प्रमाणपद्धतिः

change script to

ग्रन्थारम्भसमर्थनम्‌
प्रणम्य चरणाम्भोजयुगलं कमलापतेः ।
प्रमाणपद्धतिं कुर्मो बालानां बोधसिद्धये ॥
यद्यपि भगवत्पादैरेव प्रमाणलक्षणादिकं अभिहितम्‌। तथाऽपि गम्भीरया वाचा विक्षिप्य वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति तदर्थमिदं प्रकरणं आरभ्यते ।‌
लक्षणस्वरूपम्‌
यो धर्मो लक्ष्ये व्याप्त्या वर्तते, न वर्तते च अन्यत्र, स धर्मो लक्षणमित्युच्यते । यथा गोः सास्नादिमत्वम्‌। तद्धि गोषु सर्वत्र अस्ति, नास्ति च अगोषु ।‌
अलक्षणस्वरूपम्‌
अन्यथाभूतं तु अलक्षणम्‌। तत्‌ त्रिविधम्‌। असम्भवि, यल्लक्ष्ये सर्वथा न वर्तते । यथा गोरेकशफत्वम्‌। अव्यापकं, यल्लक्ष्यैकदेशे वर्तमानमपि तदेकदेशान्तरे न वर्तते । यथा गोः शबलत्वम्‌। अतिव्यापकं, यल्लक्ष्यादन्यत्रापि वर्तते । यथा विषाणित्वम्‌।‌
लक्षणज्ञानप्रयोजनम्‌
सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणं लक्षणज्ञानस्य प्रयोजनम्‌। 'अस्मिन्‌ग्रामे देवदत्तगृह'मिति वार्तां श्रुतवतो हि तद्ग्रामस्थेषु सर्वेष्वपि गृशेषु देवदत्तगृहबुद्धिः प्रसक्ता । ततो 'यत्र पताका तत्‌देवदत्तगृहमि'ति तल्लक्षणज्ञाने सति, इदमेव, नान्यदित्यवधारणं जायते । शब्दव्यवहारो वा लक्षणज्ञानस्य प्रयोजनम्‌।‌
लक्ष्यस्वरूपम्‌
'सास्नादिमान्‌ गौरि'ति लक्षणज्ञाने सति, यं यं सास्नादिमन्तं पिण्डं पश्यति, तं तं गोशब्दवाच्यं प्रत्येति । यावदन्यतो व्यावर्तनीयं, यावति चैकः शब्दो व्युत्पादनीयः, तदुच्यते लक्ष्यमिति ।
प्रमाणस्य सामान्यलक्षणम्‌
तत्र आदौ तावत्‌प्रमाणसामान्यलक्षणमुच्यते । यथार्थं प्रमाणम्‌। प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवं उत्तरत्रापि ज्ञातव्यम्‌। अत्र यथाशब्दोऽनतिक्रमे वर्तते । अर्थशब्दश्चार्थ्यते इति व्युत्पत्तया ज्ञेयवाची । ज्ञेयमनतिक्रम्य वर्तमानं, यथावस्थितमेव ज्ञेयं यद्विषयीकरोति, नान्यथा, तत्‌प्रमाणमित्यर्थः ।‌
ज्ञेयविषयीकारित्वं च साक्षाद्वा, साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन वा विवक्षितमिति न अनुप्रमाणेष्वव्याप्तिः । ज्ञेयविषयीकारित्वेनैव प्रमातृप्रमेययोर्व्यवच्छेदः । तयोः साक्षाज्ज्ञेयविषयीकारित्वाभावात्‌। साक्षाज्ज्ञेयविषयीकारिकारणत्वेऽपि तत्साधनत्वाभावाच्च ।‌
प्रमावान्‌प्रमाता । प्रमाविषयः प्रमेयम्‌। यथार्थज्ञानं प्रमा ।‌‌
यथार्थग्रहणेन संशयविपर्ययतत्साधनानां निरासः ।‌‌
अनवधारणज्ञानं संशयः । अनवधारणग्रहणं सम्यज्जञानविपर्ययव्युदासार्थम्‌। घटादिनिवृत्त्यर्थं ज्ञानमिति । तस्य निर्णायकाभावसहकृताः साधारणधर्माऽसाधारणधर्मविप्रतिपत्तयुपलब्ध्यनुपलब्धयः पञ्च कारणानीति केचिदाहुः । तद्यथा स्थाणुपुरुषयोः साधारणमूर्ध्वतालक्षणं धर्मं पुरोवर्तिन्युपलभ्य स्थाणुपुरुषो स्मृत्वा, विशेषजिज्ञासायां स्थाणुत्वनिश्चायकं वक्रकोटरादिकं, पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य डोलायमानं संशयज्ञानमुत्पद्यते, 'किमयं स्थाणुर्वा, पुरुशो वा' इति । शब्दे चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य निर्णायकमजानतः संशयो भवति, 'किं शब्दो नित्योऽनित्यो वे'ति ।‌
इन्द्रियेषु वैशेषिकसाङ्ख्ययोर्भौतिकत्वाभौतिकत्वविप्रतिपत्तिं पश्यतो निश्चायकमजानतः सन्देहो भवति, 'किमिन्द्रियाणि भौतिकान्युताऽभौतिकानी'ति । कूपखननानन्तरं जलोपलब्धौ सत्यां, निश्चायकाभावे संशयो जायते, 'किं प्राक्‌सदेवोदकं कूपखननेनाभिव्यक्तमुपलभ्यते, उतासत्तेनोत्पन्नमि'ति । 'अस्मिन्‌वटे पिशाचः अस्ती'ति वार्थां श्रुतवतो वटसमीपं गतस्य, तत्र पिशाचानुपलब्धौ सत्यां निर्णायकाभावे संशयो भवति, 'किं विद्यमान एव पिशाचोऽन्तर्धानशक्त्यानोपलभ्यते, किंवाऽविद्यमान एवे'ति । उपलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावात्‌त्रीण्येव कारणानीत्यपरे । उपलब्धिर्हि सतामेव घटादीनां प्रदीपारोपणेन दृष्टा । असतां च कुलालादिव्यापारानन्तरमिति । तथाऽनुपलब्धिः सतामीश्वरादीनामसतां च शशविषणादीनां दृष्टेति ।‌
वयं तु ब्रूमः । असाधारणधर्मविप्रतिपत्त्योरपि साधारणधर्म एवान्तर्भावः । असाधारणो हि धर्मो न स्वरूपेण संशयहेतुः । विशेषस्मरणकारणत्वाभावात्‌। किन्तु व्यावृत्तिमुखेनैव । तथा च नित्यव्यावृत्तत्वमनित्यस्य, अनित्यव्यावृत्तत्वं च नित्यस्य धर्म इति साधारण एव ।‌
न चैकेनैव साधारणधर्मेण भाव्यमिति नियमोऽस्ति । तथा तथा प्रतिपन्नत्वं तस्य तस्य धर्म इति विप्रतिपत्तिरपि साधारणीति । विपरीतनिश्चयो विपर्ययः । विपरीतेति सम्यङ्निश्चयव्युदासः । निश्चयः इति संशयज्ञानस्य । स च प्रत्यक्षानुमानागमाभासेभ्यो जायते । यथा$-$'शुक्तिकायामिदं रजतमि'त्यादि ।‌
अयथार्थज्ञानविषये प्राभाकरादिमतखण्डनम्‌
अयथार्थज्ञानमेव नास्तीति प्राभाकरादयः । तन्न । अनुभवसिद्धत्वात्‌। 'एतावन्तं कालमहं शुक्तिकामेव रजतत्वेन प्रतिपन्नोऽस्मी'त्युत्तरकाले परामर्शाच्च । प्रतीतं च रजतं देशान्तरे सदेवेति वैशेषिकादयः । ज्ञानस्वरूपमेवेति विज्ञानवादिनः । तत्रैव तात्कालिकमुत्पन्नं सदिति भास्करः । न सन्नासन्न सदसत्‌। किन्त्वनिर्वचनीयमेवेति मायावादिनः । 'असदेव रजतं प्रत्यभादि'त्युत्तरकालीनानुभवाच्छुतिरेव अत्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः । अनध्यवसायः स्वप्नश्चायथार्थज्ञानान्तरमस्तीति वैशेषिकाः ।‌
'किं सङ्ज्ञकोऽयं वृक्ष' इत्यनध्यवसायः । स तु कोटीनामतिबाहुल्यादनिर्दिष्टकोटिकः संशय एव । वटादिव्यावृत्तिं पश्यतोऽपि पनसे यत्‌'किं सङ्ज्ञकोऽयं वृक्ष' इत्युत्पद्यते, तज्जञानमेव न भवति । किन्तु सङ्ज्ञाविषयं जिज्ञासामात्रम्‌। स्वप्नेऽपि गजादिदर्शनं चेद्यथार्थमेव । मानसवासनाजन्यत्वाद्रजादीनाम्‌। तेषु यद्‌बाह्यत्वज्ञानं स विपर्यय एव । बाह्यालीप्रदेशे, 'पुरुषेणानेन भवितव्यमि'त्यूहापरनामकं सम्भावनाज्ञानमप्यन्यतरकोटिप्रापकप्राचुर्यनिमित्तोऽन्यतरकोटिप्रधानः संशय एव ।‌
तर्कस्य द्वैतसिद्धान्तरीत्या अनुमानस्वरूपत्वम्‌
तर्कोऽनुमानमेवेति वक्ष्यामः । स्मृतावतिव्यापकं प्रमाणलक्षणमिति चेन्न । तस्या अपि प्रमाणत्वेन लोकवेदयोः संव्यवहारात्‌।‌
प्रमाणलक्षणम्‌,
अनुभूतिः प्रमाणम्‌। स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति प्राभाकराणां लक्षणम्‌। संशयविपर्ययव्यापकत्वात्‌ स्मृतौ वेदादिषु च यथार्थज्ञानसाधनेष्वव्यापकत्वाच्चायुक्तम्‌।
प्रमाणलक्षणविषये भाट्टमतखण्डनम्
ज्ञातताप्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य प्रकाशविशेषस्य साधनं क्रियाज्ञानं प्रमाणमिति भाट्टानां लक्षणमप्ययुक्तम्‌। ज्ञानव्यतिरिक्तायां ज्ञाततायां प्रमाणाभावेनासम्भावितत्वात्‌। अतीतादिविषयज्ञानानामाश्रयाभावेन तज्जनकत्वायोजाच्च वेदादिष्वव्याप्तेश्च । अनधिगततथाभूतार्थज्ञानं प्रमाणमिति तेशामेव लक्षणान्तरमप्ययुक्तं स्मृतौ वेदादिषु चाव्याप्तेः ।‌
प्रमाणलक्षणविषये नैय्यायिकमतखण्डनम्‌
सम्यगनुभवसाधनं प्रमाणमिति नैयायिकादयः । तदप्यसत्‌। यथार्थज्ञानेऽव्याप्तेः । प्रमाव्याप्तं प्रमाणमित्युदयनः । तदपि सर्वस्यापि प्रमेयस्येश्वरप्रमाव्याप्तत्वेनातिव्यापकत्वादयुक्तम्‌।‌
साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वं विवक्षितमिति चेन्न । आश्रयग्रहणवैयर्थ्यात्‌। ईश्वरस्यापि प्रामाण्यसिध्यर्थं तदिति चेन्न । कर्तरि प्रमाणशब्दस्याननुशासनात्‌। यथार्थज्ञानेष्वव्याप्तेश्च । तस्माद्याथार्थ्यमेव प्रमाणलक्षणं युक्तम्‌।‌
प्रमाणस्य द्वैविध्यम्‌
द्विविधं प्रमाणं, केवलमनुप्रमाणं चेति । तत्र यथार्थज्ञानं केवलप्रमाणम्‌। यथार्थमिति संशयादिव्युदासः । ज्ञानमिति प्रत्यक्षस्य । लिङ्गज्ञानं वाक्यज्ञानं च लिङ्गिनि वाक्यार्थे चानुप्रमाणमपि लिङ्गे वाक्ये च केवलप्रमाणमिति नातिव्याप्तिः । इदं च साक्षाज्ज्ञेयविषयीकारित्वात्‌केवलमित्युच्यते ।‌
केवलज्ञानविभागः
तच्च चतुर्विधम्‌। ईश्वरज्ञानं, लक्ष्मीज्ञानं, योगिज्ञानं, अयोगिज्ञानं चेति । तत्र सर्वार्थविषयकमीश्वरज्ञनम्‌। नियमेन यथार्थम्‌। तत्स्वरूपमनादिनित्यम्‌। स्वतन्त्रम्‌। निरतिशयस्पष्टं च । ईश्वरे त्वसार्वत्रिकमन्यत्रानालोचनेऽपि सर्वविषयं लक्ष्मीज्ञानम्‌। तदपि नियमेन यथार्थम्‌। तत्स्वरूपमनादि नित्यं च । ईश्वरैकाधीनम्‌। तदपेक्षया स्पष्टत्वे न्यूनम्‌। स्पष्टत्वं चापरोक्षत्ववज्जञानगत एव विशेषो न विषयौपाधिकः ।‌
योगिज्ञानविभागः
योगप्रभावलब्धातिशयं योगज्ञानम्‌। तत्‌त्रिविधम्‌। ऋजुयोगिज्ञानं, तात्त्विकयोगिज्ञानं अतात्तविकयोगिज्ञानं चेति । ऋजवो नाम ब्रह्मत्वयोग्या जीवाः । ईश्वरादन्यत्र आलोचने सर्वविषयं तज्जञानम्‌। ईश्वरेत्वसार्वत्रिकमेव ।‌‌
तद्‌ द्विविधम्‌। स्वरूपं, मनोवृत्तिरूपं च इति । तत्र स्वरूपमनादिनित्यम्‌। योगप्रभावादामुक्तेः व्यक्त्यतिशयोपेतम्‌।मुक्तावेकप्रकारम्‌।‌
वृत्तिज्ञानं तु प्रवाहतोऽनादि । योगानुगृहीतप्रत्यक्षादिजन्यम्‌। मुक्तौ तु नास्त्येव । द्वयमपि नियमेन यथार्थम्‌। ईश्वरे त्वन्यजीवेभ्योऽधिकविषयम्‌।‌
तदतिरिक्तास्तत्तवाभिमानिनो देवाः तात्विकाः । अनादित्वे सतीश्वरादन्यत्रालोचनेऽप्यसर्वविषयं तज्जञानम्‌। तदपि स्वरूपं, बाह्यं चेति द्विविधम्‌। तस्यानादित्वं पूर्ववत्‌। स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपि ।‌‌
तद्व्यतिरिक्ता देवादयो योगिनोऽतात्विकाः । सादित्वे सतीश्वरादन्यत्राल्पाज्ञानयुक्तं तज्जञानम्‌। तदपि पूर्ववद्‌द्विविधम्‌। तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षया । अन्यस्य प्रवाहोत्पत्त्यपेक्षया । याथार्थनियमादि पूर्ववत्‌।‌
अयोगिज्ञानविभागः
तद्व्यतिरिक्ता जीवा अयोगिनः । ईश्वरादन्यत्राज्ञानप्रचुरं तज्जञानम्‌। तदपि पूर्ववत्‌द्विविधम्‌। उत्पत्तिविनाशवच्च । अयोगिनोऽपि त्रिविधाः । मुक्तियोग्या नित्यसंसारिणस्तमोयोग्याश्चेति । तत्र मुक्तियोग्यानां स्वरूपज्ञानं यथार्थमेव । नित्यसंसारिणां तु मिश्रम्‌। अन्येषामयथार्थमेव । बाह्यं तु त्रयाणामप्युभयविधमिति ।‌
यथार्थज्ञानविषये वैशेषिकमतखण्डनम्‌
इन्द्रियजं लिङ्गजं स्मृतिरार्षं चेति चतुर्विधं यथार्थज्ञानमिति वैशेषिकाः । तदसत्‌। नित्यस्यागमजन्यस्य चासङ्ग्रहात्‌। स्मृतेरिन्द्रियजत्वेनार्षस्य योगिज्ञानत्वेन च पृथग्गरहणायोगाच्च ।‌
अनुप्रमाणलक्षणम्‌
यथार्थज्ञानसाधनमनुप्रमाणम्‌। यथार्थमित्येवोक्ते केवलेऽतिव्याप्तिः । ज्ञानमित्येवोक्ते तत्र संशयादौ च । प्रत्यक्षेऽव्याप्तिश्च । साधनमित्येवोक्ते कुठारादवतिव्याप्तिः । यथार्थज्ञानमित्युक्ते केवलेऽतिव्याप्तिः, प्रत्यक्षेऽव्याप्तिश्च । यथार्थसाधनमित्युक्ते प्रत्यक्षसाधनेऽतिव्याप्तिः । ज्ञानसाधनमित्युक्ते संशयादिसाधनेऽतिव्याप्तिः । यथार्थज्ञानकारण मित्युक्ते प्रमात्रादावतिव्याप्तिरिति सर्वे सार्थकम्‌। यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तदत्र साधनं विवक्षितम्‌। अतो न यादृच्छिकसंवादिष्वतिव्याप्तिः ।‌
ननु त्रिविधं प्रमाणमिति वक्तव्यम्‌। ल्युटोऽधिकरणेऽप्यनुशासनात्‌। सत्यम्‌। तथाऽपि प्रमाणशब्दस्याधिकरणे प्रयोगाभावात्‌ तदसङ्ग्रहः । तथाऽपि प्रमाणशब्दे भावसाधनः करणसाधनश्चेत्यनेकार्थः । तत्र किमनुगतलक्षणकथनेनेति । उच्यते । नायमक्षादिशब्दवदत्यन्तभिन्नार्थः । किन्तु धात्वर्थानुगमस्तूभयत्र सम इत्येकार्थत्वमाश्रित्यानुगतलक्षणोक्तिरित्यदोषः ।‌
अनुप्रमाणविभागः
त्रिविधमनुप्रमाणम्‌। प्रत्यक्षमनुमानमागमश्चेति । तत्र निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्‌। अर्थशब्देनेन्द्रियविषया गॄह्यन्ते । तेषां दोषाः अतिदूरत्वमतिसामीप्यं सौक्ष्म्यं व्यवधानं समानद्रव्याभिघातोऽनभिव्यक्तत्वं सादृश्यं चेत्यादयः । तेषु सत्सु क्वचिज्जञानमेव न जायते । क्वचिद्विपरीतज्ञानमुत्पद्यते ।‌
प्राकृतं षड्विधम्‌। घ्राणरसनचक्षुस्त्वक्‌श्रोत्रमनोभेदात्‌। तत्र गन्धस्तद्विशेषाश्च घ्राणस्य विषयाः । रसस्तद्विशेषाश्च रसनस्य । महान्ति रूपवन्ति द्रव्याणि केचिद्‌गुणाः । कर्माणि जातयश्च चक्षुस्त्वचोः । वायुस्पर्शोऽपि त्वचो विषयः । शब्दः श्रोत्रस्य । एतेषां पञ्चानां मनोऽनधिष्ठितत्वं काचकामलादयश्च दोषाः । मनसस्तु बाह्येन्द्रियाधिष्ठानेनैते सर्वे विषयाः । स्वातन्त्र्येण स्मरणसाधनं मनः । तस्य दोषा रागादयः ।‌
इन्द्रियशब्देन ज्ञानेन्द्रियं गृह्यते । तद्‌द्विविधम्‌। प्रमातृस्वरूपं प्राकृतं चेति । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । तस्य विषया आत्मस्वरूपं तद्धर्मा अविद्यामनस्तद्वृत्तयो बाह्येन्द्रियज्ञानसुखाद्याः कालोऽव्याकृताकाशश्चेत्याद्याः । स च स्वरूपज्ञानमभिव्यनक्ति ।‌
ननु स्मृतेर्याथार्थ्यमेव नास्ति । न हि यदा यादृशोऽर्थः स्मर्यते तदाऽसौ तादृशः । पूर्वावस्थाया निवृत्तत्वादिति चेन्न । यतो ज्ञानकाले वस्तुनस्तथात्वं याथार्थ्योपयुक्तं न भवति । किन्तु यद्देशकालसम्बन्धितया यद्वस्तु ज्ञानेन यादृशं गृह्यते तद्देशकालयोस्तस्य तथात्वम्‌। स्मृतिश्च तत्र तदाऽसौ तादृश इति गृह्णाति । न च तत्र तदाऽसौ न तादृशः ।‌
ननु पूर्वानुभवजनितसंस्कारः स्मृतिकारणम्‌। स चानुभूतविषय एव स्मृतिजननस्येष्टे । न चानुभवेन निवृत्तपूर्वावस्थतयाऽर्थो गृहीतः । तत्कथमनुभवसमानविषयसंस्कारजन्यास्मृतिरर्थे निवृत्तपूर्वावस्थतया विषयीकुर्यादिति ।‌‌
मैवम्‌। भवेदेतदेवं यदि संस्कारमात्रजन्यत्वं स्मृतेरभ्युपगच्चामः । न चैवम्‌। मनोजन्या स्मृतिः । संस्कारस्तु मनसस्तदर्थसन्निकर्षरूप एव । यथा योगीन्द्रियाणां योगजो धर्मः । ततश्च संस्कारसहकृतं मनोऽननुभूतामपि निवृत्तपूर्वावस्थां विषयीकुर्वत्स्मरणं जनयेदिति को दोषः ? वर्तमानमात्रविषयाण्यपीन्द्रियाणि सहकारिसामर्थ्यात्‌ कालान्तरसम्बन्धितामपि गोचरयन्ति । यथा संस्कारसहकृतानि सोऽयमित्यतीतवर्तमानत्वविशिष्टविषयप्रत्यभिज्ञासाधनानि । प्राकृतेन्द्रियाणि मनोवृत्तिज्ञानं जनयन्ति । तत्र सन्निकर्षः प्रत्यक्षमित्युक्ते घटपटसन्निकर्षेऽतिव्याप्तिः । इन्द्रियसन्निकर्षः प्रत्यक्षमित्युक्ते चक्षुराकाशसंनिकर्षेऽतिव्याप्तिः । अर्थसंन्निकर्ष इत्युक्ते पूर्ववदतिव्याप्तिः । दुष्टार्थानां दुष्टेन्द्रियैर्वा संन्निकर्षे व्यावर्तयितुमुभयत्र निर्दोषग्रहणम्‌।‌
ननु प्रत्यक्षं करणविशेषः । करणस्य चावान्तरव्यापारेण भवितव्यम्‌। यथा छिदाकरणस्य परशोर्दारुसंयोगोऽवान्तरव्यापारः । सत्यम्‌। अत्रापीन्द्रियं करणधर्मि । तस्यार्थसङ्न्निकर्षोऽवान्तरव्यापारः । तत्रावान्तरव्यापारप्राधान्यविवक्षयाऽर्थेन्द्रियसङ्न्निकर्षः प्रत्यक्षमित्युच्यते । क्वचित्तु धर्मिप्राधान्यविवक्षया स्वस्वविषयसन्निकृष्टमिन्द्रियं प्रत्यक्षमित्युच्यते । ईश्वरप्रत्यक्षं, लक्ष्मीप्रत्यक्षं, योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्राद्यद्वयं स्वरूपेन्द्रियात्मकमेव । उत्तरद्वयं तु द्विविधेन्द्रियात्मकम्‌। विषयस्तु तत्तज्जञानविषयवद्विवेक्तव्यः ।‌
बाह्येन्द्रियविभागः
बाह्येन्द्रियं त्रिविधम्‌। दैवमासुरं मध्यममिति । तत्र यथार्थज्ञानप्रचुरं दैवम्‌। अयथार्थज्ञानप्रचुरमासुरम्‌। समज्ञानसाधनं तु मध्यमम्‌। स्वरूपेन्द्रियमप्युत्तमानां विषयस्वरूपे प्रकारे च यथार्थमेव । अधममध्यमानां तु स्वरूपमात्रे यथार्थमेव । प्रकारे त्वयथार्थं मिश्चं चेति । इन्द्रियार्थयोस्तु सन्निकर्षोऽपरोक्षज्ञानहेतुः षोड्हा भिद्यत इत्येके । तद्यथा । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो विशेषणविशेष्यभावश्चेति । तत्र चक्षुःस्पर्शनयोर्घटादिद्रव्यैर्मनसश्चात्मना संयोगः । तेषां स्वविषयगतगुणकर्मसामान्यैः संयुक्तसमवायः । तथा घ्राणरसनयोर्गन्धरसाभ्याम्‌। एतेषां स्वविषयगुणकर्मगतसामान्यैः संयुक्तसमवेतसमवायः ।‌
श्रोत्रस्य शब्देन समवायः । तद्गतसामान्यैः समवेतसमवायः । एतेषामेतत्पञ्चविधसम्बन्धसम्बन्धार्थस्याभावसमवायाभ्यां पञ्चविधो विशेषणविशेष्यभाव इति । तदसत्‌। गुणादीनां गुण्यादिभिरभेदेन समवायाभावात्‌। आत्मनस्तद्धर्माणां च साक्षिविषयत्वेन मनोविषयत्वाभावात्‌। वर्णात्मकस्य शब्दस्य द्रव्यत्वेनाकाशविशेषगुणत्वाभावात्‌। अतः सर्वेन्द्रियाणां स्वस्वविषयैः स्वस्वविषयप्रतियोगिकाभावेन च साक्षादेव रश्मिद्वारा सङ्न्निकर्षः ।‌
प्रत्यक्षद्वैविध्यम्‌
निर्विकल्पकसविकल्पकभेदेन च द्विविधं प्रत्यक्षमित्याचक्षते । तत्र वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम्‌। विशिष्टाकारगोचरं सविकल्पकम्‌। तत् ‌अष्टविधम्‌।
तत्र द्रव्यविकल्पो यथा दण्डीति । गुणविकल्पो यथा शुक्ल इति ।
क्रियाविकल्पो यथा गच्छतीति । जातिविकल्पो यथा गौरिति ।
विशेषविकल्पो यथा विशिष्टः परमाणुरिति । समवायिविकल्पो यथा पटसमवायवन्तस्तन्तव इति ।
नामविकल्पो यथा देवदत्त इति । अभ वविकल्पो यथा घटाभाववद्भूतलमिति ।‌
एतदप्यसत्‌। विशेषसमवाययोरप्रामाणिकत्वात्‌। नाम्नः पश्चात्स्मरणेनाभावस्य च प्रतियोगिस्मरणाधीनज्ञानत्वेन तद्विकल्पस्य प्रथमाक्षिसङ्न्निकर्षानन्तरमेवोत्पत्त्यभावेऽपि द्रव्यादिविकल्पानां प्रथममेवोत्पत्तौ बाधकाभावेन निर्विकल्पकानुपपत्तेः ।‌
प्रत्यक्षस्य फलम्‌
हानोपादानोपेक्षाबुद्धयः प्रत्यक्षस्य फलमिति केचिदाहुः । तदप्यसत्‌। तासामनुमानफलत्वात्‌। तथाहि । कण्टकादिस्वरूपमात्रं प्रदर्श्य प्रत्यक्षं निवर्तते । अथेदानीं पूर्वानुभूतस्य कण्टकादेरनिष्टसाधनत्वमनुभूतं स्मृत्वाऽस्य च कण्टकादित्वेन तदनुमिमानस्य हानबुद्धिरुपजायते । एवं कदलीफलादाविष्टसाधनत्वानुमानानन्तरमुपादानबुद्धिरुत्पद्यते । तृणादौ चौदासीन्यमनुमायोपेक्षाबुद्धिः प्रतिपद्यते । अतो विशिष्टविषयसाक्षात्कार एव प्रत्यक्षस्य फलमिति ।‌
इति श्रीमज्जयतीर्थपूज्यचरणविरचितप्रमाणपद्धतौ प्रत्यक्षपरिच्छेदः समाप्तः ।