Mandu | Sarvamoola Grantha — Acharya Srimadanandatirtha

माण्डूक्योपनिषत्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमः खण्डः

पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् ।

चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ॥

ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥

सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥

मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते ।

ध्यायन् नारायणं देवं प्रणवेन समाहितः ।

मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥ इति पाद्मे ।

ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् ।

औतमत्र जगद्यस्मादों तस्मात् भगवान् हरिः ॥

तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् ।

भाविभूतभवत्कालेष्वेकरूपतया हरिः ॥

सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥

इति बृहत्संहितायाम् ।

ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः ।

सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥ इति नैर्गुण्ये ।

सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥

सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म । सोयमात्मा चतुष्पात् ॥ २ ॥

परमं यो महद्ब्रह्म तदेव ब्रह्म परमं कवीनाम् पूर्णमदः पूर्णमिदम् इत्यादिषु प्रसिद्धं च ब्रह्मणः पूर्णत्वमित्याह– सर्वं ह्येतत् ब्रह्मेति ॥ श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोऽपि स एवेति दर्शयति– अयमात्मा ब्रह्मेति ।

पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन ।

विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥

कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः ।

अभिमानात्तु जीवानां न कालातीतता भवेत् ॥

मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः ।

पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥

सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा ।

आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥

इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम् ॥

इति हरिवंशेषु ॥ २ ॥

जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३ ॥

चतुर्धाऽवस्थितो देहे परमात्मा सनातनः ।

वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥

निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः ।

अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥

मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् ।

पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥

स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् ।

विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥

तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः ।

विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ॥

तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् ।

चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥

एवम्भूतगुणो विष्णुश्चतुरात्मा परात् परः ॥ इति महायोगे ॥ ३ ॥

स्वप्नस्थानोऽन्तप्रज्ञः । सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥

जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् ।

प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥

इति वाराहे ॥४॥

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् ।

सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥

सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः ।

न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥

कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् ।

चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥

न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः ।

एकीभावं व्रजेतां च तेन विश्वश्च तैजसः ॥

एकीभूतस्त्वतः प्राज्ञो घनो जीवस्तमोवृतः ।

तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥

इति प्रकाशिकायाम् ।

आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयत्व चेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥

एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी ।

एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥

एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ॥

परमात्मा चतूरूपः सर्वप्राणिशरीरगः ।

विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥

तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु ।

चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥

मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः ।

तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ॥

ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥ इति मार्कण्डेये ॥

पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा ।

यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥

इति ब्रह्मतर्के ॥ ६ ॥

अत्रैते श्लोका भवन्ति ।

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।

घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥

प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने ।

ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥

अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥

इति गारुडे ।

खण्डचतुष्टयेऽपि पृथक् पृथक् ॥ ७ ॥

दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।

आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥

विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक् ।

आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ९ ॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।

आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥

त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः ।

वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥

प्रभवः सर्वभावानां सतामिति विनिश्चयः ।सर्वं जनयति प्राणश्चेतोंऽशून् पुरुषः पृथक् ॥ १२ ॥

प्रभवः सर्वभावानां विष्णुरेव न संशयः ।

इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥

सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः ॥ १२ ॥

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।

स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ १३ ॥

इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।

कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १४ ॥

तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा ।

विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥

तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः ।

स्वप्नप्रमायासरूपां च केचिदज्ञा जना विदुः ॥

अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् ।

उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥

पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः ।

सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥

तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् ।

यथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥

केचित् कालत एवैतां सृष्टिमाहुरकोविदाः ।

केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥

विमूढाः सर्व एवैते यतो नारायणः परः ।

सर्वकर्ता सर्वशक्तिरेक एव न चापरः ॥

प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः ।

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।

देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति ॥ १५ ॥

इति प्रथमखण्डः ॥

तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥

अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः ।

सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥

इति हरिवंशेषु ॥