Kandukastuti | Sarvamoola Grantha — Acharya Srimadanandatirtha

कंदुकस्तुतिः

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

कन्दुकस्तुतिः

अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः ।

कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः॥१॥

कालघनालीकर्बुरकायः शरशतशकलितसुररिपुनिवहः ।

सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः॥ २॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता कन्दुकस्तुतिः॥ (श्रीकृष्णपद्यम्)