कथालक्षणपञ्चिका

change script to

श्रियः कमितुरानम्य चरणाम्बुरुहद्वयम् ।
यथाबोधं विधास्यामः कथालक्षणपञ्चिकाम् ॥

अथ कथां लिलक्षयिषुराचार्यवर्यः प्रारिप्सितप्रकरणपरिसमाप्त्यादि प्रयोजनेष्टदेवताप्रणतिनुतिपुरस्सरं विवक्षितमर्थं दर्शयति ॥

नृसिंहमखिलाज्ञानतिमिराशिशिरद्युतिम् ।
सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा ॥ १ ॥

इह हि कृतदेवतानतीनामपि या ग्रन्थापरिसमाप्तिस्सा भक्तिश्रद्धाद्यतिशयपूर्वकत्वाभावनिमित्ता न तत्पूर्वकप्रणामस्यप्रारिप्सितपरिसमाप्त्यहेतुतां गमयितुं शक्नोति । न ह्येकदेशव्यभिचारेण सामग्री व्यभिचारिणी स्यात् । अत एव भयाद्यतिशयपूर्वकत्वलक्षणं प्रणामस्य सम्यक्प्रकर्षं शिष्यान् ग्राहयितुं सम्प्रणम्येत्युक्तम् । कृतदेवतानतीनामपि समीहितसिद्धिस्सा कारणान्तरादपि भविष्यति । न ह्येकस्यैकमेव ।

कथां विवक्षतस्तत्फलस्य अज्ञाननिवृत्त्युपलक्षिततत्त्वज्ञानस्य निष्पादकत्वेन नृसिंहस्तुतिरवसरोचितेति तथैव विशिनष्टि अखिलेति ॥ अखिलानि च तान्यज्ञानानि च अखिलाज्ञानानि । अखिलाज्ञानानि तिमिराणीव अखिलाज्ञानतिमिराणि । अशिशिरा अशीता द्युतिरस्येति अशिशिरद्युतिरादित्यः अखिलाज्ञानतिमिरनिरसने अशिशिरद्युतिरिव अखिलाज्ञानतिमिराशिशिरद्युतिः तम् । गम्यमानत्वात् निरसनपदाप्रयोगः  । यथा अश्वयुक्तो रथोऽश्वरथ इति ।

यद्यपि जल्पवितण्डे ख्यात्याद्यर्थे तथापि तत्वज्ञानपरिपन्थिपाषण्डादिनिरसनाङ्गे च भवतः  । तत्र प्रधानत्वादुत्तरमेव, प्रयोजनं विवक्षित्वा कथामार्गत्रयस्याप्यज्ञाननिरसनमेव प्रयोजनमभि प्रेत्येदमुदितम् । अथ वा वादफलं अज्ञाननिरसनंप्राधान्यज्ञापनाय स्वशब्देनोपादाय ख्यात्यादिकमितरफलमुपलक्ष्य तस्य निष्पादकत्वेन परदेवता स्तूयते ।

अज्ञातज्ञानं संशयविपर्ययादिव्युदासः ज्ञातस्थिरीकरणं च वादफलानि । जल्पवितण्डयोश्च पाषण्डप्रसञ्जितसज्जनसंशयविपर्यासनिरासः  । संशयादयोऽपि तत्वज्ञानविरोधित्वेन अज्ञानान्युच्यन्ते । अतः कथात्रयनिरसनीयाज्ञानबाहुल्यमभिपरोत्य अखिलेत्युक्तम् ।

प्रवक्ष्यामीति प्रशब्देन उद्देशविभागपरीक्षाद्युपयोगि साहित्यलक्षणं लक्ष्यवचनस्य प्रकर्षमपि विवक्षितं द्योतयति । तेन न प्रतिज्ञान्यूनता शङ्कनीया ।

न चैवमुद्देशादीनां सर्वेषामपि वक्तव्यत्वेप्राप्ते व्यर्थं लक्षणस्यैव स्वशब्देनोपादनमिति वाच्यम् । कथां खलु सजातीयविजातीयसमस्तवस्तुव्यावृत्ततया व्यवहारयितुमिदमारभ्यते । व्यावृत्तव्यवहारश्च साक्षाल्लक्षणाधीनः । सास्नादिमत्त्वं प्रतीत्य हि गवि गोव्यवहारं कुर्वते । अनुद्दिश्य लक्षणकथनायोगात् लक्षणोक्त्युपयोगित्वमुद्देशस्य । अविभक्तस्य विशेषोद्देशासम्भवात् विभागस्यापि लक्षणाङ्गत्वमेव । लक्षणं च अनुमानतया व्यवहृतिहेतुः  । न हि तस्य व्याप्तिपक्षधर्मतालक्षणपरीक्षामन्तरेण तद्भावो निश्चीयत इति परीक्षापि लक्षणाङ्गमेव । तदेवं लक्षणस्यप्राधान्यज्ञापनाय स्वशब्देनोपादानं, इतरस्य तदङ्गताद्योतनाय प्र शब्देन सङ्ग्रह इति ।

स्यादेतत्, नैयायिकादिभिरेव कथालक्षणस्योक्तत्वात् किमनेन ? अन्यथा शब्दानुशासनादिकमपि कर्तव्यं स्यात् इत्यत उक्तम् अञ्जसेति ॥ स्वकीयवचनाञ्जस्यस्य प्रशब्देनोक्तत्वात् अन्योक्तीनामनेन अनाञ्जस्यमुपलक्षयति । तच्चोत्तरत्र प्रदर्शयिष्यते । विरुद्धयोरन्यतराञ्जस्यमितरानाञ्जस्येन व्याप्तमिति लक्षणाबीजम् । न चास्मदायत्ते वाग्व्यवहारे किमित्यवाचकं प्रयोक्ष्यामह इति वाच्यम् । स्वतन्त्रप्रयोग एव प्रयोजनान्वेषणात् । अयं तु लौकिकः प्रयोगः  । दृश्यते हि सुकुमारोक्तिष्वेकप्रशंसनमितरापकर्षद्योतनार्थमिति । ननु किमनया प्रतिज्ञया ? यावता उत्तरग्रन्थ एव स्वकीयकथालक्षणविवक्षां ज्ञापयिष्यति । किं तया ज्ञापितया ? इति । सत्यं, प्रकरणस्य गतार्थताशङ्गानिरासार्थं तावत् अञ्जसा इति वक्तव्यम् । न चैतत् कथालक्षणं प्रवक्ष्यामीत्युक्तिमन्तरेण समर्थं स्यात् । न च मुख्यार्थद्वारमन्तरेण लक्षणा लभ्यते इति अन्यार्थमेवैतत्प्रतिज्ञानम् ।

साधनचतुष्टयसम्पन्नस्याधिकारिणोऽपवर्गाय परमात्मतत्वज्ञानमुत्पादयितुं प्रवृत्तस्य आम्नायस्य इतिकर्तव्यताभूतो हि न्यायो वेदान्ते व्युत्पादितः  । स च परार्थः  । प्रश्नोपक्रमप्रतियोगिनि एककर्तृके विचारे विविच्य प्रवर्तनीयः  । दूषणोपक्रमप्रतियोगिनि अनेककर्तृके कथानामि्न प्रवर्त्य विवेचनीयः  । कथां च व्युत्पादयतोऽस्य प्रकरणस्य वेदान्ताङ्गतया तत्प्रयोजनादिनैव प्रयोजनादिमत्ता सिद्धैवेत्यनवद्यम् ॥ १ ॥

अथ कथां विभागेनोद्दिशति

वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा ।

तत्वनिर्णयैकप्रयोजनत्वेन अभ्यर्हितत्वात् वादस्य प्रथममुद्देशः  । उभयसाधनवत्तया सदधिकारितया च वादसाम्यात् तदनन्तरं जल्पस्य । परिशेषतो जल्पानन्तरं वितण्डायाः  । कथकभेदेन कथानन्त्यात् तत्तल्लक्षणोपाधिक्रोडीकृतराशिविवक्षया त्रित्वमिति दर्शयितुं त्रिविधेत्यक्तम् ।

ननु सामान्यलक्षणाभिधानेन विना कथं विभागोद्देशावसरः ? अवच्छेदकैक्येनैक्यमापन्नं हि वस्तु विभज्योद्देष्टव्यम् । अथ कथाशब्दं वाक्यप्रबन्धे व्युत्पादितं सिद्धवक्तृत्य न पृथक् सामान्यलक्षणमुच्यते तर्हि भारतादीनामपि वाक्यप्रबन्धत्वेन कथात्वात् कथं कथात्रैविध्यं ? नहि तानि वादादिष्वन्तर्भवन्तीत्यतो योगरूढिसमाश्रयणेन सामान्यलक्षणं सूचयति ॥ विदुषामिति ॥ जाताविदं बहुवचनं । तेन अनेकविद्वत्कर्तृको विचारगोचरो वाक्यप्रबन्धः कथा । सा वादादिभेदेन त्रिविधेत्युक्तं भवति । वैदुष्यं च कथामहावाक्यस्य निर्वाहकत्वम् । ततः स्वस्थः सर्वजनप्रत्ययावलम्बी सावधानोऽकलहकारश्चेत्यादयः कथका दर्शिताः  । पूर्वोत्तरपक्षबलाबलचिन्ता विचारः  । अत्रानेककर्तृकत्वोक्त्या एककर्तृकेभ्यो मीमांसावाक्येभ्यो व्युदासः  । वैदुष्योक्त्या कलहादिभ्यः  । विचारगोचरत्वेन विदुषामन्योन्यसुखव्यवहारेभ्यः ।

कथा याथात्म्यविदुषां मतेन त्रिविधेति वा । तेन एक एव कथामार्ग इति बाह्याः  । वादवितण्डे द्वे एवेति श्रीहर्षः  । वादो जल्पो वादवितण्डा जल्पवितण्डा चेति चतस्रः कथा इति गौडनैयायिकाः  । ते समस्ता निरस्ता भवन्ति । उपपत्तिं तूत्तरत्र प्रदर्शयिष्यामः ।

तत्र यथोद्देशं वादलक्षणमाह

तत्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः ॥ २ ॥
कथाऽन्येषामपि सतां वादः..... ।

अत्र केवलं तत्वनिर्णयमुद्दिश्य कथा वाद इत्येकं लक्षणम् । तत्र तत्वं प्रमाणसिद्धं वस्तु । तस्य निर्णयः अज्ञातस्य ज्ञानं संशयविपर्ययव्युदासः अभ्यनुज्ञानेन दृढीकरणं चेति त्रिविधः  । यदा हि ख्यात्यादि अर्थयमानौ विजिगीषू सद्भ्यामेव साधनदूषणाभ्यां स्वपरपक्षसाधनोपालम्भौ कुर्वाते स जल्पोऽपि भवति तत्वनिर्णयहेतुः  । न ह्यसदेव जल्पे वक्तव्यमिति नियमः  । प्रतीयमानसदतिक्रमे कारणाभावात् । किन्नाम ? सदपरिस्फूर्तौ ‘ऐकान्तिकपराभवात् वरः पाक्षिकः ’ इति मन्वानोऽसदप्युपादत्ते । न च तत्साधनं तत्वनिर्णयं न करोतीति सम्भवति । व्याघातात् । अतः ‘तत्वनिर्णयहेतुः कथा वादः ’ इत्यभिहिते जल्पविशेषेऽपि गतत्वादुद्दिश्येत्युक्तम् । न हि तत्वनिर्णयहेतुरपि जल्पस्तदुद्देशेन क्रियते ।

यदा च स्वयमध्यवसितार्थः कारुणिकतया पाषण्डप्रसञ्जितौ लोकस्य संशयविपर्ययौ पराकर्तुं तज्जिगीषुर्यां वितण्डामारभते साऽपि तत्वनिर्णयमुद्दिश्य कथा भवत्येव । तत्र प्रसङ्गपरिहाराय केवलमित्युक्तम् । भवेत् या वितण्डा लोकसंशयविपर्यासनिरासं ख्यात्यादिकं चोद्दिश्य प्रवर्तते तस्या अनेन व्युदासः  । या तु केवलं संशयाद्यपकरणायैव, कथं ततो व्यावृत्तिः ? इति चेन्न । केवलशब्दस्य साक्षादर्थत्वात् । न हि काऽपि वितण्डा साक्षात्तत्वनिर्णयं करोति । किन्तु ? परपराभवद्वारैव ।

एतेनैतदपि निरस्तं, केवलं तत्वनिर्णयहेतुरित्येतावतैव सदुपायजल्पव्यवच्छेदसिद्धौ उद्देशग्रहणमतिरिच्यत इति । विवक्षितकेवलार्थस्य तत्रापि गतत्वात् ।

ननु कथकगततत्वनिर्णयविवक्षया लक्षणे व्याख्याते वितण्डायां प्रसङ्ग एव नास्ति । न हि विनिश्चितार्थः स्वात्मीयतत्वनिर्णयाय तत्र प्रवर्तते,प्राप्तत्वादेव । अभ्यासार्थमिति चेन्न । तथा सति सत्प्रयोगनियमप्रसङ्गात् । नापि पाषण्डिनस्तत्वनिर्णयाय अनुपयोगात् असत्साधनैस्तदयोगाच्च । सोऽपि संसदि पराभूतः तत्वजिज्ञासुर्भविष्यतीति चेन्न ।प्रायो विद्वेषस्यैव सम्भवात् । अतः केवलग्रहणमनर्थकमिति । सत्यम् । यथा नैवं व्याख्यातुं शक्यं तथा वक्ष्याम इति ।

सतां कथा वाद इत्यपरं लक्षणम् । तर्हि जल्पेऽतिव्यापकमित्यतः सन्तो व्याख्याताः गुरुशिष्ययोरन्येषां सखिसब्रह्मचार्यादीनामपीति । अदुष्टमनसस्सन्तः  । ते च प्रकृतोक्तिका अविप्रलम्भका यथाकालस्फूर्तिका अनपेक्षकाः प्रमाणसिद्धसम्प्रत्यायिनश्चेत्यादयः  । एवम्भूताश्च गुरुशिष्यादय एवप्रायेणेति त एव दर्शिताः ।

ननु यदा विदिततत्वौ अदुष्टमनसौ परप्रार्थितौ कथां कुरुतः स वादो न वा ? आद्ये अव्यापकमाद्यं लक्षणं, द्वयोरपि तत्वज्ञानितया तदुद्देशिताभावात् । द्वितीयमतिव्यापकम् । सेयमुभयतः पाशा रज्जुः इत्यत आह–

वा समितेश्शुभा ।

न केवलमियं वादकथा कथकगततत्वनिर्णयार्था विवक्षिता । किन्नाम ? यदा गुरुशिष्यौ तदा शिष्यस्य, यदा सखिप्रभृतयः तदा सर्वेषां, यदा तु विदिततत्वौ तदा कृतप्रार्थनायाः समितेः शुभा शुभस्य तत्वनिर्णयस्य हेतुः  । सामान्यं चात्र विवक्षितम् । न च सामान्येनोक्तस्य विशेषावलम्बेन दोषावकाश इति ।

क्रमप्राप्तं जल्पं लक्षयति

ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते ॥

कथेत्यनुवर्तते । केवलं स्पर्धया स्पर्धानिमित्तपरपराभवोद्देशेन सतामिति ॥ तत्वज्ञानयोग्यानां । जातौ चेदं बहुवचनम् । ननु ख्यातिलाभपूजापरखिलीकरणानि समस्तानि व्यस्तानि वा उद्देश्यानि जल्पे विवक्ष्यन्ते ? नाद्यः , एकैकोद्देशेन प्रवृत्तौ अव्यापनात् । न द्वितीयः , परस्पराव्याप्तेः  । मैवम् । तत्वनिर्णयातिरिक्तफलोद्देशेन सत्कथा जल्प इति लक्षणार्थत्वात् । फलान्तरं च ख्यात्यादिकमिति तद्ग्रहणम् । सत्कथा वादोऽपि भवतीति तद्व्युदासाय ख्यात्याद्युक्तिः  । वादविशेषोऽप्यानुषङ्गिकख्यात्यादिहेतुर्भवतीति तद्व्यवच्छेदार्थं उद्देशग्रहणं । वितण्डाव्यवच्छेदाय सतामिति । इतीर्यत इत्यनेनागमसम्मतिकथनेन जल्पनिराकरणोपपत्तेराभासतां दर्शयति । आगमश्च ‘वादो जल्पो वितण्डा’ इत्यादिः अन्यत्रोदाहृतः ॥

वितण्डालक्षणं दर्शयति

वितण्डा तु सतामन्यैः ... ।

कथेत्यनुवर्तते ।प्रागिव बहुवचनव्याख्यानम् । अन्यैः असद्भिस्सह । ‘फलभेदाभावेन न जल्पात् वितण्डा भिध्यते’ इत्येके । तन्निरासाय तुशब्देन व्यवच्छिनत्ति ।

ननु तत्वज्ञानयोग्यतालक्षणं सत्त्वं यदि कथकाभिमानसिद्धं विवक्षितं तदा वितण्डानवकाशः  । द्वयोरपि स्वाभिमानतस्सत्त्वात् । अथ वास्तवं, तथापि न जल्पवितण्डे तदनिश्चयात् । निश्चये वा न वितण्डा स्यात् । न हि विनिश्चितस्वासाधुभावः परसाधुतां विनिश्चित्य वितण्डायै घटितुमर्हति । नैव दोषः  । कथाविशेषव्यवस्थाया वादिप्रतिवादिव्यवस्थायाश्चप्राश्निकविधेयत्वात् । ते च शास्त्रोदितलक्षणैः सत्त्वासत्त्वे विनिश्चेष्यन्ति । अत एवप्राश्निकानां वैष्णवत्वनियमो वक्ष्यते ।

ननु कथं जल्पवितण्डयोर्भेदः ? न तावत् फलभेदेन, जल्पवत् वितण्डाया अपि ख्यात्याद्यर्थत्वात् । पाषण्डिपराकरणेन तत्वनिर्णयोऽपि क्वचित् भवतीति चेत् सत्यम्, क्वचिद्भेदाभावापत्तेः  । निमित्तैक्याभावेन कथैक्यानुपपत्तेः  । नाप्यधिकारिभेदेन निर्निमित्तस्य तस्यैवासम्भवात् । ‘स्वरूपभेदाभावेऽपि वितण्डायां सदसतोरधिकारः ’ इति वचनानुपपत्तेश्च । सदसन्तौ यां कथां कुरुतः सा वितण्डेति चेन्न । तथा सति पुरुषानन्त्येन कथानन्त्यापत्तेरिति । नैष दोषः  । प्रवृत्तिप्रकारभेदेन तद्भेदोपपत्तेः  । द्वयोरपि स्वपरपक्षसाधनदूषणवान् जल्पः  । वितण्डा तु प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यतीति । अधिकारिभेदस्तूपलक्षणत्वेनोक्तः ।

नन्वेतदप्यसम्बद्धम् । जल्पे हि वादिसाधनप्रतिक्षेपाय प्रतिवादिनोद्भावितं दूषणं यदि लग्नं तर्हि भग्नं वादिसाधनं जितं प्रतिवादिना । निवृत्ता कथा । यदि न लग्नं तर्हि निरनुयोज्यानुयोगेन भग्नः प्रतिवादी । जितं वादिना । निवृत्ता कथा । तत्र द्वयोरपि क्वास्ति साधनदूषणावकाशः ? एवमेव तत्करणे द्विर्द्विः एकैकेनैव साधनं दूषणं च किं न कर्तव्यम् ? मैवम् । कथकशक्तिपरीक्षणार्थत्वाज्जल्पस्य । न च तत् उभयकरणमन्तरेण सम्भवति । न हि वञ्चितपरप्रहारोऽपि तमप्रहरमाणो युयुत्सुर्विजयते । नापि स्वात्मानमरक्षन् परप्रघाती विजयी । परन्तु श्लाघ्यस्स्यात् । न च द्विरनुष्ठानस्य प्रयोजनमस्ति । प्रत्युत आधिक्येन निग्रहापत्तेः  । कथं तर्हि वितण्डायां परप्रतिक्षेपमात्रेण विजय इति चेत् ? सत्यं, मुख्यविजयाभावेऽपि काकोलूकवत्प्राश्निकादिकृतसमयवशेनोपपत्तेः ।

अथप्राश्निकादयस्तादृशं समयमेव कस्मात्कुर्युः ? इति चेत् तत्राह–

....तत्वमेषु निगूहितम् ।

कर्तव्यमिति शेषः  । यतोऽसत्सु सता तत्वं निगूहितं कर्तव्यं, अन्यथा प्रत्यवेयात् । साधने च प्रकाशनं प्रसज्येत । अतोऽसदुपालम्भेनैवप्राश्निकादयः सतो विजयमनुजानन्ति । जल्पे तु द्वयोरपि सत्त्वेन मुख्यस्यैव विजयोपायस्यानुष्ठानसम्भवेन स्वपरपक्षसाधनोपालम्भाभ्यामेव विजयं नियच्छन्तीति ।

लक्षिता वादजल्पवितण्डाः  । तत्र जल्पवितण्डयोरिव वादस्यापिप्राश्निकसापेक्षतां केचिदङ्गीकुर्वते । यथाऽऽहुः , ‘स्वपरपक्षसिद्ध्यसिद्ध्यर्थं वचनं वादः  । अधिकरणप्रत्यायनं सिद्ध्यसिद्धी । अधिकरणमितिप्राश्निकानां सामयिकी सञ्ज्ञा’ इति । तान्निराचिकीर्षुराह

स्वयं वा प्राश्निकैर्वादे चिन्तयेत् ... ॥

प्रमेयमिति शेषः  । स्वयं, वादी प्रतिवादिना प्रतिवादी च वादिना इति प्रत्येकं सम्बन्धे नैकवचनोपपत्तिः  । कुतो वादेप्राश्निकानपेक्षा ? तत्राह

.... तत्वनिर्णयम् ॥

उद्दिश्येति शेषः  । अयमाशयः ,प्राश्निकानां हि वादस्थानं कथाविशेषव्यवस्थापनं पूर्वोत्तरवादव्यवस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिबोधनं लौकिकनिष्पन्नकथाफलप्रतिपादनं चेत्यादीनि कर्माणि । एतानि च यत्र वादिनौ आग्रहगृहीतौ कर्तुमशक्तौ तत्रप्राश्निकानामुपयोगः  । वादे तु वादिनावेव तत्वनिर्णयकामौ वीतरागतया कर्तुं शक्ताविति किंप्राश्निकैः ? इति । तत् किं परिवर्जनमेव वादेप्राश्निकानां ? मैवम् । दैवादागतानामुपादानमित्युक्तम् ॥ वाप्राश्निकैरिति ॥ एतच्च संवादेनप्रामादिककथाभासशङ्काऽपनोदाय । न तूक्तकर्मकरणायेति ज्ञातव्यम् । सभापतिस्तु नेष्यत एव । यथाशक्ति यथानियमं मानापमानव्यञ्जनादिकं खलु तस्य कर्म । तत्किञ्चित् वादे नापेक्षितमेव । किञ्चित् स्वयं शक्यते सम्पादयितुमिति । एतेन जल्पवितण्डयोः सभ्यसभापतिप्राश्निकादिनियतिः सूचिता भवति । तत्रोक्तकर्मणां वादिप्रतिवादिभ्यामेव विजिगीषुतया कर्तुमशक्यत्वादिति ।

प्राश्निकानां लक्षणं वक्ति

रागद्वेषविहीनास्तु सर्वविद्याविशारदाः ।
प्राश्निका इति विज्ञेयाः .....

रागित्वे असन्तमपि पक्षं सन्तम् वदेयुः द्वेषित्वे सन्तमप्यसन्तम् । तु शब्दोऽप्यर्थः  । तेन वादिप्रतिवादिनोरन्यतरपरवशत्वादीनां बुद्धिपूर्वं वैपरीत्याचरणहेतूनामसद्भावं समुच्चिनोति । सर्वविद्यापदेन वादिप्रतिवादिदर्शनयोः कथोपयुक्तव्याकरणादीनां च संग्रहः  । तदज्ञत्वे अपसिद्धान्ताद्युद्भावने निर्णयो न स्यात् । वैशारद्यग्रहणेन च पुरोक्तग्रहणावधारणानुवादादिपटुताऽपि सङ्गृह्यते । अन्यथा सर्वविद्याज्ञानवैयर्थ्यापत्तेः  । तदेवं ज्ञानतोऽज्ञानतो वा वादिप्रतिवादिनोर्वैषम्यमनाचरन्तो यथावस्तुवक्तारः प्राश्निका इति विज्ञेयाः  ।

ते च कियन्तः ? इत्यपेक्षायामाह

........ विषमा एक एव वा ॥

विषमाः विषमसङ्ख्याकाः  । यथोक्तं–
रागद्वेषविनिर्मुक्तास्सप्त पञ्च त्रयोऽपि वा ।
यत्रोपविष्टास्सभ्यास्स्युस्सा यज्ञसदृशी सभा ॥ इति ।

विषमसङ्ख्याकत्वे हि तेषामेव परस्परविरोधे सति बहूनां संवादेन निर्णयः स्यात् । तथा चोक्तं ‘द्वैधे बहूनां वचनम्’ .... । इति ।

नन्वेवं चेत् एक एव इत्यनुज्ञानं कथम् ? संवादाभावेन तत्कृतकथानिर्णये अनाश्वासादित्यत आह

अशेषसंशयच्छेत्ता निस्संशय उदारधीः । एकश्चेत्प्राश्निको ज्ञेयस्सर्वदोषविवर्जितः ॥ ६ ॥

अत्र आद्येन विशेषणेन भग्नप्रतिबोधनादौ सामर्थ्यातिशयो दर्शितः  । द्वितीयेन विशेषणेन सिद्धान्तद्वयरहस्यवेदित्वाद्यतिशयः , तृतीयेन परोक्तग्रहणादिपाटवातिशयः , चतुर्थेन रागादीनामशेषतोऽभावः  । ततश्चप्राश्निकलक्षणातिशयसम्पत्त्या निश्शङ्कमुभाभ्यां निश्चितश्चेदेको वाप्राश्निकोऽङ्गीकार्य एवेत्युक्तं भवति ।

विशेषणान्तरमाह

एको वा बहवो वा स्युर्विष्णुभक्तिपरास्सदा ।

रागादिराहित्यवत् विष्णुभक्तेः प्राश्निकत्वोपयोगं न पश्याम इत्यत आह

विष्णुभक्तिर्हि सर्वेषां सद्गुणानां स्वलक्षणम् ॥

हि शब्दो हेतौ । सन्तो गुणा येषां पुसां ते सद्गुणाः  । स्वलक्षणं अव्यभिचारिलक्षणम् ।

इदमुक्तं भवति, यतः प्राश्निकैर्हि कथकयोः सदसद्भावं विविच्य सतोर्जल्पः सदसतोर्वितण्डा दातव्या । तत्रापि असतः स्वपरपक्षसाधनदूषणलक्षणं वादित्वं, सतस्तु परपक्षप्रतिक्षेपलक्षणं प्रतिवादित्वं व्यवस्थापनीयम् । असतो जये सति उदासितव्यम् । सतो जये सति सम्पूर्णसम्माननाय घटनीयम् । अन्यथा पाषण्डिनिरासाभावेन वितण्डावैयर्थ्यप्रसङ्गात् । न चैते कथाविशेषव्यवस्थापनादयो गुणाः तेषां विष्णुभक्तिं विना सम्भवन्ति । अतः प्राश्निकत्वोपयोगिगुणकारणत्वात् तेषां विष्णुभक्तिर्विधीयत इति ।

ननु वादजल्पयोः को भेदः ? द्वयोरपि सदधिकारित्वात् स्वरूपभेदाभावे अधिकारिभेदस्यातिप्रसञ्जकत्वाच्च । अत एव तत्वबुभुत्सुत्वख्यात्यादिकामत्वरूपोऽधिकारिविशेषोऽपि अनुपयोगितया परास्तः  । वादस्तत्वज्ञानं प्रसूते जल्पस्तु ख्यात्यादिकमिति भेद इति चेन्न । स्वरूपभेदाभावेऽस्य फलभेदस्यैव अनिर्वाहात् । न हि कथा कल्पलता येन स्वयमविचित्राऽपि सती पुरुषमनोरथवशेन विचित्रं फलं प्रसुवीत । न च जल्पवितण्डयोरिव प्रवृत्तिप्रकारभेदेन फलभेदः  । उभयत्रापि स्वपरपक्षसाधनोपालम्भ सद्भावेन तदभावादिति । मैवम् । प्रमाणतर्काभ्यामेव वादे स्वपरपक्षसाधनोपालम्भौ क्रियेते, जल्पे तु प्रमाणतर्काभ्यां छलादिना च । न चोभयोः प्रमाणतर्कासम्भवः  । अभिप्रायनियमस्य विवक्षितत्वात् । तदेवं प्रवृत्तिप्रकारभेदात् युक्तः फलभेदः , कथाभेदश्च सम्भवतीत्याशयवान् वादप्रकारं तावत् दर्शयति

पृष्टेनाऽगम एवादौ वक्तव्यः

वादे, प्रतिवादिना वादिनं प्रति विचार्ये प्रमेये प्रमाणं प्रष्टव्यम् । पृष्टेन च वादिना तावदागम एव वक्तव्यः न तु छलादिना प्रश्नखण्डनं कर्तव्यम् । नाप्यनुमानं दुरागमो वा वक्तव्यः ।

छलादिना प्रश्नखण्डनमकृत्वा कुतो वादिना प्रमाणमभिधेयम् ? इति तत्राह

........ साध्यसिद्धये ॥

वादी हि तत्वनिर्णयं कामयते । न तु परपराभवम् । प्रमाणमेव च तत्वनिर्णयाय प्रभवति । न तु छलादिना प्रश्नखण्डनम् । आगमः कुतो वक्तव्यः ? इत्यत्राप्येतदेवोत्तरम् । आगमो हि साध्यसिद्धये कल्पत इति ।

अस्त्वागमस्य वक्तव्यता तन्नियमस्तु कुतः ? अनुमानेनापि साध्यसिद्धिसम्भवात् इत्यत आह

नैषा तर्केणापनेया मतिरित्याह हि श्रुतिः ॥

यस्मात् तत्वमतेरनुमानासाध्यतामाह श्रुतिः तस्मादागमनियमः ॥ वादिना आगमेन स्वपक्षे साधिते प्रतिवादिना किं कर्तव्यम् ? वाद्युपन्यस्तं प्रमाणं दूषणीयम् । प्रतिपक्षे तस्मिञ्जागरूके तत्वनिर्णयायोगात् । उभयत्र प्रमाणोपपत्तौ संशयानतिक्रमात् । उपस्थितसाधनादूषणे स्वपक्षसाधनस्यानवसरात् ।

आगमस्य च दूषणं कीदृशम् ? इत्यपेक्षायामाह

अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ॥

द्वेधा हि प्रमाणदूषणं, सर्वथा निर्विषयत्वापादनं पराभिमतार्थप्रच्यावनं च । तत्रागमस्यायथार्थताकथनेन वाद्यभिमतार्थप्रच्यावनमेव प्रतिवादिना कर्तव्यं, न तु सर्वथा अप्रामाण्यं ।कुतो नाप्रामाण्यं वक्तव्यमिति चेत् ? आगमशब्देन हि सदागमा विवक्षिताः  । सदागमाश्च श्रुतिस्मृतीतिहासपुराणलक्षणा एव ।

तत्र श्रुतीनामपौरुषेयत्वेन अप्रामाण्यकारणशून्यानामप्रामाण्यं वक्तुं तावन्न शक्यम् । स्मृत्यादीनामप्याप्तप्रणीततया श्रुत्यानुकूल्येन च दोषाभावनिश्चयान्नाप्रामाण्यं वक्तुं शक्यते । अतो विषयान्तरोपदर्शनेन वाद्यभिमतार्थप्रच्यावनमेव न्याय्यमित्याशयवानाह

ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् ॥
मूलरामायणं चैव सम्प्रोच्यन्ते सदागमाः ।
अनुकूला य एतेषां ते च प्रोक्तास्सदागमाः ॥

कारा अन्योन्यसमुच्चये । एवकारस्त्वेत एव सदागमा इत्यनेन सम्बद्ध्यते । सम्प्रोच्यन्ते प्रोक्ता इत्यनेन ऋगाद्या भारतं चैव इत्यागमं सूचयति ।

)

ननु यदा वादी परिगणितं वेदादिकं वदेत् तदा प्रतिवादिनाऽन्योऽर्थोऽभिधीयताम् । यदा तु उपरिगणितं पाशुपतादिकम भिदधीत, तदा तु अप्रामाण्यं वक्तुं शक्यत एव । अतः कथं अन्यार्थ एवागमस्य वक्तव्यः इति नियमः ? इत्यत आह

अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ।

यतः परिगणितेभ्योऽन्ये दुरागमाः प्रसिद्धाः दुरागमास्तदन्य इत्यादौ । अतो वादिना तत्वबुभुत्सुना तैर्न साध्यं साध्यते । साध्यसाधनाय ते न प्रयोक्तव्या एव । तथा च सर्वथा अप्रामाण्यकथनस्य अप्रसङ्गात् उक्तनियमो युक्त एव ।

वादिप्रयुक्तागमस्यार्थान्तरकथनेन किं प्रतिवादी चरितार्थः ? नेत्याह

स्वपक्ष आगमश्चैव वक्तव्यः प्रतिवादिना ॥

साध्यसिद्धेः प्रमाणैकाधीनत्वादिति एवकारार्थः ।

एवं प्रतिवादिना परपक्षप्रतिक्षेपे स्वपक्षसाधने च कृते वादी किं कुर्यात् ? इत्यपेक्षयामाह

तस्याप्यन्यार्थता साध्या वादिना ..... ।

अपिः 'वादिना' इत्यनेन सम्बध्यते । अर्थान्तरकथनमात्रस्याप्रयोजकत्वात् साध्येत्युक्तं । एवम् अन्यार्थ एवागमस्य वक्तव्यः इत्येतदपि साध्यः इति व्याख्येयम् ।

कुतो वादिना प्रतिवाद्युक्तागमस्यार्थान्तरं साध्यं ? तत्राह

...... स्वार्थसिद्धये ।

न हि प्रतिपक्षप्रमाणे सति स्वप्रमाणमात्रेण वादिनस्तद्दूषणेन विना स्वसाध्यं सिद्ध्यति । सप्रतिपक्षस्य प्रमाणत्व एव सन्देहात् । प्रतिवादिप्रमाणदूषणं चप्रागुक्तन्यायेनार्थान्तरकथनमेव ।

किमेतावता जितं वादिना ? नेत्याह

अन्यार्थता निराकार्या स्वागमस्य ...... ।

वादिना स्वप्रयुक्तागमस्य या प्रतिवाद्युक्ता अन्यार्थता सा निराकार्या च ।

कुतः ? इत्यत आह

......... विनिश्चयात् ॥

ल्यब्लोपनिमित्ता पञ्चमी तत्वनिश्चयमुद्दिश्येति । प्रतिवादिना अर्थान्तरकथनेन वाद्यभिमतार्थात् प्रच्यावित आगमः कथं नाम तत्वनिश्चयाय प्रभवेत् ? कथं च प्रतिपक्षदूषणमात्रेण वादिनो निस्साधनस्तत्वनिश्चयस्स्यात् ? इति ।

ननु वादिप्रयुक्तागमस्य प्रतिवाद्युक्ता अन्यार्थता वादिना कथं निराकर्तुं शक्या ? ‘मदभिमत एवार्थः ’ इत्येवंवादिनि वादिनि ‘न त्वदभिमतः किन्तु ? मदभिमत एव’ इति प्रतिवाद्यपि हि वक्तुं शक्नोत्येव । ततश्च कथं वाद्यागमार्थनिर्णयस्स्यात् ? इत्यत आह

उपपत्त्यवकाशोऽत्र ह्यागमार्थविनिर्णये ।

हि यस्मादागमार्थविनिर्णयार्थमुपपत्तीनामवकाशः तस्मात् वाद्यागमार्थनिर्णयो युक्तः ।

एतदुक्तं भवति, आगमो हि न वेदादिमात्रं । तस्यार्थप्रमाजननासामर्थ्यात् । किं नाम ? श्रुतो गृहीतसङ्गतिकोऽनुसंहितोपक्रमाद्युपपत्तिको वेदादिः  । तस्य प्रमित्यव्यभिचारात् । तथा च वादिना स्वप्रयुक्तागमस्य स्वाभिमतार्थे उपक्रमाद्युपपत्त्यानुगुण्यं प्रतिवाद्युक्तार्थे तद्वैगुण्यं व्युत्पादनीयमेव । ततश्च कथं नाम तत्वनिर्णयो न स्यात् ? इति ।

एवं वादिना स्वागमस्योपपत्तिवशेन स्वाभिमतार्थेप्रामाण्यं साधितवता स्वपक्षे साधिते, परोपन्यस्तागमस्य च अर्थान्तरमुक्तवता परपक्षे दूषिते निवृत्तो वाद इति न मन्तव्यं; किं नाम ? इत्यत आह

वाद्यागमार्थे निर्णीत आगमार्थः परस्य तु ॥

परस्य इत्येतत् सामर्थ्यात् आगम शब्देन सम्बद्ध्यते । उपपत्त्यानुगुण्येन वाद्यागमस्य तदभिमतार्थपरत्वे निर्णीते, तेन च तस्य च स्वपक्षसाधनसम्पत्तौ सत्यां, पश्चात् परप्रयुक्तागमस्य उपपत्तिवशेनैव प्रतिवाद्यभिमतार्थनिरासपुरस्सरं वाद्यभिमतार्थविषयता समर्थनीया ।

निर्णेयः सहितैः पश्चात् ........................ ।

इयांस्तु विशेषः , यथा वाद्यागमार्थनिर्णये वादिभावेन उपपत्तिचिन्ता क्रियते, न तथा प्रतिवाद्यागमार्थनिर्णये । किन्तु ? सहितैः सुहृद्भावेन सङ्गतैः  । कुत एतत् ? वादिना स्वपक्षस्य सुदृढतरं साधितत्वात् तत एव प्रतिवादिनः परपक्षप्रतिक्षेपाक्षमत्वात् प्रतिपक्षसाधनस्य चार्थान्तरकल्पनेनप्रामाण्यसन्देहात्, प्रबलदुर्बलयोश्च वादिप्रतिवादिभावायोगादिति ।

ननु पुनः प्रतिवाद्यागमार्थमीमांसानुष्ठानं किंनिबन्धनम् ? उक्तरीत्या वादिपक्षप्राबल्यस्य प्रतिवादिपक्षदौर्बल्यस्य च निश्चितत्वात् इत्यत आह

..... ततो निश्शेषनिर्णयः ।

वादिना उपपत्त्यानुगुण्यवैगुण्याभ्यां स्वागमस्य स्वाभिमतार्थसमर्थन पराभिमतार्थनिरसनानुष्ठानेन स्वपक्षसाधने विहिते, प्रतिवादिप्रयुक्तागमस्यार्थान्तरकल्पनेन तत्पक्षे दूषितेऽपि तत एव प्रतिवादिनः परपक्षोपालम्भस्वपक्षसाधनाक्षमत्वेऽपि प्रतिवाद्यागमस्य वादिप्रतिवाद्युक्तार्थयोरुपपत्त्यानुगुण्यवैगुण्यसमर्थन एव तत्वनिर्णयो भवति नान्यथेति तदनुष्ठेयमेव ।

ननु परस्परविरुद्धयोर्वादिप्रतिवादिपक्षयोः वादिपक्षे प्रबले सति कथं तत्वनिर्णयो न स्यात् ? इति चेन्न । वादिना प्रतिवाद्यागमस्यार्थान्तरे अभिहिते, परमार्थतः को न्वर्थः स्यात् ? इति संशयसद्भावेन वादिपक्षेप्राबल्य एव शङ्काशूकसद्भावात् । न च सति तस्मिन् वादसाध्यस्तत्वनिर्णयः  । तदिदमुक्तं ॥ निश्शेषेति ॥

वाद्यागमस्योपपत्तिवशेन वाद्यभिमतार्थपरत्वे अवधारिते तदानुगुण्येन प्रतिवाद्यागमस्यापि वाद्यभिमतार्थपरत्वनिश्चयेन सन्देह एव कुतः ? सावकाशस्य निरवकाशविरोधेन बाधितत्वादिति चेन्न । वाद्यागमस्य प्रतिवाद्यागमार्थविचारे अव्यापारितत्वात् । व्यापारितत्वे वा को नाम पुनर्युक्त्यनुसरणं विदध्यात् ? इति ।

अनेनैव न्यायेन प्रतिवादिपक्षप्राबल्यमपि व्युत्पादनीयम् । न हि वादिन एव जयोऽपरस्य पराभव इति नियतिरस्ति ।

ननु यदि परश्चक्षुराद्येकप्रमाणके साक्ष्येकविषये वा अर्थे प्रमाणं पृच्छेत् तदा परेण किं तूष्णीमासितव्यम् ? प्रत्यक्षादिकं वा वक्तव्यम् ? आद्ये साध्यासिद्धिः  । द्वितीये तु आगम एव वक्तव्यः इति नियमभङ्गः  । न च प्रत्यक्षसिद्धेऽर्थे विप्रतिपत्तिरेव न सम्भवति तत्प्रामाण्यासम्प्रतिपत्त्यभिप्रायेण तदुपपत्तेरिति । तत्राह

प्रत्यक्षसिद्धेष्वर्थेषु प्रश्ने मामक्षजं वदेत् ॥

प्रत्यक्षसिद्धेषु चक्षुराद्येकविषयेषु । प्रश्ने प्रमाणस्येति शेषः  । मां प्रमाणम् ।

ज्ञानं वा ज्ञानसिद्धेषु .................... ।

ज्ञानं साक्षिणम् ।

तर्ह्यागमनियमभङ्ग इति चेन्न । ‘आगम एव’ इति नियमस्य अनुमाननिरासपरत्वेन प्रत्यक्षानिरासादिति भावेनाह

.......... नानुमां प्रथमं वदेत् ।

नन्वेतदपि नास्ति ‘उपपत्त्यवकाशोऽत्र’ इत्युक्तत्वात् इत्यत उक्तम् ॥ प्रथममिति ॥ अङ्गतया आनन्तरिकप्रयोगनिषेधोऽनुमानस्य न नियमफलत्वेनाभिप््रोयत इति । ननु केवलानुमानविषये कथम् ? अनुमानं वक्तव्यम् । न चोक्तविरोधः  । यत्रागमः प्रत्यक्षं वा सम्भवति तत्र तद्धानेन प्रथममनुमानं न वक्तव्यमित्यस्यार्थस्य नियमफलतया विवक्षितत्वेन अनुमानैकगम्ये तदुपन्यासस्य अनिराकरणात् । तदिदमुक्तं नानुमां प्रथमं वदेदिति ।

ननु यदि ‘नदीतीरे पञ्च फलानि सन्ति’ इत्यादिना लौकिकवाक्येन अवगतेऽर्थे परः प्रमाणं पृच्छेत्, तदा किं वक्तव्यम् ? न तावत्तद्वाक्यं वक्तुं युक्तं, ऋगादिषु अपरिगणितत्वेन अनागमत्वात् । प्रमाणान्तरं तु नास्तीति चेत्, तत् किं वाक्यमुभयोः प्रमाणतया सम्मतम् ? उत असम्मतम् ? असम्मतावपि शक्यप्रामाण्योपपादनम् ? अन्यथा वा ? अन्यथेति पक्षे तूष्णीमासितव्यम् । उपायाभावात् । प्रथमद्वितीययोस्तदेव वक्तव्यंप्रामाण्यं चोपपादनीयम् ।

ननु तत् उक्तेषु अपरिगणितत्वात् न आगम इत्युक्तं इत्यत आह

परतुष्टिकरं वाक्यं वदेतां यदि वादिनौ ॥
स एवात्रागमो ज्ञेयः .................... ।

वदत इति वादिनौ वादिप्रतिवादिनाविति यावत् । यदिप्रामाण्यसम्मत्या उपपादनेन वा परस्य वादिनः प्रतिवादिनो वा तुष्टिकरं मनस्समाधानकरं लौकिकं वाक्यं वदेतां, तर्हि अत्र तदेकप्रमाणकेऽर्थे स एवागमो ज्ञेयः  । तत्र तद्वाक्यमागमत्वेनाङ्गीक्रियत इति यावत् ।

कथम् ? इत्यत आह

....... परतुष्टिर्हि तत्फलम् ।

ऋगाद्यागमो वक्तव्य इत्यभ्युपगमस्यापि परतुष्टिरेव हि प्रयोजनम् । तत्प्रामाण्यस्य सम्मततत्वात् । सा चेत् परतुष्टिः प्रामाण्यसम्प्रतिपत्या तदुपपादनेन वा यदि लौकिकवाक्येऽपि स्यात्, कथं तस्य नागमत्वम् ? कथं च न वक्तव्यत्वम् ? इति ।

नन्वेवंविधस्य वादस्य किं अवसानम् ? तत्राह

एवं निर्णयपर्यन्तं वादे सुबहवोऽपि हि ॥
घटेयुः .......

हि शब्दो वादस्य तत्वनिर्णयार्थत्वं हेतुं द्योतयति । एवं प्रमाणतर्काभिमतैरेव स्वपरपक्षसाधनोपालम्भाभ्यां वादे निर्णयपर्यन्तं तत्वनिर्णयाय प्रयतेरन् । न तु वादिप्रतिवादिनोरन्यतरपराजयमात्रेण वादावसानम् । तत्वनिर्णयार्थत्वाद्वादस्य । एकपराजयमात्रेण कथानिवृत्तौ पुनस्तस्यैव साधनान्तरादिस्फुरणे सन्देहावस्कन्दनात् ।यदि साधनान्तरादिस्फुरणेन पुनर्जायमानः पराजितस्यापि संशयो जयिना वारणीयः तर्हि पुरुषान्तरस्य तत्रैव तत्स्फुरणे पुनः सन्देहप्राप्तौ तन्निवारणमपि करणीयं स्यात् समानत्वात् । तथा च एक एव वादी प्रतिवादी चेति न स्यादिति चेत् ? सत्यं, इत्याह सुबहवोऽपि इति ।

एवं चेत् कथैक्यं किन्निबन्धनम् ? इति चेत् फलैक्यात् इत्यवेहि ।

तर्हि वादस्य अपर्यवसानं स्यात् ? इत्यत आह

......चिरकालं च ... ।

शब्दोऽवधारणे । साधनदूषणयोः परिमितत्वेन पुरुषान्तरप्राप्त्यनियमाच्च सर्वशङ्कोद्धारेऽपि विलम्ब एव स्यात्, न तु अपर्यवसानमिति ।

एवं वादप्रवृत्तिप्रकारं अभिधाय जल्पप्रवृत्तिप्रकारं सूचयति

जल्पे यावत् परो जितः ॥

तावत् घटेतां इति सम्बन्धः  । अयं इह जल्पप्रवृत्तिप्रकारः , सभ्यसभापतिप्राश्निकादिसंवरणपुरस्सरं कथानियमबन्धे कृते,प्राक् प्रसक्तेप्राश्निकोपक्षिप्ते प्रतिवादिना च पृष्टे प्रमेये प्रतिवादिपर्यनुयुक्तेन वादिना प्रमाणं अभिधातव्यम् । प्रतिवादिना च अनुक्तोच्यमानग्राह्यनिग्रहाप्राप्तौ आभासबहिरुक्तग्राह्यनिग्रहालाभे च तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षे प्रमाणं अभिधानीयम् । वादिनादि उक्तोच्यमानाऽभासबहिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थं अवगम्य दूषयित्वा स्वपक्षसाधनदूषणं उद्धरणीयम् । साधनदूषणे च प्रमाणाभिमतैः , तदलाभे ‘नियतपराभवात् वरः पाक्षिकः ’ इति छलादिना च क्रियते जयैकार्थत्वात् जल्पस्य । अत एव वादिप्रतिवादिनोः अन्यतरो यावत् स्वपरपक्षसाधनोपालम्भयोः अन्यतरावसरेऽपि जीयेत तावदेव उभाभ्यां प्रयतितव्यम् । न तु वाद इव परसाधनपर्यन्तमिति । तदेवं वादजल्पयोः प्रवृत्तिप्रकारभेदात् युक्तो भेद इति ।

एवं असङ्करेण कथामार्गत्रयं प्रतिपादितवता कथैक्यादिमतानि अपहस्तितानि विज्ञातव्यानि । अधिकार्यङ्गप्रवृत्तिप्रकारफलभेदे सति किन्निबन्धनं कथैक्यं स्यात् ।

जल्पस्य न तावत् स्वरूपमेव हातुं शक्यम्, वादादि समानयोगक्षेमत्वात् । अन्यतरान्तर्भावस्तु भेदोपपादनेन परास्तः  । वादवितण्डा च यदि तत्वनिर्णयार्था स्वपरपक्षसाधनोपालम्भवती तदा वाद एव । विजिगीषावतोः इति चेत् तर्हि तत्वनिर्णयार्थताव्याघातः  । अन्यतरमात्रपर्यवसानेऽपि एवमेव । विजयार्थत्वे, जल्पवितण्डायाः अन्यतरत्वापातः  । तत्वबुभुत्सावतोः इति व्याहतम् । न च तत्वनिर्णयविजयाभ्यां फलान्तरम् । नापि तदर्थिव्यतिरिक्तोऽधिकारी । न च साधनोपालम्भोभयान्यतरमात्रव्यतिरिक्त प्रवृत्तिप्रकारो, यद्वशात् वादवितण्डा परा कल्पेत इति ।

आत्यन्तिकपराजयपर्यन्तो वाद इत्युक्तम् । तत्र को वादे पराजयहेतुः ? इत्यपेक्षायाम् आह

तत्वनिर्णयवैलोम्यं वादे साक्षात् पराजयः ।

पराजयः पराजयहेतुः । स द्विविधो मुख्यामुख्यभेदात् । तत्र वादिप्रतिवादिभ्यां अभिलषितस्य तत्वनिर्णयस्य यावत् वैलोम्यं विरुद्धं वचनं आचरणं वा तत्सर्वं वादे मुख्यः पराजयहेतुः , कथावसानकारणत्वात् । इतरोऽमुख्यः , कथावसानाहेतुत्वात् । न च तत्वनिर्णयवैलोम्यस्य कथावसितिहेतुत्वेन साक्षात् पराजयहेतुत्वव्याख्यायां उद्भावनीयमेव स्यात् न कथाऽवसितिर्भवेत् । इत्यादिविरोधः  । ‘सकृत् एकस्य तत्वनिर्णयवैलोम्यापत्तिमात्रेण न कथावसानं, यथा जल्पे सकृत् निग्रहप्राप्तौ’ इत्येतदर्थपरत्वात् तस्य । अत्रापि तत्वनिर्णयवैलोम्यापत्तौ पुनः तस्य अन्यस्य वा साधनान्तराद्यप्रतीतावेव कथापर्यवसानस्य विवक्षितत्वात् । अन्यथा वादापर्यवसानं स्यात् । न हि तत्वनिर्णयस्य तत्वनिर्णयवैलोम्यापत्तितोऽन्यत् शृङ्गमस्ति । ‘साक्षात्’ इति च अत्र व्यर्थं स्यात् । विरोधादिषु च तत्वनिर्णयवैलोम्येतरविवेकं तु करिष्यामः ।

तत्वनिर्णयवैलोम्यं प्राप्तवतः किं कार्यं ? इत्यपेक्षायां आह

संवादे श्लाघ्यतैव स्यात् गुरुत्वमितरस्य च ॥

वादिनः प्रतिवादिनो वा तत्वनिर्णयवैलोम्येप्राप्ते तत्र च तेन संवादे कृते तस्य विमलबोद्धृतया स्तुत्यतैव स्यात् न तु पराजितत्वेनापमानः  । इतरस्य च तत्वं निर्णीतवतो गुरुत्वं स्यात् ।

तत्वनिर्णयवैलोम्यंप्राप्तोऽपि यदि मतिमान्द्यादिना तत्र न संवादं करोति तस्य कर्तव्यम् आह

तत्वनिर्णयवैलोम्ये निन्द्यो दण्ड्योऽथ वा भवेत् ।

अथ पक्षान्तरे । असंवादे, निन्द्यो भवेत् दोषाधिक्ये दण्ड्यो भवेदिति ।

जल्पे च ‘यावत् परो जितः ’ इत्युक्तम् । तत्र जल्पे कः पराजयहेतुः ? इत्यपेक्षायां आह

विरोधाऽसङ्गतिन्यूनतूष्णीम्भावादिकैर्जितः ॥
भवेज्जल्पे ...

आदि पदेन संवादाधिक्ययोः ग्रहणम् ।

प्रसङ्गात् वितण्डायां निग्रहादिकमतिदिशति

...... वितण्डायां न्यायो जल्पवदीरितः ।

वितण्डायां च इत्येतावता पूर्णे यत् अधिकमुपादत्ते तेन जल्पे यावत् परो जितः इत्युक्तप्रवृत्तिप्रकारपर्यवसानयोरपि अतिदेशो लभ्यते । अन्यथा प्रकृतत्वात् निग्रहस्थानमात्रातिदेशो विज्ञायेत । ततश्च स्वपक्षस्थापनां विना जल्पवदेव वितण्डा इत्युक्तं भवति ।

विरोधादिप्राप्तवतो जल्पवितण्डयोः कि कार्यं ? इत्यपेक्षायामाह

संवादे दण्ड्यता न स्यात् वितण्डाजल्पयोरपि ॥
पराजितत्वमात्रं स्यात् ............

विरोधादिषु प्राप्तनिग्रहस्थानविषये वितण्डायां जल्पे च यदि वादी प्रतिवादी वा संवादं कुरुते तदा नासौ सभापतिना दण्ड्यः  । किन्तु ? खण्डिताहङ्कारतया अपमानविषय एव स्यात् ।

वादिप्रतिवादिनोः निग्रहस्थानचिन्ताप्रसङ्गात्प्राश्निकापराधं अपोहमुखेन सूचयति

अनुवादादिराहित्यं नैव जल्पेऽपि दूषणम् ॥

एव कारो हेतुसूचनार्थः  । एके मन्यन्ते, प्राश्निकैः वाद्युक्तस्य प्रतिवादिनं प्रति, प्रतिवाद्युक्तस्य च वादिनं प्रति अनुवादः करणीयः  । अप्रतिबुद्धौ च वादिप्रतिवादिनौ बोधनीयौ । तदकरणे तेषां अपराध इति । तदेतत् जल्पे वितण्डायामपि अनुवादादिराहित्यंप्राश्निकानां न दूषणम्, अनुवादाद्यभावेऽपि वादिप्रतिवादिभ्यां जल्पवितण्डयोः प्रवर्तयितुं शक्यत्वेन तस्य तदकर्मत्वात् । किं नाम ?प्रागुक्तस्वकर्माननुष्ठानमेवप्राश्निकानां अपराध इति मतान्तरनिरासाय अपोह इति ज्ञातव्यम् ।

वादिप्रतिवादिनोः जल्पारम्भोत्तरकालीनं निग्रहस्थानं उक्तम् । कथातः प्रागपि सम्भवात् आह

विद्याहीनत्वलिङ्गेऽपि वादिनोः स्यात् पराजयः ।

सम्भावितसमानविद्ययोरेव जल्पवितण्डाधिकारित्वात् कथातः प्रागेव वादिप्रतिवादिनोः अन्यतरस्य प्रतियोग्यपेक्षया विद्याहीनत्वलिङ्गे पदवाक्यप्रमाणाज्ञत्वदोषेप्राप्ते पराजय एव । दूरे जल्पादि । एतेन ‘कथाबाह्यानां अनिग्रहस्थानत्वं’ इति परास्तम् ।

ननु विरोधादिव्यतिरिक्तानि हेत्वाभासादीनि निग्रहस्थानानि सन्ति । विजयमात्रप्रयोजनयोश्च जल्पवितण्डयोः पराजयनिमित्तानि सम्भावितानि च । अतः कथं विरोधादिषट्केनैव जल्पादौ पराजयः ? इत्यत आह

तदभावात् नैव षट्कात् अन्यो निग्रह इष्यते ॥
अन्तर्भावातदिहान्येषां निग्रहाणाम् ............ ।

अन्येषां विरोधादिपदैः अगृहीततया ततोऽन्यत्वेन शङ्कितानां हेत्वाभासादीनां इह षट्के अन्तर्भावात्, षट्कानन्तर्भूतानां च आश्रयासिद्ध्यदीनां तदभावात् निग्रहस्थानत्वाभावात्जल्पवितण्डयोः षट्कादन्यनिग्रहस्थानानङ्गीकारो न दोषाय इति ॥

कथं हेत्वाभासादीनां एतेष्वन्तर्भावः ? कथं च अनन्तर्भूतानां अनिग्रहस्थानत्वं ? इत्यत आह

...... इति स्म ह ।

उक्तपरामर्श इति शब्दः  । स्म ह इति निपातौ सुप्रसिद्धिं द्योतयतः  । हेत्वाभासादीनां विरोधादिषु अन्तर्भावः , अनन्तर्भूतानां च अनिग्रहस्थानत्वं विरोधादीनां हेत्वाभासादीनां च स्वरूपयाथात्म्यज्ञाने सति सुज्ञानमेव इति किं तत्र यत्नेन ? इति ।

कथातः पूर्वं विद्याहीनत्वलिङ्गेन पराजय इत्युक्तं, तन्न । कथामन्तरेण विद्याहीनत्वलिङ्गस्य अप्रतीतेः इत्यत आह

विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥

जल्पवितण्डाधिकारिणोः खलु विद्याहीनत्वलिङ्गेन कथातः प्राक् पराजय इष्यते । जल्पवितण्डाप्रवृत्तिश्च विद्यापरीक्षापूर्वैव । विद्यापरीक्षा च वादेनैव । वादे च न सम्भावितसमानविद्यत्वापेक्षा । एवं च विद्यापरीक्षया विद्याहीनत्वनिश्चयात् न विरोधः  । विद्यासाम्ये तु जल्पवितण्डे इति ।

विरोधादीनि निग्रहस्थानानि इत्युक्तं । तत्र विशेषं आह–

स्खलितत्वादिमात्रेण न तत्रापि पराजयः ।

तत्र जल्पवितण्डयोरपि स्खलनेन अपस्मारादिवशेन वाप्राप्तैः विरोधादिभिः न पराजयो मन्तव्यः , अपटुकरणत्वादिना सम्भवतः स्खलनादेः प्रतियोग्यपेक्षया अपकर्षस्य अद्योतकत्वात् । किमु वादकथायामिति ।

तत्र वादे चतुर्धा निग्रहस्थानगतिः  । किञ्चित् असम्भावितमेव, यथा प्रतिज्ञाहानिः प्रतिज्ञासन्न्यासो निरर्थकं अर्थान्तरं अविज्ञातार्थं अपार्थकं इति षट्कम् । एषां अशक्तिसङ्गूहनप्रकारत्वात् तत्वबुभुत्सुतया च वादे तदभावात् । प्रमादात् सम्भवेऽपि उद्भाव्य त्याजनीयानि । किञ्चित् सम्भवदपि अनुद्भाव्यु मेव, यथा प्रतिज्ञान्तरं हेत्वन्तरम् अज्ञानं अप्रतिभा विक्षेपः मतानुज्ञा पर्यनुयोज्योपेक्षणं इति सप्तकम् । एतदुद्भावनानुद्भावनयोः तत्वनिर्णयानुगुण्यवैगुण्याभावात् । किञ्चित् उद्भाव्यमात्रम्, यथा विरोधः , अप्राप्तकालं, न्यूनं, अधिकं, पुनरुक्तं, अननुभाषणं, अपसिद्धान्तः इति सप्तकम् । किञ्चित् कथावसानिकम्, यथा हेत्वाभासो निरनुयोज्यानुयोग इति द्वयम् ।

तत्वनिर्णयस्य हि साक्षात् विरुद्धा विपरीतप्रतिपत्तिः , सा च हेत्वाभासाद्यनुद्भावने भवति । पारम्पर्यात् विरोधादयः  । व्यासङ्गादिना तत्वनिर्णयसामग्रीप्रतिरोधात् प्रतिज्ञाविरोधादीनाम् । आकाङ्क्षासन्निधियोग्यतावत्तया प्रतिसंहितं प्रमाणाप्रतिहतं च वाक्यं खलु तत्वनिर्णयाङ्गम्, न अन्यत् । तत्र प्रतिज्ञाविरोधे योग्यताविरहः  । अप्राप्तकाले तु आकाङ्क्षाविरहः  । न्यूने तु आकाङ्क्षितासमभिव्याहारेण सन्निधिविरहविशेषः  । अधिके तु अनाकाङ्क्षिताभिधानेन आकाङ्क्षाभावः  । पुनरुक्तेऽपि एवम् । अननुभाषणे तु उक्ताननुसन्धानेन असन्निधानम् । अपसिद्धान्ते तु सम्मुग्धप्रमाणाबाधोत्क्रान्तिः इति । तदिदं आचार्याणां असम्मतम्, आत्यन्तिकसाधनदूषणनिवृत्तौ एव वादावसानस्य उक्तवात् इति ॥

कथालक्षणोपसंहारद्वारेण, न एतत् वाद्यन्तरोक्तवत् असाधु प्रतिपत्तव्यं इत्याह–

वादजल्पवितण्डानां इति शुद्धं स्वलक्षणम् ॥

यद्यपि कथासामान्यलक्षणं च उक्तम्, तथापि तत् आर्थिकं इति वादादिविशेषोपसंहार एव कृतः  । वादादीनामेव व्यवहाराङ्गत्वं न तु कथासामान्यस्य इत्यतो वा । यस्मात् स्वलक्षणं स्वरूपलक्षणं तस्मात् शुद्धं अव्याप्त्यादिशून्यम् । न हि तत्स्वरूपं तत् न व्याप्नोति व्यभिचरति च इति ।

न केवलं एतत् कथालक्षणं उपपत्त्या साधु प्रतिपत्तव्यम् । किं नाम ? परमाप्तोक्तत्वात् आगमान्तरसिद्धत्वाच्च इति दर्शयन् उक्तस्य विनियोगं आह–

आनन्दतीर्थमुनिना ब्रह्मतर्कानुसारतः ।
कथालक्षणमित्युक्तं प्रीत्यर्थं शार्ङ्गधन्वनः ॥

भक्त्यतिशयवशात् भगवान् आचार्यः प्रकरणनिर्माणफलत्वेन परमेश्वरप्रशंसापुरस्सरं तत्प्रसादं आशास्ते

सदोदितामितज्ञानपूरवारितहृत्तमाः ।
नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु कथालक्षणं सम्पूर्णम् ॥

सदोदितम् अनादित आविर्भूतं प्रलयेऽपि अविलुप्तम् । अमितं आलोचने सर्वविषयम् । सदोदितामितज्ञानपूरेण तं दत्वा इति यावत् । वारितं अस्मदीयं हृत्तमः अज्ञानम् अनेन इति तथोक्तः  । तस्मात् परमोपकारित्वात् स्वभावेन परमप्रेमविषयत्वाच्च तत्प्रसादाशंसनमेव युक्तम् इति ।

श्रीमदानन्दतीर्थार्यहृदयामलमन्दिरा ।
इन्दिरार्चितपादाब्जा देवता पातु नः सदा ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितकथालक्षणविवरणं जयतीर्थभिक्षुणा विरचितं सम्पूर्णम् ॥