विशिष्टाद्यपेक्षत्वात् जात्युत्तरमिति न युक्तिबाधापि । अतो निखिलगुणगणाढ्यमेव ब्रह्म श्रुत्यभिप्रेतम् । अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः । यदि जगन्मिथ्या स्यात् तदा दृश्यत्वाद्यनुमानस्यापि जगदन्तःपातित्वेन मिथ्यात्वादसिद्धिः स्यात् ।
वाचरम्भणं विविधप्रकारः । नामधेयं नित्यं धार्यं नाम मृत्तिकेत्यादि वैदिकमेवेत्येतद् वचनं सत्यमिति श्रुतेरर्थः । अनित्यत्वात् साङ्केतिकं नामाप्रधानं नित्यत्वात् मृत्तिकादिनामैव प्रधानम् । प्रधानज्ञानादप्रधानं ज्ञातमिव भवति । एवं प्रधानस्य परमात्मनो ज्ञानादप्रधानं ज्ञातमिव भवति । प्राधान्यज्ञापनार्थमेव सृष्ट्यादिकथनम् । यथा सोम्येत्याद्यपि सादृश्यकथनम् । न चैकनखनिकृन्तनविकारः सर्वकार्ष्ण्यायसम् । प्रधानपुरुषज्ञानाद् ग्रामो ज्ञात इति व्यपदेशोस्ति ।
न हि सत्यज्ञानेन मिथ्याज्ञानं भवति । मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यात् । यद्यज्ञानकृतो भेदस्तर्हीश्वरस्याज्ञानाभावात् संसारिणैक्यं तेनानुभूयेत । ततश्च दुःखित्वं स्यात् ।
"तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।
सुखं दुःखं भवोभावो भयं चाभयमेव च ।
"अहिंसा समता तुष्टिस्तपो दानं यशोयशः ॥"
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥"
"यस्माद् क्षरमतीतोहमक्षरादपि चोत्तमः ।
अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥"
इत्यादिनेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च ।
तत एवाभ्रान्तत्वाच्च मुक्तस्यापि भेदनिवृत्तिः ।
न चोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः ।
हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वानुभवात् ।
उद्यतायुधदोर्दण्डाः पतितास्वशिरोक्षिभिः ।
पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ॥
इति भारतवचनान्न विश्लेषाद्विशेषः ।
अतोनौपाधिकत्वादेव भेदस्य न मुक्तस्येश्वरैक्यम् ।
"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेपि नोपजायन्ते प्रलये न व्यथयन्ति च ।"
"यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥'
इत्यादि मुक्तभेदवचनेभ्यश्च ।
एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत् प्रतीयमानान्यपि वाक्यानि सादृश्याद्यर्थान्येव योजनीयानि ।
विरुद्धवत्प्रतीयन्त आगमा यत्र वै मिथः । तत्र दृष्टानुसारेण तेषामर्थोन्ववेक्ष्यते ॥ इति ब्राह्मवचनाच्च ।
भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे तदपलापयुक्तेर्नितरां भ्रान्तित्वाद् भेदाद्यनुभवस्याभ्रान्तित्वमेव भवति । परस्परविरुद्धयोरन्यतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वात् । एकजीववादपक्षे तन्निष्ठानां मृत्यनन्तरमपि विश्वस्यानिवृत्तत्वात् भेदनिष्ठ एवैकजीव इत्यापतति । तस्य च तत्रैवाग्रहान्न कदाचिद्भेदनिवृत्तिरित्यनिवृत्तिरेव भवति ।
न चैकजीवाज्ञानपरिकल्पितास्समस्ता इत्यत्र किञ्चिन्मानम् । अतो मुक्तेभ्योप्यन्य एव समस्तगुणपरिपूर्णो भगवान् विष्णुरिति सिद्धम् ।
"ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरेः ॥"
"परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।"
सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते ।
नमो नारायणायार्यवृन्दवन्दितपद्द्वय ॥
आनन्दतीर्थपुंसिहो मायावादिदितेः सुतान् ।
विदार्य युक्तिनखरैरप्रतीपोभिभासते ॥
पलायध्वं पलायध्वं त्वरया मायिदानवाः ।
सर्वज्ञहरिरायाति तर्कागमदरारिभृत् ॥
द्रवत द्रवत मायिनः प्रविशध्वमतन्द्रिता गुहाः ।
कमलारमणाम्बराश्रयः समुदेत्यखलिज्ञभास्करः ॥
नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् ।
प्रपलायनमत्र तत्क्षमं त्वरया वो वसतिर्गुहासु च ॥
जयत्यानन्दतीर्थेष्टदेवता नरकेसरी ।
विपाटिताज्ञानतमःकपाटात्युरुहुङ्कृतः ॥
जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः ।
अजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः ॥
सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजाश्रयः ।
अजितो जयति श्रीशो रमाबाहुलताश्रयः ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वोद्योतः