Pramaanalakshanam | Sarvamoola Grantha — Acharya Srimadanandatirtha

प्रमाणलक्षणटीका-न्यायकल्पलता

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

;
PRL_C01_B01;PRL_C01_B02;PRL_C01_B03;PRL_C01_B04;PRL_C01_B05;PRL_C01_B06;PRL_C01_B07;PRL_C01_B08;PRL_C01_B09;PRL_C01_B10;PRL_C01_B11

प्रमाणलक्षणम्

अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥
यथार्थं प्रमाणम् । तद् द्विविधम् । केवलमनुप्रमाणं च । यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् । केवलं चतुर्विधम् । ईशलक्ष्मीयोग्ययोगिभेदेन । पूर्वद्वयमनादिनित्यम् । स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषाः । पूर्वं स्वपरगताखलिविशेषविषयम् । द्वितीयमीशेन्येभ्योधिकम् । असार्वत्रिकम् । अन्यत्र सर्वविषयम् । स्पष्टत्वे भेदः । योगिज्ञानमृजूनामनादिनित्यम् । ईशे जीवेभ्योधिकम् । असार्वत्रिकम् । अन्यत्रालोचने सर्वविषयम् । क्रमेण वर्धमानम् । आ मुक्तेः । ततोव्ययम् । ततो र्वाक् क्रमेण ह्रसितम् । सादि च तात्त्विकेभ्योन्यत्र । अयोगिज्ञानमुत्पत्तिविनाशवत् । अल्पम् ॥
अनुप्रमाणं त्रिविधम् । प्रत्यक्षमनुमानमानमागम इति । निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम् । निदोषोपपत्तिरनुमानम् । निर्दोषः शब्दः आगमः । अर्थापत्त्युपमे अनुमाविशेषः । अभावोनुमा प्रत्यक्षं च । परामर्शापरामर्शविशेषात् । सम्भवपरिशेषावनुमा । आत्मान्योन्याश्रयचक्रकानवस्थाकल्पनागौरवश्रुतदृष्टहानादयो दूषणानुमा । उपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्च उपपत्तिविशेषाः । त एव सोपपत्तयो लिङ्गानि । समाख्यावाक्यप्रकरणस्थानानि च लिङ्गविशेषाः । व्याप्तिरुपपत्तिमूलम् । सा प्रतिज्ञाहेतुदृष्टान्तरूपा । हेतुगर्भा प्रतिज्ञा केवलापि । सिद्धौ प्रतिज्ञायां हेतुमात्रं च । दृष्टान्तः सप्रतिज्ञो हेतुगर्भः ।
उपपत्तिदोषौ विरोधासङ्गती । न्यूनाधिके वाचनिके । संवादानुक्तियुता निग्रहाः । प्रत्यक्षं सप्तविधम् । साक्षिषडिन्द्रियभेदेन । मानसप्रत्यक्षजा स्मृतिः । स्मृत्यनुवादयोर्नाप्रामाण्यम् । यथार्थत्वानुभवात् । अहानेश्च । विरोधो मानस्ववाक्याभ्याम् । स्ववाक्यविरोधोपसिद्धान्तजातिरूपेण । जातिर्न मेये मानापेक्षेत्यादिका । मेये मानापेक्षास्तीति च तेनैव न्यायेन सिद्धत्वात् । मानविरोधश्च । छलमसङ्गतम् । अन्यच्च । गृष्टिविवक्षया गामानयेत्युक्ते पृथिवीविवक्षया गवानयनमशक्यमितिवत् ।
त्रिविधो विरोधः । प्रतिज्ञाहेतुदृष्टान्तभेदेन । प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोधः । हेतुस्वरूपासिद्धिरव्याप्तिश्चेति हेतुविरोधः । साध्यस्य साधनस्य वाननुगमो दृष्टान्तविरोधः । प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः । स एवोपाधिदोषोपि ।
सर्व एते दृश्यत्वानुमाने द्रष्टव्याः ।
प्रत्यक्षागमदिभिर्जगतः सत्यत्वात् । तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात् । अनिर्वचनीयस्य प्रतिवादिनोसिद्धत्वात् । आत्मनोपि दृश्यत्वात् । शुक्तिरजतदेरनिर्वचनीयत्वाभावात् । अनिर्वचनीयदृश्यत्वाभावात् । मानसिद्धत्वादिति सप्रतिसाधनत्वाच्च । जगत्सत्यत्वग्राहिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वे अनुमानागमप्रामाण्यग्राहिणोपि प्रत्यक्षत्वाविशेषदुत्तरक्षणे प्रामाण्यं न सेत्स्यतीति भेदादिवाक्यानामेव प्रामाण्यं स्यात् । तस्य साक्षिसिद्धत्वं चेज्जगत्सत्यत्वमपि साक्षिसिद्धम् । व्यभिचारश्चेदागमार्थानुमा निर्दोषत्वाध्यवसाये च समः । अत उत्तरदिवसेभेदवाक्यस्य भेदोर्थः स्यात् । निर्दोषानुमायाः सदोषत्वं, सदोषानुमाया निर्दोषत्वं इत्यव्यवस्था । आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणं अतिप्रसङ्गाभावात् । अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये । व्याप्तिरेव हि प्रयोजिका । असत्यपि व्याप्तिरस्त्येव । असदाश्रयस्य साधकत्वं नेत्यपि व्याप्तिं विना कथं निवार्यते । असदाश्रयमित्यादिविशेषणत्वसम्भवे कथमव्याप्तिः । न चात्यन्ताभावोपि सर्वधर्मरहितः । प्रमेयत्वाद्यनुभवात् । परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च । विमतं सकर्तृकमित्यत्र सर्वज्ञत्वस्य पक्षधर्मताबलेन सिध्यङ्गीकारात् ।
परिशेषोर्थापत्तिरनुमानमित्यविशेषः । उपपत्तिमात्रत्वात् । उपपत्तेश्च व्याप्त्यपेक्षया सर्वथाङ्गीकार्येत्याग्रहमात्रेण भेदः । उपमानस्यापि व्याप्तिरूपत्वात् । न हि स्वसदृशेनासदृशं क्वचिद् दृष्टम् । योग्यानुपलब्धेश्च लिङ्गत्वम्, अविशेषात् । उक्तदोषेष्वेवाशेषानुमानदोषाणामन्तर्भावः । साध्याविशिष्टोसिद्धः । सिद्धसाधकोसङ्गतः । न प्रमासाधनं प्रमाणम् । ज्ञानव्यतिरिक्तायां प्रमायां प्रमाणाभावात् । न चाज्ञातपरिच्छित्तिरेव प्रमेत्यत्र किञ्चिन्मानम् । याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात् । न चानुभूतिरेव प्रमाणम् । स्मृत्यादावव्याप्तेः । वेदानुमानादिप्रामाण्यप्रसिद्धेश्च ।
स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् । प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिः ॥ इति श्रुतेश्च । ऐतिह्यमागमभेदः । न च सम्यगनुभवसाधनं प्रमाणम् । ईश्वरज्ञानादावव्याप्तेः । अप्रामाण्ये प्रमाणाभावाच्च । प्रामाण्यज्ञाने च । तत्राप्यङ्गीकारेनवस्थितेः । स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः । स्मृतेश्च प्रामाण्यानङ्गीकारे अनुभूतं मयेत्यत्र प्रमाणाभावात् । लिङ्गत्वेन प्रामाण्यं कल्पनागौरवात् । दृष्टहानिश्च । स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निराकरणादनुभवविरोधः । तदनुभवाभाव इत्युक्ते अनुभवः स्मृतिश्च नास्तीत्युक्ते किमुत्तरम् । स्वसिद्धैः साधनं परसिद्धैर्दूषणम् । अतो न दूषणे अपसिद्धान्तादि । इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेव ॥
आनन्दतीर्थमुनिना ब्रह्मतर्कोक्तिमार्गतः । मानलक्षणमित्युक्तं सङ्क्षेणाद् ब्रह्मसिद्धये ॥
अशेषमानमेयैकसाक्षिणेक्षयमूर्तये । अजेशपुरुहूतेड्य नमो नारायणाय ते ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रमाणलक्षणम् ॥