स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥1॥
प्राक्प्रध्वंससदात्वेन त्रिविधोभाव इष्यते । चेतनाचेतनत्वेन भावोपि द्विविधो मतः ॥2॥
दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् । नित्यादुःखा रमान्ये तु स्पृष्टदुःखास्समस्तशः ॥3॥
स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ॥4॥
देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥5॥
इति द्विधा मुक्त्ययोग्या दैत्यरक्षपिशाचकाः । मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिताः ॥6॥
ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ॥7॥
नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं स्मृतम् ॥8॥
असंसृष्टं च संसृष्टमसंसृष्टं महानहम् । बुद्धिर्मनःखानि दश मात्रा भूतानि पञ्च च ॥9॥
संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितम् । सृष्टिः स्थितिः संहृतिश्च नियमोज्ञानबोधने ॥10॥
बन्धो मोक्षः सुखं दुःखमावृत्तिर्ज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥11॥