Tantrasarasangraha | Sarvamoola Grantha — Acharya Srimadanandatirtha

तन्त्रसारसङ्ग्रहः

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

प्रथमाध्यायः

जयत्यब्जभवेशेन्द्रवन्दितः कमलापतिः ।

अनन्तविभवानन्दशक्तिज्ञानादिसद्गुणः ॥1॥

विधिं विधाय सर्गादौ तेन पृष्टोब्जलोचनः ।

आह देवो रमोत्सङ्गवलिसत्पादपल्लवः ॥2॥

अहमेकोखलिगुणो वाचकः प्रणवो मम ।

अकाराद्यतिशान्तान्तः सोयमष्टाक्षरो मतः ॥3॥

स विश्वतैजसप्राज्ञतुरीयात्मान्तरात्मनाम् ।

परमात्मज्ञानात्मयुजां मद्रूपाणां च वाचकः ॥4॥

तद्रूपभेदाः पञ्चाशन्मूर्तयो मम चापराः ।

पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः ॥5॥

द्विरष्टपञ्चकचतुःपञ्चेत्येवाष्टवर्गगाः ।

अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्बरः ॥6॥

ऋॄघलृशौ लॄजिरैकत्मैर ओजोभृदौरसः ।

अन्तोर्धगर्भः कपलिः खपतिर्गरुडासनः ॥7॥

घर्मो ङसारस्चार्वाङ्गश्छन्दोगम्यो जनार्दनः ।

झटितारिर्ञमष्टङ्की ठलको डलको ढरी ॥8॥

णात्मा तारस्थमो दण्डी धन्वी नम्यः परः फली ।

बली भगो मनुर्यज्ञो रामो लक्ष्मीपतिर्वरः ॥9॥

शान्तसंवित् षड्गुणश्च सारात्मा हंसळाळुकौ ।

पञ्चाशन्मूर्तयस्त्वेता ममाकारादलिक्षकाः ॥10॥

नारायणाष्टाक्षरश्च ताराष्टाक्षरभेदवान् ।

आद्यैस्तारचतुर्वणैर्भिन्ना व्याहृतयः क्रमात् ॥11॥

अनिरुद्धादिकास्तासां देवता व्युत्क्रमेण वा ।

ताश्चतुर्मूर्तयस्त्वेव द्वादशार्णपदोदिताः ॥12॥

नारायणाष्टाक्षराच्च व्याहृतिभ्यस्तथैव च ।

विभेदो द्वादशार्णानां केशवाद्याश्च देवताः ॥13॥

नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात् पुनः ।

वेदमाता च गायत्री द्विगुणा द्वादशाक्षरात् ॥14॥

चतुर्विशन्मूतयोस्याः कथिता वर्णदेवताः ।

तद्भेदः पौरुषं सूक्तं वेदाः पुरुषसूक्तगाः ॥15॥

वैदिकास्सर्वशब्दाश्च तस्मात् सर्वाभिधोस्म्यहम् ।

पञ्चाशद्वर्णभिन्नाश्च सर्वशब्दा अतोपि च ॥16॥

ऋषिश्च देवतैकोहं तारादीनां विशेषतः ।

छन्दो मदीया गायत्री ताराष्टाक्षरयोर्मता ॥17॥

उद्यद्भास्वत्समाभासश्चिदानन्दैकदेहवान् ।

चक्रशङ्खगदापद्मधरो ध्येयोहमीश्वरः ॥18॥

लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।

ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥19॥

सेव्यमानोधिकं भक्त्या नित्यनिःशेषशक्तिमान् ।

मूर्तयोष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ।

युक्ताः प्रदीपवर्णाश्च सर्वाभरणभूषिताः ॥20॥

तादृग्रूपाश्च पञ्चाशज्ज्ञानमुद्राभयोद्यताः ।

टङ्की दण्डी च धन्वी च तत्तद्युक्तस्तु वामतः ॥21॥

वासुदेवादिकाः शुक्लरक्तपीतासितोज्ज्वलाः ।

शङ्खचक्रगदाब्जेतः प्रथमो मुसली हली ॥22॥

सशङ्खचक्रस्त्वपरस्तृतीयः शार्ङ्गबाणवान् ।

सशङ्खचक्रस्तुर्यस्तु चक्रशङ्खासिचर्मवान् ॥23॥

केशवो मधुसूदनः सङ्कर्षणदामोदरौ ।

सवासुदेवप्रद्युम्नाः दक्षोच्चकरशङ्खिनः ॥24॥

विष्णुमाधवानिरुद्धपुुरुषोत्तमाधोक्षजाः ।

जनार्दनश्च वामोच्चकरशङ्खिनः ॥25॥

गोविन्दश्च त्रिविक्रम्ूससश्रीधरहृषीकपाः ।

नृसिंहश्चाच्युतश्चैव वामाधःकरशङ्खिनः ॥26॥

वामनः सनारायणः पद्मनाभ उपेन्द्रकः ।

हरिः कृष्णश्च दक्षाधःकरे शङ्खधरा मताः ॥27॥

शङ्खचक्रगदापद्मधराश्चैते हि सर्वशः ।

क्रमव्युत्क्रमपद्मादिगदादिव्युत्क्रमस्तथा ॥ अर्धक्रमः सान्तरश्च षट्सु षट्स्वरिपूर्विणाम् ॥28॥

वर्णानां देवतानां च नित्यत्वाच्च क्रमः स्वतः ।

व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ॥29॥

समासव्यासयोगेन व्याहृत्यादीनां चतुष्टयम् ।

सत्यं चाङ्गानि तारस्य प्रोच्यन्तेष्टाक्षरस्य च ॥30॥

क्रुद्धमहावीरद्युल्कसहस्रसहितोल्ककाः ।

चतुर्थ्यन्ताः हृदादीनि पृथग्रूपाणि तानि च ॥31॥

विष्णोरेवात्यभेदेपि तदैश्वर्यात् तदन्यवत् ।

चक्रशङ्खवराभीतिहस्तान्येतानि सर्वशः ॥32॥

मूलरूपसवर्णानि कृष्णवर्णा शिखोच्यते ।

चतुर्विंशन्मूर्तयश्च मूलरूपसवर्णकाः ॥33॥

आदिवर्णत्रयं नाभिहृच्छिरस्सु यथाक्रमम् ।

न्यसनीयं च तद्वर्णदेवताध्यानपूर्वकम् ॥34॥

पज्जानुनाभिहृदयवाङ्नासानेत्रकेषु च ।

अष्टाक्षराणां न्यासः स्यात् व्याहृत्यादीनां प्रजापतिः ॥35॥

मुनिश्छन्दस्तु गायत्री देवता भगवान् हरिः ।

उद्यदादित्यवर्णश्च ज्ञानमुद्राभयोद्यतः ॥36॥

तारेण व्याहृतीभिश्च ज्ञेयान्यङ्गानि पञ्च च ।

नाभिहृत्केषु सर्वेषु चतस्रो व्याहृतीर्न्यसेत् ॥37॥

द्वादशार्णस्य जगती च्छन्दोन्यत्तारवत् स्मृतम् ।

अच्छवर्णोभयवरकरो ध्येयोमितद्युतिः ॥38॥

पदैर्व्यस्तैः समस्तैश्च ज्ञेयान्यङ्गानि पञ्च च ।

अष्टाक्षराणां स्थानेषु बाह्वोरूर्वोश्च विन्यसेत् ॥39॥

विश्वामित्रस्तु सन्ध्यार्थे तदन्यत्र प्रजापतिः ।

मुनिर्देवस्तु सवितृनामा स्रष्टृत्वतो हरिः ॥40॥

प्रोद्यदादित्यवर्णश्च सूर्यमण्डलमध्यगः ।

चक्रशङ्खधरोङ्कस्थदोर्द्वयो ध्येय एव च ॥41॥

सताराश्च व्याहृतयो गायत्र्यङ्गानि पञ्च च ।

दोःपत्सन्धिषु साग्रेषु नाभिहृन्मुखेषु च ॥42॥

वर्णन्यासश्च कर्तव्यस्तारवन्निखलिं स्मृतम् ।

पञ्चाशदक्षराणां च पुंसूक्तस्यापि सर्वशः ॥43॥

अनुष्टुभश्च त्रिष्टुप् च छन्दोस्य त्रिष्टुभोपि वा ।

विष्णुशब्दश्चतुर्थ्यन्तो हृदयेन षडक्षरः ॥44॥

तारवत् सर्वमस्यापि श्यामो ध्येयो हरिः स्वयम् ।

वर्णा एव षडङ्गानि षणयोर्भेदयोगतः ॥45॥

पज्जानुनाभिहृन्नासाकेषु न्यासश्च वर्णशः ।

एते तु सर्वमन्त्राणां मूलमन्त्रा विशेषतः ॥46॥

एतज्ज्ञानात् समस्तं च ज्ञानं स्याच्छब्दगोचरम् ।

एतज्जपात् समस्तानां मन्त्राणां जापको भवेत् ॥47॥

पूज्यश्च भगवान् नित्यं चक्राब्जादिकमण्डले ।

हृदये वा चले वापि जले वा केवले स्थले ॥48॥

अष्टाक्षरेण सम्पूज्य प्रथमं देवतां पराम् ।

मध्ये सव्ये गुरूंश्चैव दक्षिणे सर्वदेवताः ॥49॥

पुनः सव्ये सर्वगुरूनाग्नेयादिषु च क्रमात् ।

गरुडं व्यासदेवं च दुर्गां चैव सरस्वतीम् ॥50॥

धर्मं ज्ञानं च वैराग्यमैश्वर्यं चैव कोणगान् ।

तदन्तः पूर्वदिक्पूर्वमधर्मादींश्च पूजयेत् ॥51॥

अपूजिता अधर्मादिदातारस्ते तथाभिधाः ।

निर्ऋतिश्चैव दुर्गा च कामो रुद्रश्च देवताः ॥52॥

यमवायुशिवेन्द्राश्च ज्ञेया धर्मादिदेवताः ।

परमः पुरुषो मध्ये शक्तिराधाररूपिणी ॥53॥

कूर्मोनन्तश्च पृथिवी क्षीरसागर एव च ।

श्वेतद्वीपो मण्टपश्च दिव्यरत्नमयो महान् ॥54॥

पद्ममेतत्त्रयं देवी रमैव बहुरूपिणी ।

सूर्यसोमहुताशाश्च पद्मे श्रीस्त्रिगुणात्मिका ॥55॥

आत्मान्तरात्मपरमज्ञानात्मानश्च मूर्तयः ।

विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च ॥56॥

प्रह्वी सत्या तथेशानानुग्रहा चेति शक्तयः ।

अष्टदिक्षु च मध्ये च स्वरूपाण्येव ता हरेः ॥57॥

ततोनन्तं योगपीठस्वरूपं पूजयेद्धरेः ।

तत्रावाह्य हरिं चार्घ्यं पाद्यमाचमनीयकम् ॥58॥

मधुपर्कं पुनश्चाचां स्नानं वासो विभूषणम् ।

उपवीतासने दत्वा गन्धपुष्पे तथैव च ॥59॥

लक्ष्मीधरे यजेत्तत्र पार्श्वयोरुभयोर्हरेः ।

हृदयादींस्तथेन्द्रादिदिक्ष्वस्त्रं कोणकेषु च ॥60॥

वासुदेवादिकान् दिक्षु केशवादींस्ततः परम् ।

मत्स्यं कूर्मं वराहं च नारसिंहं च वामनम् ॥61॥

भार्गवं राघवं कृष्णं बुद्धं कल्किनमेव च ।

अनन्तं विश्वरूपं च तद्बहिः पूजयेत् क्रमात् ॥62॥

अनन्तब्रह्मवाय्वीशान् वीशं चाग्रे प्रपूजयेत् ।

वारुणीं चैव गायत्रीं भारतीं गिरिजामपि ॥63॥

कोणेषु वीन्द्रवामे च सौपर्णीं पूजयेदपि ।

इन्द्रादीन् शेषविध्यन्तान् सभार्यान् सपरिग्रहान् ॥64॥

धूपदीपौ ततो दत्वा नैवेद्यं मूलमन्त्रतः ।

अनेन क्रमयोगेन जुहुयात् संस्कृतेनले ॥65॥

पुष्पाञ्जलिश्च होमश्च मूलेनाष्टोत्तरं शतम् ।

सकृत् सकृत् पुष्पमन्यैर्होमस्तस्य चतुर्गुणः ॥66॥

विसर्जयित्वा नैवेद्यं मूलेन त्रिः समर्च्य च ।

धूपदीपौ पुनर्दत्वा पुनर्मूलेन पूर्ववत् ॥67॥

अर्चयित्वा पुनर्ध्यात्वा जपेदष्टोत्तरं शतम् ।

पुनर्ध्यायेद्धरिं सर्वदेवदेवेश्वरं प्रभुम् ॥68॥

जपध्यानहुतार्चादीनेवं यः कुरुते सदा ।

धर्मार्थकाममोक्षाणां भाजनं स्यात् स एव हि ॥69॥

सर्वोत्तमं हरिं ज्ञात्वा य एवं भक्तिपूर्वकम् ।

जपध्यानादिभिर्नित्यं पूजयेन्नास्य दुर्लभम् ॥70॥

भक्तिं कृत्वान्यदेवेषु ब्रह्मरुद्रादिकेष्वपि ।

सर्वोत्कर्षमविज्ञाय विष्णोर्याति तमो ध्रुवम् ॥71॥

न यज्ञा न च तीर्थानि नोपवासव्रतानि च ।

दैवतानि च सर्वाणि त्रातुं तं शक्नुयुः क्वचित् ॥72॥

हरिर्हि सर्वदेवानां परमः पूर्णशक्तिमान् ।

स्वतन्त्रोन्ये तद्वशा हि सर्वेतः स जगद्गुरुः ॥73॥

ब्रह्मादयश्च तद्भक्त्या भागिनो भोगमोक्षयोः ।

तस्माज्ज्ञेयश्च पूज्यश्च वन्द्यो ध्येयः सदा हरिः ॥74॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे प्रथमोध्यायः