Nakha | Sarvamoola Grantha — Acharya Srimadanandatirtha

मन्दबोधिनी

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

;
NNS_C01_V01;NNS_C01_V02

नरसिंहनखस्तोत्रम्

पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः ।

श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूरप्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता (नाकिवृन्दैः) भूरिभागैः॥1॥

लक्ष्मीकान्त समन्ततोऽपि(वि)कलयन्नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योष्टमः ।

यद्रोषोत्करदक्षनेत्रकुटलिप्रान्तोत्थिताग्निस्फुरत्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥2॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं नरसिंहनखस्तोत्रम् ॥