श्रीमद्भागवततात्पर्यनिर्णयः | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भागवततात्पर्यनिर्णयः - श्लोकाः

  1. जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥
  2. धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥
  3. निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ ३ ॥
  4. नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः सत्रं स्वर्गाय लोकाय सहस्त्रसममासत ॥ ४ ॥
  5. यानि वेदविदां श्रेष्ठो भगवान् बादरायणः । अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥ वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥
  6. आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यं बिभेति स्वयं भवः ॥ १४ ॥
  7. अथाऽख्याहि हरेर्धीमन्नवतारकथाः शुभाः । लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥
  8. सूत उवाच– यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽपि नेदु- स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
  9. यः स्वानुभावमखिलश्रुतिसारमेक- मध्यात्मदीपमतितीर्षतां तमोऽन्धम् । संसारिणां करुणयाऽऽह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥
  10. वदन्ति तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
  11. सत्तामात्रं तु यत्किञ्चित्सदसच्चाविशेषणम् । उभाभ्यां भाष्यते साक्षाद्भगवान् केवलः स्मृतः ॥ १२ ॥
  12. तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतिगृहीतया ॥ १३ ॥
  13. भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २२ ॥
  14. सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै- र्युक्तः परः पुरुष एव इहास्य धत्ते । स्थित्यादये हरिविरिञ्चहरेति सञ्ज्ञाः श्रेयांसि तत्र खलु सत्त्वतनौ नृणां स्युः ॥ २४ ॥
  15. पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २५ ॥
  16. भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् । सत्वं विशुद्धं क्षेमाय कल्पते नेतराविह ॥ २६ ॥
  17. रजस्तमःप्रकृतयः समशीलान् भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २८ ॥
  18. स एवेदं ससर्जाग्रे भगवानात्ममायया । सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः ॥ ३१ ॥
  19. तया विलसितेष्वेषु गुणेषु गुणवानिव । अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३२ ॥
  20. असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३४ ॥
  21. सूत उवाच– जगृहे पौरुषं रूपं भगवान् महदादिभिः । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥
  22. यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥
  23. एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥
  24. स एव प्रथमं देवः कौमारं सर्गमास्थितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥
  25. तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥
  26. तुर्यं धर्मकलासर्गे नरनारायणावृषी । भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तमः ॥ ९ ॥
  27. पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचाऽऽसुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥
  28. षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया । आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥
  29. ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धवानोेषधीर्विप्रास्तेनायं च उशत्तमः ॥ १४ ॥
  30. ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥
  31. एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥
  32. ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥ २४ ॥
  33. अवतारा ह्यसङ्ख्येया हरेः सत्वनिधेर्द्विजाः । यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६ ॥
  34. एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥
  35. एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥
  36. यथा नभसि मेघौघा रेणुर्वा पार्थिवोऽनिले । एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१ ॥
  37. अतः परं यदव्यक्तमव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः ॥ ३२ ॥
  38. यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥
  39. यद्येषोपरता देवी माया वैशारदी मतिः । सम्पन्न एवेति विदुर्महिमि्न स्वे महीयते ॥ ३४ ॥
  40. एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥
  41. इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवानृषिः ॥ ४० ॥
  42. तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः । एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
  43. सूत उवाच— द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १३ ॥
  44. दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुसा । सर्ववर्णाश्रमाणां यद् दध्यौ चिरममोघदृक् ॥ १७ ॥
  45. स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २४ ॥
  46. एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनाऽपि यदा नातुष्यद् हृदयं ततः ॥ २५ ॥
  47. नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २६ ॥
  48. धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥
  49. अथापि बत मे दैह्यो ह्यात्मा चैवाऽत्मना विभुः । असम्पन्न इवाऽभाति ब्रह्मवर्चस्विसत्तमः ॥ २९ ॥
  50. किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥
  51. तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥
  52. नारद उवाच— पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
  53. जिज्ञासितमधीतं च ब्रह्म यत्तत् सनातनम् । तथाऽपि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥
  54. व्यास उवाच— अस्त्येव मे सर्वमिदं त्वयोक्तं, तथाऽपि नात्मा परितुष्यते मे । तत्मूलमव्यक्तमगाधबोधं, पृच्छामहे त्वाऽऽत्मभवात्मभूतम् ॥ ५ ॥
  55. यथा धर्मादयो ह्यर्था मुनिवर्यानुवर्णिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
  56. न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं न गृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा न्यपतन् मिमङ्क्षया ॥ १० ॥
  57. नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्षितं कर्म यदप्यकारणम् ॥ १२ ॥
  58. अतो महाभाग भवानमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबन्धमुक्तये समाधिनाऽनुस्मर यद्विचेष्टितम् ॥ १३ ॥
  59. जुगुस्पिसं धर्मकृतेऽनुशासनं स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरस्थितो न मन्यते तस्य निवारणं जनः ॥ १५ ॥
  60. विचक्षणोऽस्यार्हति वेदितुं विभो- रनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मन- स्ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥
  61. इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः । तद्धि स्वयं वेद भवांस्तथापि प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
  62. तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाऽहमेतत् सदसत् स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
  63. त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्रख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥
  64. स्फीतान् जनपदान् तत्र पुरग्रामव्रजाकरान् । खेटान् पट्टनवाटीश्च वनान्युपवनानि च ॥ ११ ॥
  65. प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः । आनन्दसंप्लवे लीनो नापश्यमुभयं मुने ॥ २१ ॥
  66. सूत उवाच— ब्रह्मनद्याः सरस्वत्याः आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ २ ॥
  67. भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् ॥ ४ ॥
  68. भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । अपाहरद्विप्रियमेतदस्य जुगुप्सितं कर्म विगर्हयन्ती ॥ १४ ॥
  69. माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदाऽरुदद् बाष्पकलाकुलाक्षी तां सान्त्वयन्नाह किरीटमाली ॥ १५ ॥
  70. तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ २३ ॥
  71. विपदः सन्तु नः शश्वत् तत्र तत्र जगत्पते । भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २८ ॥
  72. मन्ये त्वां कालमीशानं अनादिनिधनं परम् । समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ ३१ ॥
  73. ते वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतो दर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ४१ ॥
  74. नैनो राज्ञः प्रजाभर्तुः धर्मो युद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ ५ ॥
  75. शितविशिखहतो विशीर्णदंसः क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् मुदे मुकुन्दः ॥ ४५ ॥
  76. निशम्य भीष्मोक्तमथाच्युतोदितं प्रवृत्तिविज्ञानविधूतविभ्रमः। शशास गामिन्द्र इवाजिताश्रयः प्रणिध्युपात्तामनुजानुवर्तितः ॥ ४ ॥
  77. अश्रूयन्ताऽशिषः सत्यास्तत्र तत्र द्विजेरिताः । नानुरूपाऽनुरूपाश्च निर्गुणस्य गुणात्मनः ॥ २० ॥
  78. स्त्रिय ऊचुः— स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु ॥ २२ ॥
  79. स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत् ॥ २३ ॥
  80. यदा ह्यधर्मेण तमोऽधिका नृपाः जीवन्ति तत्रैष हि सात्वतः किल । धर्मं भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥ २६ ॥
  81. एताः पुरा स्त्रीत्वमवाप्तये समं निरस्तशोकं बत साधु कुर्वते । यासां गृहात्पुष्करलोचनः पतिः न जात्वपैत्याकृतिभिः हृदि स्पृशन् ॥ ३१ ॥
  82. अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३३ ॥
  83. तत्र तत्र च तत्रत्यैर्हरिः प्रत्युद्यतार्हणः । सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३७ ॥
  84. यर्ह्यम्बुजाक्षाञ्चति माधवो भवान् कुरून् मधून् वाऽथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाऽक्ष्णामिव नस्तवाच्युत ॥ ४६ ॥
  85. यत्तदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ७५ ॥
  86. तं मेनिरे खला मूढाः स्त्रैणं चानुव्रतं हरेः । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ७६ ॥
  87. ब्राह्मणा ऊचुः— पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः । ब्रह्मण्यः सत्यसन्धश्च रामो दाशरर्थियथा ॥ १९ ॥
  88. स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥
  89. प्रत्युज्जग्मुः प्रहर्षेण प्राणांस्तन्व इवाऽगतान् । अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवन्दनैः ॥ ५ ॥
  90. इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् । यथानुभूतं भ्रमता विना यदुकुलक्षयम् ॥ १२ ॥
  91. अबिभ्रदर्यमा दण्डं यथाघमघकारिषु । यावद्बभार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५ ॥
  92. प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । स एष भगवान् कालः सर्वेषां नः समागतः ॥ २० ॥
  93. अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् । इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः ॥ २८ ॥
  94. अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोवस्त्ररुग्मैः । गृहान्प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३१॥
  95. तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः । गावद्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः । अम्बा वा हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् ॥ ३२ ॥
  96. पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् । अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३४ ॥
  97. सञ्जय उवाच— अहं च व्यंसितो राजन् पित्रोर्वः कुलनन्दन । न वेद साध्व्या गान्धार्या मुषितोऽस्मि महात्मभिः ॥ ३७ ॥
  98. युधिष्ठिर उवाच— नाहं वेद गतिं पित्रोर्भगवान् क्वगतावितः । अम्बा वा हतपुत्राऽऽर्ता क्व गता च तपस्विनी । कर्णधार इवापारे सीदतां पारदर्शनः ॥ ४० ॥
  99. यन्मन्यसे ध्रुवं लोकमध्रुवं चाथवोभयम् । सर्वथा हि न शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥
  100. धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवता ऋषीणामाश्रमं गतः ॥ ५१ ॥
  101. स्नात्वा त्रिषवणं तस्मिन् हुत्वा चाग्नीन् यथाविधि । अब्भक्ष उपशान्तात्मा स आस्तेऽ)विगतेक्षणः ॥ ५३ ॥
  102. विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥
  103. ध्वस्तमायागुणोद्रेको निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाधुना॥ ५६ ॥
  104. स वा अद्यतनाद् राजा परतः पञ्चमेऽहनि । कलेवरं हास्यति ह तच्च भस्मीभविष्यति ॥ ५७ ॥
  105. विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५९ ॥
  106. व्यतीताः कतिचिन् मासास्तदा तु शतशो नृपः । ददर्श घोररूपाणि निमित्तानि भृगूद्वह ॥ २ ॥
  107. अपि देवर्षिणाऽऽदिष्टः स कालः प्रत्युपस्थितः । यदाऽऽत्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥
  108. मृत्युदूतः कपोतोऽग्नावुलूकः कम्पयन्मनः । प्रत्युलूकश्च हुङ्कारैरनिद्रौ शून्यमिच्छतः ॥ १४ ॥
  109. भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥
  110. कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥
  111. पत्न््नयास्तवापि मखक्लृप्तमहाभिषेक- श्लाघिष्ठचारुकबरं कितवैः सभायाम् । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्यो यैस्तत्स्त्रियो न्यकृत तत् सविमुक्तकेश्यः ॥ १० ॥
  112. तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नृपतयो यत आमनन्ति । सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धमिवोप्तमूषे ॥ २१ ॥
  113. सूत उवाच— वासुदेवाङ्घ्र्यभिध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥ १ ॥
  114. गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमद्विभुः ॥ २ ॥
  115. विशोको ब्रह्मसम्पत्या सञ्छिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ ३ ॥
  116. स्वराट् पौत्रं विनीतं तमात्मनोऽनवमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ७ ॥
  117. वाचं जुहाव मनसि तत्प्राण इतरे परम् । धृत्या ह्यपानं सोत्सर्गं तत्परत्वे ह्यजोहवीत् ॥ १० ॥
  118. त्रित्वे हुत्वाऽथ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः । सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ११ ॥
  119. उदीचीं प्रविवेशाऽशां गतपूर्वां महात्मभिः । हृदि ब्रह्म ध्यायन् नाऽवर्तेत गतो यतः ॥ १३ ॥
  120. ते साधुकृतसर्वार्थाः ज्ञात्वाऽऽत्यन्तिकमात्मनः । मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ १५ ॥
  121. शौनक उवाच— कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक् शूद्रः कोऽसौ गां यः पदाऽहनत् ॥ ५ ॥
  122. तत्कथ्यतां महाभाग यदि विष्णुकथाश्रयम् । अथ वाऽस्य पदाम्भोजमकरन्दलिहां सताम् ॥ ६ ॥
  123. किमन्यैरसदालापैरायुषो यदसद्व्ययः । क्षुद्रायुषां नृणामङ्ग मर्त्यानां मृतिच्छताम् ॥ ७ ॥
  124. एतदर्थं हि भगवान् आहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ९ ॥
  125. सारथ्यपार्षदसेवनसख्यदौत्य- वीरासनानुगमनस्तवनप्रणामैः । स्निग्धेषु पाण्डुषु जगत्प्रणतस्य विष्णोः भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १७ ॥
  126. धरोवाच— सत्यं शौचं दया दानं त्यागः सन्तोष आर्जवम् । शमो दमः तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २७ ॥
  127. ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिः सौभगं मार्दवं क्षमा ॥ २८ ॥
  128. प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २९ ॥
  129. इमे चान्ये च भगवन्नित्या यत्र महागुणाः । प्रार्थ्या महत्वमिच्छद्भिः न च यान्ति स्म कर्हिचित् ॥३०॥
  130. वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रपीडितम् ॥ २ ॥
  131. धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २१ ॥
  132. अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २२ ॥
  133. न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञैः यज्ञेश्वरं ब्रह्मवितानयज्ञाः ॥३२ ॥
  134. यस्मिन् हरिर्भगवानिज्यमान इष्टात्ममूर्तिर्यजतां शं तनोति । कामानमोघान् स्थिरजङ्गमानां अन्तर्बहिर्वायुरिवेश आत्मा ॥ ३३ ॥
  135. अथैतानि न सेवेत बुभूषु पुरुषः क्वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४० ॥
  136. उत्सृज्य सर्वतः सङ्गं विज्ञानार्जितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वकलेवरम् ॥ ३ ॥
  137. तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताऽशिषः ॥ १३ ॥
  138. कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः ॥ १९ ॥
  139. यत्रानुरक्ताः सहसैव धीराः व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यसत्यं यस्मिन्नहिंसोपरमश्च धर्मः ॥ २२ ॥
  140. प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
  141. अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥
  142. इत्युक्त्वा रोषताम्राक्षः वयस्यान् ऋषिबालकान् । कौशिक्यप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
  143. अरक्ष्यमाणे नरदेवनामि्न रथाङ्गपाणावयमङ्ग लोकः । तदा हि चोरप्रचुरो विनङ्क्ष- त्यरक्ष्यमाणो विवरूथवत् क्षणात् ॥ ४३ ॥
  144. तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य पशोर्विलुम्पकाः । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः ॥ ४४ ॥
  145. साधवः प्रायशो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्माऽ)गुणाश्रयः ॥ ५० ॥
  146. इति स्म राजा व्यवसाययुक्तः प्राचीनमूलेषुु कुशेषु धीरः । उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न््नयाः स्वसुते न्यस्तभारः ॥ १७ ॥
  147. श्यामं सदाऽऽपीच्यवयोङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थिता मुनयश्चाऽसनेभ्यः तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ ४ ॥
  148. श्रीशुक उवाच— वरीयानेष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥
  149. श्रोतव्यानीह राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यतामात्मतत्वं गृहेषु गृहमेधिनाम् ॥ २ ॥
  150. निद्रया ह्रियते नक्तं व्यवायेन नवं वयः । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥
  151. देहापत्यकलत्रादिष्वात्मदैन्येष्वसत्स्वपि । तेषु प्रसक्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥
  152. प्रायेण मुनयो राजन्निवृत्ता विधिनिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ ७ ॥
  153. इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥
  154. परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥
  155. नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥
  156. तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । मनो निर्विषयं युंक्त्वा ततः किञ्चिन्न संस्मरेत् । पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥
  157. यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः । आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥
  158. राजोवाच— यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥
  159. श्रीशुक उवाच— जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः । स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ २३ ॥
  160. विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ॥ २४ ॥
  161. आण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते । वैराजः पुरुषो योऽसौ भगवान्धारणाश्रयः ॥ २५ ॥
  162. पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजस्सुगुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥२६॥
  163. छन्दांस्यनन्तस्य गिरो गृणन्ति दंष्ट्राऽर्यमेन्दूडुगणा द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥३१॥
  164. शब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः । परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥२॥
  165. अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । सिद्धेऽन्यथार्थे न यतेत तत्तत् परिश्रमं तत्र समीक्षमाणः ॥३॥
  166. एवं स्वचित्ते स्वत एव सिद्ध आत्माप््रिायोऽर्थो भगवाननन्तः । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥
  167. स सर्वविद्हृद्यनुभूश्च सर्व आत्मा यथा सुप्तजनेक्षितैकः । तं सत्यमानन्दनिधिं भजेत सर्वात्मनाऽतोऽन्यत आत्मघातः ॥ ७ ॥
  168. अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥ १३ ॥
  169. यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ १५ ॥
  170. स्थिरं सुखञ्चासनमास्थितो यतिः यदा जिहासुरिममङ्ग लोकम् । काले च देशे च मनो न सज्जेत् प्राणान्नियच्छेन्मनसा जितासुः ॥ १६ ॥
  171. मनश्च बुध्याऽमलया नियम्य क्षेत्रज्ञ एतां निनयेत्तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १७ ॥
  172. न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे । न यत्र सत्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ १८ ॥
  173. नाभ्यां स्थितं हृद्यवरोप्य तस्माद् उदानगत्योरसि तं नयेन्मुनिः । ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥ २१ ॥
  174. तस्माद्भ्रुवोरन्तरमुन्नयेत निरुद्धसप्ताश्वपथोऽनपेक्षः । स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि- र्निर्भिद्य मूर्धन्विसृजेत्परं गतः ॥ २२ ॥
  175. यदि प्रयास्यत्यथ पारमेष्ठ्यं वैहायसानामुत यद्विहारम् । अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २३ ॥
  176. योगेश्वराणां गतिमामनन्ति बहिस्त्रिलोक्याः पवनान्तरात्मा । न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २४ ॥
  177. वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैंशुमारम् ॥ २५ ॥
  178. योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः । सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ॥ २६ ॥
  179. देवयानं पिङ्गलाभिरहान्येति शतायुषा । रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ॥ २७ ॥
  180. तद्विश्वनाभिं त्वभिपद्य विष्णोरणीयसा विरजेनात्मनैकम् । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते ॥२८ ॥
  181. न यत्र शोको न जरा न मृत्युर्नाधिर्न चोद्वेग ऋते कुतश्चित् । यश्चित्ततोदः क्रिययाऽनिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ ३० ॥
  182. ततो विशेषं प्रतिपद्य निर्भय- स्तेनात्मनाऽपोऽनलमूधर्ि्न च त्वरन् । ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ ३१ ॥
  183. घ्राणेन गन्धं रसनेन वै रसं रूपन्तु दृष्ट्या स्पर्शं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणं तत् प्रायेण नावृत्तिमुपैति योगी ॥ ३२ ॥
  184. स भूतसूक्ष्मेन्द्रियसन्निकर्षात् सनातनोऽसौ भगवाननादिः । मनोमयं देवमयं विकार्यं संसाद्य मत्या सह तेन याति ॥ ३३ ॥
  185. विज्ञानतत्वं गुणसन्निरोधं तेनाऽत्मनाऽऽत्मानमुपैति शान्तिम् । आनन्दमानन्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे ॥ ३४ ॥
  186. एतां गतिं भागवतो गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग । एते सृती ते नृप वेदगीते त्वयाऽभिपृष्टेऽथ सनातने च । ये द्वे पुरा ब्रह्मण आह पृष्टः आराधितो भगवान् वासुदेवः ॥३५॥
  187. न ह्यतोऽन्यः शिवः पन्थाः विश्रुतः संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३६ ॥
  188. भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तद्धि ह्यपश्यत्कूटस्थे रतिरात्मन् यतो भवेत् ॥ ३७ ॥
  189. भगवान्सर्वभूतेषु लक्षितश्चात्मना हरिः । दृश्यैर्बुध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ ३८ ॥
  190. तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३९ ॥
  191. अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
  192. आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यः क्षणो नीतः उत्तमश्लोकवार्तया ॥ १७ ॥
  193. आत्मजायासुतागारपशुद्रविणबन्धुषु । राज्ये चाविकले नित्यनिरूढां ममतां जहौ ॥ २ ॥
  194. संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्गिकञ्च यत् । वासुदेवे भगवति स्वात्मभावं दृढं गतः ॥ ४ ॥
  195. श्रीशुक उवाच– नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनाम् अन्तर्ध्रुवायाऽनुपलभ्यवर्त्मने ॥ १२ ॥
  196. भूयो नमः सद्वृजिनच्छिदेऽसतां असम्भवायाऽखिलसत्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥
  197. स एष आत्माऽऽत्मवतामधीश्वर- स्त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभि- र्वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥
  198. नारद उवाच— देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद्विजानीहि यज्ज्ञानमात्मतत्वनिदर्शनम् ॥ १ ॥
  199. यद्रूपं यदधिष्ठानं यतः सृष्टमिदं विभो । यत्संस्थं यत्परं यच्च तत्तत्वं वद तत्वतः ॥ २ ॥
  200. यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥
  201. नाहं वेद परं त्वस्मात् नावरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥
  202. नानृतं बत तच्चापि यथा मां प्रब्रवीषि भोः । अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥
  203. नमस्तस्मै भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥
  204. विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥
  205. द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तात्वतः ॥ १४ ॥
  206. नारायणपरा वेदा देवा नारायणाङ्गजाः । नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥
  207. सत्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥
  208. कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥
  209. स एष भगवाल्लिङ्गैस्त्रिभिरेतैरधोक्षजः । स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ॥ २० ॥
  210. कालं कर्म स्वभावञ्च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥
  211. कालाद्गुणव्यतिकरात्परिणामस्वभावतः । कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ २२ ॥
  212. महतस्तु विकुर्वाणाद्रजस्सत्वोपबृंहितात् । तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥
  213. सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभोः ॥ २४ ॥
  214. तामसादपि भूतादेर्विकुर्वाणादभून्नभः । तस्य मात्रागुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ २५ ॥
  215. नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः । परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥
  216. वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥
  217. तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ॥ ३३ ॥
  218. वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् । कालकर्मस्वभावस्थोऽ)जीवोऽ)जीवमजीजनत् ॥ ३४ ॥
  219. स एष पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ॥ ३५ ॥
  220. यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः । ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥
  221. पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥
  222. रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी । कर्णौ दिशाञ्च तीर्थानां श्रोत्रमाकाशशब्दयोः ॥ ३ ॥
  223. रोमाण्युद्भिजजातीनां यैर्वा यज्ञस्तु सम्भृतः । केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥
  224. बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् । विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥
  225. धर्मस्य मम तुभ्यञ्च कुमाराणां भवस्य च । विज्ञानस्य च तत्वस्य परस्यात्मा परायणम् ॥ ११ ॥
  226. सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् । तेनेदमावृतं विश्वं वितस्तिमधितिष्ठता ॥ १५ ॥
  227. स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ १६ ॥
  228. सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥
  229. पादोऽस्य सर्वा भूतानि पुंसः स्थितिविदो विदुः । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥
  230. पादास्त्रयो बहिस्त्वासन्नप्रजानां य आश्रयाः । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधैर्बृहद्धुतः ॥ १९ ॥
  231. सृती विचक्रमे विष्वक्साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ २० ॥
  232. तस्मादण्डाद्विराड् जज्ञे भूतेन्द्रियगुणाश्रयः । तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवाश्रयम् ॥ २१ ॥
  233. यदास्य नाभ्यात् नलिनात् अहमासं महात्मनः । नाविन्दं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ २२ ॥
  234. नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः सङ्कल्पः सूत्रमेव च ॥ २५ ॥
  235. नारायणे भगवति तदिदं विश्वमाहितम् । गृहीतमायोरुगुणे सर्गादावगुणे स्वतः ॥ ३० ॥
  236. इति तेऽभिहितं तात यथेदमनुपृच्छसि । नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ ३२ ॥
  237. नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ॥ ३५ ॥
  238. स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्माऽऽत्मन्यात्मनाऽऽत्मानं स संयच्छति पाति च ॥ ३८ ॥
  239. विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् । सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥
  240. ऋतं विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तदैवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४० ॥
  241. आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराड् स्वराट्स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥
  242. अहं भवो यज्ञ इमे प्रजेशाः दक्षादयो ये भवदादयश्च । स्वर्लोकपालाः खगलोकपालाः नृलोकपालास्तललोकपालाः ॥ ४२ ॥
  243. गन्धर्वविद्याधरचारणेशाः ये यक्षरक्षोरगनागनाथाः । ये वा ऋषीणामृषभाः पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ॥ ४३ ॥
  244. अन्ये च ये प््रोतपिशाचभूतकूष्माण्डयादोमृगपश्वधीशाः । यत्किञ्च लोके भगवन्महस्वदोजः सहस्वद्बलवत्क्षमावत् । ह्रीश्रीविभूत्यात्मवदद्भुतार्णं तत्तत्परं रूपवदस्वरूपम् ॥४४॥
  245. प्राधान्यतो यानृषय आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्मकषायशोषान- नुक्रमिष्ये त इमान् सुपेशलान् ॥ ४५ ॥
  246. जातो रुचेरजनयत्सुयशाः सुयज्ञः आकूतिसूनुरमरानथ दक्षिणायाम् । लोकत्रयस्य महतीमहरद्य आर्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २ ॥
  247. अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद्भगवान्स दत्तः । यत्पादपङ्कजपरागपवित्रदेहा योगर्धिमापुरमयीं यदुहैहयाद्याः ॥ ४ ॥
  248. तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात्सुतपसस्तपतः स नोऽभूत् । प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्वं सम्यग्जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥
  249. धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । दृष्टात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६ ॥
  250. विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नपगतस्तपसे वनाय । तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
  251. यद्वेनमुत्पथगतं द्विजवाक्यवज्र- निष्पिष्टपौरुषभगं निरये पतन्तम् । ज्ञात्वार्थितो जगति पुत्रपदञ्च लेभे दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
  252. नाभेरसावृषभ आस सुदेविसूनुः यो वै चचार समदृग् हृदि योगचर्याम् । यत्पारमहंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १० ॥
  253. सत्रे ममास भगवान्हयशीर्ष एषः साक्षात् स यज्ञपुरुषस्तपनीयवर्णः । छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११ ॥
  254. मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः । विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
  255. स्मृत्वा हरिस्तमरणार्थिनमप्रमेयः चक्रायुधः पतगराजभुजाधिरूढः । चक्रेण नक्रवदनं विनिपाट्य तस्मात् हस्ते प्रगृह्य भगवान्कृपयोज्जहार ॥ १६ ॥
  256. नार्थो बलेरयमुरुक्रमपादशौचम् अम्भः शिवं धृतवतो विबुधाधिपत्यम् । यो वै प्रतिश्रुतमृतेऽपि च शीर्षमाणं आत्मन्यमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥
  257. तुभ्यञ्च नारदभृशं भगवान्वि- वृद्धभावेन साधु परितुष्ट उवाच योगम् । ज्ञानञ्च भागवतमात्मसुतत्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
  258. चक्रञ्च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं विदधत्स्वकीर्तिं सत्ये निविष्ट उशतीं प्रथयंश्चरित्रैः ॥ २० ॥
  259. कृत्स्नप्रसादसुमुखः कलया कलेशः इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन्वनं सदयितानुज आविवेश यस्मिन्विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
  260. यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद्दिधक्षोः । दूरेसुहृन्मथितरोषसुशोषदृष्ट्या तातप्यमानमकरोरगनक्रचक्रः ॥ २४ ॥
  261. वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह- दन्तैर्विलम्बितककुब्जयरूढहासः । सद्योऽसुभिः सह विनेष्यति दारहर्तुः विस्फूर्जितैर्धनुष उच्चरितैः ससैन्यः ॥ २५ ॥
  262. भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः । जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥
  263. तोकेन जीवहरणं यदुलूपिकायाः त्रैमासिकस्य च पदा शकटोऽपवृत्तः । यद्रिङ्गताऽन्तरगतेन दिविस्पृशोर्वा उन्मूलनन्त्वितरथाऽर्जुनयोर्न भाव्यम् ॥ २७ ॥
  264. तत्कर्म दिव्यमिव यन्निशि निःशयानं दावाग्निनाऽऽशु विपिने परिदह्यमाने । उन्नेष्यति व्रजमितोऽवसितान्तकालं नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः ॥ २९ ॥
  265. नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात् गोपान् बिलेषु पिहितान् मयसूनुना च । जल्प्यावृतं निशि शयानमतिश्रमेण लोके विकुण्ठ उपधास्यति गोकुलं सः ॥ ३१ ॥
  266. क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मुखः कलपदायतमूर्च्छितेन । उद्दीपितस्मररुजां व्रजसद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
  267. ये च प्रलम्बखरदर्दुरकेश्यरिष्ट- मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः । अन्येऽपि शाल्वकपिबल्वलदन्तवक्र- सप्तोक्षशंबरविडूरथरुग्मिमुख्याः ॥ ३४ ॥
  268. ये वा मृधे समितिशालिन आत्तचापाः काम्भोजमत्स्यकुरुसृञ्जयकैकयार्णाः । यास्यन्त्यदर्शनमिता बलपार्थभीम- व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥
  269. कालेन मीलितदृशामवमृश्य नॄणां स्तोकायुषां स्वनिगमो बत दूरपारः । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
  270. सर्गे तु योऽहमृषयो नव ये प्रजेशाः स्थानेऽथ धर्ममखमन्वमरावनीशाः । अन्ते त्वधर्महरमन्युवशासुराद्याः मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥
  271. नान्तं विदाम्यहममी मुनयः प्रजेशाः मायाबलस्य पुरुषस्य कुतोऽपरे ये । गायन् गुणान्दशशतानन आदिदेवः शेषोऽधुनाऽपि समवस्यति नास्य पारम् ॥ ४१ ॥
  272. येषां स एव भगवान्दययेदनन्तः सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् । ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ॥ ४२ ॥
  273. ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रमपरायणशीलशिक्षाः तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
  274. शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना ॥ ४७ ॥
  275. स श्रेयसामपि विभुर्भगवान्यतोऽस्य भावस्वभावविहितस्य सतः प्रसिद्धः । देहे स्वधातुविगमे तु विशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९ ॥
  276. सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ ५० ॥
  277. नृजन्मनि न तुष्येत किं फलं यमनश्वरे । कृष्णे यद्यपवर्गेशे भक्तिः स्यान्नानपायिनी ॥ ५३ ॥
  278. किं स्याद्वर्णाश्रमाचारैः किं दानैः किं तपःश्रुतैः । सर्वाघघ्नोत्तमश्लोके न चेद्भक्तिरधोक्षजे ॥ ५४ ॥
  279. पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । लोकैरमुष्यावयवाः सपालैरिति शुश्रुमः ॥ ११ ॥
  280. यस्मिन्कर्मसमावापो यथा येनोपगृह्यते । गुणानां गुणिनां चैव परिमाणं सुविस्तरम् ॥ १४ ॥
  281. नृणां साधारणो धर्मः सविशेषश्च यादृशः । श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥
  282. तत्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिः योगस्याऽध्यात्मिकस्य च ॥ १९ ॥
  283. योगेश्वरैश्वर्यगतिं लिङ्गभङ्गं च योगिनाम् । वेदोपवेदधर्माणामितिहासपुराणयोः ॥ २० ॥
  284. यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । विसृज्य च यथा मायामुदास्ते साक्षिवद्विभुः ॥ २३ ॥
  285. अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः । अपरे ह्यनुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥
  286. सूत उवाच— स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥
  287. आह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥
  288. श्रीशुक उवाच— आत्ममायामृते राजन् परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्ने द्रष्टुरिवाञ्जसा ॥ १ ॥
  289. बहुरूप इवाऽभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥
  290. यर्हि चायं महित्वे स्वे परस्मिन्कालमाययोः । रमते गतसंमोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥
  291. आत्मतत्वविशुध्यर्थं यदाह भगवानृतम् । ब्रह्मणेऽदर्शयद्रूपमव्यलीकव्रतादृतः ॥ ४ ॥
  292. दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः । अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥ ८ ॥
  293. तस्मै स्वलोकं भगवान्सभाजितः सन्दर्शयामास परं न यत् पदम् । व्यपेतसंक्लेशविमोहसाध्वसं सन्दृष्टवद्भिर्विबुधैरभिष्टुतम् ॥ ९ ॥
  294. न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरे- रनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥
  295. श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प््रोङ्खश्रिता याः कुसुमाकरानुगै- र्विगीयमाना प््रिायकर्म गायती ॥ १३ ॥
  296. ददर्श तत्राखिलसात्वतां पतिं श्रियःपतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेवितं विभुम् ॥ १४ ॥
  297. अध्यर्हणीयासनमास्थितं विभुं वृतं चतुष्षोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन्रममाणमीश्वरम् ॥ १६ ॥
  298. मनीषितानुभावोऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥
  299. प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षादात्माऽऽहं तपसोऽनघ ॥ २२ ॥
  300. सृजामि तपसैवेदं ग्रसामि तपसा पुनः । बिभर्मि तपसा विश्वं वीर्यं मे दुस्तरं तपः ॥ २३ ॥
  301. भगवानुवाच– ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३० ॥
  302. अहमेवासमग्रे च नान्यद्यत्सदसत् परम् । पश्चादहं त्वमेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥
  303. ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ३३ ॥
  304. यथा महान्ति भूतानि भूतेषूच्चावचेषु च । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥
  305. एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः । अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ३५ ॥
  306. अन्तर्हितेन्द्रियार्थाय हरयेऽवहिताञ्जलिः । सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥
  307. मायां विविदिषुर्विष्णोः मायेशस्य महामुनिः । महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥
  308. नारदः प्राह मुनये सरस्वत्यास्तटे नृप । ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४४ ॥
  309. यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् । यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥ ४५ ॥
  310. भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ ३ ॥
  311. निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः । मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ॥ ६ ॥
  312. आभासश्च निरोधश्च यतस्तत्त्रयमीयते । स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥
  313. आध्यात्मिको यः पुरुषः सोऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः ॥ ८ ॥
  314. एतदेकतमाभावे यदा नोपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥
  315. पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः । आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ १० ॥
  316. तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११ ॥
  317. एको नानात्वमन्विच्छन्योगतल्पात्समुत्थितः । वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा ॥ १३ ॥
  318. उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥
  319. एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥
  320. अतःपरं सूक्ष्मतममव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ्मनसोः परम् ॥ ३४ ॥
  321. अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टेऽविपश्चितः ॥ ३५ ॥
  322. स वाच्यवाचकतया भगवान्ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माऽकर्मकः परः ॥ ३६ ॥
  323. प्रजापतीन् मनून् देवानृषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥
  324. सत्वं रजस्तम इति तिस्रः सुरनृनारकाः । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ॥ ४१ ॥
  325. यदैवैकतमो अन्याभ्यां स्वभाव उपहन्यते । तदैवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः ॥ ४२ ॥
  326. ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः । सन्नियच्छति तत्काले घनानीकमिवानिलः ॥ ४३ ॥
  327. इत्थम्भावेन कथितो भगवान् भगवत्तमः । नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥ ४४ ॥
  328. न चास्य जन्मकर्माणि परस्य न विधीयते । कर्तृत्वं प्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥ ४५ ॥
  329. अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥
  330. श्रीशुक उवाच– एवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥
  331. यदा त्वयं मन्त्रकृद् वो भगवानखिलेश्वरः । पौरवेन्द्रपुरं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥
  332. श्रीशुक उवाच– यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टदृष्टिः । भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥
  333. यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयामास नृपः स्नुषाया और्हरन्त्याः कुचकुङ्कुमानि ॥ ७ ॥
  334. इत्थं व्रजन् भारतमेव वर्षं कालेन यावद् गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रा- मेकातपत्रामजितेन पार्थः ॥ २० ॥
  335. तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निनाऽऽश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥
  336. अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्कमुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति ॥ २३ ॥
  337. कच्चित् पुराणौ पुरुषौ स्वनाभ्य- पद्मानुवृत्त्येह कलावतीर्णौ । आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥
  338. कच्चित् कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः । यो वै स्वसॄणां पितृवद् ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥
  339. कच्चित् सुखं सात्वतवृष्णिभोज- दाशार्हकाणामधिपः सः आस्ते । यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाधिं परिहृत्य दूरात् ॥ २९ ॥
  340. किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद् दीर्घतमं व्यमुञ्चत् । यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥
  341. अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । न त्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥
  342. यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः । कार्त्स्न्येन चात्रोपगतं विधातु- रर्वाक् सृतौ कौशलमित्यमन्यत ॥ १३ ॥
  343. मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् । ये संयुगेऽचक्षत तार्क्षपुत्र- स्यांसे सुनाभायुधमापतन्तम् ॥ २४ ॥
  344. समाहुता भीष्मककन्यया ये श्रियः सवर्णेन जिहीर्षयैषाम् । गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूधर्ि्न दधत् सुपर्णः ॥ ३ ॥
  345. तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः । एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥
  346. भगवानपि विश्वात्मा लोकवेदपथानुगः । कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९ ॥
  347. तस्येत्थं रममाणस्य संवत्सरगणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥
  348. दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् । को विश्रंभेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥
  349. ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः । ययुः प्रभासं संहृष्टा रथैर्दैवविमोहिताः ॥ २५ ॥
  350. तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा । तर्पयित्वाऽथ विप््रोभ्यो गावो बहुगुणा ददुः ॥ २६ ॥
  351. हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् । हयान् रथानिभान् कन्यां धरां वृत्तिकरीमपि ॥ २७ ॥
  352. अन्नं चोरुरसं तेभ्यो दत्वा भगवदर्पणम् । गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥
  353. उद्धव उवाच– भगवानात्ममायाया गतिं तामवलोक्य सः । सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥
  354. अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥
  355. अथापि तदभिप््रोतं जानन्नहमरिंदम । पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥
  356. राजोवाच– निधनमुपगतेषु वृष्णिभोजे- ष्वधिरथयूथपयूथपेषु मुख्यः । स तु कथमवशिष्ट उद्धवो यद् हरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥
  357. शुक उवाच– ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥
  358. नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः । अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥
  359. परावरेषां भगवन् कृतानि श्रुतानि मे व्यासमुखादभीक्ष्णम् । न तृप्नुमः कर्णसुखावहानां तेषामृते कृष्णकथामृतौघात् ॥ १० ॥
  360. मुनिर्विवक्षुर्भगवद्गुणानां सखाऽपि ते भारतमाह कृष्णः । यस्मिन् नृणां ग्राम्यसुखानुवादै र्मतिर्गृहीता न हरेः कथायाम् ॥ १२ ॥
  361. सा श्रद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः । हरेः सदाऽनुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥
  362. मैत्रेय उवाच– भगवानेक आसेदमग्र आत्मात्मनां विभुः । आत्मेच्छानुगतो ह्यात्मा नानाशक्त्युपलक्षितः ॥ १ ॥
  363. स वा एष तदा द्रष्टा नापश्यद् विश्वमेकराट् । मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥ २ ॥
  364. सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः । आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ ६ ॥
  365. कालमायांशयोगेन भगवद्वीक्षितं नभः । तामसानुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ११ ॥
  366. अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः । ससर्ज रूपतन्मात्रां ज्योतिर्लोकस्य लोचनम् ॥ १२ ॥
  367. अनिलेनान्वितं ज्योतिर्विकुर्वत् परवीक्षितम् । आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ १३ ॥
  368. ज्योतिषाऽम्भोऽनुसंसृष्टं विकुर्वत् परवीक्षितम् । महीं गन्धगुणामाधात् कालमायांशयोगतः ॥ १४ ॥
  369. एते देवाः कला विष्णोः कालमायांशलिङ्गिनः । नानात्वात् स्वक्रियानीशाः प्रचुः प्रञ्जलयो विभुम् ॥ १६ ॥
  370. ऋते यदस्मिन् भव ईश जीवा- स्तापत्रयेणाभिहता न शर्म । आत्मल्लभन्ते भगवंस्तवाङ्घ्रि- च्छायांशविद्यामत आश्रयेम ॥ १८ ॥
  371. मार्गन्ति यत् ते मुखपद्मनीडै- श्छन्दःसुपर्णैर्ऋषयो विविक्ते । यच्चाघमर्षो द्युसरिद्धरायाः परं पदं तीर्थपदः प्रपन्नाः ॥ १९ ॥
  372. तथापरे त्वात्मसमाधियोग- बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥ २५ ॥
  373. तत् ते वयं लोकसिसृक्षयाऽद्य त्वया विसृष्टास्त्रिभिरात्मभिर्ये । सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत् प्रतिकर्तवे ते ॥ २६ ॥
  374. ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते । त्वं नः स चक्षुः परिदेहि शक्ता देव क्रियार्थे यदनुग्रहेण ॥ २९ ॥
  375. ऋषिरुवाच– इति तासां स्वशक्तीनामसतीनां समेत्य सः । प्रसुप्तलोकतन्त्राणां निशम्य गिरमीश्वरः ॥ १ ॥
  376. कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः । त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ २ ॥
  377. सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् । भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥
  378. प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः । प््रोरितोऽजनयत् स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४ ॥
  379. स वै विश्वसृजां गर्भो दैवकर्मात्मशक्तिमान् । विबभाजाऽत्मनाऽत्मानमेकधा दशधा त्रिधा ॥ ७ ॥
  380. एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः । आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥
  381. साध्यात्मं साधिदैवं च साधिभूतमिति त्रिधा । विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥
  382. निर्भिन्नान्यथ चर्माणि लोकपालोऽनिलोऽविशत् । प्राणोनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥
  383. आत्मानं चास्य निर्भिन्नं वाचस्पतिरुपाविशत् । बुद्ध्या स्वांशेन येनासौ निश्चयं प्रतिपद्यते ॥ २४ ॥
  384. अहं चास्य विनिर्भिन्नमभिमानोऽविशत् पदम् । कर्त्रा सस्वांशेन येनासौ कर्तव्य प्रतिपद्यते ॥ २५ ॥
  385. सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् । चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥
  386. मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । यत्रोन्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥
  387. बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः । यो जातस्त्रायते वर्णान् पुरुषान् कण्टकक्षतात् ॥ ३१ ॥
  388. विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः । वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥
  389. पद्भ्यां भगवतो जज्ञे शुश्रूषाकर्मसिद्धये । तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥
  390. एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः । कः श्रद्दध्यादुदाहर्तुं योगमायाबलोदयम् ॥ ३५ ॥
  391. अतो भगवतो मायां मायिनामपि मोहिनीम् । यत् स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥
  392. यतोऽप्राप्य निवर्तन्ते वाचश्च मनसा सह । अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ ४० ॥
  393. क्रीडाया मुद् यतोऽर्हस्य कामं चिक्रीडिषाऽन्यतः । स्वतस्तृप्तस्य तु कथं निर्वृतस्य सदात्मनः ॥ ३ ॥
  394. देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥
  395. भगवानेष एवैकः सर्वक्षेत्रेष्ववस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥
  396. मैत्रेय उवाच– सेयं भगवतो माया न्याय्यं येन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥
  397. यथाऽर्थेन विनाऽमुष्य पुंस आत्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥
  398. यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः । दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥ ११ ॥
  399. स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥
  400. यदेन्द्रियोपरामार्थो दृष्टात्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥
  401. विदुर उवाच– सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥
  402. साधु तद् व्याहृतं विद्वन्नात्ममायायनं हरेः । आभात्यपार्थं निर्मूलं विश्वमूलं न यद् बहिः ॥ १६ ॥
  403. यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥
  404. अर्थाभावं विनिश्चित्य प्रतीतस्याप्यनात्मनः । तां चापि युष्मच्चरणसेवयाऽहं पराणुदे ॥ १८ ॥
  405. दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥
  406. सृष्ट्वाऽग्रे महदादीनि सविकाराण्यनुक्रमात् । तेभ्यो विराजमुद्धृत्य तमनु प्राविशद् विभुः ॥ २१ ॥
  407. यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् । यत्र विश्व इमे लोकाः सविकाराः समासते ॥ २२ ॥
  408. यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् । त्वयेरिता यतो वर्णास्तद्विभूतीर्वदस्व नः ॥ २३ ॥
  409. यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः । प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥
  410. स्वमेव धिष्ण्यं बहुमानयन्तं यं वासुदेवाभिधमामनन्ति । प्रत्यक्धृताक्षाम्बुजकोशमीषद् उन्मीलयन्तं विबुधोदयाय ॥ ४ ॥
  411. स पद्मकोशः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधितेन । स्वरोचिषा तत् सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः ॥ १४ ॥
  412. तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत् सर्वगुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयंभुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥
  413. क एष योऽसावहमब्जपृष्ठ एतत् कुतो वाऽब्जमनन्यदप्सु । अस्ति ह्यधस्तादिह किञ्चनैतद् अधिष्ठितं यत्र सताऽनुभाव्यम् ॥ १८ ॥
  414. पुंसां स्वकामाय विविक्तमार्गै- रभ्यर्चतां कामदुघाङ्घ्रिपद्मम् । प्रदर्शयन्तं कृपया नखेन्दु- मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥
  415. परार्घ्यकेयूरमणिप्रवेक- पर्यस्तदोर्दण्डसहस्रशाखम् । अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्रभोगैरधिवीतवल्कम् ॥२९ ॥
  416. निवीतमाम्नायमधुव्रताश्रयस्वकीर्तिमय्या वनमालया हरिम् । सूर्येन्दुवाय्वग्न्यगमत्त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१ ॥
  417. ब्रह्मोवाच– ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम् । नान्यत् त्वदस्ति भगवन्नपि तत्त्वशुद्धं मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥
  418. रूपं यदेतदवबोध रसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम् ॥ २ ॥
  419. नातः परं परम यद् भवतः स्वरूप मानन्दमात्रमविकारमविद्धवर्चः । पश्यामि विश्वसृजमेकमविश्वमाद्यं भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥
  420. ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् । भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम् ॥ ५ ॥
  421. यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थं मायाबलं भगवतो जन ईश पश्येत् । तावच्च संसृतिरसौ प्रतिसङ्क्रमेत व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥
  422. अध्याहृतार्थकरणा निशि निःशयाना नानामनोरथधियः क्षणभङ्गनिद्राः । दैवाद्धतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥
  423. त्वद्भावयोगपरिभावितहृत्सरोजा ये सच्छ्रुतेक्षितपथा ननु नाथ पुंसाम् । यद् यद् धिया त उरुगाय विभावयन्ति तत् तद् वपुः प्रणयसे तदनुग्रहाय ॥ ११ ॥
  424. नातिप्रसीदसि तथोपचितोपचारै राराधितः सुरगणैर्हृदि बद्धकामैः । यः सर्वभूतदययाऽसदलभ्ययैको नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥
  425. शश्वत् स्वरूपमहसैव निपीतभेद मोहाय बोधधिषणाय नमः परस्मै । विश्वोदयस्थितिलयेषु निमित्तलीलाऽऽ- रामाय ते नम इदं चकृमेश्वराय ॥ १४ ॥
  426. यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति । ते नैकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १५ ॥
  427. यो वा अहं च गिरिशश्च विभुः स्वयं च स्थित्युद्भवप्रलयहेतव आत्ममूलाः । भूत्वा त्रिपाद् ववृध एक उरुप्ररोह- स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥
  428. लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥
  429. तिर्यङ्मनुष्यविबुधादिषु जीवयोनि- ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः । रेमेऽनिरस्तरतिरप्युपलब्धकाष्ठ- स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥
  430. एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या यद् यत् करिष्यति गृहीतगुणावतारः । तस्मिन् स्वविक्रम इदं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥
  431. लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः । तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥
  432. श्री भगवानुवाच– मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह । तन्मया चोदितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥
  433. भूयश्च तप आतिष्ठ विद्यां चैव मदाश्रयाम् । ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् ॥ ३० ॥
  434. तत आत्मनि योगेन भक्तियुक्तः समाहितः । द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनि ॥ ३१ ॥
  435. यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥
  436. ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् । यन्मां त्वं मन्यसे युक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥
  437. प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया । यदस्तौषीद् गुणमयं निर्गुणं माऽनुवर्णयन् ॥ ३९ ॥
  438. पूर्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना । राज्यं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१ ॥
  439. अहमात्मात्मनां धातः प््रोष्ठः सन् प््रोयसामपि । अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प््रिायः ॥ ४२ ॥
  440. मैत्रेय उवाच– विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः । आत्मन्यात्मानमावेश्य यथाऽऽह भगवानजः ॥ ४ ॥
  441. एतावान् जीवलोकस्य संस्थाभेदः समासतः । धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥
  442. विदुर उवाच– यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः । कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥
  443. मैत्रेय उवाच– गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः । पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत् ॥ ११ ॥
  444. विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥
  445. यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् । सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥
  446. कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः । आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्वितीयस्त्वहमस्तत्र द्रव्यज्ञानक्रियादयः ॥ १४ ॥
  447. भूतसर्गस्तृतीयस्तु तन्मात्रद्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १५ ॥
  448. षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः । षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥
  449. रजोभाजो भगवतो लीलेयं हरिमेधसः । सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥
  450. वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः । उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥
  451. तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः । अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥
  452. गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥
  453. खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । एते चैकशफाः क्षत्तः शृृणु पञ्चनखान् पशून् ॥ २२ ॥
  454. श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्यकौ । सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥
  455. कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः । हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥
  456. अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥
  457. वैकृतास्त्रय एवैते देवसर्गश्च सत्तम । वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥
  458. देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः । गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥
  459. भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः । दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥
  460. अतः परं प्रवक्ष्यामि वंशान् मन्वतराणि च । एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । सृजत्यमोघसङ्कल्प आत्मैवाऽत्मानमात्मना ॥ २९ ॥
  461. मैत्रेय उवाच– चरमस्तु विशेषाणामनेकांशायुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥
  462. सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहानविशेषो निरन्तरः ॥ २ ॥
  463. एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थानभुक्त्या भगवानव्यक्तोऽव्यक्तभुग् विभुः ॥ ३ ॥
  464. स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतोऽविशेषभुग् यस्तु स कालः परमो महान् ॥ ४ ॥
  465. अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥
  466. लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तं प्रहरः षड् यामः सप्त वा नृणाम् ॥ ८ ॥
  467. द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः । स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलं पिबेत् ॥ ९ ॥
  468. यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे । पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥
  469. ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् । संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥
  470. संवत्सरः परिवत्सर इडावत्सर एव च । अनुवत्सरो वत्सरश्च विदुरेवं प्रभाष्यते ॥ १४ ॥
  471. यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या पुंसोऽभ्रमाय दिवि धावति भूतभेदः । कालाख्यया गुणमयीं क्रतुभिर्वितन्वं- स्तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥
  472. निशावसान आरब्धो लोककल्पोऽनुवर्तते । यावद् दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥
  473. स्वं स्वं कालं मनुर्भुङ्क्ते साधिका ह्येकसप्ततिः । मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः । भवन्ति चैते युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥
  474. तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः । कालेनानुगतः शेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥
  475. एवंविधैरहोरात्रैः कालगत्योपलक्षितैः । अपेक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥
  476. कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७ ॥
  477. कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईरितः । नैवेष्टे स प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥
  478. विकारैः षोडशैर्युक्तो विशेषादिभिरावृतः । अण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥
  479. दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् । लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥
  480. यमाहुरक्षरं ब्रह्म सर्वकारणकारणम् । विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥
  481. ससर्जाग्रेऽथ तामिस्रमन्धतामिस्रमादिकृत् । महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥
  482. दृष्ट्वा पापीयसीं सृष्टिं नाऽत्मानं बह्वमन्यत । भगवद्ध्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥ ३ ॥
  483. सनकं च सनन्दं च सनातनमथाऽत्मभूः । सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ॥ ४ ॥
  484. स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् । प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदा । तां दिशो जगृहुर्घोरां नीहारं यद् विदुस्तमः ॥ ३३ ॥
  485. कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ॥ ३४ ॥
  486. मैत्रेय उवाच– ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ ३७ ॥
  487. इतिहासपुराणं च पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥
  488. तपः शौचं दया सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यमसृजत् सह वृत्तिभिः ॥ ४१ ॥
  489. सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा । वार्ताऽसञ्चयशालीनं शिलोंञ्छ इति वै गृहे ॥ ४२ ॥
  490. वैखानसा वालखिल्योदुम्बराः फेनपा वने । न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियौ ॥ ४३ ॥
  491. आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च । एवं व्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ ४४ ॥
  492. स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः । ऊष्माण इन्द्रियाण्याहुरन्तस्था बलमात्मनः ॥ ४६ ॥
  493. स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः । शब्दब्रह्मात्मनस्तात व्यक्ताव्यक्तात्मनः प्रभोः ॥ ४७ ॥
  494. ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् । ज्ञात्वा तद् हृदये भूयश्चिन्तयामास कौरव ॥ ४९ ॥
  495. अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा । न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५० ॥
  496. एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा । कस्य रूपमभूद् द्वेधा यत् कायमभिचक्षते ॥ ५१ ॥
  497. तद् विधेहि नमस्तुभ्यं कर्मस्विज्यात्मशक्तिषु । यत् कृत्वेह यशो विष्वगमुत्र च भवेद् गतिः ॥ ८ ॥
  498. स्वदंष्ट्रयोद्धृत्य महीं विलग्नां स उत्थितः संरुरुहे रसायाः । तत्रापि दैत्यं गदयाऽऽपतन्तं सुनाभसन्दीपिततीव्रमन्युः ॥३३॥
  499. जघान रुन्धानमसह्यविक्रमः सलीलयेभं मृगराडिवाम्भसि । तद्रक्तपङ्काङ्किततुण्डगण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३४ ॥
  500. ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च मायया । आज्ञाकरी तस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥
  501. मैत्रेय उवाच– श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् । पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन्महामनाः ॥ ५० ॥
  502. वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः । ये नित्यमनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥
  503. वैमानिकाः सललनाश्चरितानि यत्र गायन्ति लोकशमलक्षपणानि भर्तुः । अन्तर्जले तु विलसन्मधुमाधवीनां गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७ ॥
  504. पारावतान्यभृतसारसचक्रवाक- दात्यूहहंसशुकतित्तिरबर्हिणाद्यैः । कोलाहले विरचिते चिरमात्रयोच्चै- र्भृङ्गाधिपे हरिकथामनुगायमाने ॥ १८ ॥
  505. मन्दारकुन्दकुरबोत्पलचम्पकोर्ण- पुन्नागनागबकुलाम्बुजपारिजाताः । गन्धेऽर्चिते तुलसिकाभरणेन तस्या यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥ १९ ॥
  506. यन्न व्रजन्त्यघभिदोरचनानुवादाः शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तवीर्या- स्तास्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३ ॥
  507. येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्म यत्र । नाराधनं भगवतो वितरन्त्यमुष्य संमोहिता विततया ननु मायया ते ॥ २४ ॥
  508. मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयाऽसितचतुष्टयबाहुमध्ये । वक्त्रभ्रुवा कुटिलया स्फुटनिर्गतेन रक्तेक्षणेन च मनाग् रभसं दधानौ ॥ २८ ॥
  509. तान् वीक्ष्य वातरशनांश्चतुरः कुमारान् वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् । वेत्रेण चास्खलयतामतदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३० ॥
  510. को वा इहैत्य भगवत्परिचर्ययोच्चै- स्तद्धर्मिणामपि सतां विषमस्वभावः । तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां को वाऽत्मवत् कुहकयोः परिशङ्कनीयः ॥ ३२ ॥
  511. न ह्यन्तरं भगवतीह समस्तकुक्षा- वात्मानमात्मनि नभो नभसीव धीराः । पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥
  512. तद् वा अमुष्य परमस्य विकुण्ठभर्तुः कर्तुं न युक्तमिति धीमहि मन्दधीभ्याम् । लोकानितो व्रजतमन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥
  513. भूयानघाद्धि भगवद्भिरकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम् । मा वोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६ ॥
  514. तं त्वागतं प्रतिहृतौपयिकं स्वपुंभि- स्तेऽचक्षताक्षविषयं स्वसमाधिगम्यम् । हंसश्रियोर्व्यजनयोः शिववायुलोल शुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥
  515. कृत्स्नप्रसादसुमुखं स्पृहणीयधाम स्नेहावलोककलया हृदि संस्पृशन्तम् । श्यामे पृथावुरसि शोभितया श्रिया स्व ग्रीवामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥
  516. अत्रोपसृष्टमिति चोत्स्मितमिंदिरायाः स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् । मह्यं भवस्य भवतां भजनीयमङ्गं नेमुर्निरीक्ष्य नवितृप्तदृशो मुदा कैः ॥ ४२ ॥
  517. तस्यारविन्दनयनस्य पदारविन्द- किञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३ ॥
  518. नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किं चान्यदर्पितभयं भ्रुव उन्नयैस्ते । येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८ ॥
  519. कामं व्रजेम वृजिनैर्निरयेषु नष्टा श्चेतोऽलिवद् यदि नु ते पदयो रमेत । वाचश्च नस्तुलसिवद् यदि तेऽङ्घ्रिशोभाः पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९ ॥
  520. तद् वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे । तद्ध्येवात्मकृतं मन्ये यत् स्वपुंभिरसत्कृताः ॥ ४ ॥
  521. यस्यामृतामलयशः श्रवणावगाहः सद्यः पुनाति जगदाश्वपचं विकुण्ठः । सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्ति- श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥
  522. यत्सेवया चरणपद्मपवित्ररेणोः सद्यः क्षताखिलमलं प्रतिलब्धशीलम् । न श्रीर्विरक्तमपि मां विजहाति यस्याः प््रोक्षालवार्थमितरे नियमोऽर्हते मत् ॥ ७ ॥
  523. ब्रह्मोवाच– अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् । आस्वाद्य मन्युदष्टानां तेषामात्माऽप्यतृप्यत ॥ १३ ॥
  524. ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् । प्रचुः प्रञ्जलयो विप्र प्राहृष्टाः कम्पितत्वचः ॥ १५ ॥
  525. त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव । धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ १८ ॥
  526. यं वै विभूतिरुपयात्यनुवेलमन्यै- रर्थार्थिभिः स्वशिरसा धृतपादरेणुः । धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥
  527. यस्तां विविक्तचरितैरनुवर्तमानां नात्याद्रियत् परमभागवतप्रसङ्गः । स त्वं द्विजानुपथपुण्यरजःपुनीतिः श्रीवत्सलक्ष्म किमगा भगभाजनत्वम् ॥ २१ ॥
  528. धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद्भिश्चराचरमिदं द्विजदेवतार्थम् । नूनं भृतं तदभिघातिरजस्तमश्च सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥
  529. न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृष स्वर्हणेन सुसूनृतेन । तर्ह्येव नङ्क्षयति शिवस्तव देव पन्थाः लोकोऽग्रहीष्यदृषभस्य हि यत् प्रमाणम् ॥ २३ ॥
  530. तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्धृतारेः । नैतावता त्र्यधिपतेर्बत विश्वभर्तु- स्तेजःक्षतिस्त्ववनतस्य स ते विनोदः ॥ २४ ॥
  531. भगवानुवाच– एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्यनुबद्धयोगौ । भूयः सकाशमुपयास्यत आशु यो वः शापो मयैव विहितस्तदवैत विप्र ॥ २६ ॥
  532. ब्रह्मोवाच– भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥
  533. मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥
  534. ववौ वायुः सुदुस्पर्शः फट्काराराववान् मुहुः । उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥
  535. अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् । सृगाला अपि टङ्कारैः प्रणेदुरशिवाः शिवाः ॥ ९ ॥
  536. खरोष्ट्राः कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् । खात्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥
  537. तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् । वैजयन्त्या स्रजा जुष्टमसंन्यस्तमहागदम् ॥ २१ ॥
  538. मनोवीर्यमदोत्सिक्तमधृष्यमकुतोभयम् । भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२ ॥
  539. तयोः स्पृधोः स्निग्धगदाहताङ्गयोः क्षतस्रवाघ्राणविवृद्धयुद्धयोः । विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९ ॥
  540. दैत्यस्य यज्ञावयवस्य मायया गृहीतवाराहतनोर्महात्मनः । कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट् ॥ २० ॥
  541. आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम् । विलक्ष्य दैत्यं भगवान् सहस्रणी र्जगाद नारायणमादिसूकरम् ॥ २१ ॥
  542. एषा घोरतमा सन्ध्या लोकशम्बट्करी प्रभो । उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥
  543. अधुनैवाभिजिन्नाम योगो मौहूर्तिकोऽभ्यगात् । शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७ ॥
  544. गदायामपविद्धायां हाहाकारे च निर्गते । मानयामास तद्धर्मं सुनाभं चास्मरद् विभुः ॥ ५ ॥
  545. मैत्रेय उवाच– दैवेन दुर्वितर्क्येण परेणानिमिषेण च । जातक्षोभाद् भगवतो महानासीद् गुणत्रयात् ॥ १२ ॥
  546. रजः प्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् । जातः ससर्ज भूतादिर्वियदादीनि पञ्च च ॥ १३ ॥
  547. सोऽशयिष्टाधिसलिल आण्डकोशो निरात्मकः । साग्रं वै वर्षसाहस्रमन्ववात्सीत् तमीश्वरः ॥ १५ ॥
  548. सोऽनुविष्टो भगवता यः शेते सलिलाशये । लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥
  549. देवस्तानाह संविग्नो मा मा जक्षत रक्षत । अहो मे यक्षरक्षांसि प्रजा यूयं भविष्यथ ॥ २१ ॥
  550. देवताः प्रभया या या दिव्याः प्रमुखतोऽसृजत् । तेऽहार्षुर्देवयन्तोऽपि विसृष्टां तां प्रभामहः ॥ २२ ॥
  551. देवोऽदेवान् जघनतः सृजति स्मातिलोलुपान् । त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥
  552. ततो हसन् स भगवानसुरैर्निरपत्रपैः । अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥
  553. सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः । विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥
  554. ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः । साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः ॥ ४२ ॥
  555. स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः । तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥
  556. तेभ्यः स व्यसृजद् देहं परः पुरुष आत्मनः । तां दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥
  557. तपसा विद्यया युक्तो योगेन सुसमाधिना । आदावृषीन् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥
  558. तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥ ८ ॥
  559. न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्ठिपर्व । षण्णेम्यनन्तच्छिदि यत् त्रिनाभि करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥
  560. नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालनी ॥ ५० ॥
  561. योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लात्मने नमः ॥ ५१ ॥
  562. कामः स भूयान्नरदेव तेऽस्याः पुत्र्याः समाम्नायविधौ प्रतीतः । क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥
  563. बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता । न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥
  564. कुशकाशास्त एवासंल्लसद्धरितवर्चसः । ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥
  565. अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः । शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥
  566. शारीरा मानसा दिव्याः पर्यासे ये च मानुषाः । भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥
  567. द्वास्सु विद्रुमदेहल्या भातं वज्रकपाटिमत् । शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिष्ठितम् ॥ १८ ॥
  568. हंसपारावतव्रातैस्तत्र तत्र निकूजितम् । कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च ॥ २० ॥
  569. अथाऽदर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् । विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥
  570. तस्मिंन्नलुप्तमहिमा प््रिाययाऽनुषक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने । बभ्राज उत्कचक उद्गुणपानवीच्य- स्ताराभिरावृत इवोडुपतिर्नभस्स्थः ॥ ३८ ॥
  571. तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता । न चाबुद्ध्यत तं कालं पत्याऽऽवीच्येन सङ्गता ॥ ४५ ॥
  572. मैत्रेय उवाच– निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः । दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥
  573. तस्यां बहुतिथे काले भगवान् मधुसूदनः । कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥
  574. भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् । तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥
  575. अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः । लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥
  576. स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् । विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
  577. तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव । यानि यानीह रोचन्ते स्वजनानामरूपिणः ॥ ३१ ॥
  578. परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् । आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥३३॥
  579. श्री भगवानुवाच– मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके । अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥
  580. विश्वमेतद्धि शास्त्रेण विज्ञायात्मानमीश्वरम् । मुनिः शान्तमनोवाक्यस्तदा नाऽख्यात्युपप्लवः ॥ ४० ॥
  581. निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् । प्रत्यग्रः शान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४५ ॥
  582. आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् । अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥
  583. वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४७ ॥
  584. तं त्वा गताऽहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् । जिज्ञासया प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥
  585. भगवानुवाच– योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥
  586. अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः । वीतं यदाऽऽत्मनः शुद्धमदुःखमसुखं समम् ॥ १६ ॥
  587. तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयञ्ज्योतिरणिमानमखण्डितम् ॥ १७ ॥
  588. ज्ञानवैराग्ययुक्तेन भक्तियोगेन चात्मना । परिपश्यत्युदासीनां प्रकृतिं च हतौजसम् ॥ १८ ॥
  589. मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ २२ ॥
  590. मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधांस्तापानैकात्म्यगतचेतसः ॥ २३ ॥
  591. मैत्रेय उवाच– विदित्वाऽर्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाऽभिजातः । तत्त्वाऽम्नायं यत् प्रवदन्ति साङ्ख्यं प्रावोचद् वै भक्तिवितानयोगम् ॥ ३१ ॥
  592. भगवानुवाच– देवानां गुणलिङ्गानामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥
  593. अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥
  594. नैकात्म्यतां मे स्पृहयन्ति केचिन्- मत्पादसेवाभिरता मदीहाः । येऽन्योन्यतो भागवताः प्रसज्य सम्भाजयन्ते मम पौरुषाणि ॥ ३४ ॥
  595. न कर्हिचिन्मत्पराः शान्तरूपा नङ्क्षयन्ति मे नोऽनिमिषो लेढि हेतिः । येषामहं प््रिाय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥
  596. न जातो न म्रियेताऽत्मा स हि देहाद्युपाधिभिः । निमित्तैरात्ततद्धर्मा यथा स्वप्ने तदीक्षिता ॥ ४ ॥
  597. स एव प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः । यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ५ ॥
  598. गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ६ ॥
  599. एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ७ ॥
  600. तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् । भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ८ ॥
  601. कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषः प्रकृतेः परः ॥ ९ ॥
  602. भगवानुवाच– यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ ११ ॥
  603. मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १५ ॥
  604. एतावानेव संख्यातो ब्रह्मणः सगुणस्य हि । सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १६ ॥
  605. प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् । अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १७ ॥
  606. दैवात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं साऽसूत महत्तत्त्वं हिरण्मयम् ॥ २० ॥
  607. विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः । स्वतेजसाऽपिबत् तीव्रमात्मप्रस्वापनं तमः ॥ २१ ॥
  608. यत् तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २२ ॥
  609. स्वच्छत्वमविकारित्वं शान्तत्त्वमिति चेतसः । वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा ॥ २३ ॥
  610. महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् । क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २४ ॥
  611. वैकारिकोऽधिदैवं तु बुद्धिः प्राणश्च तैजसः । तामसस्त्वर्थमात्रं च गुणव्यतिकरस्त्रिवृत् ॥ २६ ॥
  612. सहस्रशिरसं साक्षाद् यमनन्तं प्रचक्षते । संकर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २७ ॥
  613. कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्तघोरविमूढत्वमिति वा स्यादहंकृतेः ॥ २८ ॥
  614. तैजसात् तु विकुर्वाणाद् बुद्धितत्त्वमभूत् सति । द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहात् ॥ ३१ ॥
  615. संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ ३२ ॥
  616. तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः । प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३३ ॥
  617. तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् । शब्दमात्रमभूत् तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३४ ॥
  618. अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च । तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३५ ॥
  619. नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः । स्पर्शोऽभवत् ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३७ ॥
  620. चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः । सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३९ ॥
  621. द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च । तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ४१ ॥
  622. क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोन्दनम् । तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४५ ॥
  623. भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् । सर्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४८ ॥
  624. ततस्तेनानुविद्धेभ्यस्तत्त्वेभ्योऽण्डमचेतनम् । उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५४ ॥
  625. हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ६१ ॥
  626. अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् । मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरांपतिः । अहङ्कारस्ततो रुद्रश्चित्तं चैत्त्यस्ततोऽभवत् ॥ ६४ ॥
  627. विष्णुर्गत्यैव चरणौ नोदतिष्ठत् ततो विराट् । नाडीर्नद्यो लोहितेन नोदतिष्ठत् ततो विराट् ॥ ७० ॥
  628. बुद्ध्या ब्रह्माऽपि हृदयं नोदतिष्ठत् ततो विराट् । रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् ततो विराट् ॥ ७२ ॥
  629. चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद् यदा । विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७३ ॥
  630. प्रबुद्ध्य स्वप्नसुप्तिभ्यां संस्मरन्नात्मवैशसम् । वैतथ्यं व्यभिचारं च नासौ ध्यायेद् यतो भयम् ॥ ५ ॥
  631. निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः । उपलभ्यात्मनात्मानं चक्षुषेवार्कमेकदृक् ॥ ११ ॥
  632. मुक्तलिङ्गः सदाभासमसति प्रतिपद्यते । सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम् ॥ १२ ॥
  633. एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोगुणैः । स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १४ ॥
  634. भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया । लीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १५ ॥
  635. मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा । नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १६ ॥
  636. एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते । साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १७ ॥
  637. भगवानुवाच– योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रपन्नं याति सत्पथम् ॥ १ ॥
  638. स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥ ६ ॥
  639. तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम् । विलोक्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥ २० ॥
  640. कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्त्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २७ ॥
  641. यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयश्रियमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ २९ ॥
  642. ध्यानायनं रहसि तद् बहुलाधरोष्ठ- भासाऽरुणायिततनुद्विजकुन्दपङ्क्ति । ध्यायेत् स्वहृत्कुहरकेऽवसितस्य विष्णो- र्भक्त्याऽऽर्द्रयाऽर्पितमना न पृथग् दिदृक्षेत् ॥ ३२ ॥
  643. एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्धृदय उत्पुलकप्रमोदः । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान- स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३३ ॥
  644. मुक्ताश्रयं यर्हि निर्विषयं स्वचित्तं निर्वाणमृच्छति मनः सहसा यथार्चिः । आत्मानमत्र पुरुषोऽव्यवधानमेक- मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३४ ॥
  645. सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन् महिम््नयवसितः सुखदुःखबाह्ये । हेतुत्वमप्यसति कर्तरि दुःखयोर्न स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥ ३५ ॥
  646. सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतानन्यभावेन भूतेषु च तदात्मताम् ॥ ४१ ॥
  647. तस्मादिमां स्वां प्रकृतिं देवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४३ ॥
  648. देवहूतिरुवाच– लक्षणं महदादीनां प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन तत् पारमार्थिकम् ॥ १ ॥
  649. यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रचक्षते । भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥
  650. विषयानभिसन्धाय यश ऐश्वर्यमेव च । अर्चादावर्चयेद् यो मां पृथग्भावः स राजसः ॥ ९ ॥
  651. कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् । यजेद् यष्टव्यमिति वाऽपृथग्भावः स सात्त्विकः ॥ १० ॥
  652. अर्चादावर्चयेत् तावदीश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥
  653. आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् । तस्य भिन्नदृशो मृत्युर्विधत्ते भयमुल्बणम् ॥ २६ ॥
  654. जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे । ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ २८ ॥
  655. अत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः । तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ २९ ॥
  656. रूपभेदविदस्तत्र ततश्चोभयतोदतः । तेषां बहुपदः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥
  657. ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः । ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥
  658. अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वधर्मकृत् । मुक्तसङ्गस्ततो भूयान् न दोग्धा धर्ममात्मनः ॥ ३२ ॥
  659. तस्मान्मय्यर्पिताशेषक्रियार्थात्मरतिर्नरः । मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः । न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ ३३ ॥
  660. मनसैतानि भूतानि प्रणमेद् बहुमानयन् । ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥
  661. भक्तियोगश्च योगश्च मया मानव्युदीरितः । ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥
  662. यत् तद् भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानात् पुरुषाद् दैवं कर्मविचेष्टितम् ॥ ३६ ॥
  663. रूपभेदास्पदं दिव्यं काल इत्यभिधीयते । भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
  664. न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
  665. एवं स्वभरणाकल्पं तत्कलत्रादयस्तदा । नाद्रियन्ते यथापूर्वं कीनाश इव गोजरम् ॥ १३ ॥
  666. वायुनोत्क्रमतोत्तारकफसंरुद्धनासिकः । कासश्वासकृतायासः कण्ठो घुरुघुरायते ॥ १६ ॥
  667. योजनानां सहस्राणि नवतिर्नव चाध्वनः । त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाम् ॥ २४ ॥
  668. अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९ ॥
  669. भगवानुवाच– कलिलं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् । दशाहेन तु कर्कन्धुः पेश्यण्डं वा ततः परम् ॥ २ ॥
  670. नाथमानो ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः । स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ १२ ॥
  671. ज्ञानं यदेतददधात् कतमः स देव- स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः । तं जीवकर्मपदवीमनुवर्तमाना- स्तापत्रयोपशमनाय वयं भजेम ॥ १७ ॥
  672. पश्यत्ययं धिषणया ननु सप्तवध्रिः शारीरभेदमशरीरवदस्य देहे । यद्दत्तया स तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्त्यमिव प्रतीतम् ॥ २० ॥
  673. तेष्वशान्तेषु मूढेषु खण्डितात्मावसायिषु । सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३६ ॥
  674. तत्सृष्टिसृष्टसृष्टेषु कोन्वखण्डितधीः पुमान् । ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३९ ॥
  675. बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् । या करोति निजायत्तान् भ्रूविजृम्भेण केवलम् ॥ ४० ॥
  676. सङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारं परमारुरुक्षुः । मत्सेवया प्रतिलब्धात्मलाभो वदन्ति यां निरयद्वारमस्य ॥ ४१ ॥
  677. योपयाति शनैर्माया योषिद् देवविनिर्मिता । तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४२ ॥
  678. देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् । भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४५ ॥
  679. यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा । तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वं योग्यताऽनयोः ॥ ४८ ॥
  680. आत्मनः केवलं ज्ञानमर्थो देहाद्यसङ्गिनः । सुखदुःखादयो भावा न देहस्य न चात्मनः ॥ ५० ॥
  681. तच्छ्रद्धयाक्राऽऽन्तमतिः पितृदेवव्रतः पुमान् । गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥
  682. आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ ११ ॥
  683. भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा । कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १२ ॥
  684. स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना । जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ १३ ॥
  685. ऐश्वर्यं पारमेष्ठ्यं यत् तेऽपि धर्मविनिर्मितम् । निषेव्य पुनरायान्ति गुणव्यतिकरेऽसति ॥ १४ ॥
  686. ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः । कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥
  687. रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः । पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥
  688. त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः । कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥
  689. नूनं दैवेन विहता ये त्वच्युतकथासुधाम् । हित्वा शृृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥
  690. दक्षिणेन पथाऽर्यम्णः पितृलोकं व्रजन्ति ते । प्रजायां तु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥
  691. ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति । पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥
  692. ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणाम् ॥ २८ ॥
  693. यथा महानहङ्कारस्त्रिवृत् पञ्चविधः स्वराट् । एकादशविधस्तस्य वपुरण्डं जगद् यतः ॥ २९ ॥
  694. ज्ञानं योगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः । द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२ ॥
  695. देवहूतिरुवाच– अथाप्ययान्ते सलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते । गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः ॥ २ ॥
  696. त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये । यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये ॥ ५ ॥
  697. ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये । निवृत्तजीवोपाधित्वात् वीतक्लेशाप्तनिर्वृतिः ॥ २६ ॥
  698. नित्यरूढसमाधित्वात् परावृत्तगुणभ्रमा । न सस्मार तदात्मानं स्वप्नदृष्टमिवोत्थितः ॥ २७ ॥
  699. मैत्रेय उवाच– मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥
  700. शरणं तं प्रपद्येऽहं य एव जगदीश्वरः । प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥
  701. तप्यमानं त्रिभुवनं प्राणायामैधिताग्निना । निर्गतेन मुनेर्मूघ्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥
  702. अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः । वितायमानयशसो मुदाऽऽश्रमपदं ययुः ॥ २२ ॥
  703. देवा ऊचुः– यथा कृतस्ते संकल्पो भाव्यं तेनैव नान्यथा । तत्संकल्पस्य ते ब्रह्मन् यद् वै ध्यायसि ते वयम् ॥ ३० ॥
  704. सोमोऽभूद् ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् । दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३ ॥
  705. मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् । मूर्तिः सर्वगुणोत्पत्ती नरनारायणावृषी ॥ ५२ ॥
  706. नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥
  707. देवा ऊचुः– यो मायया विरचितं निजयात्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाऽद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥
  708. ताविमौ वै भगवतो हरेरंशाविहाऽगतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥
  709. पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढेवात्मनात्मानमजहाद् योगसंयुता ॥ ६६ ॥
  710. नन्दिरुवाच– य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि । द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २२ ॥
  711. गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया । कर्मतन्त्रं वितनुताद् वेदवादविपन्नधीः ॥ २३ ॥
  712. बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः । स्त्रीकामः सोऽस्तु नितरां दक्षो बस्तमुखोऽचिरात् ॥ २४ ॥
  713. विद्याबुद्धिरविद्यायां कर्ममय्यामसावजः । संसरन्त्विह ये चामुमनुशर्वावमानिनम् ॥ २५ ॥
  714. गिरेः सुतायाः पुष्पिण्या मधुगन्धेन भूरिणा । मथ्ना चोन्मथितात्मानः संमुह्यन्तु हरद्विषः ॥ २६ ॥
  715. सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । सत्त्वं च यस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे मनसा विधीयते ॥ २३ ॥
  716. यत्पादपद्मं महतां मनोऽलिभि- र्निषेवितं ब्रह्मरसासवार्थिभिः । लोकस्य यद् वर्षति चाशिषोऽर्थिनः तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥
  717. किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने । तन्माल्यभस्मनृकपाल्यवसत्पिशाचै- र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥
  718. कर्म प्रवृत्तं च निवृत्तमप्युत वेदे विविच्योभयलिङ्गमाश्रितम् । विरोधि तद् यौगपदेककर्तरि द्वयं यथाऽऽब्रह्मणि कर्म नर्च्छति ॥ २० ॥
  719. ततः स्वभर्तुश्चरणाम्बुजासवं जगद्गुरोश्चिन्तयती न चापरम् । ददर्श देहे हतकल्मषा सती सद्यः प्रजज्वाल समाधिजाग्निना ॥ ४ ॥
  720. आक्रम्योरसि दक्षस्य शितधारेण हेतिना । छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥
  721. शस्त्रैरस्त्रान्वितैरेनमनिर्भिण्णत्वचं हरः । विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥
  722. दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे । यजमानपशोः कस्य कायात् तेनाहरच्छिरः ॥ २४ ॥
  723. जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः । तद् देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥
  724. उपलभ्य पुरैवैतद् भगवानब्जसम्भवः । नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥
  725. नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर्वा तस्यात्मतन्त्रस्य क उद्विधित्सेत् ॥ ७ ॥
  726. तस्मिन् महायोगमये मुमुक्षुशरणे सुराः । ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥
  727. स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्घ्रि । उत्थाय चक्रे शिरसाऽभिवन्दनं महत्तमोऽर्कस्य यथैव विष्णोः ॥ ४० ॥
  728. ब्रह्मोवाच– जाने त्वामीश विश्वस्य जगतो योनिबीजयोः । शक्तेः शिवस्य च परं यत् तद् ब्रह्म निरन्तरम् ॥ ४२ ॥
  729. त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः । विश्वं सृजसि पास्यत्सि क्रीडयोर्णपदो यथा ॥ ४३ ॥
  730. त्वमेव धर्मार्थदुघाऽभिपत्तये दक्षेण सूत्रेण विसर्जिताध्वरः । त्वयैव लोकेऽवसिताश्च सेतवो यान् ब्राह्मणाः श्रद्धधते धृतव्रताः ॥ ४४ ॥
  731. न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव । भूतानि चात्मन्यपृथग् दिदृक्षतां प्रायेण रोषोऽभिभवेद् यथा पशोः ॥ ४६ ॥
  732. येऽस्मिन् यदा पुष्करनाभमायया दुर्लङ्ध्यया स्पृष्टधियः पृथग्दृशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृताः कथम् ॥ ४८ ॥
  733. भवान् हि पुंसः परमस्य मायया दुरन्तयाऽस्पृष्टमतिः समस्तदृक् । तया हतात्मस्वनुकर्मचेत- स्स्वनुग्रहं कर्तुमिहार्हति प्रभो ॥ ४९ ॥
  734. अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः । यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥
  735. दक्ष उवाच– शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् । तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या- मास्ते भवानपरिशुद्धमिवामनन्ति ॥ २६ ॥
  736. ऋत्विज ऊचुः– तत्त्वं न ते वयमनञ्जन रुद्रशापात् कर्मण्यवग्रहधियो भगवन् विदामः । धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं ज्ञातं यदर्थमधिदैवमदस्त्वमास्थाः ॥ २७ ॥
  737. रुद्र उवाच– तव वरद वराड्घ्रावाशिषा चानभिध्ये ह्यपि मुनिभिरसक्तैरादरेणार्हणीये । यदि रचितधियं मां विद्धि लोकापविद्धं जगति न गणयेयं त्वत्परानुग्रहेण ॥ २९ ॥
  738. नैतत् स्वरूपं भवतोऽसौ पदार्थ- भेदग्रहः पुरुषो यावदीक्षेत् । ज्ञानस्य चार्थस्य गुणस्य चाश्रया- न्मायामयाद् व्यतिरिक्तो यतस्त्वम् ॥ ३१ ॥
  739. ऋषय ऊचुः – अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे । विभूतयो यत उपसेदुरीश्वरा- न्न मन्यते स्वयमनुवर्तिनीं भवान् ॥ ३४ ॥
  740. लोकपाला ऊचुः– दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्यग्दृष्ट्या दृश्यते येन विश्वम् । माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥
  741. योगेश्वरा ऊचुः– प्रेयान्न तेऽन्योऽस्त्यमृतप्रिय प्रभो विश्वात्मनीक्षेन्न पृथग् य आत्मनः । अथापि भृत्येश तयोपधावता- मनन्यवृत्त्याऽनुगृहाण वत्सल ॥ ३८ ॥
  742. जगदुद्भवस्थितिलयेषु लीलया प्रविभज्यमानगुणयाऽऽत्ममायया । रचितात्मभेदमतये स्वसंस्थया ह्यतिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥
  743. अग्निरुवाच– यत्तेजसाऽहं सुसमिद्धतेजा हव्यं वहाम्यध्वर आज्यसिक्तम् । तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥
  744. ब्राह्मणा ऊचुः– त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मन्त्राः समिद् दर्भपात्राणि च । त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥
  745. श्रीभगवानुवाच– अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् । आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ ५० ॥
  746. तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि । देहात्मबुद्धिर्भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥
  747. त्रयाणामेकभावानां यो न पश्यति वै भिदाम् । सर्वभूतात्मना ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥
  748. मैत्रेय उवाच– एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् । अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५ ॥
  749. अनन्यभावैकगतिः शक्तिः सुप्तेव पूरुषम् एतद् भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः । श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥ ५९ ॥
  750. पीत्वाऽन्तरजरं वह्निश्चच्छर्द शरकानने । कुमारोऽभूत् ततस्तस्मै स्तनं षट् कृत्तिका ददुः ॥ ६३ ॥
  751. षड्भिर्मुखैः स्तनं पीत्वा स बालः षण्मुखोऽभवत् । ततश्चक्रुः सैन्यपालं सर्वासुरभयंकरम् ॥ ६४ ॥
  752. अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह । स्वायंभुवस्यापि मनोर्हरेरंशांशजन्मनः ॥ ७ ॥
  753. प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ । वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ८ ॥
  754. विकल्पे विद्यमानेऽपि न ह्यसंतोषहेतवः । पुंसो मोहमृते भिन्ना यल्लोका निजकर्मभिः ॥ ३१ ॥
  755. स्मयमानमभिध्यायेत् सानुरागावलोकनम् । नियमेनैकभूतेन मनसा वरदर्षभम् ॥ ५४ ॥
  756. परिचर्या भगवतो यावतीः पूर्वसेविताः । ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये ॥ ६१ ॥
  757. सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः । एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ७२ ॥
  758. तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् । समाहितः पर्यचरद् दृष्ट्याऽऽदेशेन पूरुषम् ॥ ७४ ॥
  759. देवाश्चक्रुस्तपोविघ्नं त्रासयन्तः स्वमायया । सर्पेभसिंहकूष्माण्डैस्तान् नापश्यत् परं गतः ॥ ८० ॥
  760. सर्वतो मन आकृष्य हृदि भूतेन्द्रियाश्रयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ ८१ ॥
  761. तस्मिन्नभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया । लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम् ॥ ८४ ॥
  762. देवा ऊचुः– नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्वधाम्नः । विधेहि तन्नो वृजिनाद् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८५ ॥
  763. या निर्वृतिस्तनुभृतां तव पादपद्म- ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिलुलितात् पततां विमानात् ॥ १० ॥
  764. ते न स्मरन्त्यतितरां प्रियमीशमाद्यं स्वान् संपदः सुतसुहृद्गृहवित्तदारान् । ये त्वब्जनाभभवदीयपदारविन्द- सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२ ॥
  765. तिर्यङ्नगद्विजसरीसृपदेवदैत्य- मर्त्यादिभिर्विरचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यशेषं नातः परं परम वेद्मि न यत्र वाचः ॥ १३ ॥
  766. त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः । यद्बुध्द्यवस्थितमखण्डितया स्वबुद्ध्या दृष्ट्वाऽऽस्थिता वधिमतो व्यतिरिक्त आस्से ॥ १५ ॥
  767. यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्या । तद् ब्रह्म विश्वभवमेकमविश्वमाद्य- मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥
  768. सत्याशिषो हि भगवंस्तव पादमूल- माशिष्टयोऽनुभजतः पुरुषार्थमूर्तेः । अप्येवमार्य भगवान् परिपाति दीनान् वास्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥
  769. तव पादमूलं भजत आचार्यस्याशिष्टयः शिक्षाः सत्याशीःप्रदा एव । तथापि अस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः परिपाति भवान् । अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे तदन्तवत् ॥ ३१ ॥
  770. दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् । तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥
  771. भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः । तादात्म्यं यच्छतो मौढ्यान्मानो मे भिक्षितं बत ईश्वरात् क्षीणपुण्येन पुलकानिव चाधनः ॥ ३५ ॥
  772. लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत् पुरम् ॥ ५३ ॥
  773. निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः । व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ ४७ ॥
  774. केचित् कर्म वदन्त्येनं स्वभावमपरे नृप । एके कालं परे दैवं पुंसः काममुतापरे ॥ ५२ ॥
  775. अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य हि । स्वाप्नीव भात्यनुध्यानाद् यया बन्धविपर्ययः ॥ ४ ॥
  776. भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् । युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६ ॥
  777. वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः । वरार्हणोऽस्यम्बुजनाभपादयो- र्निरन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥
  778. अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः । द्रव्यक्रियादेवतानां कर्माकर्मफलप्रदम् ॥ १० ॥
  779. सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन् । ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥
  780. मन्यमान इदं विश्वं मायारचितमात्मनि । अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥
  781. तस्या विशुद्धकरणः शिववार्विगाह्य बद्धासनो जितमरुन्मनसाऽऽहृताक्षः । स्थूले दधार भगवत्प्रतिरूप एतद् ध्यायंस्तदव्यवहितो व्यसृजन् समाधौ ॥ १७ ॥
  782. सुदुर्जयं विष्णुपदं जितं त्वया यत् सूरयोऽप्राप्य विचक्षते परम् । आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥
  783. अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् । आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ २६ ॥
  784. श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः । नेच्छंस्तत्राऽत्मनाऽऽत्मानं संतुष्ट इति सिध्यति ॥ ४९ ॥
  785. अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः । स्वरूपमवरुन्धानो नान्यदस्मात् तदैक्षत ॥ ९ ॥
  786. मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः । वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥ ११ ॥
  787. सदस्या ऊचुः– नरदेवेह भवतो नावद्यं हि मनाक् स्थितम् । अस्त्येकं प्राक्तनमघं यदि हेदृक् त्वमप्रजः ॥ ३१ ॥
  788. तथा साधय भद्रं ते आत्मानं सप्रजं नृप । इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥
  789. यथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः । यद् यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥ ३३ ॥
  790. स बाल एव पुरुषो मातामहमनुव्रतः । अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥ ३९ ॥
  791. स शरासनमुद्यम्य मृगयुर्वनगोचरः । हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥
  792. तं सर्वलोकामरयज्ञसंग्रहं त्रयीमयं द्रव्यमयं तपोमयम् । यज्ञैर्विचित्रैर्यजतो भवाय ते राजन् स्वदेशाननुरोद्धुमर्हसि ॥
  793. यज्ञेन युष्मद्विषये द्विजातिभि- र्वितायमानेन सुराः कला हरेः । स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २३ ॥
  794. वेन उवाच– अवजानन्ति ये मूढा नृपरूपिणमीश्वरम् । नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४ ॥
  795. तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः । बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २९ ॥
  796. विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः । ममन्थुरूरुं तरसा तत्रासीद् बाहुको नरः ॥ ४४ ॥
  797. तं तु तेऽवनतं दृष्ट्वा किं करोमीति वादिनम् । निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४६ ॥
  798. तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः । योऽपाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४७ ॥
  799. ऋषय ऊचुः – एष विष्णोर्भगवतः कला भुवनपावनी । इयं च लक्ष्मीः सम्भूतिः पुरुषस्यानपायिनी ॥ ५० ॥
  800. एष साक्षाद्धरेरंशो जातो लोकरिरक्षया । इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ३ ॥
  801. अयं तु साक्षाद्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयाऽवतीर्णः । यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमिव प्रतीतम् ॥ २० ॥
  802. ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः । पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥
  803. यच्चान्यदपि कृष्णस्य ब्रह्मन् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥
  804. धरण्युवाच – नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने । नमः स्वरूपानुभवेन निर्धुत- द्रव्यक्रियाकारकविभ्रमोर्मये ॥ ३० ॥
  805. नूनं तवेशस्य समीहितं जनैः स्वमायया दुर्जययाऽकृतात्मभिः । न लक्ष्यते यस्त्वकरोदकारयद् योऽनेक एकः परतः स ईश्वरः ॥ ३३ ॥
  806. सर्गादि योऽस्यानुरुणद्धि शक्तिभि- र्द्रव्यक्रियाकारकचेतनात्मभिः । तस्मै समुन्नद्धविरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥ ३४ ॥
  807. कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् । हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥
  808. दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् । विधाय दुदुहुः क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥
  809. ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजांश्च शिबिरान् नगरान् खेटखर्वटान् ॥ ३१ ॥
  810. एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा । अन्वधावदतिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥
  811. सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् । धीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥
  812. धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥
  813. एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः । सर्वगोऽनावृतः साक्षी निरात्माऽनात्मनः परः ॥ ७ ॥
  814. देहाद्यपार्थास्तद्धर्मा न स्युस्तद्द्रष्टुरात्मनः । कैवल्यं तस्य वै धर्मः सुषुप्तं तन्निदर्शनम् ॥ ८ ॥
  815. उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् । कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ १२ ॥
  816. भिन्नस्य लिङ्गस्य गुणप्रवाहं द्रव्यक्रियाकारकचेतनात्मनः । दृष्ट्वा सुसंपत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥ १३ ॥
  817. स्पृशन्तं पादयोः शीर्ष्णा व्रीडन्तं स्वेन कर्मणा । शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १९ ॥
  818. भगवानपि विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्तया गृहीतचरणाम्बुजः ॥ २० ॥
  819. जन्तोर्जगत्यां जगदीश वैशसं स्यादेव यत् कर्मणि नः समीहितम् । करोषि फल्ग्वप्युरु दीनवत्सल स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २९ ॥
  820. भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् । भवत्पदानुस्मरणादृते सतां निमित्तमन्यद् भगवन् न विद्महे ॥ ३० ॥
  821. यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः । सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३७ ॥
  822. को न्वस्य कीर्तिं नशृृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः । लोकाः सपाला उपजीवन्ति काम- मद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥
  823. अस्ति यज्ञपतिर्नाम केषांचिदिह सत्तमाः । इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ २६ ॥
  824. राज्यस्वर्गापवर्गाणां प्रायेणैकात्महेतुता । दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् ॥ २९ ॥
  825. असाविहानेकगुणाध्वरैः सता पृथग्विधैर्द्रव्यगुणक्रियोक्तिभिः । सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनस्वरूपतः ॥३३॥
  826. प्रधानकालाशयकर्मसङ्ग्रहः शरीरशेषं प्रतिपद्य चेतनः । क्रियाफलत्वेन विभुर्विभाव्यते यथाऽनलो दारुषु तद्गुणात्मकः ॥ ३४ ॥
  827. ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात् । अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥ ३७ ॥
  828. पुमाल्लभेताप्यतिवेलमात्मनः प्रसादतोऽत्यन्तशमं स्वतः स्वयम् । यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति सुखं हविर्भुजाम् ॥ ३९ ॥
  829. अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः । न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यवर्यगुः ॥ ४० ॥
  830. पुत्रेण जयते लोक इति सत्यवती श्रुतिः । ब्रह्मदण्डहतः पापो यद् वेनोऽत्यतरत् तमः ॥ ४५ ॥
  831. अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः । यदुत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनक्षि ॥४८॥
  832. नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् । यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥
  833. व्यक्तं ह्यात्मवतामात्मा भगवानात्मभावनः । स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६ ॥
  834. अस्त्येव राजन् भवतो मधुद्विषः पादारविन्देऽस्य गुणानुवादिनि । रतिः सदा या विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥ २० ॥
  835. शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सम्यग्विमृशेषु हेतुः । असङ्ग आत्मव्यतिरिक्तवस्तुनि दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥
  836. हरेर्मुहुस्तत्परकर्णपूरया गुणाभिधानेन विजृम्भमाणया । भक्त्या ह्यसङ्गः सदसत्परात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥
  837. यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा- नाचार्यवान् ज्ञानविरागरंहसा । दहत्यबीजं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥
  838. दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे । परात्मनोर्यद् व्यवधानं पुरस्तात् स्वप्ने यथाऽपुरुषस्तद्विनाशे ॥ २७ ॥
  839. इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतो मनः । चेतनां हरते बुद्धेः स्तुम्बस्तोयमिव ह्रदात् ॥ ३० ॥
  840. भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये । तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१ ॥
  841. नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः । यद्यस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२ ॥
  842. अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । स्रंशितो ज्ञानविज्ञानाद् येनाविशति मुग्धताम् ॥ ३३ ॥
  843. न कुर्यात् कर्हिचित् सङ्गं तमस्तीव्रं तितीर्षुणा । धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥
  844. मनोमात्रमिदं विश्वं यथा स्वप्ने मनः क्रिया । क्रिया च वासनामात्रं साऽनीहायां प्रलीयते ॥ ३७ ॥
  845. आत्मा त्वनीहया साक्षात् स्वयंज्योतिः प्रसिद्ध्यति । एवं व्युदस्यात्ममायां भिदामुपरमेन्मुनिः ॥ ३८ ॥
  846. न यत्र निद्रा मूर्च्छा वा नार्थदृक् न मनोरथः । नानुवृत्तिर्न प्रलयस्तद् ब्रह्म विजितात्मनः ॥ ३९ ॥
  847. तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् । यः क्षेत्रवित् त्वमनयोर्हृदि विष्वगाधिः प्रत्यक् चकास्ति भगवांस्तमवैहि सोऽस्ति ॥ ४० ॥
  848. यस्मिन्निदं सदसदात्मतया विभाति मायाविवेकविधुतिः स्रजिवाहिबुद्धिः । तं नित्यमुक्तपरिशुद्धविबुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ४१ ॥
  849. यत्पादपङ्कजपरागविलासभक्त्या कर्माशयग्रथितमुद्ग्रथयन्ति सन्तः । तत्त्वं न तद् द्विमतयोऽपि विरुद्धमार्ग- स्रोतोगुणास्तमरणं भज वासुदेवम् ॥ ४२ ॥
  850. वैन्यस्तु धुर्यो महतां संस्थित्याऽध्यात्मशिक्षया । आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ५२ ॥
  851. कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव । वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः । बृहस्पतिर्ब्रह्मवादे आत्मतत्त्वे स्वयं हरिः ॥ ६४ ॥
  852. भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यपरोद्यमे ॥ ६५ ॥
  853. कीर्त्योर्ध्वगीतयः पुंभिस्त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६६ ॥
  854. तस्यानया भगवतः परिशुद्धकर्म- सत्वात्मनस्तदनु संस्मरणानुपूर्व्या । ज्ञानं विरक्तिमदभून्निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
  855. छिन्नान्यधीरधिगतात्मगतिर्निरीह- स्तत् तत्यजेऽच्छिनदिदं वयुनेन येन । तावन्न योगगतिभिर्यतिरप्रयत्नो यावद् गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
  856. एवं स वीरप्रवरः संयोज्यात्मानमात्मनि । ब्रह्मभूतो दृढं काले तत्याज स्वकलेवरम् ॥ १३ ॥
  857. उत्सर्पयन्नसुं मूधर्ि्न क्रमेणावेश्य निस्स्पृहः । वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
  858. खान्याकाशे द्रवं तोये यथास्थानं विभागशः । क्षितिमम्भसि तत् तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥
  859. इन्द्रियाणि समस्तानि तन्मात्राणि यथोद्भवम् । भूतादिस्तान् समुत्क्षिप्य महत्यात्मनि सन्दधे ॥ १७ ॥
  860. तं सर्वगुणविन्यासं जीवे मायामये न्यधात् । तं चानुशयमात्मस्थमसावनुशयी पुमान् । ज्ञानवैराग्यवीर्येण स्वरूपस्थो व्यधात् प्रभुः ॥ १८ ॥
  861. देव्य ऊचुः – अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीवधूरिव ॥ २५ ॥
  862. सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् । यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ट्वलंकृताम् । परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥ ११ ॥
  863. विबुधासुरगन्धर्वमुनिसिद्धमहोरगाः । विजिताः स्युर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥
  864. स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाऽर्हं विविधैः कलात्यये ॥ २९ ॥
  865. अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
  866. रुद्र उवाच – जितं व आत्मविद्धुर्याः स्वस्तये स्वस्तिरस्तु वः । भवतां राधसे राध्यं सर्वस्मा आत्मने नमः ॥ ३३ ॥
  867. भवान् भक्तिमतां लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमता एकान्तेनात्मविद्गतिः ॥ ५४ ॥
  868. क्षणार्धेनाऽपि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥
  869. अथानघाङ्घ्र्योस्तव कीर्तितीर्थयो- रन्तर्बहिः स्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात् सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
  870. यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । न त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥
  871. यो माययेदं पुरुरूपयाऽसृजद् बिभर्ति भूयः क्षपयत्यविक्रियः । यद्भेदबुद्धिः सदिवाऽऽत्मसंस्थया तमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥
  872. क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तःकरणोपलक्षणं वेदे च तन्त्रे च त एव कोविदाः ॥ ६२ ॥
  873. त्वमेक आद्यः पुरुषः सुप्तशक्ति- स्तया रजः सत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ ६३ ॥
  874. सृष्टं स्वशक्त्येदमनुप्रविश्य चतुर्विधं पुरमात्मांशकेन । अथो विदुस्त्वां पुरुषं सन्तमत्र भुङ्क्ते हृषीकैर्मधु सारघं यतः ॥ ६४ ॥
  875. कस्त्वत्पदाब्जं विजहाति पण्डितो यत् ते पुमानप्ययमब्जकेतनः । विशङ्कयाऽस्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥
  876. यत्स्पृष्टोऽहरहर्मुक्तक्लेशः शेतेऽमृताम्बुधौ । तावद् वेदाथ तत् तेऽङ्घ्रिं जनो नु स्मरते च तत् ॥ ६८ ॥
  877. प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् । नारदोऽध्यात्मतत्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥
  878. नारद उवाच– श्रेयस्त्वं कतमद् राजन् कर्मणाऽऽत्मन ईहसे । दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४ ॥
  879. प्राचीनबर्हिरुवाच– न जानामि महाभाग परं कर्मापविद्धधीः । ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५ ॥
  880. भो भो प्रजापते राजन् पशून् पश्य त्वयाऽध्वरे । संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥
  881. एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतमयः कूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८ ॥
  882. आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः । तस्याविज्ञातनामाऽऽसीत् सखाऽविज्ञातचेष्टितः ॥ १० ॥
  883. स एकदा हिमवतो दक्षिणेष्वथ सानुषु । ददर्श नवभिर्द्वारैः पुरीं लक्षितलक्षणाम् ॥ १३ ॥
  884. यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् । भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २० ॥
  885. तेषां परिवृढो राजन् सर्वेषां बलिमुद्वहन् । सस्त्रीकाणां सखा तस्या बहुरूपोऽग्रणीः स्त्रियः ॥ २१ ॥
  886. पितृभूर्नृप पुर्या द्वा दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥
  887. देवभूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः । राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वितः ॥ ५२ ॥
  888. तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यपशून्वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
  889. य एवं कर्म नियतं विद्वान् कुर्वीत वा न वा । कर्मणा तेन राजेन्द्र ज्ञानेन स न लिप्यते ॥ ७ ॥
  890. द्वाविमावनुशोचन्ति बालावसदवग्रहौ । यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
  891. स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि । विद्वान् स्वप्न इवामृश्य साक्षिणं विरराम ह ॥ ४० ॥
  892. पञ्चेन्द्रियार्था आरामा द्वारो घ्राणादयः प्रभो । तेजोबन्नानि कोष्ठानि गोलकेन्द्रियसंग्रहः ॥ ५७ ॥
  893. अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो । न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥
  894. पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः । आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ॥ २० ॥
  895. दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु । जीवस्य न व्यवच्छेदः स्याच्चेत् तत् तत्प्रतिक्रिया ॥ ३३ ॥
  896. अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३६ ॥
  897. प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः । दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४३ ॥
  898. शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे । मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४६ ॥
  899. यदा यस्यानुगृह्णाति भगवानात्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४९ ॥
  900. स त्वं विचक्ष्व मृगचेष्ठितमात्मनोऽन्त- श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्तिम् । जह्यङ्गनाभ्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५७ ॥
  901. एकं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तरम् । एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७६ ॥
  902. भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि । यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥ ८२ ॥
  903. अदृष्टं दृष्टवन्नङ्क्ष्येद्भूतं स्वप्नवदन्यथा । भूतं भवद् भविष्यच्च सुप्तं सर्वरहो रहः ॥ ८३ ॥
  904. मैत्रेय उवाच– प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः । जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥
  905. दिव्यवर्षसहस्राणां सहस्रमहतौजसः । भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥
  906. न व्यवह्रियते यज्ञो ब्रह्मैतद् ब्रह्मवादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥
  907. शुद्धाय शान्ताय नमः स्वनिष्ठमनस्यपार्थे विलसद्द्वयाय । नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥
  908. नमो विशुद्धसत्त्वाय हरये हरिमेधसे । वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
  909. दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥
  910. श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थितः । सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥
  911. एतत् परं तज्जगदात्मनः पदं सकृद् विभातं सवितुर्यथा प्रभा । यदाऽसवो जाग्रति सुप्तवृत्तयो द्रव्यक्रियाकारकविभ्रमात्ययः ॥ १६ ॥
  912. तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् । स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥ १८ ॥
  913. निरस्तसङ्कल्पविकल्पमद्वयं द्वयापवादोपरमोपलम्भनम् । अनादिमध्यान्तमजस्रनिर्वृतिं संज्ञप्तिमात्रं भजतामुया दृशा ॥ १९ ॥
  914. न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः । श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥ २२ ॥
  915. श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यः स्वपूर्णः । न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत् पुमान् कृतज्ञः ॥ २३ ॥
  916. तत् परं सर्वधिष्ण्येभ्यो मायाधिष्ठितमारुहत् । मुनयोऽद्याप्युदीक्षन्ते परं नापुरवाङ् नृपाः ॥ २६ ॥
  917. त्वं त्वब्जनाभाङ्घ्रिसरोजकोश- दुर्गाश्रितो निर्जितषट्सपत्नः । भुङ्क्ष्वेह भोगान् पुरुषातिसृष्टान् विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९ ॥
  918. या वा इह तद्रथचरणनेमिकृतपरिखास्ताः सप्तसिन्धव आसन् यत एव कृता सप्तभुवो द्वीपाः ॥ ३१ ॥
  919. का त्वं चिकीर्षसि च किं मुनिवर्य शैले मायाऽसि काऽपि भगवत्परदेवतायाः । विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ८ ॥
  920. किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि भगवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमि-वाधनः फलीकरणं को वा ईहते ॥ १४ ॥
  921. यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्मयोगमायया स्ववर्षमाञ्जनाभं नामाभ्यवर्षीत् ॥ ३ ॥
  922. पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् । तावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥५॥
  923. एवं मनः कर्मवशं प्रयुङ्क्त अविद्ययात्मन्व्यवधीयमाने । प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ६ ॥
  924. पुंसः स्त्रिया मिथुनीभाव एष तयोर्मिथो हृदयग्रन्थिमाहुः । यतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥
  925. हरौ गुरौ मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च । सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥१०॥
  926. सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन । योगेन धृत्युद्भवसत्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥
  927. तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सुनाभम् । अक्लृष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥२०॥
  928. देवासुरेभ्यो मघवान् प्रधानो दक्षादयो ब्रह्मसुताश्च तेषाम् । भवः परः सोथ विरिञ्चिवीर्यः स मत्परोहं द्विजदेवदेवः ॥ २२ ॥
  929. सर्वाणि मद्धिष्ण्यतया भवद्भि- श्चराणि भूतानि सुता ध्रुवाणि । सम्भावितव्यानि पदेपदे वो विविक्तदृष्टिस्तदुतार्हणं मे ॥ २६ ॥
  930. राजोवाच– न नूनं भगवन्नात्मरामाणां योगसमीरितज्ञानावभर्जितकर्मबीजा-नामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि॥ १ ॥
  931. तथा चोक्तम्– न कुर्यात्कस्यचित्सख्यं मनसि ह्यनवस्थिते । यद्विस्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३ ॥
  932. नित्यं ददाति कामस्य छिद्रं तदनु येऽरयः । योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥
  933. कामो मन्युर्मदो लोभः शोकमोहभयादयः । कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५ ॥
  934. अथैवमखिललोकपालललामो विलक्षणो जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्ष-यन्स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावे-नान्वीक्षमाण उपरतानुवृत्तिरुपरराम ॥ ६ ॥
  935. तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमाया-वसानो देह इमां जगतीमभिमानाभासेन चङ्क्रममाणः ॥ ७ ॥
  936. एकदा तु काङ्कटकर्णाटकाद्दक्षिणकर्णाटकान् देशान् यदृच्छयोपगतः कुटचाचलोपवने आस्यकृताश्मकवल उन्माद इव मुक्तमूर्द्धजोऽ-संवीत एव विचचार ॥ ८ ॥
  937. अथ समीरवेगविधुतवेणुनिकर्षोपजातो दावानलस्तद्वनमाले-लिहानः समन्तात् सह तेन ददाह ॥ ९ ॥
  938. यस्य किलानुचरितमुपाकर्ण्य काङ्कटकर्णाटकानां दक्षिणकर्णाटकानां राजार्हतनामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथं पाषण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्त्तयिष्यते ॥ १० ॥
  939. येन ह वा कलौ मनुजापसदा देवमायाविमोहिताः स्वविधि-नियोगशौचाचारविहीना देवहेलनादीन्यपव्रतानि निजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाऽधर्म-बहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ ११ ॥
  940. तैरपि ह्यर्वाक्तनया निजलोकयात्रयाऽन्धपरम्परया त एवा-नाश्वस्थास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ १२ ॥
  941. अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् । गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥ १४ ॥
  942. को न्वस्य काष्ठामपरोऽनुगच्छे- न्मनोरथेनाप्यभवाय योगी । यद्योगमायां स्पृहयन्त्व्युदस्तां महत्तमा येन कृतप्रयत्नाः ॥ १६ ॥
  943. यस्यामेव कवय आत्मानमविरतविविधवृजिनसंसारपरितापोप-तप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यापवर्गिक-मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नैवाद्रियन्ते भागव-तत्वेनैव परिसमाप्तसर्वार्थाः ॥ १८ ॥
  944. राजन् पतिर्गुरुरलं भवतां यदूनां देवप्रियः कुलपतिः क्व च किङ्करो वः । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १९ ॥
  945. परो रजाः सवितर्जातवेदो वेदस्य गर्भो मनसेदं जजान । स्वरेतसाऽदः पुनराविश्य चष्टे हंसं गृध्राणामृषभं सङ्गृणीमः ॥ १३ ॥
  946. एवं बह्वबद्धमभिभाषमाणं नरदेवाभिमानिनं रजसा तमसाऽनु-विद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ९ ॥
  947. ब्राह्मण उवाच– त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर भारः । गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति चासौ न विदां प्रवादः ॥ १० ॥
  948. स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड्भयं कलिरिच्छा जरा च । निद्राऽरतिर्मन्युरहंमदश्च देहेन जातस्य हि मे न सन्ति ॥ ११ ॥
  949. जीवन्मृतत्वं नियमेन राज- न्नाद्यन्तवद्यद्विकृतस्य दृष्टम् । स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युतेऽसाविति कृत्ययोगः ॥ १२ ॥
  950. विशेषबुद्धेर्विवरं मनाक् च पश्यामि यन्न व्यवहारतोऽन्यत् । क ईश्वरस्तत्र किमीशितव्य- मथापि राजन् करवाम किं ते ॥ १३ ॥
  951. न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि । महद्विमानात्स्वकृताद्धिमादृग् धक्षत्यदूरादपि शूलपाणिः ॥ २६ ॥
  952. तथैव राजन्नुरुगार्हमेध- वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधु ॥ २ ॥
  953. स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा । चित्रं पृथङ्नामभी रूपभेद- मन्तर्बहिष्ठः स्वपुरैस्तनोति ॥ ५ ॥
  954. दुःखं सुखं व्यतिमिश्रं च तीव्रं कालोपपन्नं फलमाव्यनक्ति । आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटम् ॥ ६ ॥
  955. तावानयं व्यवहारः सदा वै क्षेत्रज्ञसाक्ष्योर्भवति स्थूलसूक्ष्मः । तस्मान्मनोलिङ्गमदो वदन्ति गुणागुणस्यास्य परावरस्य ॥ ७ ॥
  956. गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात् । यथा प्रदीपो घृतवर्तिमास्थितो स्थितिं स धूमां भजति ह्यन्यदा स्वम् । पदं तथा गुणकर्मानुबद्धं बहिर्मनः श्रयतेऽन्यत्र तत्वम् ॥ ८ ॥
  957. पदं विषयम् । एकादशासन्मनसोऽस्य वृत्ती- राकूतयः पञ्च धियोऽभिमानाः । मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमिम् ॥ ९ ॥
  958. गन्धाकृतिस्पर्शरसश्रवांसि विसर्गगत्यत्त्यभिजल्पशिल्पाः । एकादशं स्वीकरणं ममेति मायामहं द्वादशमेकमाहुः ॥ ११ ॥
  959. द्रव्यस्वभावाशयकर्मकालै- रेकादशामी मनसो विकाराः । सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ १२ ॥
  960. क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयं ज्योतिरजः परेशः । नारायणो भगवान्वासुदेवः स्वमाययाऽऽत्मन्व्यवधीयमानः ॥ १४ ॥
  961. भ्रातृव्यमेनं त्वमदभ्रवीर्य- मुपेक्षयाऽप्येधितमप्रमत्तः । गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोहम् ॥ १८ ॥
  962. ब्राह्मण उवाच– अयं जनो नाम चलन्पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः । तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा- जानूरुमध्योरशिरोधरांसाः ॥ ५ ॥
  963. अंसे च दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते । यस्मिन् भवान् रूढनिजाभिमानो राजाऽस्मि सिन्धुष्विति दुर्मदान्धः ॥ ६ ॥
  964. शोच्यानिमांस्तानधिकस्तवाधि- र्विष्ट्या निगृह्णन्निरनुग्रहोऽसि । जनस्य गोप्तेति विकत्थमानो न शोभसे वृद्धसभासु दुष्टः ॥ ७ ॥
  965. यदि क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् । तन्नामतोऽन्यद्व्यवहारमात्रं निरूप्यतां तत्क्रिययानुतिष्ठन् ॥ ८ ॥
  966. एवं निरुक्तं क्षितिशब्दवृत्त- मसन्निधानं परमाणवो ये । अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ॥ ९ ॥
  967. एवं कृशं स्थूलमणुर्बृहद्य- दसच्च सज्जीवमजीवमन्यत् । द्रव्यस्वभावाशयकालकर्म- नाम््नयाऽजयाऽवैहि कृतं द्वितीयम् ॥ १० ॥
  968. ज्ञानं विशुद्धं परमार्थमेक- मनन्तरं न बहिर्ब्रह्म सत्यम् । प्रत्यक् प्रशान्तं भगवच्छब्दवाच्यं यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥
  969. तस्येमान् श्लोकान् गायन्ति । आर्षभस्येह राजर्षेर्मनसाऽपि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ २६॥
  970. यज्ञाय धर्मपतये विधिनैपुणाय योगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारं गायन्मृगत्वमपि यः समुदाजहार ॥ २९ ॥
  971. तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति । गयं नृपं कः प्रतियाति कर्मभि- र्यज्वाभिमानी बहुविद्धर्मगोप्ता । सदागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ॥ ७ ॥
  972. तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयभागेन पुरोऽष्टावुपक्लृप्ताः ॥ २९ ॥
  973. श्रीशुक उवाच– तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठ-नखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भगवत्पदीत्यनुपलक्षितवचोभिरभिधीय-मानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १ ॥
  974. भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञां आत्मसमाधिरूपेण सन्निधायैतदभिगृणन् भव उपधावति ॥ १५ ॥
  975. भव उवाच– ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यातायानन्ताया-व्यक्ताय नम इति ॥ १६ ॥
  976. विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतम् । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुनि ॥ ५ ॥
  977. केतुमाले भगवान्कामदेवस्वरूपेणास्ते लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां च तद्वर्षपतीनां पुरुषायुषाऽहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते निपतन्ति ॥ १५ ॥
  978. तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताऽहस्सु तद्भर्तृभिरुपेतोपास्ते । इदं चोदाहरति ॥ १७ ॥
  979. यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपस्थास्नु यदत्र दृश्यते ॥ २७ ॥
  980. यद्रूपमेतन्निजमाययाऽर्पितं अर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्ययथोपलम्भना- त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥
  981. जरायुजं स्वेदजमण्डजोद्भिजं चराचरं देवर्षिपितृभूतभेदम् । द्यौः खं क्षितिः शैलसरित्समुद्र- द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२ ॥
  982. यस्मिन्नसंख्येयविशेषनाम- रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्वदृशा विनीयते तस्मै नमः सांख्यनिदर्शनाय हि ॥ ३३ ॥
  983. यस्य स्वरूपं कवयो विपश्चितो गुणेषु योनिष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥
  984. द्रव्यक्रियाहेत्वयनेशकर्तृभि- र्मायागुणैर्वस्तुनिरीक्षितात्मने । तथैव तत्रातिशयात्मबुद्धिभि- र्निरस्तमायाकृतये नमो नमः ॥ ३७ ॥
  985. यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्यया- द्यस्तस्य यत्नः श्रम एव केवलम् ॥ १४ ॥
  986. तन्नः प्रभो त्वं कुकलेवरार्पितां त्वन्माययाऽहं ममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः सुभावितम् ॥ इति ॥ १५ ॥
  987. यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य दत्तस्य कृतस्य शोभनम् । तेनाब्जनाभस्मृतिजन्मनः स्या- द्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८ ॥
  988. प्रत्नस्य विष्णो रूपं यत्सत्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥
  989. एवं परस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंश-ल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परित उपक्लृप्तः यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महान्सुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥
  990. ग्रहर्क्षतारामयमाधिदैविकं रूपं हरेर्मंत्रकृतस्त्रिकालम् । नमस्यतः स्तुवतो नश्यते वै स्वयं त्रिकालं कृतमाशु पापम् ॥ ३२ ॥
  991. तस्यानुभावमिमं भगवान्स्वायंभुवो नारदः सह तुंबुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ४० ॥
  992. यमदूता ऊचुः– वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४० ॥
  993. साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ १४ ॥
  994. म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्यगान्मुक्तिं किमुत श्रद्धया गृणन् ॥ ५२ ॥
  995. यम उवाच– परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद् यत्र विश्वम् । यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥
  996. न यस्य सख्यं पुरुषो वेत्ति सख्युः सखा वसन् संवसतः पुरेऽस्मिन् । गुणो यथा गुणिनोऽव्यक्तदृष्टि- स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥
  997. देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥
  998. यदोपरामो मनसो नामरूप- रूपस्य दृष्टिस्मृतिसंप्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥ २६ ॥
  999. मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कृषन्तीह गूढम् ॥ २७ ॥
  1000. स वै ममाशेषविशेषमाया- निषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८ ॥
  1001. यद्यन्निरुक्तं वचसा निरूपितं धियाऽक्षिभिर्वा मनसा वोत यस्य । मा भूत् स्वरूपं गुणरूपबृंहितं स वै गुणापायनिसर्गलक्षणः ॥ २९ ॥
  1002. यस्मिन् यतो येन च यस्य यस्मै यं यो यथा कुरुते कार्यते वा । परावरेषां परमं प्राक् स्वसिद्धं तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥
  1003. अस्तीति नास्तीति च वस्तुनिष्ठयो- रेकस्थयोर्भिन्नविरुद्धधर्मयोः । अपेक्षितं किञ्चन सांख्ययोगयोः समं परं ह्यनुकूलं बृहत् तत् ॥ ३२ ॥
  1004. योऽनुग्रहार्थं भजतां पादमूल- मनामरूपो भगवाननन्तः । नामानि रूपाणि च जन्मकर्मभि- र्भेजे स मह्यं परमः प्रसीदताम् ॥ ३३ ॥
  1005. यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथाऽनिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४ ॥
  1006. ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥
  1007. तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः । अङ्गानि क्रतवो जाता धर्म आत्माऽसवः सुराः ॥ ४६ ॥
  1008. अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥
  1009. मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥
  1010. सनत्कुमारोऽवतु कामदेवा- द्धयशीर्षो मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषान्तरार्चनात् कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥
  1011. यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥
  1012. तथैकात्म्यानुभावेन विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥
  1013. तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥
  1014. एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६ ॥
  1015. न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥
  1016. देवा ऊचुः– वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः । हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः ॥ २० ॥
  1017. पुरा स्वयम्भूरपि संयमाम्भ- स्युदीर्णवातोर्मिरवैः कराले । एकोऽरविन्दात् पतितस्ततार तस्माद् भयाद् येन स नोऽस्तु पारः ॥ २३ ॥
  1018. य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् । वयं च यस्यापि पुरः समेताः पश्याम लिङ्गं पृथगीशमानिनः ॥ २४ ॥
  1019. आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २८ ॥
  1020. देवा ऊचुः– नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते अस्तु चक्राय नमोऽस्तु पुरुहूतये ॥ ३० ॥
  1021. यत् ते गतीनां तिसृणामीशितुः परमं पदम् । नार्वाचीनो विसर्गस्य धातुर्वेदितुमर्हति ॥ ३१ ॥
  1022. अथ तत्र भगवान् किं देवदत्तवदिह गुणविसर्गापतितः पारतन्त्र्येण स्वकृतकुशलाकुशलफलमुपाददाति आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ।न हि विरोध उभयं भगवत्यपरिगणितगुणगण ईश्वर अनवगाह्य-माहात्म्ये अर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणदुरवग्रहवादिनां च विवादानवसरे उपरतसमस्तमाया-मये केवलस्वात्ममायामन्तर्धाय को नु दुर्घट इव भवति । स्वरूपद्वयाभावात् समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् । स एव हि पुनः सर्ववस्तुषु वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ।अथ ह वाव तव महिमामहामृतरससमुद्रविप्लुषाऽसकृल्लीढया स्व-मनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि निरन्तरनिर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपरिवर्तः । त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयोऽभूवन् दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिः यथाऽ-पराधं दण्डं दधर्थावतीर्य ॥ ३३ ॥
  1023. हंसाय दभ्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्संग्रहाय भवपान्थनिजाश्रयाय शश्वद् वरिष्ठगतये हरये नमस्ते ॥ ३५ ॥
  1024. न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । तस्य तानिच्छतो यच्छे यदि सोऽपि तथाविधः ॥ ३९ ॥
  1025. स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्मभिः । न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषग्यथा ॥ ४०॥
  1026. मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् । विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ४१ ॥
  1027. नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥
  1028. पुरुषः प्रकृतिर्व्यक्तमात्मभूतेन्द्रियाशयाः । शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहम् । अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ॥ ११ ॥
  1029. वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन्समन्तात् परिवर्तमानः । न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥
  1030. श्रीशुक उवाच– एवं सञ्चोदितो विप्रैर्मरुत्वानहनद् रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १० ॥
  1031. तयेन्द्रं स्म ह सन्तप्तं निर्वृतिर्नामुमाविशत् । ह्रीमतां वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ॥ ११ ॥
  1032. मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥
  1033. अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । परे तु जीवत्यपरस्य या मृतिः विपर्ययश्चेत् त्वमसि ध्रुवं परः ॥ ५३ ॥
  1034. न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदाऽऽत्मकर्मभिः । यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५४ ॥
  1035. त्वं तात नार्हसि स मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् । अञ्जस्तरेम भवताऽप्रजदुस्तरं यद् ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५५ ॥
  1036. उत्तिष्ठ तात त इमे शिशवो वयस्या- स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् । सुप्तश्चिरं ह्यशनया च भवान् परीतो भुंक्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५६ ॥
  1037. नाहं तनूज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न शृृणोमि कला गिरस्ते ॥ ५७ ॥
  1038. चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ १५ ॥
  1039. कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः । अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १६ ॥
  1040. वसिष्ठो भगवान् रामः कपिलो बादरायणिः । दूर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः ॥ १७ ॥
  1041. रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । पराशरोऽथ मैत्रेयो भरद्वाजश्च आरुणः । ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १८ ॥
  1042. हिरण्यनाभः कौशल्यः श्रुतदेवः क्रतुध्वजः । एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ १९ ॥
  1043. अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २५ ॥
  1044. सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः । गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २७ ॥
  1045. दृश्यमाना विनाऽर्थेन न दृश्यन्ते मनोभवाः कर्माभिध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २८ ॥
  1046. अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥ २९ ॥
  1047. तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ ३० ॥
  1048. यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य । सद्यस्तदीयमतुलानधिकं महित्वं प्रापुर्भवानपि परं न चिरादुपैति ॥ ३६ ॥
  1049. एष नित्योऽव्ययः सूक्ष्म एकः सर्वाश्रयः स्वदृक् । आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥ ९ ॥
  1050. नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् । उदासीन इवासीनः परावरदृगीश्वरः ॥ ११ ॥
  1051. वचस्युपरते प्राप्यो य एको मनसा सह । अनामरूपचिन्मात्रः सोऽव्ययः सदसत्परः ॥२१॥
  1052. यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते । मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ २२ ॥
  1053. ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः । जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥
  1054. तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छामलान्तःकरणोऽभ्ययान्मुहुः । प्रवृद्धभक्त्याऽऽप्रणयाश्रुलोचनः प्रहृष्टरोमा तमनादिपूरुषम् ॥ ३१ ॥
  1055. अहं वै सर्वभूतानि भूतात्मा भूतभावनः । शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥
  1056. लोकेऽविततमात्मानं लोकं चात्मनि सन्ततम् । उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥
  1057. एवं जागरणादीनि जीवस्थानानि चात्मनः । मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥
  1058. उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः । अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत् परम् ॥ ५६ ॥
  1059. यद्येष विस्मृतः पुंसो मद्भावो भिन्न आत्मनः । ततः संसार एतस्य देहाद् देहो मृतेर्मृतिः ॥ ५७ ॥
  1060. एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड््यः ॥ १३ ॥
  1061. न चास्य कश्चिद् दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः । समस्य सर्वत्र निरञ्जनस्य कुतोऽनुरागः कुत एव रोषः ॥ २२ ॥
  1062. देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापानुग्रह एव च ॥ २९ ॥
  1063. अविवेककृतः पुंसो ह्यर्थभेद इहात्मनि । गुणदोषविकल्पश्च भिदेव स्वप्नकल्पिता ॥ ३० ॥
  1064. इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । मूर्ध्ना सञ्जगृहे शापमेतावत् साधुलक्षणम् ॥ ३७ ॥
  1065. तस्या अधीश्वरः साक्षात् त्वमेकः पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ ११ ॥
  1066. गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् । त्वं हि सर्वशरीरात्मा श्रीः शरीरेन्द्रियाशया ॥ १२ ॥
  1067. नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः । यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथेमा उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १३ ॥
  1068. निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः । स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ ६ ॥
  1069. ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते । विन्दन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ९ ॥
  1070. कालं चरन्तं सृजतीश आश्रयः प्रधानपुंभ्यां नरदेव सत्यकृत् । स तत्र तत्रोभयसिद्धिमाप्नुयात् लिङ्गात्मनो लिङ्गगुणाश्च सन्ति ॥ ११ ॥
  1071. य एष राजन्नपि काल ईशिता सत्वं सुरानीकमिवैधयत्यजः । तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ १२ ॥
  1072. शपतोरसकृद् विष्णुं यद् ब्रह्म परमव्ययम् । श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ २० ॥
  1073. यन्निबन्धोऽभिमानोऽयं तद्वधात् प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः । परस्येदमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २६ ॥
  1074. तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज््यात् कथञ्चिन्नेक्षते पृथक् ॥ २७ ॥
  1075. यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २८ ॥
  1076. कीटः पेशस्कृता रुद्धः कुड्ये यान्तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्सरूपताम् ॥ २९ ॥
  1077. एवं कृष्णे भगवति मायामनुज ईश्वरे । वैरेण धूतपाप्मानः तमापुरनुचिन्तया ॥ ३० ॥
  1078. कामात् स्नेहाद् भयाद् द्वेषाद् यथा भक्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ ३१ ॥
  1079. गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ ३२ ॥
  1080. कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रति । तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ३३ ॥
  1081. मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पार्थिव । पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ ३४ ॥
  1082. पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥३८॥
  1083. तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् । भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ ४४ ॥
  1084. ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ । रावणः कुम्भकर्णश्च सर्वलोकप्रतापिनौ ॥ ४५ ॥
  1085. तावद्य क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४६ ॥
  1086. वैरानुबन्धतीव्रेण ध्यानेनाच्युतसाम्यताम् । नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४८ ॥
  1087. तावद् यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् । सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानकान् ॥ १० ॥
  1088. विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥
  1089. नित्य आत्माऽव्ययः शुद्धः सर्ववित् सर्वगः परः । धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ २२ ॥
  1090. यथाऽम्भसा प्रचलता तरवोऽपि चला इव । चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ २३ ॥
  1091. एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् । याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥
  1092. सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेकश्च चिन्ता च विवेकस्मृतिरेव च ॥ २६ ॥
  1093. यम उवाच– अहो अमीषां वयसाऽधिकानां विपश्यतां लोकविधिं विमोहः । यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अनुशोचन्त्यपार्थम् ॥ ३७ ॥
  1094. भूतानि तैस्तैर्निजयोनिकर्मभि- र्भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थित- स्तस्या गुणैरन्यतमो निबध्यते ॥ ४१ ॥
  1095. यथाऽनलो दारुषु भिन्न ईयते यथाऽनिलो देहगतः पृथक् स्थितः । यथा नभः सर्वगतं न सज्जते तथा गुणैः सर्वगुणाश्रयः परः ॥ ४३ ॥
  1096. सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ । यः श्रोता योऽनुवक्तेह न स दृश्येत कर्हिचित् ॥ ४४ ॥
  1097. न श्रोता नानुवक्ताऽयं मुख्योऽप्यत्र महानसुः । यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥
  1098. भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः । भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥
  1099. यावल्लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनः । ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥
  1100. वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ ४८ ॥
  1101. हिरण्यकशिपुरुवाच– बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ ५८ ॥
  1102. क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव च । स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनः ॥ ६० ॥
  1103. सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९ ॥
  1104. तदहं वर्धमानेन तपोयज्ञसमाधिना । कालात्मनोश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥ १० ॥
  1105. अन्यथेदं विधास्येऽहमयथापूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्तैर्वैष्णवादिभिः ॥ ११ ॥
  1106. तवासनं हि जगतां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥
  1107. तपन्तं तपसा लोकान् यथा भाविततं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ १६ ॥
  1108. व्यवसायेन तेऽनेन दुष्करेणामनस्विभिः । तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥
  1109. हिरण्यकशिपुरुवाच– कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् । अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा ॥ २६ ॥
  1110. आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजःसत्वतमोधाम्ने पराय महते नमः ॥ २७ ॥
  1111. त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तिर्मनइन्द्रियाणां पतिर्महाभूतगुणाशयेशः ॥ २९ ॥
  1112. त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्माऽऽत्मवतामनादि- रनन्तपारः कविरव्ययात्मा ॥ ३० ॥
  1113. त्वमेव कालोऽनिमिषो जनाना- मायुर्लवाद्यावयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महान् त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥
  1114. त्वत्तः परं नापरमप्यनेज- देजच्च किञ्चिद् व्यतिरिक्तमस्ति । विद्याकलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत् त्रिपृष्ठः ॥ ३२ ॥
  1115. नान्तर्बहिर्दिवानक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥
  1116. एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः । भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥
  1117. तस्मिन् महेन्द्रभवने महासुरो महाबलो निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥
  1118. तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥
  1119. यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २८ ॥
  1120. निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २९ ॥
  1121. यस्मिन् महागुणा राजन् गृह्यन्ते कविभिर्मुहुः । न तेऽधुनाऽभिधीयन्ते यथा भगवतीश्वरे ॥ ३५ ॥
  1122. प्रह्लाद उवाच– परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टः तस्मै भगवते नमः ॥ ११ ॥
  1123. स यदाऽनुगतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथाऽन्योऽहमिति देहगताऽसती ॥ १२ ॥
  1124. प्रह्लाद उवाच– श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥
  1125. गुरुपुत्र उवाच– न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो । नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं क्व तदाऽऽत्ममानः ॥ २८ ॥
  1126. प्रत्यगात्मस्वरूपेण कालरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योविकल्पितः ॥ २८ ॥
  1127. केवलानुभवानन्दस्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २९ ॥
  1128. तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् । भावमासुरमुन्मुच्य तया तुष्यत्यधोक्षजः ॥ ३० ॥
  1129. तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरैरिह येऽनुसिद्धाः । धर्मादिभिः किमगुणेन च कांक्षितेन सारं जुषां चरणयोरुपगायतां नः ॥ ३१ ॥
  1130. जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः । फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥
  1131. अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः । विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥ २२ ॥
  1132. बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः । ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥
  1133. एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः । सरूपमात्मनो धत्ते गन्धैर्वायुरिवान्वयात् ॥ २६ ॥
  1134. एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः । अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवाप्यते ॥ २७ ॥
  1135. तस्माद् भवद्भिः कर्तव्यः कर्मणां त्रिगुणात्मनाम् । बीजनिर्हरणे योगः प्रवाहोपरमो धियः ॥ २९ ॥
  1136. निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि । यदाऽऽतिहर्षोत्पुलकाश्रुगद्गदः प्रोत्कण्ठ उद्गायति रौति नृत्यति॥ ३५ ॥
  1137. यदा ग्रहग्रस्त इव क्वचिद्धस- त्याक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्मगतिर्गतत्रपः ॥ ३६ ॥
  1138. तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३७ ॥
  1139. अधोक्षजालापमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद् ब्रह्मनिर्वाणसुखं विदुर्बुधा- स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३८ ॥
  1140. कोऽतिप्रयासोऽसुरबालका हरे- रुपासने स्वे हृदि छिद्रवत् सतः । अस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥ ३९ ॥
  1141. तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः । भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ॥ ४९ ॥
  1142. सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः । भूतैर्महद्भिः स्वकृतैः कृतानां बीजसंज्ञितः ॥ ५० ॥
  1143. दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ ५५ ॥
  1144. ऋषय ऊचुः– त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं समस्तम् । तद् विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४४ ॥
  1145. गन्धर्वा ऊचुः– वयं विभो ते नटनाट्यगायका येनात्मसाद् वीर्यबलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ५१ ॥
  1146. साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ २ ॥
  1147. प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके । तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥
  1148. विप्राद् द्विषड्गुणयुतादरविन्दनाभ- पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् । मन्ये तदर्पितमनोवचनात्मगेह- प्राणः पुनाति सकलं न तु भूरिमानः ॥ १० ॥
  1149. यस्मिन् यतो येन च यर्हि यस्य यस्मै यथा यमुत यस्त्वपरः परो वा । भावं करोति विकरोति पृथक् स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ २० ॥
  1150. माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः । छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेत्त्वदन्यः ॥ २१ ॥
  1151. क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥ २६ ॥
  1152. नैषा परावरमतिर्भवतो ननु स्यात् जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि । संसेवया सुरतरोरिव ते प्रसादः सेवानुरूप उदयो न परावरत्वम् ॥ २७ ॥
  1153. त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था । यद् यस्य जन्मनिधनं स्थितिरीक्षणं च तद् वै तदेव खलु कालवदुष्टितर्वोः ॥ ३१ ॥
  1154. न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये शेषासनो निजसुखानुभवो निरीहः । योगेन मीलितदृगात्मनि वीतनिद्र- स्तुर्यस्थितो ननु तमोऽनुगुणांश्च युंक्षे ॥ ३२ ॥
  1155. तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदितं प्रकृतिधर्मिण आत्मगूढम् । अम्भस्यनन्तशयनाद्विरमत्समाधेः नाभेरभूत् स्वकणिकाद्वटवन्महाब्जम् ॥ ३३ ॥
  1156. तत्सम्भवः कविरतोऽन्यदपश्यमान- स्त्वां बीजमात्मनि ततं स बहिर्विचिन्वन् । नाविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमिहोपलभेत बीजम् ॥ ३४ ॥
  1157. स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः । त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५ ॥
  1158. एवं सहस्रवदनाङ्घ्रिशिरःकरोरु- नासास्यकर्णनयनाभरणायुधाढ्यम् । मायामयं सदुपलक्षणसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ ३६ ॥
  1159. प्रायेण देवमुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठाः । नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥
  1160. रूपे इमे सदसती तव वेददृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य । युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ ४७ ॥
  1161. श्रीभगवानुवाच– त्रिः सप्तभिः पिता पूतः पितृभिः सह तेऽनघ । यत् साधोऽस्य कुले जातो भवान् वै कुलपावनः ॥ १९ ॥
  1162. भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २२ ॥
  1163. कुरु ते प्रेतकार्याणि पितुः पूतस्य सर्वशः । मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २३ ॥
  1164. श्रीभगवानुवाच– मैवंविधोऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३१ ॥
  1165. एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः । जहुस्तेऽन्ते तदात्मानः कीटाः पेशस्कृतो यथा ॥ ४० ॥
  1166. एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ ४३ ॥
  1167. प्रह्लादस्यानुचरितं महाभागवतस्य च । भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४४ ॥
  1168. सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् । परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४५ ॥
  1169. धर्मो भागवतानां च भगवान् येन गम्यते । आख्यानेऽस्मिन् समाख्यातमाध्यात्मिकमशेषतः ॥ ४६ ॥
  1170. स वा अयं ब्रह्म महद् विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद् वः खलु मातुलेय आत्माऽर्हणीयो विधिकृद् गुरुश्च ॥ ५० ॥
  1171. नारद उवाच– स एष भगवान् राजन् व्यतनोद् विततं यशः । पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ १ ॥
  1172. राजोवाच– कस्मिन् कर्मणि देवस्य यशोऽभूज्जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ २ ॥
  1173. वत्स आसीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः ॥ १२ ॥
  1174. देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन । आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ॥ १४ ॥
  1175. श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्याऽवनतिः सख्यं दास्यमात्मसमर्पणम् ॥ ११ ॥
  1176. या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ ३० ॥
  1177. द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥
  1178. दत्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥
  1179. अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥
  1180. आत्मन्यग्नीन् समारोप्य संन्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ २४ ॥
  1181. मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ॥ २८ ॥
  1182. कर्माण्यध्यात्मना रुद्रे यदहंसम्मताः क्रियाः । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
  1183. इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाऽद्वयोऽथ विरमेद् दग्धयोनिरिवानिलः ॥ ३१ ॥
  1184. पश्येदात्मन्यदो विश्वं परे सदसतोऽद्वये । आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥
  1185. नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् । अतिवादान् त्यजेत् तर्कान् पक्षं कञ्चिन्न संश्रयेत् ॥ ७ ॥
  1186. न शिष्याननुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् । न व्याख्यामुपजीवेत नारम्भानारभेत् क्वचित् ॥ ८ ॥
  1187. विकल्पं जुहुयाच्चित्ते तन्मनस्यर्थविभ्रमे । मनो वैकारिके हुत्वा मायायां वै जुहोत्यमुम् ॥ ४४ ॥
  1188. स्वात्मवृत्तं मयेत्थं ते सुगुप्तमनुवर्णितम् । व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्प्रियः ॥ ४६ ॥
  1189. कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १४ ॥
  1190. तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २२ ॥
  1191. पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३८ ॥
  1192. तेष्वीशो भगवान् राजन् तारतम्येन वर्तते । तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३९ ॥
  1193. पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४२ ॥
  1194. तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४३ ॥
  1195. निषेकादिश्मशानान्तैः संस्कारैः संस्कृताः द्विजाः । इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥
  1196. इन्द्रियाणि मनस्येवं वाचि वैकारिकं मनः । तां तु वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ॥ ५३ ॥
  1197. अग्निः सूर्यो दिवा वायुः शुक्लो राकोत्तरः स्वराट् ॥ ५४ ॥
  1198. विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयः । देवयानमिदं प्राहुर्भूत्वा भूत्वाऽनुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥
  1199. य एते पितृदेवानामयने देवनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥
  1200. आदावन्तेऽजनानाशं बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिश्च यत् स्वयम् ॥ ५७ ॥
  1201. अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥
  1202. क्षित्यादीनां इहार्थानां छाया न कतमाऽपि हि । न संघातो विकारोऽपि न पृथङ् नान्वितोऽपि वा ॥ ५९ ॥
  1203. धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यासन्नावयवा इव ॥ ६० ॥
  1204. स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः । जाग्रत्स्वप्नौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥
  1205. अहं पुराऽभवं कश्चिद् गन्धर्व उपबर्हणः । नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥
  1206. यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३ ॥
  1207. न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः । अथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्वतमांसि काले ॥ २२ ॥
  1208. विपश्चितं प्राणमनोधियात्मना- मर्थेन्द्रियाभासमनिद्रमव्रणम् । छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥
  1209. अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु । त्रिनाभि विद्युद्बलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥
  1210. न यस्य कश्चातिपिपर्ति मायां यया जनो मुह्यति वेदनार्थम् । तं निर्जितात्मात्मगुणं परेशं नमामि भूतेषु समं चरन्तम् ॥ ३० ॥
  1211. अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः । लोकास्त्रयोऽथाखिललोकपालाः प्रसीदतां ब्रह्म माविभूतिः ॥ ३३ ॥
  1212. सोमं मनो यस्य समामनन्ति दिवौकसां वै बलमन्ध आयुः । ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥
  1213. अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा । अन्तः समुद्रे पचतः स्वधातून् प्रसीदतां नः स महाविभूतिः ॥ ३५ ॥
  1214. यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् । द्वारं च मुक्तेरमृतस्य मृत्योः प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥
  1215. अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥
  1216. तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यवीर्यम् । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९ ॥
  1217. विलोक्य तं देववरं त्रिलोक्या भवाय देव्याऽभियुतं मुनीनाम् । आसीनमद्रावपवर्गहेतो- स्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ २० ॥
  1218. प्रजा ऊचुः– देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नान् त्रैलोक्यदहनाद् विषात् ॥ २१ ॥
  1219. त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥
  1220. श्रीशुक उवाच– नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ १९ ॥
  1221. धर्मः क्वचित् तस्य न भूतसौहृदं त्यागः क्वचित् तच्च न मुक्तिकारणम् । वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः ॥ २० ॥
  1222. क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्यस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्चन काङ्क्षते हि माम् ॥ २१ ॥
  1223. अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः । स वै भगवतस्साक्षात् विष्णोरंशांशसम्भवः ॥ ३३ ॥
  1224. धन्वन्तरिरीति ख्यात आयुर्वेददृगिज्यभाक् । तमालोक्यासुरास्सर्वे कलशं चामृताहृतम् ॥ ३४ ॥
  1225. विषण्णमनसो देवा हरिं शरणमाययुः ॥ ३५ ॥
  1226. दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः । तल्लीलया गरुडमूधर्ि्न पतद् गृहीत्वा तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥ ५६ ॥
  1227. माली सुमाल्यतिबलौ युधि पेततुर्य- च्चक्रेणकृत्तशिरसावथ माल्यवांस्तम् । आहत्य तिग्मगदयाऽहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः ॥ ५७॥
  1228. यद्यप्यसावधर्मेण मां बध्नीयादनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
  1229. एष वा उत्तमश्लोको न जिहासति यद् यशः । हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥॥
  1230. मीन उवाच– न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत् त्वाऽहं शरणं गता ॥ २० ॥
  1231. एवंविधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे । क्रियाकलापैः समुवाह भक्तिं यया विरिञ्चादिमधश्चकार ॥ ८४ ॥
  1232. रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे- स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् । जघ्ने चतुर्दशसहस्रमवारणीय- कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९० ॥
  1233. रक्षोधमेन वृकवद् विपिनेऽसमक्षं वैदेहराजदुहितुर्यपयापितायाम् । भ्रात्रा वने कृपणवत् प्रियया वियुक्तः स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ॥ ९२ ॥
  1234. मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥
  1235. तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः । स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद् रोद्धुमीश्वरः ॥ १६ ॥
  1236. स्त्रीपुम्प्रसङ्ग एतादृक् सर्वत्र त्रासमावहः । अपीश्वराणां किमुत ग्राम्यस्य गृहमेधिनः ॥ १७ ॥
  1237. तत ऊर्ध्वं ब्रह्मचर्यं धारयन्नजुहोत् प्रभुः । त्रयोदशाब्दसाहस्त्रमग्निहोत्रमखण्डितम् ॥ १८ ॥
  1238. स्मरतां हृदि विन्यस्य बुद्धं पद्ममिवांशुकैः । स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥
  1239. पुरुषो रामचरितं श्रवणैरुपधारयन् । आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥
  1240. वरेण छन्दयामास प्रीतः सत्यवतीसुतः । वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥
  1241. मूढे भर द्वाजमिमं भरद्वाजं बृहस्पतेः । त्राता तु दुःखात् पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥
  1242. चोद्यमाना सुरैरेवं मत्वा तं देवमात्मजम् । व्यसृजन्मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥
  1243. स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः । दृष्टश्रुताभ्यां मनसाऽनुचिन्तयन् प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥
  1244. यतो यतो धावति दैवचोदितं मनो विकारात्मकमात्मपञ्चसु । गुणेषु मायारचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते ॥ ४२ ॥
  1245. ज्योतिर्यथैवोदकपार्थिवेष्वदः समीरवेगानुगतं विभाव्यते । एवं स्वमायारचितेष्वसौ पुमान् गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥
  1246. तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः । आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥
  1247. अग्नेर्यथा दारुवियोगयोगयो- रदृष्टतोऽन्यन्न निमित्तमस्ति । एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥ ५१ ॥
  1248. भगवानपि विश्वात्मा भक्तानामभयङ्करः । आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १७ ॥
  1249. ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी । दधार सर्वात्मकमात्मभूतं काष्ठा यथाऽऽनन्दकरं नभस्तः ॥ १९ ॥
  1250. ब्रह्मभवावूचतुः– सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमुत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २७ ॥
  1251. एकायनोऽसौ द्विफलस्त्रिमूल- श्चतूरसः पञ्चशिफः षडात्मा । सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः ॥ २८ ॥
  1252. त्वमेक एवास्य सतः प्रसूतिः स्थानं निधानं त्वमनुग्रहश्च । त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये ॥ २९ ॥
  1253. बिभर्षि रूपाण्यवबोध आत्मन् क्षेमाय लोकस्य चराचरस्य । सत्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् ॥ ३० ॥
  1254. त्वय्यम्बुजाक्षाखिलसत्त्वधामि्न समाधिनाऽऽवेशितचेतसो ये । त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३१ ॥
  1255. स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः । भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सदनुग्रहो भवान् ॥ ३२ ॥
  1256. सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयउपायनं वपुः । वेदक्रियायोगतपःसमाधिभि- स्तवार्हणं येन जनः समीहते ॥ ३५ ॥
  1257. सत्त्वं न चेद् धातरिदं निजं भवेद् विज्ञानमज्ञानभिदापमार्जनम् । गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वाऽगुणः ॥ ३६ ॥
  1258. न नामरूपे गुणजन्मकर्मभिः निरूपितव्ये तव तस्य साक्षिणः । मनोवचोभ्यामनुमेयवर्त्मनो देवक्रियायाः प्रतियन्त्यथापि हि ॥ ३७ ॥
  1259. शृण्वन् गृणन् संस्मरयंश्च चिन्तयन् नामानि रूपाणि च मङ्गलानि ते । क्रियासु यस्त्वच्चरणारविन्दयो- राविष्टचित्तो न भवाय कल्प्यते ॥ ३८ ॥
  1260. दिष्ट्या हरेऽस्या भवतः पदो भुवो भारोऽपनीतस्तव जन्मनेशितुः । दिष्ट्याऽङ्कितां त्वत्पदकैः सुशोभनै- र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३९ ॥
  1261. न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे । भवो निरोधः स्थितिरप्यविद्ययाऽऽ- कृता यतस्त्वय्यभवाश्रयात्मनि ॥ ४० ॥
  1262. स एव स्वप्रकृत्येदं सृष्ट्वाऽग्रे त्रिगुणात्मकम् । तदनु त्वं ह्यप्रविष्टः प्रविष्टः इव भाव्यसे ॥ १५ ॥
  1263. य एतेऽविकृता भावाः सप्त ते विकृतैः सह । नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १६ ॥
  1264. सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १७ ॥
  1265. एवं भवान् बुद्ध्यनुमेयलक्षणो ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः । अनावृतत्वाद् बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १८ ॥
  1266. यदात्मनो दृश्यगुणेषु सन्निधे- र्व्यवस्यसेऽस्वव्यतिरेकतोऽबुधैः । विनाऽनुवादं न च तन्मनीषितं सम्यग् वचो व्यक्तमुपाददत्पुमान् ॥ १९ ॥
  1267. त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुध्यते तदाश्रयत्वादुपचर्यसे गुणैः ॥ २० ॥
  1268. सत्त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः । सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ २१ ॥
  1269. त्वमस्य लोकस्य विभो रिरक्षिषु- र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्यसंज्ञासुरकोटियूथपै- र्निर्व्यूह्यमानां निहनिष्यसे चमूम् ॥ २२ ॥
  1270. देवक्युवाच– रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपम् ॥ २५ ॥
  1271. नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यतेऽशेषसंज्ञः ॥ २६ ॥
  1272. योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां- स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २७ ॥
  1273. मा शोचेथां महाभागावात्मजान् स्वकृतं भुजः । जन्तवो न सदैकत्र दैवाधीनाः सहासते ॥ १८ ॥
  1274. भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च । नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
  1275. यतोऽनेकविधोऽभेदो यत आत्मविपर्ययः । देहयोगवियोगश्च संसृतिर्न निवर्तते ॥ २० ॥
  1276. तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि । माऽनुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥
  1277. एवमेतन्महाराज यथा वदसि देहिनाम् । अज्ञानप्रभवा हन्ति स्वपरेति भिदा यतः ॥ २६ ॥
  1278. शोकहर्षभयद्वेषलोभमोहमदान्विताः । मिथो घ्नन्तो न पश्यन्ति भावैर्भावान् पृथग्दृशः ॥ २७ ॥
  1279. यक्षावूचतुः - कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ ३० ॥
  1280. त्वमेकः सर्वभूतानां देह आत्मेन्द्रियेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३१ ॥
  1281. त्वं महान् प्रकृतिः सूक्ष्मा रजस्सत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३२ ॥
  1282. गृह्यमाणस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक् सिद्धं गुणसंस्थितेः ॥ ३३ ॥
  1283. तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मद्योतैर्गुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ३४ ॥
  1284. यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैस्तिर्यग्योनिष्वसङ्गतैः ॥ ३५ ॥
  1285. अनुग्रहोऽयं भवता कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
  1286. न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति त्वत्पादरजःप्रपन्नाः ॥ ३७ ॥
  1287. नमस्तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥
  1288. ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये । अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥
  1289. कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्टे्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥
  1290. नमो गुणप्रदीपाय गुणात्मस्थोदयाय च । गुणप्रत्युपलक्ष्याय गुणद्रष्टे्र स्वसंविदे ॥ ४६ ॥
  1291. परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्द्रष्ट्रे विश्वहेतवे ॥ ४८ ॥
  1292. त्वं ह्यस्य जन्मस्थितिसंयमान् विभो गुणैरनीहोऽकृतकालशक्तिधृक् । तस्मात् स्वभावात् प्रतिबोधयस्व नः समीक्षयाऽमोघविहार ईहसे ॥ ४९ ॥
  1293. तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनाऽवितुः सतां स्थातुश्च ते कर्मपरीप्सयेहतः ॥ ५० ॥
  1294. त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्जनम् । नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७ ॥
  1295. अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥
  1296. तत् कालियः परं वेद नान्यः कश्चित् स लेलिहा । अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥
  1297. उवाह कृष्णो भगवान् श्रीदामानं पराजितः । वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २३ ॥
  1298. इति वेणुरवं राजन् सर्वभूतमनोहरम् । श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥ ७ ॥
  1299. गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदराधरसुधासरसाग््य्रगेयम् । भुङ्क्ते स्वयं यदवशिष्टरसौघमार्गे हृष्टत्वचोऽश्रु मुमुचुस्तरवः सदर्भाः ॥ १० ॥
  1300. अस्ति चेदीश्वरः कश्चित् फलरूपः स कर्मणः । कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥
  1301. किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् । अनीशेनान्यथाकर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥
  1302. स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥
  1303. देहानुच्चावचान् जन्तुः प्राप्योत्सृजति कर्मणा । शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥
  1304. तस्मात् सुपूजयेत् कर्म स्वभावस्थः स्वकर्मकृत् । अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥
  1305. सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः । रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २१ ॥
  1306. रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः । प्रजास्तैरेव सिध्द्यन्ति महेन्द्रः किं करिष्यति ॥ २२ ॥
  1307. तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः । य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥ २५ ॥
  1308. वाचालं मानिनं मत्तमज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥
  1309. इन्द्र उवाच– विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानुबन्धः ॥ ४ ॥
  1310. कुतो नु तद्धेतव ईश मन्युलोभादयो येऽबुधलिङ्गभावाः । अथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥
  1311. पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः । हिताय चेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥
  1312. येऽस्मद्विधाः स्युर्जगदीशमानिन- स्त्वां वीक्ष्य कालेऽभयमाशु तं मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया- ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥
  1313. स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥
  1314. दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १० ॥
  1315. तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
  1316. राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥
  1317. श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
  1318. नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
  1319. कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
  1320. मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
  1321. त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमाद्यन्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्त्वताम् ॥ २४ ॥
  1322. य ईक्षिताऽहंरहितोऽप्यसत्सतोः स्वतेजसाऽपास्ततमोभिदाभ्रमः । स्वमाययाऽऽत्मन् रचितेषु तत् सन् प्राणादिभिर्जन्तुषु भाति चित्रधा ॥ ११ ॥
  1323. यस्याखिलामीवहभिः सुमङ्गलै- र्वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगद् यास्तद्विरक्ताः स्युरशोभना मताः ॥ १२ ॥
  1324. प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३० ॥
  1325. भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥
  1326. नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥
  1327. त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥
  1328. त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥
  1329. तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥
  1330. अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १४ ॥
  1331. रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रं तु वृष्टिस्तव वीर्यमिष्यते ॥ १५ ॥
  1332. त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥
  1333. यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥
  1334. नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥
  1335. श्रीशुक उवाच– पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥
  1336. उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥॥
  1337. नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि । बाल्यपौगण्डकैशोराः पुत्राभ्यामगमन् क्वचित् ॥ ३ ॥
  1338. न लब्धो दैवहतयोर्वासो नौ भवदन्तिके । ये बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥(भा.मू
  1339. सर्वार्थसम्भवो देहो जनितः पोषितो यतः । न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५ ॥
  1340. यस्तयोरात्मजः कल्प आत्मना च धनेन च । वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥
  1341. मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् । गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७ ॥
  1342. तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः । मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८ ॥
  1343. तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः । अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदोर्भृशम् ॥ ९ ॥
  1344. मयि भृत्य उपासीने भवतो विबुधादयः । बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४ ॥
  1345. फलमूलकृताहारं वृतं शिष्यशतैर्मुनिम् । दृष्ट्वा परमसन्तुष्टौ रामकृष्णौ जगत्पती ॥ २० ॥
  1346. नमस्ते भार्गव श्रीमन् जामदग्न्य तपोधन । रामकृष्णौ स्मृतावावां क्वचित् ते श्रवणं गतौ ॥ २२ ॥
  1347. एतस्मिन्नेव काले तु क्षीरोदे सागरोत्तमे । निवासे देवदेवस्य शङ्खचक्रगदाभृतः ॥ ७ ॥
  1348. उपासीनो महाबाहुः श्रीमान् वैरोचनो बलिः । जहार देवदेवस्य किरीटं रत्नचित्रितम् ॥ ८ ॥
  1349. इन्द्रनीलसहस्राढ्यं गोमेदकशताचितम् । पद्मरागमहानीलमुक्ताफलविराजितम् ॥ ९ ॥
  1350. पुष्यरागप्रवालाढ्यं दिव्यकाञ्चननिर्मितम् । हृतं दानववीरेण विदित्वा पुरपालकः । तमन्वधावत् त्वरितं वैनतेयो विहङ्गराट् ॥ १० ॥
  1351. हिरण्यगर्भत्वमुपेत्य मूले सृजस्यशेषं भुवनं स एव । नारायणात्मन् परिपासि भूयो जहार चान्ते भगवन् शिवात्मन् ॥ १५ ॥
  1352. सत्यभामोवाच– यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात् स तेन नीतच्छिदादिशत मां प्रभवेऽपि दत्ताम् ॥ ९ ॥
  1353. न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥
  1354. नाग्निर्न सूर्यो न च चन्द्रतारकं न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥
  1355. यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिश्च जले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः ॥ १३॥
  1356. ब्रह्म ते हृदयं शुक्लं तपः स्वाध्यायसंयमैः । यत्रोपलब्धं सुव्यक्तमव्यक्तं च ततः परम् ॥ १९ ॥
  1357. रुग्मिण्युवाच– नन्वेतदेवमरविन्दविलोचनाह यद् वै भवान् न भवतः सदृशो विभूम्नः । क्व स्वे महिम््नयभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरन्यगृहीतपादा ॥ ३८ ॥
  1358. सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा । योऽनित्यकेन्द्रियगणैः कृतविग्रहस्त्वं त्वत्सेवया नृपपदं विधुतं तमोऽन्धम् ॥ ३९ ॥
  1359. त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्त्म स्फुटं नृपशुभिर्ननु दुर्विभाव्यम् । यस्मादलौकिकमिवेहितमीश्वरस्य भूमंस्तवेहितमथो अनु मे भवन्ति ॥ ४० ॥
  1360. निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद् यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः । न त्वा विदन्त्यसुतृपोऽन्तिकमाढ्यतान्धाः प्रेष्ठः सतां बलिभुजामपि योऽन्तरास्ते ॥ ४१ ॥
  1361. त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुदितो भवतः प्रसाद- स्त्रय्यां च यश्च रतयोः सुखदुःखिनोर्न ॥ ४२ ॥
  1362. त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि । मुक्त्वा भवद्भवदुदीरितकालगन्ध- ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्यान् ॥ ४३ ॥
  1363. का स्त्री वृणीत तव पादसरोजगन्धमाघ्राय सन्मुखरितं जनतापवर्गम् । लक्ष्म्यालयं त्वविगणय्य गुणालयाढ्यं मर्त्याशिषोरुभयमर्थविविक्तदृष्टिः ॥४६॥
  1364. तं त्वाऽनुरूपमभजं जगतामधीश- मात्मानमत्र च परत्र च कामरूपम् । स्यान्मे तवाङ्घ्रिशरणं श्रुतिभिर्भ्रमत्या ये वै भजन्ति त उ यान्त्यनृतापवर्गम् ॥ ४७ ॥
  1365. कस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः । यत्कर्णमूलमरिकर्शन नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४८ ॥
  1366. त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त- र्मांसास्थिरक्तकृमिविड्भरितान्त्रवीतम् । जीवच्छवं भजति काममतिर्विमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ४९ ॥
  1367. अस्त्यम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः । यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो मामीक्षसे तदु ह नः परमानुकम्पा ॥ ५० ॥
  1368. नैवालीकं भवत्येव वचस्ते मधुसूदन । अम्बाया इव हि प्रायः कन्यावादरतिः क्वचित् ॥ ५१ ॥
  1369. मुग्धायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् । बुधोऽसतीं न बिभृयात् तां बिभ्रदुभयच्युतः ॥ ५२ ॥
  1370. तस्याः सुदुःखभयशोकविनष्टबुद्धे- र्हस्ताच्छ्लथद्वलयतो व्यजनं पपात । देहश्च विक्लवधियः सहसैव बिभ्यद् रम्भेव वातविहता प्रविकीर्य केशान् ॥ २८ ॥
  1371. रामा गृहे विहरतः पुरतः कराभ्यां बद्धेक्षणाः स्वदयितस्य मुदा हसन्त्यः । गात्रान्तराण्यपिदधुर्निजपूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ॥ ६ ॥
  1372. निहते रुग्मिणि श्याले नाब्रवीत् साध्वसाधु वा । रुग्मिणीबलयो राजन् स्नेहभङ्गभयाद् हरिः ॥ ५० ॥
  1373. श्रुत्वाऽजितं जरासन्धं नृपतेर्ध्यायतो हरिः । आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥
  1374. ततो मुहूर्तात् प्रकृतावुपस्थित- स्तत्रानुतिष्ठत् स्वजनानुसङ्गतः । महानुभावस्तदबुद्ध्यतासुरीं मायां स साल्वप्रकृतां मयोदिताम् ॥ ३८ ॥
  1375. श्रीभगवानुवाच– स्वायम्भुवं ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रत्यानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥
  1376. श्वेतद्वीपं गतवति त्वयि द्रष्टुं तमीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ॥ १० ॥
  1377. तत्राप्ययमभूत् प्रश्नस्त्वं मां यदनुपृच्छसि । तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ॥ ११ ॥
  1378. अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥
  1379. सनन्दन उवाच— स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १३ ॥
  1380. यथा शयानं सम्राजं बन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १४ ॥
  1381. श्रुतय ऊचुः– जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥ १५ ॥
  1382. बृहदुपलब्धमेतदवशेषतया यत उदगास्तमस्यविकृतेऽविकृतः । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥
  1383. इति सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १७ ॥
  1384. दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥ १८ ॥
  1385. उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १९ ॥
  1386. स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥ २० ॥
  1387. प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे । तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥
  1388. इति विमृशन्ति कवयो निगमावपनं यजन्त उपासते भवमध्यविनिश्वसिताः । दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरित- महामृताब्धिपरिवर्तपरिश्रमणाः॥ २२ ॥
  1389. न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः । त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हि ते प्रिय आत्मनि च ॥ २३ ॥
  1390. न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः । निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥
  1391. स्मरणात् स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् । क इह नु वेद वक्तुमपेतजन्मलयो यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥
  1392. तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ॥ २६ ॥
  1393. त्रिगुणमयः पुमानिति यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे । सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा- दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥
  1394. न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया रसितम् । तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ॥ २८ ॥
  1395. परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि दृढसौहृदा ननु पुनन्ति न ते विमुखाः । त्वमेकः स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥ २९ ॥
  1396. वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः । स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेत् यदि परस्य विमुक्तसतः ॥ ३० ॥
  1397. न हि परमस्य कश्चिदपरोऽनपरस्य भवेत् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः । अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥
  1398. अजन परिमुच्यतेऽत्र भवात् सततात् सममनुजानता ततमनन्तमदुष्टतया । न घटत उद्भवः प्रकृतिपूरुषयोरजयो- रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥
  1399. त्वयि त इमे ततो विबुधनामगुणाः परमे अमृत इवार्णवे मधु निलिल्युरशेषरसाः । नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः । कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥३३॥
  1400. इह भवच्चरणेषु सुजातभुवो जितहृषीकवायुभिरुदात्तमहत्तुरगैः । य इह यतन्त्यमतिलोलमुपायविदो व्यसनशताब्धितारमपहाय गुरोश्चरणम् ॥ ३४ ॥
  1401. वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः । सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि सर्वरसे ॥ ३५ ॥
  1402. इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे । भुुवि पुण्यतीर्थसदना ह्यृषयो निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् । दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥
  1403. इदमप्यथो वदन्ति चे- न्ननु तर्का व्यभिचरन्ति क्वचित् क्वचिन्मृषा च । ततो भयदृग्व्यवहितये विकल्प उषितोऽन्वहमन्धपरम्परया भ्रमति भारती च तवोरुवृत्तिभिरूढजवा ॥ ३७ ॥
  1404. न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे । अत उपगीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥
  1405. उदगात् पुमाननुगीतगुणांश्च जुषन् भजति सरूपतां तदनु त्वमुत जहासि जिहासि ताम् । अहिरिव त्वचं त्वमुत परमात्तभगां महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥
  1406. यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । अनुतृप्तयोगिनामभयो भगवन् अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥
  1407. तदवगमार्थसितासितयो- र्गुणविगुणयोर्न हि देहभृतां सगिरः । अनुययुरत्र हंसकुलगीतपरम्परया । न तुषावरणा इव रजांसि वान्ति वयसा सह यच्छ्रुतय- स्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥
  1408. इत्यशेषसमाम्नायपुराणोपनिषद्रसः । समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥
  1409. एवं स गुरुणाऽऽदिष्टो गृहीत्वा श्रद्धयाऽऽत्मवान् । पूूर्णः सद्यस्ततो राजन् प्राह वीरव्रतो गुरुम् ॥ ४५ ॥
  1410. नारद उवाच– नमस्तस्मै भगवते कृष्णायामलमूर्तये । यो धाता सर्वभूूतानामभयो यस्य ते कलाः ॥ ४६ ॥
  1411. श्रीशुक उवाच– इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्चामलात्मकान् । ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥
  1412. सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥
  1413. यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥
  1414. भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥
  1415. वसुदेव उवाच– भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥
  1416. अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्म सङ्कल्पविकल्पकं मनो बुधो निदध्यादभयं ततः स्यात् ॥ ३८ ॥
  1417. एवंव््रातश्च प््रिायनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४० ॥
  1418. खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्वानि दिशो द्रुमादीन् । सरित् समुद्रांश्च हरेः शरीरं यत् किञ्च भूतं प्रणमेदनन्यम् ॥ ४१ ॥
  1419. हरिरुवाच– सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥ ४५ ॥
  1420. ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प््रोममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥
  1421. अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥
  1422. गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर्मायामिमां पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥
  1423. देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥
  1424. न यस्य स्वः पर इति चित्ते स्वात्मनि वाऽभिदा । सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२ ॥
  1425. अन्तरिक्ष उवाच– एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥
  1426. एवं सृष्ट्वा स भूतानि स्थविष्ठैः पञ्चधातुभिः । एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥
  1427. गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥
  1428. कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । तत्तत्कर्मफलं गृह्णन् भ््रामतीह सुखेतरम् ॥ ६ ॥
  1429. इत्थं कर्मगतीर्गच्छन् बह्वभद्रावहः पुमान् । आभूतसंप्लवात् स्वर्गप्रलयावश्नुतेऽवशः ॥ ७॥
  1430. धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥
  1431. ततो विराजमुत्सृज्य वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥
  1432. वारिणा हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद् हृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥
  1433. हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
  1434. कालात्मना हृतगुणं नभ आत्मनि लीयते । इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ॥ १५ ॥
  1435. प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥
  1436. एषा माया भगवतः सर्गस्थित्यन्तकारिणी । त्रिवर्णा वर्णिताऽस्माभिः किं भूयः श्रोतुमिच्छसि ॥ १७ ॥
  1437. राजोवाच– यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८॥
  1438. प्रबुद्ध उवाच– कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १९ ॥
  1439. नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ २० ॥
  1440. एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । अतुल्यातिशयध्वंसाद् यथा मण्डलवर्तिनाम् ॥ २१ ॥
  1441. तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब््राह्मण्युपशमाश्रयम् ॥ २२ ॥
  1442. तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः । अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥
  1443. सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥
  1444. श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कायदण्डं च सत्यं शमदमावपि ॥ २७ ॥
  1445. एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥
  1446. पिप्पलायन उवाच– स्थित्युद्भवप्रलयहेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु सन् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवैहि परं नरेन्द्र ॥ ३६ ॥
  1447. नैनं मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः । शब्दोऽप्यबोधकनिषेधतयाऽऽत्ममूल- मर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ३७ ॥
  1448. सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब््राह्मैव भाति सदसच्च तयोः परं यत् ॥ ३८ ॥
  1449. नासौ जजान न मरिष्यति नैधतेऽसौ न क्षीयते स च न विध्यति चारिणा हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३९ ॥
  1450. अण्डेषु पेशिषु तरुष्ववनिस्थितेषु प्राणेन जीव उपधावति तत्र तत्र । छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥
  1451. राजोवाच– एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४३ ॥॥
  1452. आविर्होत्र उवाच– कर्माकर्मविकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥
  1453. नाऽऽचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः । विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४६ ॥
  1454. वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥
  1455. लब्ध्वा चाव्यग््रामाचार्यं तेन सन्दर्शितागमः । महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥
  1456. अर्चादौ हृदये वापि यथालब्धोपचारकैः । द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥
  1457. आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः । शेषमाधाय शिरसि स्वधाम््नयुद्वास्य सत्कृतम् ॥ ५५ ॥
  1458. एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः । यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥
  1459. भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥
  1460. यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥
  1461. आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
  1462. धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥
  1463. इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
  1464. त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥
  1465. हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
  1466. संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
  1467. देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥
  1468. वदन्ति तेऽन्योन्यमुपासितश्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टान्नविधानदक्षिणा वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८ ॥
  1469. लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विहाय यज्ञान् सुराग््राहैरासुरवृत्तिरिष्टा ॥ ११ ॥
  1470. धनं हि धर्मैकफलं यतोऽस्य ज्ञानं सविज्ञानमनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
  1471. यद् घ््र•णभक्षो विहितः सुराया- स्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
  1472. द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् । मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
  1473. एवं युगानुरूपोऽसौ भगवान् युगवर्तिभिः । मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५ ॥
  1474. देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिचर्यया च ॥ ४२ ॥
  1475. स्वपादमूलं भजतः प््रिायस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४३ ॥
  1476. वैरेण यं नृपतयः शिशुपालपौण्ड्र- साल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम् ॥ ४९ ॥
  1477. त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यः स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८॥
  1478. स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्विकैः समविभूतिभिरात्मविद्भि- र्व्यूह्यार्चितः सवनशः समविक्रमैश्च ॥ ८,१० ॥
  1479. पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः । यः सुप्रणीतममुयाऽर्हणमाददानो भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥
  1480. नस्योतगाव इव यस्य वशे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥
  1481. अस्यासि हेतुरुदयस्थितिसंयमानां अव्यक्तजीवमहतामपि कालमात्रः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥
  1482. त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥
  1483. तत् तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥
  1484. बिभ््रात् तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥
  1485. यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम । शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥
  1486. तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । लोकं जिघृक्षत्यूर्ध्वं मे वेलामिव महार्णवः ॥ ३० ॥
  1487. यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् । गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥
  1488. वाताशना महर्षयः श्रमणा ऊर्ध्वमन्थिनः । ब््राह्माख्यं धाम ते यान्ति शान्ताः संन्यासिनोऽमलाः ॥४८॥
  1489. वयं त्विह महायोगिन् भ््रामन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४९ ॥
  1490. स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च । गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥
  1491. यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायां मनोमयीम् ॥ ७ ॥
  1492. पुंसोऽयुक्तस्य नानार्थे भ््रामः स गुणदोषकृत् । कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥
  1493. तस्माद् युक्तेन्द्रियग््र•मो युक्तचित्त इदं जगत् । आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥
  1494. ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् । आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यते ॥ १० ॥
  1495. दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते । गुणबुद्ध्या च विहितं न करोति यथाऽर्भकः ॥ ११ ॥
  1496. सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चलः । पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२ ॥
  1497. उद्धव उवाच– योगेश योगविन्यास योगात्मन् योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः ॥ १४ ॥
  1498. सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे ब््राह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७ ॥
  1499. तस्माद् भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमखण्डविकुण्ठधिष्ण्यम् । निर्वेदधीरहरहर्वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥
  1500. श्री भगवानुवाच– प्रायेण मनुजा लोके लोकतत्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥
  1501. त्वं हि नः पृच्छतां ब््राह्मन्नात्मन्यानन्दकारणम् । ब््राूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३० ॥
  1502. शश्वत् परार्थसर्वेहां परार्थैकान्तसम्भवम् । साधुः शिक्षेत भूमेश्च अनुशिक्षं व््रातान्तरम् ॥ ३८ ॥
  1503. अन्तर्बहिश्च स्थिरजङ्गमेषु ब््राह्मात्मभावेन समन्वयेन । व्याप्त्याऽव्यवच्छेदमसङ्गमात्मनो मुनिर्नभोवद् विततस्य भावयेत् ॥ ४२ ॥
  1504. तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः । न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ ४३ ॥
  1505. स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थवन्नृणाम् । मुनिः पुनात्यघान्मित्रमीक्षणस्पर्शकीर्तनैः ॥ ४४ ॥
  1506. तेजस्वी तपसा दीप्तो दुर्धर्षो दूरभाजनः । सर्वभक्षोऽपि युक्तात्मा नादत्ते पापमग्निवत् ॥ ४५ ॥
  1507. क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्त्े सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६ ॥
  1508. स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः । प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७ ॥
  1509. कालनद्योघवेगेन भूतानां प्रभवाप्ययौ । नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथाऽर्चिषाम् ॥ ४९ ॥
  1510. बुद्धिसंस्थेन भेदेन व्यक्तस्थ इव तद्गतः । लक्ष्यते स्थूलमतिभिरात्मा चाम्बुस्थितार्कवत् ॥ ५१ ॥
  1511. दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः । प्रलोभितः पतन्त्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥
  1512. योषित्सु तल्पाभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८ ॥
  1513. सुहृत् प््रोष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३४ ॥
  1514. वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि । एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥
  1515. यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
  1516. तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
  1517. एको नारायणो देवः पूर्वसृष्टं स्वमायया । संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥
  1518. एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः । कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ॥ १७ ॥
  1519. सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः । परावराणां परम आस्ते कैवल्यसंज्ञितः ॥ १८ ॥
  1520. यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्सरूपताम् ॥ २२ ॥
  1521. कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्साम्यतां राजन् पूर्वरूपमसंत्यजन् ॥ २३ ॥
  1522. देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
  1523. जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥
  1524. न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् । ब््राह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥
  1525. सुप्तस्य विषयालोको ध्यायतो वा मनोरथः । नानात्मकत्वाद् विफलस्तथाऽभेदोऽन्यधीगुणैः॥ ३ ॥
  1526. निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥
  1527. यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥
  1528. निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् । अनुप्रविष्ट आधत्ते एवं देहगुणान् परः ॥ ९ ॥
  1529. योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि । संसारस्तन्निबन्धोऽयं पुंसोऽविद्यास्थितात्मनः ॥ १० ॥
  1530. तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम् । सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥
  1531. वैशारदी साऽतिविशुद्धबुद्धि- र्धुनोति मायां गुणसम्प्रसूतिम् । गुणांश्च संदह्य यदात्म्यमेतत् स्वयं च शाम्यत्यसमिद् यथाऽग्निः ॥ १३ ॥
  1532. अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः । नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥
  1533. मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी तथा । तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥ १५ ॥
  1534. एवमप्यत्र सर्वेषां देहिनां देहयोगतः । कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥
  1535. तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते । भोक्तुश्च सुखदुःखानां कोन्वर्थो विवशं भजेत् ॥ १७ ॥
  1536. न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि । तथा च दुःखमूढानां वृथाऽहङ्कारिणां परम् ॥ १८ ॥
  1537. यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः । तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥
  1538. गुणाः सृजन्ति कर्माणि कालो नु सृजते गुणान् । जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥
  1539. यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मनः । नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि ॥ ३२ ॥
  1540. यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत् समुपासीरंस्ते मुह्यन्ति शुचाऽर्पिताः ॥ ३३ ॥
  1541. काल आत्माऽऽगमो लोकः स्वभावो धर्म एव च । इति मां बहुधा प्राहुर्गुणव्यतिकरेऽसति ॥ ३४ ॥
  1542. उद्धव उवाच– गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः । गुणैर्न बध्यतेऽदेही बध्यते वा कथं विभो ॥ ३५ ॥
  1543. एतदच्युत मे ब््राूहि प्रश्नं प्रश्नविदां वर । नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिः ॥ ३७ ॥
  1544. श्रीभगवानुवाच– बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुतः । गुणस्य मायामूलत्वान्न मे बन्धो न मोक्षणम् ॥ १ ॥
  1545. शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया । स्वप्ने यथाऽऽत्मनः ख्यातिः संसृतिर्नतु वास्तवी ॥ २ ॥
  1546. विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् । मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३ ॥
  1547. एकस्यैव ममांशस्य जीवस्यैवं महामते । बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरः ॥ ४ ॥
  1548. अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५ ॥
  1549. सुपर्णावेतौ सदृशौ सखायौ यदृच्छया कृतनीडौ च वृक्षे । एकस्तयोः खादति पिप्पलान्न- मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६ ॥
  1550. आत्मानमन्यं च स वेद विद्वा- नपिप्पलादो न तु पिप्पलादः । योऽविद्ययाऽन्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥ ७ ॥
  1551. देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः । ओहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा ॥ ८ ॥
  1552. इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च । गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः ॥ ९ ॥
  1553. दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा । वर्तमानोऽबुधस्तत्र कर्ताऽस्मीति निबध्यते ॥ १० ॥
  1554. एवं विरक्तः शयन आसनाटनमज्जने । दर्शनस्पर्शनघ््र•णभोजनश्रवणादिषु ॥ ११ ॥
  1555. न तथा बध्यते विद्वान् तत्र तत्राददन् गुणान् । प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥ १२ ॥
  1556. वैशारद्येक्षयाऽसङ्गशितया च्छिन्नसंशयः । प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते ॥ १३ ॥
  1557. न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा । वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥ १६ ॥
  1558. न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ १७ ॥
  1559. शब्दब््राह्मणि निष्णातो न निष्णायात् परे यदि । श्रमस्तत्र भ््रामफलो ह्यधेनुमिव रक्षतः ॥ १८ ॥
  1560. गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ १९ ॥
  1561. यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारेहितकर्म वा स्याद् वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ २० ॥
  1562. एवं जिज्ञासयाऽपोह्य नानात्वभ््राममात्मनि । उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१ ॥
  1563. त्वं ब््राह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ २८ ॥
  1564. ज्ञात्वा ज्ञात्वाऽथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ३३ ॥
  1565. वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥ ४४ ॥
  1566. स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५ ॥
  1567. श्रीभगवानुवाच– न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्ते न दक्षिणाः ॥ १ ॥
  1568. व््रातानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः । यथाऽवरुन्धेन्मत्सङ्गः सर्वदुःखापहो हि माम् ॥ २ ॥
  1569. मत्सङ्गेन तु दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३ ॥
  1570. विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः । रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४ ॥
  1571. ते नाधीतश्रुतिगणा नोपासितमहत्तमाः । अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ ७॥
  1572. केवलेन हि भावेन गोप्यो गावः खगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८ ॥
  1573. यं न योगेन सांख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि ॥ ९ ॥
  1574. मत्कामा रमणं जारं मत्स्वरूपाविदोऽबलाः । ब््राह्म मां परमं प्रापुः शतशोऽथ सहस्रशः ॥ १३ ॥
  1575. तस्मात् त्वमुद्धवोत्सृज्य चोदितां प्रतिचोदनाम् । प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥
  1576. मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यस्मिन्नस्त्यकुतोभयम् ॥ १५ ॥
  1577. उद्धव उवाच– संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ््र•म्यति मे मनः ॥ १६ ॥
  1578. श्रीभगवानुवाच– य एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपैति रूपं मात्रा स्वरो वर्ण इति स्थविष्ठम् ॥ १७ ॥
  1579. यथाऽनलः स्वेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समिद्ध्यते तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥
  1580. एवं गतिः कर्म रतिर्विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजः सत्वतमोविकारः ॥ १९ ॥
  1581. अयं हि जीवस्त्रिवृदब्जयोनि- रव्यक्त एको जगतां यथाऽऽद्यः । विश्लिष्टशक्तिर्बहुधैव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥
  1582. यस्मिन्निदं प्रोतमशेषमोतं पटे यथा तन्तुवितानसंस्था । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ २१ ॥
  1583. द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीड- स्त्रिवल्कलो द्विफलः खं प्रविष्टः ॥ २२ ॥
  1584. अदन्ति चैकं फलमस्य गृध््र• ग््र•मेचरा एकमरण्यवासाः । हंसा य एवं बहुरूपमिष्टं मायामयं वेद स वेद वेदम् ॥ २३ ॥
  1585. एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥
  1586. सत्वाद् धर्मो भवेच्छुद्धात् पुंसो मद्भक्तिलक्षणः । सात्विकोपात्तया ज्ञानं ततो धर्मः प्रवर्तते ॥ २ ॥
  1587. वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो वेदः शाम्यति तद् यथा ॥ ७ ॥
  1588. श्रीभगवानुवाच– एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः । ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥
  1589. स मामचिन्तयद् देवः प्रश्नपारविनिश्चयम् । तस्याहं हंसरूपेण समीपमगमं तदा ॥ १९ ॥
  1590. वस्तुनो यद्यनानात्वमात्मनः प्रश्नः ईदृशः । कथं घटेत वो विप्रा वक्तुं वाऽनेक आश्रयः ॥ २२ ॥
  1591. पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । को भवानिति वः प्रश्नो वाचारम्भो निरर्थकः ॥ २३ ॥
  1592. मनसा वचसा दृष्टया गृह्यतेऽन्यैरपीन्द्रियैः । अहमेव न मत्तोऽन्यदिति बुद्ध्यध्वमञ्जसा ॥ २४ ॥
  1593. गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः । जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥
  1594. गुणेषु वाऽऽविशेच्चित्तमभीक्ष्णं गुणसेवया । गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६ ॥
  1595. यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तितः । मयि तुर्ये स्थितो जह्यात् त्यागस्तु गुणचेतसाम् ॥ २८ ॥
  1596. यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः । जाग््रात्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥
  1597. असत्त्वादात्मनोऽन्येषां भावानां किंकृताऽभिदा । गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥
  1598. यो जागरे बहुविधान् क्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणो हृदि तत्सदृक्षान् । स्वप्नेऽथ सुप्त उपसंहरते स एकः स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥
  1599. वीक्षेत विभ््राममिमं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रम् । विज्ञानमेकमुरुधेव विभाति माया स्वप्ने यथा त्रिगुणसर्गकृतो विकल्पः ॥ ३४ ॥
  1600. दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततर्ष- स्तूष्णीं भवेन्निजसुखानुभवो निरीहः । सन्दृश्यते क्वच यदीदमवस्तुबुद्ध्या त्यक्तं भ््रामाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥
  1601. देहं च नश्वरमवस्थितमुज्झितं च सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिवृतं मदिरामदान्धः ॥ ३६ ॥
  1602. देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रति समीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः ॥ ३७ ॥
  1603. मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं परमात्मानं साम्यासङ्गादयो गुणाः ॥ ४० ॥
  1604. तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा । ततो भृग्वादयोऽगृह्णन् सप्त ब््राह्म महर्षयः ॥ ४ ॥
  1605. एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् । पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥
  1606. मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥
  1607. धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् । अन्ये वदन्ति चार्थं वा ऐश्वर्यं त्यागभोजने । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥
  1608. आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः । दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥
  1609. न तथा मे प््रिायतम आत्मयोनिर्न शङ्करः । न च सङ्कर्षणो न श्रीर्नैवाऽत्मा च यथा भवान् ॥ १५ ॥
  1610. निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव््राजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥
  1611. कथं विना रोमहर्षं द्रवता चेतसा विना । विनाऽऽनन्दाश्रुकलया तुष्येत् भक्त्या विनेश्वरः ॥ २३ ॥
  1612. वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
  1613. स्त्रीसङ्गसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९ ॥
  1614. न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः । योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥
  1615. एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् । दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिलः ॥ ३५ ॥
  1616. तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् । तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥
  1617. एवं समाहितमतिर्मामेवात्मानमात्मनि । विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥
  1618. ध्यानेनेत्थं सुतीव््रोण युञ्जतो योगिनो मनः । संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ््रामः ॥ ४६ ॥
  1619. श्रीभगवानुवाच– सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः । तासामष्टौ मत्प्रधाना ता एव गुणहेतवः ॥ ३ ॥
  1620. अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः । प्राकाश्यं श्रुतदृष्टेषु शक्तिप््रोरणमीशिता ॥ ४ ॥
  1621. गुणेष्वसङ्गो वशिता यत्कामस्तदवाप्स्यति । एता मे सिद्धयः सौम्याष्टावौत्पत्तिका मताः ॥ ५ ॥
  1622. अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् । मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६ ॥
  1623. स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् । यथासङ्कल्पसंसिद्धिराज्ञाऽप्रतिहतागतिः ॥ ७ ॥
  1624. त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता । अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भोऽपराजयः ॥ ८ ॥
  1625. भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयन् मनः । अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १० ॥
  1626. महत्यात्मन् मयि परे यथासंस्थं मनो दधत् । महिमानमवाप्नोति भूतानां च पृथक्पृथक् ॥ ११ ॥
  1627. परमाणुमये चित्तं भूतानां मयि रञ्जयन् । कालसूक्ष्मात्मके योगी लघिमानमवाप्नुयात् ॥ १२ ॥
  1628. धारयन् मय्यहन्तत्वे मनो वैकारिकेऽखिलम् । सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३ ॥
  1629. महत्यात्मनि यः सूत्रे धारयन् मयि मानसम् । प्राकाश्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४ ॥
  1630. विष्णौ चाधीश्वरे चित्तं धारयन् कालविग््राहे । स ईशित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदनम् ॥ १५ ॥
  1631. श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि । धारयन् श्वेततां याति षडूर्मिरहितोऽमरः ॥ १८ ॥
  1632. मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् । तत्रोपलब्धाभूतानां हंसो वाचः शृणोत्यसौ ॥ १९ ॥
  1633. मनो मनसि संयोज्य देहं तदनु वायुना । मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१ ॥
  1634. यदा मन उपादाय यद्यद् रूपं बुभूषति । तत्तद् भजेन्मनोरूपं मद्योगबलमाश्रितः ॥ २२ ॥
  1635. परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३ ॥
  1636. पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु । आरोप्य ब््राह्मरन्ध््रोण ब््राह्म नीत्वोत्सृजेत् तनुम् ॥ २४ ॥
  1637. यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् । न कुतश्चन हन्येत तस्य चाज्ञा यथा मम ॥ २७ ॥
  1638. मद्भक्त्या शुद्धसत्वस्य योगिनो धारणाविदः । तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८॥
  1639. अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः । मद्योगश्रान्तचित्तस्य यादसामुदकैर्यथा ॥ २९॥
  1640. उपासकस्य मामेवं योगधारणया पुनः । सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥ ३१ ॥
  1641. जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः । मद्धारणां धारयतः का नु सिद्धिः सुदुर्लभा ॥ ३२ ॥
  1642. अन्तरायान् वदन्त्येतान् युञ्जतो योगमुत्तमम् । मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ ३३ ॥
  1643. जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः । योगेनाप्नोति ताः सर्वा यैर्यैर्योगगतिं व््राजेत् ॥ ३४ ॥
  1644. अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९ ॥
  1645. अहं गतिर्गतिमतां कालः कलयतामहम् । गुणानामप्यहं सौम्यं गुणिन्यौत्पत्तिको गुणः ॥ १० ॥
  1646. गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११ ॥
  1647. हिरण्यगर्भो देवानां मन्त्राणां प्रणवस्त्रिवृत् । अक्षराणामकारोऽस्मि पदानि च्छन्दसामहम् ॥ १२ ॥
  1648. इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३ ॥
  1649. उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् । यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८ ॥
  1650. नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । आश्रमाणां तुरीयोऽहं वर्णानां प्रथमोऽनघ ॥१९॥
  1651. पुरोधसां वसिष्ठोऽहं ब््राह्मिष्ठानां बृहस्पतिः । स्कन्दोऽहं सर्वसेनान्यामग््राण्यां भगवानजः ॥ २२ ॥
  1652. योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४ ॥
  1653. स्त्रीणां तु शतरूपाऽहं पुंसां स्वायम्भुवो मनुः । नारायणो मुनीनां च कुमारो ब््राह्मचारिणाम् ॥ २५ ॥
  1654. वासुदेवो भगवतां त्वं तु भागवतेष्वहम् । किम्पुरुषाणां च हनुमान् विद्याध््र•णां सुदर्शनः ॥ २९ ॥
  1655. ओजः सहोबलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नवमूर्तीनामादिमूर्तिरहं पुरा ॥ ३२ ॥
  1656. विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् । भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३ ॥
  1657. अपां रसश्च परमस्तेजिष्ठानां विभावसुः । प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४ ॥
  1658. पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्वं तमः परः । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्वविनिश्चयः ॥ ३७ ॥
  1659. मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८ ॥
  1660. सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९ ॥
  1661. एतास्ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः । मनोविकारा एवैते तथा वाचाऽभिधीयते ॥ ४१ ॥
  1662. वाचं यच्छ मनो यच्छ प्राणं यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूयः कल्प्यसेऽध्वने ॥ ४२ ॥
  1663. यो वै वाङ्मनसी सम्यङ् न संयच्छेद् धिया यतिः । तस्य व््रातं तपो ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ४३ ॥
  1664. तस्माद् वचोमनःप्राणान् नियच्छेन्मत्परायणः । मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४ ॥
  1665. वक्ता कर्ताऽविता नान्यो धर्मस्याच्युत ते भुवि । सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥
  1666. वेदाध्यायी स्वधास्वाहाबल्यन्नाद्यैर्यथोदयम् । देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥५०॥
  1667. विप्रस्य वै संन्यसतो देवा दारादिरूपिणः । विघ्नं कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥
  1668. यदेतदात्मनि जगन्मनोवाक्प्राणसम्भृतम् । सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥
  1669. वेदवादरतो न स्यान्न पाषण्डी न हैतुकी । शुष्कवादविवादेन कञ्चित्पक्षं न संश्रयेत् ॥ ३० ॥
  1670. एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः । खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥
  1671. शौचमाचमनं स्नानं न तु चोदनया चरेत् । अन्यांश्च नियमान् ज्ञानी यथाऽहं लीलयेश्वरः ॥ ३७ ॥
  1672. नहि तस्य विकल्पाख्या क्रिया मद्वीक्षया हता । आदेहान्तात् क्वचित् ख्यातिस्ततः सम्पद्यते मया ॥३८॥
  1673. तावत् परिचरेद् भक्तः श्रद्धावाननसूयकः । यावद् ब््राह्म विजानीयान्मामेव गुरुमादृतः ॥ ४० ॥
  1674. श्रीभगवानुवाच– यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः । मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १ ॥
  1675. त्वय्युद्धवाऽश्रयति यस्त्रिविधो विकारो मायाऽन्तराऽऽपतति नाद्यपवर्गयोर्यत् । जन्मादयोऽस्य वद मां तव तस्य किं स्यु- राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७ ॥
  1676. नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेतान्वेकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४ ॥
  1677. एतदेव हि विज्ञानं न तथैकेन येन यत् । स्थित्युत्पत्त्यप्यया नः स्युर्भावानां त्रिगुणात्मनाम् ॥ १५ ॥
  1678. आदावन्ते च मध्ये च यज्ज्ञं सृज्यं यदन्वियात् । पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६ ॥
  1679. श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् । प्रमाणेष्वनवस्थानाद् विकल्पात् स विरज्यते ॥ १७ ॥
  1680. धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् । गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७ ॥
  1681. दरिद्रो यस्त्वसंतुष्टः कृपणो योऽजितेन्द्रियः । गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥ ४५ ॥
  1682. गुणदोषभिदादृष्टिर्नियमात् तेन हि स्वतः । नियमेनापवादश्च भिदाया इति हि भ्रमः ॥ ५ ॥
  1683. श्रीभगवानुवाच– योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥
  1684. निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कर्मिणाम् ॥ ७ ॥
  1685. यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥
  1686. नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥
  1687. कर्मणां जात्यशुद्धानामनेन नियमः कृतः । गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥
  1688. भिद्यते हृदयग््रान्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥
  1689. तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥
  1690. यत् कर्मभिर्यत् तपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३३ ॥
  1691. सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३४ ॥
  1692. न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३५ ॥
  1693. नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमकल्मषम् । तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३६ ॥
  1694. न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः । साधूनां समचित्तानां बुद्धेः पारमुपेयुषाम् ॥ ३७ ॥
  1695. एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥
  1696. शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ ३ ॥
  1697. भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्च धातवः । आब्रह्मस्थावरादीनां शरीरा आत्मसंयुताः ॥ ५ ॥
  1698. भेदेन नामरूपाणि विषमाणि समेष्वपि । धातुशुद्ध्यै विकल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६ ॥
  1699. कृष्णसारोऽथ देशानां ब्राह्मणानां शुचिर्भवेत् । कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणः ॥ ८ ॥
  1700. कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा । यतो निवर्तते कर्म सदोषोऽकर्मकः स्मृतः ॥ ९ ॥
  1701. क्वचिद् गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः । गुणदोषार्थनियमस्तद्विदामेव बाधते ॥ १६ ॥
  1702. समानकर्माचरणेऽपतितानां न पातकम् । औत्पत्तिको गुणैः सङ्गो न शयानः पतत्यधः ॥ १७ ॥
  1703. यतो यतो निवर्तेत विमुच्येत ततस्ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ १८ ॥
  1704. विषयेषु गुणध्यानात् पुंसः सङ्गस्ततो भवेत् । सङ्गादेव भवेत् कामः कामादेव कलिर्नृणाम् ॥ १९ ॥
  1705. कलेर्दुर्विषहः क्रोधस्तमस्तदनुवर्तते । तमसा ग्रस्यते पुंसश्चेतना व्यापिनी ततः ॥ २० ॥
  1706. तया च रहितः साधो जन्तुः शून्याय कल्पते । ततोऽस्य स्वार्थविभ्रंशोऽ)मूर्च्छितस्य मृतस्य च ॥ २१ ॥
  1707. विषयाभिनिवेशेन नाऽत्मानं वेद नापरम् । वृक्षजीविकया जीवन् व्यर्थं ग्रस्तवयाः श्वसन् ॥ २२ ॥
  1708. फलश्रुतिरियं नॄणां नः श्रेयोरोचनं परम् । श्रोतुर्विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३ ॥
  1709. उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४ ॥
  1710. न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः ॥ २५ ॥
  1711. एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितामवेदज्ञा वदन्ति हि ॥ २६ ॥
  1712. कामिनः कृपणा लुब्धाः पुष्पेषु पलबुद्धयः । अग्निमुग्धा धूमतान्ताः स्वलोकं न विदन्ति ते ॥ २७ ॥
  1713. न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः । उक्थशासो ह्यसुतृपो यथा नीहारचक्षुषः ॥ २८ ॥
  1714. ते मे मतमविज्ञाय परोक्षविषयात्मकाः । हिंसायां यदि कामः स्याद् यज्ञ एव न चोदना ॥ २९ ॥
  1715. हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया । यजन्ते देवता यज्ञैः पितॄन् भूतपतीन् खलाः ॥ ३० ॥
  1716. रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः । उपासते इन्द्रमुख्यान् देवादीन् न यथैव माम् ॥३२॥
  1717. वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया अपि । परोक्षवादो वेदोऽयं परोक्षं मम च प्रियम् ॥ ३५ ॥
  1718. शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६ ॥
  1719. मयोपबृंहितं भूम्ना ब्रह्मणाऽनन्तशक्तिना । भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७ ॥
  1720. यथोर्णनाभिर्हृदयादूर्णामुद्वहते मुखात् । आकाशाद् घोषवान् प्राणो मनसाऽऽस्पर्शरूपिणा ॥ ३८ ॥
  1721. छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः । ओङ्कारेष्वञ्जितां स्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ ३९ ॥
  1722. विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः । अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४० ॥
  1723. गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । त्रिष्टुप् जगत्यतिच्छन्दो ह्यष्ट्यत्यष्टी जगद् विराट् ॥ ४१ ॥
  1724. किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ ४२ ॥
  1725. मां विधत्तेऽभिधत्ते मां विकल्पापोह्य इत्यहम् ॥ ४३ ॥
  1726. एतावान् सर्ववेदार्थः शब्द आस्थाय माऽभिदाम् । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रशाम्यति ॥ ४४ ॥
  1727. श्रीभगवानुवाच– युक्तयः सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४ ॥
  1728. नैतदेवं यथाऽऽत्थ त्वं यदहं वच्मि तत् तथा । एवं विवदतां हेतुः शक्तयो मे दुरत्ययाः ॥ ५ ॥
  1729. यासां व्यतिकरादासीद् विकल्पो वदतां पदम् । प्राप्ते शमदमे व्येति वादस्तमनु शाम्यति॥ ६ ॥
  1730. परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७ ॥
  1731. एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च । पूर्वस्मिन् वाऽपरस्मिन् वा तत्वे तत्वानि सर्वशः ॥ ८ ॥
  1732. पौर्वापर्यमथोऽमीषां प्रसङ्ख्यानमभीप्सताम् । यथा विविक्तं यद्युक्तं गृह्णीमो युक्तिसम्भवात् ॥ ९ ॥
  1733. अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् । स्वतो न सम्भवेद् यस्मात् ततोऽन्यः पुरुषो भवेत् ॥ १० ॥
  1734. पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि । तदन्यकल्पनाऽपार्था ज्ञानं च प्रकृतेर्गुणः ॥ ११ ॥
  1735. प्रकृतेर्गुणसाम्ये तु प्रकृतेर्नाऽत्मनो गुणाः । सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥ १२ ॥
  1736. सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते । गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥ १३ ॥
  1737. पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः । ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४ ॥
  1738. श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः । वाक्पाण्युपस्थपाय्वङ्घ्रि कर्माण्यङ्गोभयं मनः ॥ १५ ॥
  1739. शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः । गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ १६ ॥
  1740. सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी । सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्तमीक्षते ॥ १७ ॥
  1741. व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया । लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥ १८ ॥
  1742. सप्तैव धातव इति यत्रार्थाः पञ्च खादयः । ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः ॥ १९ ॥
  1743. चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः । जातानि तैरिदं जातं जन्मावयविनः खलु ॥ २१ ॥
  1744. सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च । पञ्चपञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ २२ ॥
  1745. तद्वत् षोडशसङ्ख्यानि आत्मना मन उच्यते । भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३ ॥
  1746. इति नानाप्रसङ्ख्यानं तत्वानामृषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम् ॥ २४ ॥
  1747. उद्धव उवाच– प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ । अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि ॥ २५ ॥
  1748. एतन्मते पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुमर्हसि पद्मेश वचोभिस्तत्वनैपुणैः ॥ २६ ॥
  1749. त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तनुशक्तितः । त्वमेव ह्यात्ममायाया गतिं वेत्थ नचापरः ॥ २७ ॥
  1750. श्रीभगवानुवाच– प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ २८ ॥
  1751. ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धिं च गुणैर्विधत्ते । वैकारिकस्त्रिविधोऽध्यात्ममेकमथाधिदैवमधिभूतमन्यत् ॥२९॥
  1752. दृग् रूपमर्कश्च परत्र रन्ध्रे परस्परं सिध्यति न स्वतोऽसौ । आत्मा यदेषामुपराम आद्यः स्वयाऽनुभूत्याऽखिलसिद्ध्यसिद्धिः ॥ ३० ॥
  1753. एवं त्वगादि श्रवणादि चक्षु- र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३१ ॥
  1754. योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलो जगतः प्रसूतिः । अहं त्रिवृन्मोहविकल्पहेतु- र्वैकारिकः तामस ऐन्द्रियश्च ॥ ३२ ॥
  1755. आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदाऽर्थनिष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ ३३ ॥
  1756. विषयाभिनिवेशेन नाऽत्मानं यत् स्मरेन्मनः । जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥ ३८ ॥
  1757. ईदृशायास विज्ञाय त्रैविध्यं भाति वस्तुनि । बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा ॥ ४१ ॥
  1758. सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तदिदं जलम् । सोऽयं पुमानिति नृणां मृषा गीर्भिर्धीर्मृषायुषाम् ॥ ४४ ॥
  1759. आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ । भवाप्ययौ हि भूतानामभिज्ञाद्वयलक्षणौ ॥ ४८ ॥
  1760. तरोर्बीजविकाराभ्यां यो विद्वान् जन्मसंयमौ । तरोर्विलक्षणो दृष्ट एवं द्रष्टा तनोः पृथक् ॥ ४९ ॥
  1761. नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५२ ॥
  1762. यथा मनोरथधियो विषयानुभवो मृषा । स्वप्नदृष्टश्च दाशार्ह तथा संसार आत्मनः ॥ ५४ ॥
  1763. मनोवशेऽन्ये हि भवन्ति देवा मनश्च नान्यस्य वशं समेति । भीमो हि देवः सहसः सहीया- न्नात्याविशत् तत् स हि देवदेवः ॥ ४८ ॥
  1764. तं दुर्जयं शुत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्रैरुदासीनरिपुं विमूढाः ॥ ४९ ॥
  1765. देहं मनोमात्रमिदं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः । एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥५०॥
  1766. जनोऽस्य हेतुः सुखदुःखयोश्चेत् किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित् सन्दशति स्वदद्भि- स्तद्वेदनायां कतमाय कुप्येत् ॥ ५१ ॥
  1767. दुःखस्य हेतुर्यदि देवताऽस्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन विहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२ ॥
  1768. आत्मा यदि स्यात् सुखदुःखहेतुः किमन्यतस्तत्र निजः स्वभावः । न ह्यात्मनोऽन्यद् यदि तन्मृषा स्यात् क्रुध्येत कस्मै न सुखं न दुःखम् ॥ ५३ ॥
  1769. ग्रहा निमित्तं सुखदुःखयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव भवन्ति पीडाः क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५४ ॥
  1770. कर्मास्तु हेतुः सुखदुःखयोर्वै किमात्मनस्तद् हि जडेऽजडत्वे । देहे स्ववित् पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ ५५ ॥
  1771. कालोऽस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मनोऽसौ । नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य बोद्धुः ॥ ५६ ॥
  1772. न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाऽऽत्मनः संसृतिरूपिणः स्यात् एवं प्रबुद्धो न बिभेति भूतैः ॥ ५७ ॥
  1773. आसीज्ज्ञानमथो ह्यर्थश्चैकमेवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगे जनाः ॥ २ ॥
  1774. तन्मया फलरूपेण केवलेन विकल्पितम् । वाङ्मनोगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥
  1775. तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भागः पुरुषः सोऽभिधीयते ॥ ४ ॥
  1776. तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन वा ॥ ५ ॥
  1777. तेभ्यः समभवत् सूत्रं मत्सूत्रेण च संयुतम् । ततो विकुर्वतो जातो योऽहङ्कारो विमोहकः ॥ ६ ॥
  1778. वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् । तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥
  1779. तस्मिन्नहं समभवमण्डे सलिलसंस्थिते । मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चाऽत्मभूः ॥ १० ॥
  1780. योगस्य तपसश्चैव ज्ञानस्य गतयोऽमलाः । महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥
  1781. मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् । गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५ ॥
  1782. यस्तु यस्याऽदिरन्तश्च स वै मध्यं च तस्य तत् । विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥
  1783. यदुपादाय पूर्वस्तु भावो विकुरुते परम् । आदिरन्तो यतो यस्मिंस्तत् सत्यमभिधीयते ॥ १८ ॥
  1784. प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्वहम् ॥ १९ ॥
  1785. सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः । महान् गुणविसर्गोऽर्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥
  1786. विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः । पञ्चत्वायाविशेषाय कल्पते भुवनैः सह ॥ २१ ॥
  1787. अन्ने प्रलीयते मर्त्य अन्नं धानासु लीयते । धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥
  1788. योनिर्वैकारिके सौम्य लीयते महतीश्वरे । शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥
  1789. स लीयते महान् स्वेषु गुणेषु गुणवत्तमः । तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥ २६ ॥
  1790. कालो मायामये जीवे जीव आत्मनि मय्यजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥
  1791. काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदाऽसुखम् । मनोत्साहो यशःप्रीतिर्धार्ष्ट्यवीर्यबलोद्यमाः ॥ ३ ॥
  1792. सत्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः । तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२ ॥
  1793. कैवल्यं सात्त्विकं ज्ञानं कर्मनिष्ठं तु राजसम् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥
  1794. सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥
  1795. सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥
  1796. सर्वे गुणमया भावा पुरुषाव्यक्तनिष्ठिताः । दृष्टं श्रुतमनुध्यायेद् बुद्ध्या वा पुरुषर्षभ ॥ ३१ ॥
  1797. गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥
  1798. सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः । देवता बान्धवाः सन्तः पिता माताऽहमेव च ॥ ३४ ॥
  1799. पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २२ ॥
  1800. तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पद्य तन्मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २३ ॥
  1801. स्वस्य घर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन धामनीराजनादिभिः ॥ ३० ॥
  1802. उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम । मत्कथाः श्रावयन् शृण्वन् मुहूर्तक्षणिको भवेत् ॥ ४३ ॥
  1803. प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५१ ॥
  1804. मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । स भक्तियोगं लभते एवं यः पूजयेत माम् ॥ ५२ ॥
  1805. श्रीभगवानुवाच– परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
  1806. परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रंशते स्थानादसत्याभिनिवेशतः ॥ २ ॥
  1807. तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्धि नानार्थदं मनः ॥ ३ ॥
  1808. कि ं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् । वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥
  1809. छायाप्रत्युदकाभासा ह्यसन्तोऽप्यर्थकारिणः । एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥
  1810. आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥
  1811. तस्मान्न ह्यात्मनोऽमुष्मादन्यो भावो निरूपितः । अनिरूपितेयं त्रिविधा निर्मूला मतिरात्मनि ॥ ७ ॥
  1812. इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ८ ॥
  1813. एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणः । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ९ ॥
  1814. प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ १० ॥
  1815. श्रीभगवानुवाच– यावद् देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् । संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥ १३ ॥
  1816. अर्थेऽप्यविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १४ ॥
  1817. यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थकृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १५ ॥
  1818. शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च नाऽत्मनः ॥ १६ ॥
  1819. देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः । सूत्रं महानित्युरुधेह गीतः संसार आधावति कालतन्त्रः ॥ १७ ॥
  1820. अमूलमेतद् बहुरूपरूपं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १८ ॥
  1821. ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥१९॥
  1822. यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ २० ॥
  1823. विज्ञानमेतत् त्रिपदस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ । समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २१ ॥
  1824. न यत् पुरस्तादुत यन्न पश्चा- न्मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तदेव सत् स्यादिति मे मनीषा ॥ २२ ॥
  1825. अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयञ्ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २३ ॥
  1826. नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुजलं हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्व- महङ्कृतिः स्वं कृतिरर्थसाम्यम् ॥ २५ ॥
  1827. समाहितैः कः करणैर्गुणात्मभि- र्गुणो भवेत् तत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विगतै रवेः किम् ॥ २६ ॥
  1828. यथा नभो वाय्वनलाम्बुभूगुणै- र्गतागतैर्वा त्रिगुणैर्न सज्जते । तथाऽक्षरं सत्वरजस्तमोमलै- रसङ्गतं संसृतिहेतुभिः परम् ॥ २७ ॥
  1829. तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत तमःकषायम् ॥ २८ ॥
  1830. तिष्ठन्तमासीनमुत व्रजन्तं शयानमुद्यन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमान- मात्मानमात्मस्थमतिर्न वेद ॥ ३२ ॥
  1831. यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वप्नं यथोत्थाय तिरोदधानम् ॥ ३३ ॥
  1832. पूर्वं गृहीतं गुणकर्मचित्र- मज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत् पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३४ ॥
  1833. एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामो येनेरिता वाग्रचनाश्चरन्ति ॥ ३६ ॥
  1834. एतावानात्मसम्मोहो यद् विकल्पस्तु केवले । आत्माऽमृते स्वमात्मानमचलं यन्न पश्यति ॥ ३७ ॥
  1835. यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् । व्यर्थो नाप्यर्थवादोऽयं द्वयं विन्दन्ति सूरयः ॥ ३८ ॥
  1836. श्री शुक उवाच– इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेम मनोहरस्मितः ॥ ७ ॥
  1837. पृथक् सत्रेण वा मह्यं मम यात्रामहोत्सवम् । कारयेन्नृत्यगीताद्यैर्महाराजविभूतिभिः ॥ ११ ॥
  1838. मामेव सर्वभूतेषु बहिरन्तरवस्थितम् । ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥
  1839. इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयेन्मन्यमानो ज्ञानं केवलमाश्रयन् ॥ १३ ॥
  1840. ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्यर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥
  1841. सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया । परिपश्यन्ति च परं परमात्मानमच्युतम् ॥ १८ ॥
  1842. यो योऽपरो मनोधर्मः कल्पते निष्फलाय ते । तदायासो निरर्थः स्यान्नयादेरिव सत्तम ॥ २१ ॥
  1843. एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । यत् सत्यमनृतेनेह मर्त्येनाऽप्नोति माऽमृतम् ॥ २२ ॥
  1844. राजोवाच– ततो महाभागवत उद्धवे बदरीं गते । द्वारवत्यां किमकरोद् भगवान् भूतभावनः ॥ १ ॥
  1845. ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥
  1846. प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति यशो यत् सतामात्मलग्नम् । यच्छ्रीवाचं जनयति रतिं कोऽनुमानः कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ॥ ३ ॥
  1847. लोकाभिरामां स्वतनुं धरणाध्यानमङ्गलाम् । योगधारणयाऽऽग्नेय्याऽदग्ध्वा धामाविशत् स्वकम् ॥ ६ ॥
  1848. राजन् परस्य तनुभृज्जननाप्ययेहां मायाविडम्बनमवैहि यथा नटस्य । सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्य चान्ते संहृत्य चाऽत्ममहिमोपरतः स आस्ते ॥ ११ ॥
  1849. तथाऽप्यशेषस्थितिसम्भवाप्यये- ष्वनन्यहेतुर्यदशेषशक्तिधृक् । नैच्छत् प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थ गतिं प्रदर्शयन् ॥ १३ ॥
  1850. रामपत्न्यश्च तं देहमुपगुह्याग्निमाविशन् । वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्णपत्न्योऽविशन्नग्निं रुग्मिण्याद्यास्तदात्मिकाः ॥ २० ॥
  1851. न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥
  1852. बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते । मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥
  1853. एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह । विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥
  1854. न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते । नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥
  1855. इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः । बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२ ॥
  1856. तं पतन्तं विमानेन सहतक्षकमम्बरात् । विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३ ॥
  1857. नित्यादोषस्वरूपाय गुणपूर्णाय सर्वदा । नारायणाय हरये नमः प्रेष्ठतमाय मे ॥