Mayavadakhandanam | Sarvamoola Grantha — Acharya Srimadanandatirtha

मायावादखण्डनम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

मायावादखण्डनम्

नरसिंहोखिलाज्ञानमतध्वान्तदिवाकरः ।

जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ॥

विमतमनारम्भणीयं अन्यथाप्रतिपादकत्वात् यदित्थं तत्तथा यथा सम्प्रतिपन्नम् । न हि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे । अद्वैतहानेः स्वरूपातिरेके । अनतिरेके स्वप्रकाशत्वादात्मनः सिद्धसाधनता । निर्विशेषत्वादात्मनो नानधिगतो विशेषः । सिद्धत्वाद् स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम् । अनधिगतार्थगन्तृ प्रमाणमिति च तन्मतम् । अज्ञानासम्भवादेव तन्मतमखलिमपाकृतम् । मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात् । सत्यता च भेदस्य । एवमेव प्रयोजनमपि निरस्तम् । स्वरूपत्वात् मोक्षस्य पूर्वमेव सिद्धत्वात् । अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारतापि निरस्ता । विषयप्रयोजनाभावादेवाधिकारी च । तदभावादेव सम्बन्धोपि । द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्माद् क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥
"इन्द्रियेभ्यः परा अर्थाः अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥'
"भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति' । इति विष्णोः पुरुषोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम् ।इति सर्वज्ञमुनिना मायावादतमोखलिम् । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं मायावादखण्डनम् ॥