Mundaka | Sarvamoola Grantha — Acharya Srimadanandatirtha

मुण्डकोपनिषद्भाष्यम् / आथर्वणोपनिषद्भाष्यम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमः खण्डः

ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥

आनन्दमजरं नित्यमजमक्षयमच्युतम् ।

अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥

मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि ।

मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च ॥

ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः ।

सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोऽग्रजः ॥ इति ब्रह्माण्डे ।

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।

स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥

तस्मै शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च ॥ ४ ॥

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥

ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः ।

ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ॥ इति परमसंहितायाम् ।

ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये ।

विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति ॥

स्तुवन्त्यथर्वणैश्चैनं सेतिहासपुराणकैः ।

न विष्णुसदृशं किञ्चित् परमं वाऽपि मन्वते ॥

सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः ॥

वेदे रामायणे चैव पुराणे भारते तथा ।

आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥

एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम् ।

ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति ॥

यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।

स्तुवन्ति सत्यकर्माणं सत्यं सत्येन सामसु ॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । इति च भारते ।
चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति इति च मूलश्रुतिः ।

पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराऽऽभवत् ।

मूलवेद इति ह्याख्या काले कृतयुगे तदा ॥

नैवर्क्सामादिनामानि तदा वेदस्य चाभवन् ।

नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित् ॥

ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः ।

देवतात्वेन चेज्यस्स ब्रह्माद्या मनुनामकाः ॥

वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात् ।

इज्यन्ते देवताः सर्वा न तु देवतया क्वचित् ॥

अनन्ययाजिनस्ते तु तस्मात् कार्तयुगा जनाः ।

प्राप्नुवन्ति हरिं तं च तस्माद्वेदे न किञ्चन ॥

पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात् ।

ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत् ॥

तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा ।

यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात् ॥

अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाथ तं यजेत् ।

ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः ॥

द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवलैः ।

कलौ तु नाममात्रेण पूज्यते भगवान् हरिः ॥

एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाऽभवत् ।

स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् ॥

उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः ।

मुख्यो धर्मः कार्तयुगो वर्तितव्यः कलावपि ॥

त्रेतादौ तदशक्त्या हि धर्मोऽन्यः सम्प्रकीर्तितः ।

कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा ॥

त्रेतायां भिन्नविषयास्ततस्त्रैविद्यतां गताः ।

तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः ॥

पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा ॥

इत्यादि नारायणसंहितायाम् ।

वेदवादाश्चानुयुगं ह्रसन्तीति हि नः श्रुतिः ॥ इति भारते ।

वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च ।

दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ॥ इत्यादि वाराहे ।

अत्रापि तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन् इत्यादिना कर्मविषयामपरविद्यामुक्त्वा येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह । चतुर्वेदसंस्कारवतामेव च विद्यायामधिकार उक्तः तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् इति । शिरोव्रतमित्युपलक्षणम् ।

स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि ।

अधिकारोऽस्ति विद्यासु नावेदव्रतिनः क्वचित् ॥ इति व्यासस्मृतौ ॥ १५ ॥

यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।

नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।

यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७ ॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।

अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥

यस्सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः ।

तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥

इति प्रथमः खण्डः

एतद्ब्रह्म चतुर्मुखः ॥