Tattvaviveka | Sarvamoola Grantha — Acharya Srimadanandatirtha

तत्वविवेकविवरणम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

;
TV_C01_B01;TV_C01_B02;TV_C01_B03;TV_C01_B04;TV_C01_B05;TV_C01_B06;TV_C01_B07;TV_C01_B08;TV_C01_B09;TV_C01_B10;TV_C01_B11;TV_C01_B12;TV_C01_B13

तत्त्वविवेकः

स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम् ।

स्वतन्त्रो भगवान् विष्णुः निर्दोषाखलिसद्गुणः ॥1॥

द्विविधं परतन्त्रं च भावोभाव इतीरितः ।

पूर्वापरसदात्वेन त्रिविधोभाव इष्यते ॥2॥

भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।

चेतनाचेतनश्चेति भावश्च द्विविधः स्मृतः ॥3॥

नित्यमुक्तश्च सृतियुक् परतन्त्रोपि चेतनः ।

द्विधैव श्रीर्नित्यमुक्ता सृतियुक्च द्विधा मतः ॥4॥

मुक्तोमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम् ।

मुक्ताः शतगुणाः प्रोक्ताः रमा तेभ्योखिलैर्गुणैः ॥5॥

नित्यं बहुगुणोद्रिक्ता ततोनन्तगुणो हरिः ।

अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ॥6॥

मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः ।

नीचा नित्यतमोयोग्या द्विधैवाचेतनं मतम् ॥7॥

नित्यानित्यत्वभेदेन देशः कालः श्रुतिस्तथा ।

भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम् ॥8॥

एषां विकारोनित्यः स्यान्नित्या एव हि चेतनाः ।

गुणक्रियाजातिपूर्वा धर्मा सर्वेपि वस्तुनः ॥9॥

रूपमेव द्विधं तच्च यावद्वस्तु च खण्डितम् ।

खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवत् ॥10॥

खण्डितं रूपमेवात्र विकारोपि विकारिणः ।

कार्यकारणोश्चैव तथैव गुणतद्वतोः ॥11॥

क्रियाक्रियावतोस्तद्वत् तथा जातिविशेषयोः ।

विशिष्टशुद्धयोश्चैव तथैवांशांशिनोरपि ॥12॥

य एतत्परतन्त्रं तु सर्वमेव हरेः सदा ।

वशमित्येव जानाति संसारात् मुच्यते हि सः ॥13॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वविवेकः ॥