महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत्षोशी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्यः एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोशिना राध्नोति य एवं वेद । (ऐतरेयब्राह्मणम् २.१६.४)
विदा मघवन् विदा गातुमनुशंसिषो दिशः ।
शिक्षा शचीनां पते पूर्वीणां पुरुवसो ॥ १ ॥
आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय।
इन्द्र द्युम्नाय न इष एवाहि शक्रः ॥ २ ॥
राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे।
मंहिष्ठ वज्रिन्नृञ्जस आ याहि पिब मत्स्व ॥ ३ ॥
विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु।
मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् ॥ ४ ॥
यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय।
इन्द्रो विदे तमु स्तुषे वशी हि शक्रः ॥ ५ ॥
तमूतये हवामहे जेतारमपराजितम् ।
स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ ६ ॥
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् ।
सनः पर्षदति द्विषः स नः पर्षदति स्रिधः ॥ ७ ॥
पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो।
पूर्तिः शविष्ठ शस्यत ईशे हि शक्रः ॥ ८ ॥
नूनं तं नव्यं सन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥ ९ ॥
एवाह्येवैवाह्यग्नाँ३ इ । एवाह्येवैवाहीन्द्रँ । एवाह्येवैवाहि विष्णाँ३ उ । एवाह्येवैवाहि पूषन् । एवा ह्येवैवाहि देवाः। एवा हि शक्रो वशी हि शक्रो वशाँ अनु ॥ १० ॥
आयोमन्याय मन्यव उपोमन्याय मन्यवे । उपेहि विश्वध ॥ विदा मघवन्विदो३म् ॥ ११ ॥
प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
धिया वो मेधसातये पुरन्ध्या विवासति ॥ १ ॥ (ऋ.मं.८, सू.६९.१)
नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ २ ॥ (ऋ.मं.८, सू.६९.२)
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥ ३ ॥ (ऋ.मं.८, सू.६९.३)
अर्चत प्रार्चत प्रियमेधासो अर्चत ।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥ १ ॥ (ऋ.मं.८, सू.६९/८)
अव स्वराति गर्गरो गोधा परि सनिष्वणत् । पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥ २ ॥ (ऋ.मं.८, सू.६९/९)
आयत्पतन्त्येन्यस्सुदुघा अनपस्फुरः ।
अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥ ३ ॥ (ऋ.मं.८, सू.६९/१०)
यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे । तक्वो नेता तदिद्वषुरुपमा यो अमुच्यत ॥ १ ॥ (ऋ.मं.८, सू.६९/१३)
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । भिनत्कनीन(निन) ओदनं पच्यमानं परो गिरा ॥ २ ॥ (ऋ.मं.८, सू.६९.१४)
अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् ।
स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥ ३ ॥ (ऋ.मं.८, सू.६९/१५)
स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृच्छ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद् विहृतं षोळशिनं शंसयेद् व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत् पाप्मानं शमलमप हन्त्यप पाप्मानं हते य एवं वेद ।
उद्यद् ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि । मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ १ ॥ (ऋ.मं.८, सू.६९.७)
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आवृषस्व ॥ २ ॥ (ऋ.मं.१०, सू.९६.१३)
महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष च्छन्दोभ्यः सन्निर्मितो यत् षोळशी तद्यन्महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः सन्निर्मिमीते सर्वेभ्यश्छन्दोभ्यः सन्निर्मितेन षोळशिना राध्नोति य एवं वेद॥(ऐ.ब्रा.४.४,(चतुर्थपञ्चिका.४))