Krishnamrutamaharnava | Sarvamoola Grantha — Acharya Srimadanandatirtha

कृष्णामृतमहार्णवः

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

कृष्णामृतमहार्णवः

अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः ।

यो ददात्यमृतत्वं हि स मां रक्षतु केशवः॥ १॥

तापत्रयेण सन्तप्तं यदेतदखिलं जगत् ।

वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम्॥ २॥

ते नराः पशवो लोके किं तेषां जीवने फलम् ।

यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः॥ ३॥

संसारेस्मिन् महाघोरे जन्मरोगभयाकुले ।

अयमेको महाभागः पूज्यते यदधोक्षजः॥ ४॥

स नाम सुकृती लोके कुलं तेनाभ्यलङ्कृतम् ।

आधारः सर्वभूतानां येन विष्णुः प्रसादितः॥ ५॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।

तद्विशिष्टफलं नॄणां सदैवाराधनं हरेः॥ ६॥

कलौ कलिमलध्वंसिसर्वपापहरं हरिम् ।

येर्चयन्ति सदा नित्यं तेपि वन्द्या यथा हरिः॥ ७॥

नास्ति श्रेयस्तमं नॄणां विष्णोराराधनान्मुने ।

युगेस्मिंस्तामसे लोके सततं पूज्यते नृभिः॥ ८॥

अर्चिते देवदेवेशे शङ्खचक्रगदाधरे ।

अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः॥ ९॥

स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते ।

केशवे कंसकेशिघ्ने न याति नरकं नरः॥ १०॥

सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः ।

मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत्॥ ११॥

शङ्करः

सकृदभ्यर्चितो येन देवदेवो जनार्दनः ।

यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम्॥ १२॥

सकृदभ्यर्चितो येन हेलयापि नमस्कृतः ।

स याति परमं स्थानं यत्सुरैरपि दुर्लभम्॥ १३॥

नारदः समस्तलोकनाथस्य देवदेवस्य शांर्गिणः ।

साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम्॥ १४॥

पुलस्त्यः भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः ।

हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम्॥ १५॥

विधिना देवदेवेशः शङ्खचक्रधरो हरिः ।

फलं ददाति सुलभं सलिलेनापि पूजितः॥ १६॥

नरके पच्यमानस्तु यमेन परिभाषितः ।

किं त्वया नार्चितो देवः केशवः क्लेशनाशनः॥ १७॥

धर्मः द्रव्याणामप्यभावे तु सलिलेनापि पूजितः ।

यो ददाति स्वकं स्थानं स त्वया किं न पूजितः॥ १८॥

नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः ।

स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः॥ १९॥

ब्रह्मा गर्भस्थिता मृता वापि मुषितास्ते सुदूषिताः ।

न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी॥ २०॥

मार्कण्डेयः सकृदभ्यर्चितो येन देवदेवो जनार्दनः ।

यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम्॥ २१॥

धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते ।

सत्यं ब्रवीमि देवेश हृषीकेशार्चनादृते॥ २२॥

तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।

प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः॥ २३॥

मरीचिः अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज ।

न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्॥ २४॥

अत्रिः

परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः ।

स चाप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम्॥ २५॥

अङ्गिराः

यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः ।

तमाराधय गोविन्दं स्थानमग्य्रं यदीच्छसि॥ २६॥

पुलस्त्यः

परं ब्रह्म परं धाम योसौ ब्रह्म सनातनम् ।

तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम्॥ २७॥

ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।

प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत॥ २८॥

प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति ।

त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरम्॥ २९॥

ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम् ।

सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते॥ ३०॥

ततोनिरुद्धं देवेशं प्रद्युम्नं च ततः परम् ।

ततः सङ्कर्षणं देवं वासुदेवं परात्परम्॥ ३१॥

वासुदेवात् परं नास्ति इति वेदान्तनिश्चयः ।

वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः॥ ३२॥

आत्रेयः

यो यानिछेन्नरः कामान् नारी वा वरवर्णिनी ।

तान्समाप्नोति विपुलान्समाराध्य जनार्दनम्॥ ३३॥

ब्रह्मा

बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि ।

वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति॥ ३४॥

कौशिकः

अनाराधितगोवन्दा ये नरा दुःखभागिनः ।

आराध्य वासुदेवं स्युर्नित्यानन्दैकभागिनः॥ ३५॥

शङ्करः

कृते पापेनुतापो वै यस्य पुंसः प्रजायते ।

प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम्॥ ३६॥

नाम्नोस्ति यवती शक्तिः पापनिर्हरणे हरेः ।

तावत्कर्तुं न शक्नोति पातकं पातकी जनः॥ ३७॥

ब्रह्मा

न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।

भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा॥ ३८॥

तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ।

जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम्॥ ३९॥

प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते ।

न कश्चित्स्मरते देवं कृष्णं कलिमलापहम्॥ ४०॥

न कलौ देवदेवस्य जन्मदुखापहारिणः ।

करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः॥ ४१॥

ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना ।

ते प्रयान्ति भयं त्यक्त्वा विष्णुलोकमनामयम्॥ ४२॥

गर्भजन्मजरारोगदुःखसंसारबन्धनैः ।

न बाध्यते नरो नित्यं वासुदेवमनुस्मरन्॥ ४३॥

यममार्गं महाघोरं नरकाणि यमं तथा ।

स्वप्नेपि नैव पश्येत यः स्मरेद्गरुडध्वजम्॥ ४४॥

हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।

पादोदकं च निर्माल्यं मस्तके यस्य सोच्युतः॥ ४५॥

गोविन्दस्मरणं पुंसां पापराशिमहाचलम् ।

असंशयं दहत्याशु तूलराशिमिवानलः॥ ४६॥

अगस्त्यः

स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरः ।

शतधा भेदमायाति गिरिर्वज्रहतो यथा॥ ४७॥

कृष्णे रताः कृष्णमनुस्मरन्ति तद्भावितास्तद्गतमानसाश्च ।

भिन्नेपि देहे प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशे॥ ४८॥

सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता ।

यन्मूहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते॥ ४९॥

नारायणो नाम नरो नराणां प्रसिद्धचोरः कथितः पृथिव्याम् ।

अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव॥५०॥

यस्य संस्मरणादेव वासुदेवस्य चक्रिणः ।

कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति॥ ५१॥

किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः ।

यो नित्यं ध्यायते देवं नारायणमनन्यधीः॥ ५२॥

ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।

ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति॥ ५३॥

हे चित्त चिन्तयस्वेह वासुदेवमहर्निशम् ।

नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम्॥ ५४॥

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥ ५५॥

स्मृते सकलकल्याणभाजनं यत्र जायते ।

पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्॥ ५६॥

वेदेषु यज्ञेषु तपस्सु चैव दानेषु तीर्थेषु व्रतेषु यच्च ।

इष्टेषु पूर्तेषु च यत्प्रदिष्टं पुण्यं स्मृते तत्खलु वासुदेवे॥ ५७॥

आराध्यैवं नरो विष्णुं मनसा यद्यदिच्छति ।

फलं प्राप्नोति विपुलं भूरि स्वल्पमथापि वा॥ ५८॥

यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् ।

मैत्रेयाशेषपापानां धातूनामिव पावकः॥ ५९॥

कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।

प्रयाति विलयं सद्यः सकृत्सङ्कीर्तितेच्युते॥ ६०॥

अनायासेन चायान्ति मुक्तिं केशवसंश्रिताः ।

तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः॥ ६१॥

चतुःसागरमासाद्य जम्बूद्वीपोत्तमे क्वचित् ।

न पुमान्केशवादन्यः सर्वपापचिकित्सकः॥ ६२॥

यदभ्यर्च्य हरिं भक्त्या कृते वर्षसहस्रकम् ।

फलं प्राप्नोति विपुलं कलौ सङ्कीर्त्य केशवम्॥ ६३॥

क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे ।

तदा न कीर्तयेत्कश्चिन्मुक्तिदं देवमच्युतम्॥ ६४॥

अवशेनापि यन्नामि्न कीर्तिते सर्वपातकैः ।

पुमान्विमुच्यते सद्यः सिंहत्रस्तमृगैरिव॥ ६५॥

नारायणेति मन्त्रोस्ति वागस्ति वशवर्तिनी ।

तथापि नरके घोरे पतन्तीत्येतदद्भुतम्॥ ६६॥

आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।

सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति॥ ६७॥

कौशिकः

अनाराधितगोविन्दा ये नरा दुःखभागिनः ।

आराध्य वासुदेवं स्युः सदानन्दैकभोगिनः॥ ६८॥

सकृदुच्चरितं यैस्तु कृष्णेति न विशन्ति ते ।

गर्भागारगृहं मातुर्यमलोकं च दुस्सहम्॥ ६९॥

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।

क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्॥ ७०॥

बुद्ध्या बुद्ध्वाभ्यसेदेतत् हरिरित्यक्षरद्वयम् ।

स्मरणात्कीर्तनाद्यस्य न पुनर्जायते भुवि॥ ७१॥

हे जिह्वे मम निस्नेहे हरिं किं नानुभाषसे ।

हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः॥ ७२॥

असारे खलु संसारे सारात्सारतरो हरिः ।

पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम्॥ ७३॥

कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण किम् ।

जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्॥ ७४॥

ब्रह्मा

असारे खलु संसारे सारमेकं निरूपितम् ।

समस्तलोकनाथस्य सारमाराधनं हरेः॥ ७५॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् ।

तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ॥ ७६॥

यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः ।

स्वगृहेपि वसन् याति तद्विष्णोः परमं पदम्॥ ७७॥

शङ्करः साधु साधु महाभाग साधु दानवनाशन ।

यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति॥ ७८॥

निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव ।

नादग्धाशेषपापानां भक्तिर्भवति केशवे॥ ७९॥

किं तेन मनसा कार्यं यन्न तिष्ठति केशवे ।

मनो मुक्तिफलावाप्तौ कारणं सुप्रयोजितम्॥ ८०॥

रोगो नाम न सा जिह्वा यया न स्तूयते हरिः ।

गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम्॥

नूनं तत्कण्ठशालूकमथवाप्युपजिह्विका ।

रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान्॥ ८२॥

भारभूतैः करैः कार्यं किं तस्य नृपशोर्द्विजाः ।

यैर्हि न क्रियते विष्णोर्गृहसंमार्जनादिकम्॥ ८३॥

चरणौ तौ तु सफलौ केशवालयगामिनौ ।

ते च नेत्रे महाभागे याभ्यां सन्दृश्यते हरिः॥ ८४॥

किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विजाः ।

यैर्हि न व्रजते जन्तुः केशवालयदर्शने॥ ८५॥

वेदवेदान्तविदुषां मुनीनां भावितात्मनाम् ।

ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्॥ ८६॥

विचित्ररत्नपर्यङ्के महाभोगे च भोगिनः ।

रमन्ते नाकिरामाभिः केशवस्मरणात् फलम्॥ ८७॥

अश्वमेधसहस्राणां यः सहस्रं समाचरेत् ।

नासौ तत्फलमाप्नोति तद्भक्तैर्यदवाप्यते॥ ८८॥

रे रे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वम् ।

क्रियाजुषां को भवतां प्रयासः फलं हि यत्तत्पदमच्युतस्य॥ ८९॥

विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणम् ।

अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥ ९०॥

प्रदक्षिणं तु यः कुर्याद्धरिं भक्तिसमन्वितः ।

हंसयुक्तविमानेन विष्णुलोकं स गच्छति॥ ९१॥

तीर्थकोटिसहस्राणि व्रतकोटिशतानि च ।

नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्॥ ९२॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।

पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्ग ईरितः॥ ९३॥

शाठ्येनापि नमस्कारं कुर्वतः शांर्गपाणये ।

शतजन्मार्जितं पापं नश्यत्येव न संशयः॥ ९४॥

संसारार्णवमग्नानां नराणां पापकर्मणाम् ।

नान्योद्धर्ता जगन्नाथं मुक्त्वा नारायणं प्रभुम्॥ ९५॥

रेणुकुण्ठितगात्रस्य कणा यावन्ति भारत ।

तावद्वर्षसहस्राणि विष्णुलोके महीयते॥ ९६॥

पावनं विष्णुनैवेद्यं सुभोज्यमृषिभिः स्मृतम् ।

अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्॥ ९७॥

कोट्यैन्दवसहस्रैस्तु मासोपोषणकोटिभिः ।

तत्फलं लभ्यते पुम्भिर्विष्णोर्नैवेद्यभक्षणात्॥ ९८॥

त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः ।

समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः॥ ९९॥

षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।

विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम्॥ १००॥

गङ्गाप्रयागगयपुष्करनैमिषाणि संसेवितानि बहुशः कुरुजाङ्गलानि ।

कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः॥ १०१॥

यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च ।

विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम्॥ १०२॥

स्नात्वा पादोदकं विष्णोः पिबन् शिरसि धारयेत् ।

सर्वपापविनिर्मुक्तो वैष्णवीं सिदि्धमाप्नुयात्॥ १०३॥

यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम् ।

नैवेद्यं धूपशेषश्च आरार्तिश्च तथा हरेः॥ १०४॥

तुलस्यास्तु रजोजुष्टनैवेद्यस्य च भक्षणम् ।

निर्माल्यं शिरसा धार्यं महपातकनाशनम्॥ १०५॥

भक्त्या वा यदि वाभक्त्या चक्राङ्कितशिलां प्रति ।

दर्शनं स्पर्शनं वापि सर्वपापप्रणाशनम्॥ १०६॥

शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।

उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति॥ १०७॥

शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।

तत्र स्नानं च दानं च वाराणस्याः शताधिकम्॥ १०७॥

म्लेच्छदेशेशुचौ वापि चक्राङ्को यत्र तिष्ठति ।

योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे॥ १०९॥

शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डलम् ।

यत्रापि नीयते तत्र वाराणस्याः शताधिकम्॥ ११०॥

शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।

उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः॥ १११॥

हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः ।

स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्॥ ११२॥

हरिर्याति हरिर्याति दस्युव्याजेन यो वदेत् ।

सोपि सद्गतिमाप्नोति गतिं सुकृतिनो यथा॥ ११३॥

वासुदेवं परित्यज्य योन्यं देवमुपासते ।

त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हालाहलं विषम्॥ ११४॥

त्यक्त्वामृतं यथा कश्चिदन्यपानं पिबेन्नरः ।

तथा हरिं परित्यज्य योन्यं दैवमुपासते॥ ११५॥

स्वधर्मं तु परित्यज्य परधर्मं चरेद्यथा ।

तथा हिरं परित्यज्य योन्यं दैवमुपासते॥ ११६॥

गां च त्यक्त्वा स मूढात्मा गार्दभीं वन्दते यथा ।

तथा हरिं परित्यज्य चान्यं दैवमुपासते॥ ११७॥

वासुदेवं परित्यज्य योन्यं दैवमुपासते ।

तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः॥ ११८॥

यथा गङ्गोदकं त्यक्त्वा पिबेत् कूपोदकं नरः ।

तथा हरिं परित्यज्य योन्यं दैवमुपासते॥ ११९॥

स्वमातरं परित्यज्य श्वपाकीं वन्दते यथा ।

तथा हरिं परित्यज्य योन्यं दैवमुपासते॥ १२०॥

यावत्स्वस्थमिदं पिण्डं नीरुजं करणान्वितम् ।

तावत्कुरुष्वात्महितं पश्चात्तापेन तप्यसे॥ १२१॥

यावत्स्वास्त्थ्यं शरीरेषु करणेषु च पाटवम् ।

तावदर्चय गोविन्दमायुष्यं सार्थकं कुरु॥ १२२॥

स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च ।

अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के॥ १२३॥

यावच्चिन्तयते जन्तुर्विषयान् विषसन्निभान् ।

तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात्॥ १२४॥

यावत्प्रलपते जन्तुर्लोकवार्तादिभिः सदा ।

तावच्चेद्वदते विष्णुं को न मुच्येत बन्धनात्॥ १२५॥

सूतः

ज्ञात्वा विप्रैस्तिथिं सम्यग् दैवज्ञैः समुदीरिताम् ।

कर्तव्य उपवासस्तु ह्यन्यथा नरकं व्रजेत्॥ १२६॥

क्षये वाप्यथवा वृद्धौ सम्प्राप्ते वा दिनक्षये ।

उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत्॥ १२७॥

पूर्वविद्धां प्रकुर्वाणो नरो धर्मान् निकृन्तति ।

सन्ततेस्तु विनाशाय सम्पदो हरणाय च॥ १२८॥

कलावेधे तु विप्रेन्द्र दशम्यैकादशीं त्यजेत् ।

सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजेत्॥ १२९॥

श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत् ।

एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि॥ १३०॥

तस्माद्विप्रा न विद्धा हि कर्तव्यैकादशी क्वचित् ।

विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः॥ १३१॥

जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः ।

तत्सर्वं विलयं याति तमः सूर्योदये यथा॥ १३२॥

एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवेत् ।

उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्॥ १३३॥

प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवेः ।

सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः॥ १३४॥

अरुणोदयकाले तु दशमी यदि दृश्यते ।

न तत्रैकादशी कार्या धर्मकामार्थनाशिनी॥ १३५॥

अरुणोदयवेलायां दशमी यदि दृश्यते ।

पापमूलं तदा ज्ञेयमेकादश्युपवासनम्॥ १३६॥

चतस्रो घटिकाः प्रातररुणोदय उच्यते ।

यतीनां स्नानकालोयं गङ्गाम्भःसदृशं जलम्॥ १३७॥

उदयात्प्राग्यदा विप्रा मुहूर्तद्वयसंयुता ।

सम्पूर्णैकादशी नाम तत्रैवोपवसेद्गृही॥ १३८॥

उदयात्प्राक्त्रिघटिकाव्यापिन्यैकादशी यदा ।

सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थकांिक्षभिः॥ १३९॥

पुत्रपौत्रविवद्ध्यर्थं द्वादश्यामुपवासयेत् ।

तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्॥ १४०॥

उदयात्प्राग् द्विघटिकाव्यापिन्यैकादशी यदा ।

सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकांिक्षभिः॥ १४१॥

पुत्रराज्यविवृद्ध्यर्थं द्वादश्यामुपवासनम् ।

तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्॥ १४२॥

दशमीशेषसंयुक्ता गान्धार्या समुपोषिता ।

तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत्॥ १४३॥

अपीषद्दशमीविद्धा तदा तां परिवर्जयेत् ।

सुराबिन्दुसमायुक्तां प्रवदन्ति मनीषिणः॥ १४४॥

बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु ।

उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्॥ १४५॥

एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा ।

उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि॥ १४६॥

उपरागसहस्राणि व्यतीपातायुतानि च ।

अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम्॥ १४७॥

शुद्धापि द्वादशी ग्राह्या परतो द्वादशी यदि ।

विषं तु दशमी ज्ञेयामृतं चैकादशी तिथिः ।

विषप्रधाना वर्ज्या सामृता ग्राह्या प्रयत्नतः॥ १४८॥

द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम् ।

यः कुर्यान्मन्दबुदि्धत्वान्निरयं सोधिगच्छति॥ १४९॥

यानि कानि च वाक्यानि विद्धोपोषपराणि च ।

धनदार्चापराणि स्युर्वैष्णवी न दशायुता॥ १५०॥

अथवा मोहनार्थाय मोहिन्या भगवान् हरिः ।

अर्थितः कारयामास व्यासरूपी जनार्दनः॥ १५१॥

धनदार्चाविवृध्द्यर्थं महावित्तलयस्य च ।

असुराणां मोहनार्थं पाषण्डानां विवृद्धये ।

आत्मस्वरूपाविज्ञप्त्यै स्वलोकाप्राप्तये तथा॥ १५२॥

एवं विद्धां परित्यज्य द्वादश्यामुपवासयेत् ।

कोटिजन्मार्जितं पापमेकयैव विनश्यति॥ १५३॥

ततः कोटिगुणं चापि निषिद्धस्येतरैर्जनैः ।

यदनादिकृतं पापं यदूर्ध्वं यत्करिष्यति॥ १५४॥

तत्सर्वं विलयं याति परेषामुपवासनात् ।

न च तस्मात्प्रियतमः केशवस्य ममापि च॥ १५५॥

एकादश्यां ह्यवेधे तु द्वादशीं न परित्यजेत् ।

पारणे मरणे चैव तिथिस्तात्कालिकी स्मृता॥ १५६॥

ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा॥ १५७॥

अभर्तृका तथान्ये च सूतवैदेहिकादयः ।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥ १५८॥

एकादश्यां तु यो भुङ्क्ते मोहेनावृतचेतसा ।

शुक्लायामथ कृष्णायां निरयं याति स ध्रुवम्॥ १५९॥

विवेचयति यो मोहाच्छुक्ला कृष्णेति पापकृत् ।

एकादशीं स वै याति निरयं नात्र संशयः॥ १६०॥

यथा गौर्नैव हन्तव्या शुक्ला कृष्णेति भामिनि ।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥ १६१॥

यानि कानि च वाक्यानि कृष्णैकादशिवर्जने ।

भरण्यादिनिषेधे च तानि काम्यफलार्थिनाम्॥ १६२॥

कामिनोपि हि सिद्ध्यर्थं कुर्युरेवोपवासनम् ।

प्रीणनाय हरेर्नित्यं न तु काम्यव्यपेक्षया॥ १६३॥

तस्माच्छुक्लामथो कृष्णां भरण्यादियुतामपि ।

प्रत्यवायनिषेधार्थमुपवासीत नित्यशः ।

प्रीणनार्थं हरेश्चापि विष्णुलोकस्य चाप्तये॥ १६४॥

कला वार्धकला वापि परतो द्वादशी यदि ।

द्वादश द्वादशीर्हन्ति पूर्वेद्युः पारणे कृते॥ १६५॥

अतिरिक्ता द्वादशी चेद्यस्तां नोपोषयेद्यदि ।

द्वादश द्वादशीर्हन्ति द्वादशी चातिलङ्घिता॥ १६६॥

द्वादश्यामतिरिक्तायां यो भुङ्क्ते पूर्ववासरे ।

द्वादश द्वादशीर्हन्ति द्वादशीं न परित्यजेत्॥ १६७॥

द्वादशीं श्रवणोपेतां यो नोपोष्यात् सुमन्दधीः ।

पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति॥ १६८॥

एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत् ।

न तत्र विधिलोपः स्यादुभयोर्देवता हरिः॥ १६९॥

अल्पायामपि विप्रेन्द्र पारणं तु कथं भवेत् ।

पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति॥ १७०॥

यदाल्पां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव तु ।

आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात्॥१७१॥

व्यासः उषसि द्वे तु कर्तव्ये प्रातर्माध्याह्निकक्रिये ।

भुजेर्यदापकर्षस्य तदन्तर्न्यायतो भवेत्॥ १७२॥

कर्तुं साध्यं यदा नालं द्वादश्यदि्भस्तु पारयेत् ।

क्रतावल्पाशिवत् पश्चात् भुञ्जीतेत्यपरे जगुः॥ १७३॥

अशितानशिता यस्मादापो विद्वदि्भरीरिताः ।

अम्भसा केवलेनैव करिष्ये व्रतपारणम्॥ १७४॥

न काशी न गया गङ्गा न रेवा न च पुष्करम् ।

न चापि कौरवं क्षेत्रं तुल्यं भूप हरेर्दिनात्॥ १७५॥

अश्वमेधसहस्राणि वाजपेयायुतानि च ।

एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्॥ १७६॥

एकादशीसमुत्थेन वह्निना पातकेन्धनम् ।

भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम्॥ १७७॥

नेदृशं पावनं किञ्चिन्नराणां भुवि विद्यते ।

यादृशं पद्मनाभस्य दिनं पातकहानिदम्॥ १७८॥

तावत्पापानि देहेस्मिन् तिष्ठन्ति मनुजाधिप ।

यावन्नोपोषयेज्जन्तुः पद्मनाभदिनं शुभम्॥ १७९॥

एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो ।

एकादश्युपावासेन तत्सर्वं विलयं व्रजेत्॥ १८०॥

एकादशीसमं किञ्चित् पवित्रं न हि विद्यते ।

व्याजेनापि कृता राजन्न दर्शयति भास्करिम्॥ १८१॥

श्रीव्यासः अन्नं निवेदयेन्मह्यं प्राप्तं मद्वासरे शुभे ।

तस्यापि नरकप्राप्तिः किं पुनर्भोजने कृते॥१८२॥

स ब्रह्महा स गोघ्नश्च स स्तेनो गुरुतल्पगः ।

एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि॥ १८३॥

वरं स्वमातृगमनं वरं गोमांसभक्षणम् ।

वरं हत्या सुरापानमेकाश्यन्नभक्षणात्॥ १८४॥

एकादशीदिने पुण्ये भुञ्जते ये नराधमाः ।

अवलोक्य मुखं तेषामादित्यमवलोकयेत्॥ १८५॥

पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च ।

अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे॥ १८६॥

रुग्माङ्गदः

अष्टवर्षाधिको यस्तु ह्यशीतिर्न हि पूर्यते ।

यो भुङ्क्ते मानवः पापी विष्णोरहनि चागते॥ १८७॥

पिता वा यदि वा पुत्रो भार्या वापि सुहृज्जनः ।

पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद्भवेत्॥ १८८॥

ब्रह्मा उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम् ।

न पश्यन्ति यमं वापि नरकाणि न यातनाम्॥ १८९॥

शङ्करः रटन्तीह पुराणानि भूयो भूयो वरानने ।

न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे॥ १९०॥

द्वादशी न प्रमोक्तव्या यावदायुः प्रवर्तते ।

अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना॥ १९१॥

भक्त्या ग्राह्यो हृषीकेशो न धनैर्धरणीसुराः ।

भक्त्या सम्पूजितो विष्णुः फलं धत्ते समीहितम्॥१९२॥

जलेनापि जगन्नाथः पूजितः क्लेशनाशनः ।

परितोषं प्रयात्याशु तृषार्तास्तु यथा जलैः॥ १९३॥

आसीनस्य शयानस्य तिष्ठतो ब्रजतोपि वा ।

रमस्व पुण्डरीकाक्ष हृदये मम सर्वदा॥ १९४॥

सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत ।

रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम॥ १९५॥

करावलम्बनं देहि श्रीकृष्ण कमलेक्षण ।

भवपङ्कार्णवे घोरे मज्जतो मम शाश्वत (सर्वदा)॥१९६॥

त्राहि त्राहि जगन्नाथ वासुदेवाच्युताव्यय ।

मां समुद्धर गोविन्द दुःखसंसारसागरात्॥ १९७॥

एतत्पुण्यं परं गुह्यं पवित्रं पापनाशनम् ।

आयुष्यं च यशस्यं च धन्यं दुःस्वप्ननाशनम्॥ १९८॥

कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम् ।

स्मृते मनसि गोविन्दे दह्यते तूलराशिवत्॥ १९९॥

कलौ केशवभक्तानां न भयं विद्यते क्वचित् ।

स्मृते सङ्कीर्तिते ध्याते सङ्क्षयं याति पातकम्॥ २००॥

अध्येतव्यमिदं शास्त्रं श्रोतव्यमनसूयया ।

भक्तेभ्यश्च प्रदातव्यं धार्मिकेभ्यः पुनःपुनः॥ २०१॥

अधीयाना इदं शास्त्रं विष्णोर्माहात्म्यमुत्तमम् ।

सर्वपापविनिर्मुक्ताः प्राप्नुवन्ति परं पदम्॥२०२॥

श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।

श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति॥ २०३॥

तस्मादिदं सदा सेव्यं श्रोतव्यं च सदैव हि ।

कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन॥ २०४॥

संसारविषपानेन ये मृताः प्राणिनो भुवि ।

अमृताय स्मृतस्तेषां कृष्णामृतमहार्णवः॥ २०५॥

क्लिन्नं पादोदकेनैव यस्य नित्यं कलेवरम् ।

तीर्थकोटिसहस्रैस्तु स्नातो भवति प्रत्यहम्॥ २०६॥

तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम् ।

तोयं यदि पिबेन्नित्यं शालग्रामशिलाच्युतम्॥ २०७॥

शालग्रामशिलास्पर्शं ये कुर्वन्ति दिनेदिने ।

वाञ्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः॥ २०८॥

दुःसहो नारको वह्निर्दुःसहा यमकिङ्कराः ।

विषमश्चान्तकपथः प्रेतत्वं चातिदारुणम्॥ २०९॥

सञ्चित्य मनसाप्येवं पातकाद्विनिवर्तयेत् ।

स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत्॥ २१०॥

अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ।

नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्॥ २११॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

वेदशास्त्रात्परं नास्ति न दैवं केशवात् परम्॥ २१२॥

सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ।

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥ २१३॥

एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।

कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम्॥ २१४॥

किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।

यो नित्यं ध्यायते देवं नारायणमनन्यधीः॥ २१५॥

नित्योत्सवो भवत्तेषां नित्यश्रीर्नित्यमङ्गलम् ।

येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः॥ २१६॥

जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।

स्त्री वाप्यनूनदशकं देहं मानुषमार्जयेत्॥ २१७॥

चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।

अतोवित्वा परं देवं मोक्षाशा का महामुने॥ २१८॥

आचतुदर्शमाद्वर्षात् कर्माणि नियमेन तु ।

दशावराणां देहानां कारणानि करोत्ययम् ।

अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति॥ २१९॥

समानां विषमा पूजा विषमाणां समा तथा ।

क्रियते येन देवोपि स्वपदाद्भ्रश्यते हि सः॥ २२०॥

(इति पाद्मे)

वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी ।

एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम्॥ २२१॥

गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः ।

सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति॥ २२२॥

यथा सुहृत्सु कर्तव्यं पितृमातृसुतेषु च ।

तथा करोति पूजादि समबुदि्धः स उच्यते॥ २२३॥

तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेपि वा ।

न चान्यन्नाम विब्रूयात् परान्नारायणादृते॥ २२४॥

नैवेद्यशेषं देवस्य यो भुनक्ति दिने दिने ।

सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम्॥ २२५॥

ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते ।

स चण्डालोपि शुद्धात्मा पूज्य एव न संशयः॥ २२६॥

अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ।

शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः॥ २२७॥

ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम् ।

अवलोक्य मुखं तेषामादित्यमवलोकयेत्॥ २२८॥

यज्ञो दानं तपश्चैव स्वाध्यायः पितृतर्पणम् ।

व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम्॥ २२९॥

गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा ।

तं तं शुद्धं विजानीयान्नात्र कार्या विचारणा॥ २३०॥

आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।

वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति॥ २३१॥

जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि ।

न तु कल्पसहस्रैस्तु भक्तिहीनस्य केशवे॥ २३२॥

किं तेन जातमात्रेण भूभारेणान्नशत्रुणा ।

यो जातो नार्चयेद्विष्णुं न स्मरेन्नापि कीर्तयेत्॥ २३३॥

यो ददाति द्विजातिभ्यश्चन्दनं गोपिमर्दितम् ।

अपि सर्षपमात्रेण पुनात्यासप्तमं कुलम्॥ २३४॥

ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत॥ २३५॥

अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः ।

एतादृशोपि नाचारं श्रौतं स्मार्तं परित्यजेत्॥ २३६॥

''यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति'''॥ २३७॥

''कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।

एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे'''॥ २३८॥

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ।

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः॥ २३९॥

निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते ।

निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥ २४०॥

श्रीमदानन्दतीर्थार्यसहस्रकिरणोत्थिता ।

गोततिः सततं सेव्या गीर्वाणैः सिदि्धदा भवेत्॥ २४१॥

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं

ब तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।

वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-

र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥२४२॥

यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः ।

प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत्॥ २४३॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीकृष्णामृतमहार्णवः समाप्तः॥