Kathalakshanam | Sarvamoola Grantha — Acharya Srimadanandatirtha

कथालक्षणपञ्चिकाम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

;
KL_C01_V01;KL_C01_V02;KL_C01_V03;KL_C01_V04;KL_C01_V05;KL_C01_V06;KL_C01_V07;KL_C01_V08;KL_C01_V09;KL_C01_V10;KL_C01_V11;KL_C01_V12;KL_C01_V13;KL_C01_V14;KL_C01_V15;KL_C01_V16;KL_C01_V17;KL_C01_18;KL_C01_V19;KL_C01_V20;KL_C01_V21;KL_C01_V22;KL_C01_V23;KL_C01_V24;KL_C01_V025

कथालक्षणम्

नरसिंहमखिलाज्ञानतिमिराशिशिरद्युतिम् ।
सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा ॥1॥

वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा ।
तत्त्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः ॥2॥

कथाऽन्येषामपि सतां वादो वा समितेः शुभा ।
ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते ॥3॥

वितण्डा तु सतामन्यैस्तत्त्वमेषु निगूहितम् ।
स्वयं वा प्राश्निकैर्वादे चिन्तयेत् तत्त्वनिर्णयम् ॥4॥

रागद्वेषविहीनास्तु सर्वविद्याविशारदाः ।
प्राश्निका इति सम्प्रोक्ता विषमा एक एव वा ॥5॥

अशेषसंशयच्छेत्ता निःसंशय उदारधीः ।
एकश्चेत् प्राश्निको ज्ञेयः सर्वदोषविवर्जितः ॥6॥

एको वा बहवो वा स्युर्विष्णुभक्तिपरास्सदा ।
विष्णुभक्तिर्हि सर्वेषां सद्गुणानां स्वलक्षणम् ॥7॥

पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये ।
नैषा तर्केणापनेया मतिरित्याह हि श्रुतिः ।
अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ॥8॥

ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम् ।
मूलरामायणं चैव सम्प्रोच्यन्ते सदागमाः ॥9॥

अनुकूला य एतेषां ते च प्रोक्तास्सदागमाः ।
अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ॥10॥

स्वपक्ष आगमश्चैव वक्तव्यः प्रतिवादिना ।
तस्याप्यन्यार्थता साध्या वादिना स्वार्थसिद्धये ॥11॥

अन्यार्थता निराकार्या स्वागमस्य विनिश्चयम् ।
उपपत्त्यवकाशोऽत्र ह्यागमार्थविनिर्णये ॥12॥

वाद्यागमार्थे निर्णीत आगमार्थः परस्य तु ।
निर्णेयः सहितैः पश्चात्ततो निश्शेषनिर्णयः ॥13॥

प्रत्यक्षसिद्धेष्वर्थेषु प्रश्ने मामक्षजं वदेत् ।
ज्ञानं वा ज्ञानसिद्धेषु नानुमां प्रथमं वदेत् ॥14॥

परतुष्टिकरं वाक्यं वदेतां यदि वादिनी ।
स एवात्रागमो ज्ञेयः परतुष्टिर्हि तत्फलम् ॥15॥

एवं निर्णयपर्यन्तं वादे सुबहवोऽपि हि ।
घटेयुश्चिरकालं च जल्पे यावत्परो जितः ॥16॥

तत्त्वनिर्णयवैलोम्यं वादे साक्षात्पराजयः ।
संवादे श्लाघ्यतैव स्याद् गुरुत्वमितरस्य च ॥17॥

तत्त्वनिर्णयवैलोम्ये निन्द्यो दण्ड्योऽथवा भवेत् ।
विरोधासङ्गतिन्यूनतूष्णीम्भावादिकैर्जितः ॥18॥

भवेज्जल्पे वितण्डायां न्यायो जल्पवदीरितः ।
संवादे दण्ड्यतां न स्याद् वितण्डाजल्पयोरपि ॥19॥

पराजितत्वमात्रं स्यान्निन्द्यो दण्ड्योऽपि वाऽन्यथा ।
अनुवादादिराहित्यं नैव जल्पेऽपि दूषणम् ॥20॥

विद्याहीनत्वलिङ्गेऽपि वादिनोः स्यात् पराजयः ।
तदभावान्नैव षट्कादन्यो निग्रह इष्यते ॥21॥

अन्तर्भावादिहान्येषां निग्रहाणामिति स्म ह ।
विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥22॥

स्खलितात्वादिमात्रेण न तत्रापि पराजयः ।
वादजल्पवितण्डानामिति शुद्धं स्वलक्षणम् ॥23॥

आनन्दतीर्थमुनिना ब्रह्मतर्कानुसारतः ।
कथालक्षणमित्युक्तं प्रीत्यर्थं शार्ङ्गधन्वनः ॥24॥

सदोदितामितज्ञानपूरवारितहृत्तमाः ।
नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥25॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं कथालक्षणम् ॥