Nyayavivaranam | Sarvamoola Grantha — Acharya Srimadanandatirtha

न्यायविवरणम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमोध्यायः

प्रथमः पादः

चेतनाचेतनजगन्नियन्त्रे शेषसंविदे ।नमो नारायणायजशर्वशक्रादिवन्दित ॥1॥

कृत्वा भाष्यानुभाष्येहमपि वेदार्थसत्पतेः ।कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृत्तिः स्फुटम् ॥2॥

करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् ।प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ॥3॥

जिज्ञासाधिकरणम्

जीवव्यतिरिक्तेश्वरस्याभावात् तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते "अथातो ब्रह्मजिज्ञासा' इत्याह । "तद्विजिज्ञासस्व तद्ब्रह्म' इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । "अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः' इति श्रुतेः ॥1॥

जन्माधिकरणम्

न जीव एवायं ब्रह्मशब्दः । "यतो वा इमानि भूतानि जायन्ते' इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः ॥2॥

शास्त्रयोनित्वाधिकरणम्

न च रुद्रादौ सममेतल्लक्षणम् । शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य ॥3॥

समन्वयाधिकरणम्

न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम् । किन्तूपक्रमादलिक्षणः समन्वय एव ॥4॥

ईक्षत्यधिकरणम्

न च तस्यावाच्यत्वं श्रुत्यभिप्रायः । "सर्वे वेदा यत्पदमामनन्ति' इत्यादि श्रुतिसहितानुभवस्य बलवत्वात् ॥5॥

आनन्दमयाधिकरणम्

न चावयवत्वविरोधः "नेह नानास्ति किञ्चन' इति श्रुतेरवयवाद्यभेदात् ॥6॥

अन्तस्थत्वाधिकरणम

न च "ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोनुक्लृप्तं वाचो वीर्यं तपसान्वविन्दत् ।' इत्यादि शब्दानामन्यविषयत्वम् । श्रुतिसन्देेहेनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः ॥7॥

छन्दोधिकरणम् (गायत्र्यधिकरणम्)

अधिभूताध्यात्माधिवेदगतानामपि शब्दानामचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु विद्यमानेष्वपि भगवद्विषयत्वमेवानन्यथा सिद्धलिङ्गैः । "तावानस्य महिमा ततो ज्यायांश्च पुरुषः' इत्यादिशब्दसहितलिङ्गैश्च । सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामपि असन्दिग्धयोः केवलयोरेव बलवत्वात् ॥8-11॥

पादान्त्यप्राणाधिकरणम्

न च चानन्यथासिद्धत्वमन्यत्र श्रुतिलिङ्गादेः । अन्यगतलिङ्गदीनामपि तद्गभगवदपेक्षया युक्तेः ॥12॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

सर्वगतत्वाधिकरणम्

बहुलिङ्गसहितश्रुतेरपि सावकाशायाः निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषूक्त्वादित्येनुक्तिरित्यादिलिङ्गं च । तथापि निरवकाशा एतमेवेत्यवधारणादयः ॥1॥

अत्तृत्वाधिकरणम्

सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिः लिङ्गं चादितिशब्दोदितत्वं च ॥2॥

गुहाधिकरणम्

द्विवचनश्रुतेरपि निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥3॥

अन्तराधिकरणम्

"सोहमस्मि' "स एवाहमस्मि' इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥4॥

अन्तर्याम्यधिकरणम्

पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः विष्णोरपि ॥5॥

अदृश्यत्वाधिकरणम्

"अक्षरात् परतः परः' इति श्रुतेरपि नाक्षरात् सम्भवतीह विश्वं इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥6॥

वैश्वानराधिकरणम्

श्रुतिसाधारण्येपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबलात् निश्चयः ॥7॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

द्युभ्वाधिकरणम्

"प्राणानां ग्रन्थिरसि' "रुद्रो वै लोकायतनम्' "वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।' "सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकिनश्च विष्णोरेवोताश्च प्रोताश्च भवन्ति' इत्यादेः द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम् ॥1॥
"यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः' इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दलिङ्गबाहुल्यम् । "प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः ।' "प्राणेश्वरः कृत्तिवासाः पिनाकी' "मनो वै रुद्र ओतं च प्रोतं च' "रुद्रो वाव लोकाधारः' इत्यादिकं शब्दबाहुल्यम् ॥1॥
तेषामेव लिङ्गशब्दानां "प्राणानां ग्रन्थिरसि' इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ॥1॥

भूमाधिकरणम्

"प्राणो वा आशाया भूयान्' "विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम' इत्यादेर्भूमशब्दोज्ञानां साधारणः ॥2॥
"प्राणो वा आशाया भूयान्' इत्युक्त्वा प्राणाद्भूयसोनुक्तिः ॥2॥
प्राणस्य विष्णोः सकाशात् भूयस्त्वानुक्तिः । चशब्देन "एष तु वा अतिवदति' इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ॥2॥

अक्षराधिकरणम्

विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः ॥3॥
अत्तेत्युक्त्वा "न तदश्नाति किञ्चन' इति विरुद्धता ॥3॥
सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम् । "पतिं विश्वस्यात्मेश्वरं' "विश्वात्मानं परायणम्' इत्यादिश्रुतेः । अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ॥3॥

सदधिकरणम्

कारणत्वसाम्यात् विष्णोरचेतनप्रकृतेश्च "सदेव सोम्येदमग्र आसीत्' इत्यादिसृष्टिस्थानं साधारणम् ॥4॥
"बहु स्यां प्रजायेय' इत्यन्यस्यान्यभावादृष्टिः ॥4॥
अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ॥4॥

दहराधिकरणम्

लिङ्गं हृत्पद्मस्थितत्वं साधारणम् ॥5॥
"दहरोस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्' इत्यनेन "यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः' इत्यस्यान्वयाभावः ॥5॥
आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु योन्वेष्टव्यो भगवान् तस्यान्तर्हृदये यावान् वायमाकाशस्तावानाकाशः तस्मिन् द्यावापृथिवी अन्तरेव समाहिते स भगवानपहतपाप्मेत्यन्वयः ॥5॥

अनुकृत्यधिकरणम्

"कथं नु तद्विजानीयाम्' इत्यानुकूल्येन ग्रहणं कस्येति विचार्यमनुग्रहः ॥6॥
"तदेतदिति मन्यन्ते' "कथं नु तद्विजानीयाम्' इति "तेषां सुखं शाश्वतं नेतरेषाम्' इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ॥6॥
यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ॥6॥

वामनाधिकरणम्

"ऊर्ध्वं प्राणमुन्नयति' इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते इत्यादिवाक्यात् भ्रमः ॥7॥
लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ॥7॥

देवताधिकरणम्

अपशूद्राधिकरणम्

कम्पनाधिकरणम्

वज्रशब्द उद्यतलिङ्गं च तादृग्द्वयम् ॥10॥8॥
वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ॥10॥8॥

ज्योतिरधिकरणम्

आदित्यादिज्योतिष्ट्वमुभयलोकसञ्चरणम् "आदित्येनैवायं ज्योतिषास्ते' इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ॥11॥9॥
"अयं पुरुषः' इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । "आदित्येनैव' इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात् ॥11॥

आकाशाधिकरणम्

पुनः शब्दाः "ईशानो वज्रो ज्योतिराकाशः' इति ॥7॥10-12॥
"वै नाम' इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ॥12॥11॥
वै नामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम् ॥12॥

सुषुप्त्यधिकरणम्

लिङ्गं स्वप्नादिदर्शनं कस्येति ॥13॥
सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोः भेदोक्तेरसङ्गतत्वादि चेश्वरस्यैवेत्यर्थात् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ॥13॥

ब्राह्मणाधिकरणम्

शब्दो ब्राह्मण इति ॥14॥
ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य सह परमात्मनाभेदं विनावकाशराहित्यदर्थादभेदप्राप्तिरिति समस्तमेतत् ॥14॥12॥ पूर्वपक्षः॥
ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोपि तस्मिन्नेव । चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेदोर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेनवकाश इति समस्तमेतत् ॥14॥
जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ॥13॥11॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

आनुमानिकाधिकरणम्

अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्वं चेति द्विविधं ह्यवरत्वादि । "निरनिष्टो निरवद्यः' इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमात् विष्णोः "नामानि सर्वाणि यमाविशन्ति' इति श्रुतिबलाच्च नियन्तृत्वमवरत्वादिकमित्यापतति । श्रुतिद्वयस्यापि निरवकाशत्वात् । मृत्युशब्दादिषु प्रसिद्धेश्च । प्रसिद्धत्वाच्च कर्तृव्युत्पत्तेः । "तमेव मृत्युममृतं तात दैवं सर्वात्मनावैहि परं परायणम्' इत्यादेश्च । उपचारकल्पनायाश्च क्लिष्टत्वात् । प्रमाणाभावाच्च । नाव्यक्तादिशब्दानां परमात्मविषयत्वङ्गीकारे सर्वमानविरोधः ॥1॥

नसङ्ख्योपसङ्ग्रहाधिकरणम्

रूढिः (रूढो रूढयोगो महारूढो महायोगो महारूढयोगो - पा) योगः रूढियोगः महायोगो रूढी रूढियोगो महायोगो महारूढियोगो रूढोपचारो रूढलक्षणोपचारो लक्षणेति शब्दवृत्तिभेदात् रूढिपूर्वकत्वेन महायोगवृत्या परमेश्वरे अखलिशब्दव्युत्पत्युपपत्तिः ॥2॥

नसङ्ख्योपसङ्ग्रहाधिकरणम्

बहुरूपत्वादधिकरणाधेयत्वादिकं तस्यैव युज्यते ॥3॥

आकाशाधिकरणम्

व्यक्त्यपेक्षया कार्यत्वं च ॥4॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः ॥