Mithyatvanumanakhanadanam | Sarvamoola Grantha — Acharya Srimadanandatirtha

मिथ्यात्वानुमानखण्डनम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

मिथ्यात्वानुमानखण्डनम्

विमतं मिथ्या दृश्यत्वात् यदित्थं तत्तथा यथा सम्प्रतिपन्नम् । इत्युक्ते जगतोभावादाश्रयासिद्धः पक्षः । अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः । सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता । दृश्यत्वाभावादसिद्धो हेतुः । अनिर्वचनीयासिद्धेरेव सपक्षाभावाद्विरुद्धः । आत्मनोपि दृश्यत्वादनैकान्तिकः । जगतोभावेनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः । प्रत्यक्षादिविरुद्धत्वाद्विश्वं सत्यमित्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः । रजतं दृष्टमिति भ्रममात्रत्वात् विमतं सत्यं दृश्यत्वात् आत्मवदित्यपि प्रयोज्यत्वात् प्रकरणसमः । विमतं सत्यं प्रमाणदृष्टत्वात् यदित्थं तत्तथा यथात्मेति प्रयोगात् सप्रतिसाधनः । शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात् साध्यविकलो दृष्टान्तः । उक्तप्रकारेण दृश्यत्वाभावात् साधनविकलः । प्रमाणविरुद्धत्वमुपाधिः ।
साध्यधर्मविशिष्टः पक्षः । साध्यसमानधर्मविशिष्टः सपक्षः । साध्यविपरीतधर्मविशिष्टः विपक्षः । पक्षवचनं प्रतिज्ञा । लिङ्गं हेतुः । निदर्शनं दृष्टान्तः ॥
यो दृश्यते सदानन्दनित्यव्यक्तचिदात्मना । निर्दोषाखलिकल्याणगुणं वन्दे रमापतिम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रपञ्चमिथ्यात्वानुमानखण्डनम् ॥