Tattvodyota | Sarvamoola Grantha — Acharya Srimadanandatirtha

तत्त्वोद्योतः

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

तत्त्वोद्योतम्

सर्वत्राखलिसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः।
नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः

विमतो भिन्नो मुक्तत्वात्, यदित्थं तत्तथा, यथा सम्प्रतिपन्नः।
न च भेदे विकल्पो युज्यते ।
अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव ।
शशविषाणं गोविषाणं वोच्यत इतिवत् ।
न चानिर्वचनीये किञ्चिन्मानम् ।
मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च ।
अनुमानस्य चाप्रसिद्धविशेषणः पक्षः ।
न च धूमत्ववत् मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति ।
न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति ।
न च भावाभावविलिक्षणं क्वचिदागमो वक्ति ।
‘नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमापरो यत्’(ऋ.१०.१२९.१) इत्यत्र च ।
पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे ‘आनीदवातं स्वधया तदेकम्’(ऋ.१०.१२९.२) इति तदानीं परिशिष्टत्वाद् ब्रह्मण एवानिर्वचनीयत्वं स्यात् ।
‘मूर्तं सदिति सम्प्रोक्तम् अमूर्तमसदुच्यते ।
मूर्तामूर्तेतरद्ब्रह्म न सत्तन्नासदुच्यते ॥’ इति पैङ्गिश्रुतिः ।
‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’ इति माध्यन्दिनश्रुतिः (माध्यन्दिनायनश्रुतिः)।
‘अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च ।
अचिन्त्यं तत एवैतद्
अतर्क्याज्ञेयमेव च ॥
ऋगतावितिधातोस्तु पूर्वावगतवत् सदा ।
स्थितेः, ‘ब्रह्मर्तम्’इत्युक्तमनृतं परिणामतः ॥
प्रकृतिप्राकृतं प्रोक्तम्
असत्तदशुभत्वतः ।
असतां बुद्धिगम्यत्वाद् असत्यमिति चोच्यते ॥
नियमेन बहिश्चित्तास्तेसन्तो ब्रह्मणि स्थिताः ।
विश्वं सत्यं
वशे विष्णोः
नित्यमेव
प्रवाहतः ॥
न क्वाप्यनीदृशं विश्वं
तत्तत्कालानुसारतः ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥
त आसुरा
स्वयं नष्टा जगतः क्षयकारिणः ॥’ इत्यादि व्यासस्मृतौ ।
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥’(भ.गी.१६.८,९) इत्यादि च गीतासु ।
‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम् ।’ (ऋ.सं.२.२४.१२)
‘प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ (ऋ.सं.२.१५.१)
‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्ररातज्ये’(ऋ.सं.८.३.४)
‘कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः’ (ईशावास्य.८) इत्यादि श्रुतिभ्यश्च ।
न चार्थापत्त्यानिर्वचनीयसिद्धिः ।
असतः प्रतीतिं विनासद्वैलक्ष्ण्यज्ञानानुपपत्तेः ।
न च ‘बाध्यं जगद्’ इत्यत्र किञ्चिन्मानम् ।
बाध्यत्वमपि हि तेषां मिथ्या ।
तस्य च मिथ्यात्वेऽबाध्यत्वमेव सत्यं स्यात् ।
सद्वलिक्षणत्वं च सज्जातिविलक्षणत्वम्, सन्मात्रविलक्षणत्वं वा ।
जात्यङ्गीकारे सद्बहुत्वम् ।
सन्मात्रविलक्षणत्वं चेत् सिद्धसाधनता ।
ब्रह्मवैलक्षण्याङ्गीकारात् ।
न च कयापि युक्त्या मानेन वा भेदनिराकरणं भवति ।
अङ्गीक्रियमाणत्वात् ।
अनिर्वचनीयासिद्धेश्च ।
सद्वलिक्षणत्वमसद्वलिक्षणत्वं च मिथ्येत्यवलिक्षणत्वमेव सत्यं स्यात् ।
एवमेव हेत्वादिष्वपि विकल्पो निराकरणीयः ।
दृश्यत्वानुमानेष्वपि एते एव दोषाः ।
आत्मनोऽपि दृश्यत्वादनैकान्तिकता च ।
न चात्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम् ।
तदज्ञाननिवृत्तिश्च तेन भवति ।
न च तदाकारम् ।
अतद्विषयत्वादेव ।
तद्विषयत्वमेव हि तदाकारत्वम् ।
न हि ज्ञानज्ञेययोरेकाऽकारता ।
न ह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वाऽस्ति ।
पुङ्गतमेव हि तमः
ज्ञानेन निवर्तते ।
विषयाऽश्रयं चेदज्ञानं निवर्तते तर्ह्येकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात् ।
अतद्विषयज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेत ।
अविषयत्वादेव तस्य ज्ञानत्वं न स्याद् घटवत् ।
जडत्वं चाप्रमातृत्वमेव ।
न च प्रमातृत्वमात्मनस्तैरङ्गीक्रियते ।
अतस्तदप्यनैकान्तिकम् ।
मिथ्याप्रमातृत्वं चानिर्वचनीयनिरासादेव निरस्तम् ।
यदि जडत्वं नामाप्रकाशत्वं तदप्यात्मनः स्वविषयप्रकाशत्वाभावात् परविषयप्रकाशत्वाभावाच्च अनैकान्तिकमेव ।
स्वविषयत्वं हि कर्तृकर्मविरोधात् तैर्नाङ्गीक्रियते ।
मिथ्याभूतपरविषयत्वं चानिर्वचनीयनिरासादेव निरस्तम् ।
विषयवर्जितः प्रकाश एव न भवति घटवत् ।
तत्प्रमाणाभावात् ।
देशतः कालतः परिच्छिन्नत्वं प्रकृतिकालादिष्वभावात् भागासिद्धम् ।
वस्तुतः परिच्छिन्नत्वमात्मनोऽपि भेदाङ्गीकारादनैकान्तिकम् ।
प्रत्यक्षबाधितञ्च जगन्मिथ्यात्वम् ।
सदिति प्रतीयमानत्वात् ।
न च प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टम् ।
चन्द्रप्रादेशत्वादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वात् अपटु ।
न च जगत्प्रत्यक्षस्यापटुत्वे किञ्चिन्मानम् ।
न च जगतोऽज्ञानजन्यत्वे किञ्चिन्मानम् ।
‘न च मायाविना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ॥
अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।
सर्वापरोक्षविद्विष्णुर्विश्वदृक्तन्न तन्मृषा ॥’इति ब्रह्माण्डे ॥
‘ईशोनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
एक आत्मा परब्रह्मभावो मुक्तिरिति ह्यपि ॥
एवमादि विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिः ज्ञेया आभासा इति वैदिकैः ॥
वेदवेदानुसारेषु विरोघेन्यार्थकल्पना ।
इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ॥’इति व्यासस्मृतिः ॥
‘नासतो दृष्टत्वात्’ (ब्रह्मसूत्रम् - २.२.२६), ‘नाभाव उपलब्धेः’ (ब्रह्मसूत्रम् -२.२.२८), ‘वैधर्म्याच्च न स्वप्नादिवत्’ (ब्रह्मसूत्रम् - २.२.२९)इत्यादि भगवद्वचनेनापि निरस्ताः ।
न च शून्यवादिसकाशात् वैलक्षण्यं मायावादिनः ।
व्यावहारिकसत्वस्य तेनाप्यङ्गीकारात् ।
‘सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् ।
सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ॥
विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते ।
यस्य तत्सांवृतं ज्ञेयं
व्यवहारपदञ्च यत् ॥’इत्यादिना ।
न च निर्विशेषब्रह्मवादिनः शून्यात् कश्चित् विशेषस्तस्य ।
‘निर्विशेषं स्वयं भातं निर्लेपमजरामरम् ।
शून्यं तत्त्वम्
अविज्ञेयं
मनोवाचामगोचरम् ॥
जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत् ।
नित्यभावनया भातं तद्भावं योगिनं नयेत् ॥
भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः ।
विश्वाकारं च संवृत्त्या यस्य तत्पदमक्षयम् ॥’ इत्यादि तद्वचः ।
‘अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्’ इति च मायावादी
‘नास्य सत्त्वमसत्त्वं वा न दोषो गुण एव वा ।
हेयोपादेयरहितं तच्छून्यं पदमक्षयम् ॥’ इति च शून्यवादी ।
सत्त्वादयो धर्माः परमार्थतो मायावादिनाऽपि नाङ्गीक्रियन्ते ।
सर्वविशेषविनिर्मुक्तत्वाङ्गीकारात् ।
‘अवाच्यं सर्वशब्दैस्तल्लक्ष्यते चाखिलैः पदैः ।
अज्ञेयं ज्ञानलक्ष्यं च तच्छून्यं पदमक्षयम् ॥’ इति (च) शून्यवादी ।
न चाखण्डत्वेन कश्चिद्विशेषः ।
‘यदखण्डपदं लक्ष्यं सर्वैरपि विशेषणैः ।
सर्वैर्विशेषणैर्मुक्तं तच्छून्यं पदमक्षयम् ॥’ इति च शून्यवादी ।
एवमेव मायावादिराद्धान्तः ।
न च मायावादिनो भावत्वं नाम धर्मः । न च शून्यवादिनः शून्यत्वं नाम धर्मः ।
‘मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे ।
यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥’(भाग.६.४.४८)
‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’ इति भगवद्राद्धान्तः ।(भ.गी.२४.१७)
‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’(श्वेत.उ.६.८) इत्यादि श्रुतिः ।
प्रकृष्टप्रकाशश्चन्द्रः इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम् ।
अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात्, न ‘सोऽयं देवदत्तः’ इत्याद्युपमा च ।
देवदत्तादिस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः ।
नक्षत्राऽदिव्यतिरेकमात्रस्यापि सिद्धत्वान्न व्यतिरेकमात्रे ।
अन्यथा प्रश्नस्यैवासम्भवात् ।
अतः ‘कैर्विशेषणैर्विशिष्टः?’ इति प्रश्ने ‘प्रकृष्टप्रकाशतद्देशकालादिविशिष्ट’ एव वाक्यार्थः ।
अङ्गीक्रियमाणत्वाद्विशिष्टादेः, अनिर्वचनीयाभावाच्च सत्यत्वञ्च सिद्धम् ।
दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद्बाधकमिति दुर्घटत्वे सुघटत्वे वा नानिर्वचनीयसिद्धिः ।
सर्ववैलक्षण्याङ्गीकारात् दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव ।
जगतो भिन्नमभिन्नम्, भिन्नाभिन्नं वा इत्यादिविकल्पस्तत्रापि युज्यते ।
भिन्नं चेद्भेदादिविशिष्टाच्छुद्धं भिन्नमभिन्नं वा इत्याद्यनवस्था ।
अभिन्नं चेन्मिथ्यारूपेण जगता ब्रह्मापि मिथ्यैव स्यात् ।
भिन्नाभिन्नं चेद्दोषद्वयमपि ।
उभयवलिक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवापतितम् ।
यद्येवमपि नानिर्वचनीयत्वं ब्रह्मणस्तर्हि जगतोऽपि न स्यात् ।
‘विश्वं सत्यम्’ इत्यादिवचनमत्राप्युक्तम् ।
‘न सत्तन्नासदुच्यते’,‘असद्वा इदमग्र आसीत्’, ‘नासदासीन्नो सदासीत् तदानीम्’ इत्यादि ब्रह्मणोऽपि मिथ्यात्वे प्रमाणमस्ति ।
न हि दृष्टेर्बलवत् किञ्चित्प्रमाणम् ।
न हि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ति ।
बलवद्दृष्ट्यबाधे ।
न चान्नत्वे दुर्घटे तस्यानन्नत्वं भवति ।
दृष्ट्यबाधितदृष्टस्य ।
न चान्नानन्नवैलक्षण्यमनुभूयते ।
न च तथा व्यवहारः ।
न च तत्र किञ्चिन्मानम् ।
अतो विशिष्टादिनिराकरणयुक्तीनामपि विशिष्टाद्यपेक्षत्वात् जात्युत्तरमिति न युक्तिबाधाऽपि ।
अतो निखिलगुणगणाढ्यमेव ब्रह्म श्रुत्यभिप्रेतम् ।
अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः ।
वाचरम्भणं विविधप्रकारः ।
नाम धेयम् नित्यं धार्यं नाम मृत्तिकेत्यादि वैदिकमेव
इत्येतद् वचनं सत्यमिति श्रुत्यर्थः।
अनित्यत्वात् साङ्केतिकं नामाप्रधानं नित्यत्वात् मृत्तिकादिनामैव प्रधानम् ।
प्रधानज्ञानादप्रधानं ज्ञातार्थमिव भवति ।
एवं प्रधानस्य परमात्मनो ज्ञानादप्रधानं ज्ञातमिव भवति ।
प्राधान्यज्ञापनार्थमेव सृष्ट्यादिकथनम् ।
‘यथा सोम्य’इत्याद्यपि सादृश्यकथनम् ।
न चैकनखनिकृन्तनविकारः सर्वकार्ष्ण्यायसम् ।
प्रधानपुरुषज्ञानाद् ‘ग्रामो ज्ञातः’ इति व्यपदेशोऽस्ति ।
न हि सत्यज्ञानेन मिथ्याज्ञानं भवति ।
मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यात् ।
यद्यज्ञानकृतो भेदस्तर्हीश्वरस्याज्ञानाभावात् संसारिणैक्यं तेनानुभूयेत ।
ततश्च दुःखित्वं स्यात् ।
‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥’ (भ.गी ४.५)
‘सुखं दुःखं भवोभावो भयं चाभयमेव च ॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥’ (भ.गी १०.४,५ )
‘यस्माद् क्षरमतीतोहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥’ (भ.गी १५.१८ ) इत्यादिनेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च ।
तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिः ।
न चोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः ।
हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वानुभवात् ।
‘उद्यतायुधदोर्दण्डाः पतितास्वशिरोक्षिभिः ।
पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ॥’
इति भारतवचनान्न विश्लेषाद्विशेषः ।
अतोऽनौपाधिकत्वादेव भेदस्य न मुक्तस्येश्वरैक्यम् ।
‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथयन्ति च ॥’ (भ.गी १४.२)
‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥’ (आथर्वण.४.३.३)
इत्यादिमुक्तभेदवचनेभ्यश्च ।
एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत् प्रतीयमानान्यपि वाक्यानि सादृश्याद्यर्थान्येव योजनीयानि ।
‘विरुद्धवत्प्रतीयन्त आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥’
इति ब्राह्मवचनाच्च ।
भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे तदपलापयुक्तेर्नितरां भ्रान्तित्वाद् भेदाद्यनुभवस्याभ्रान्तित्वमेव भवति ।
परस्परविरुद्धयोरन्यतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वात् ।
एकजीववादपक्षे तन्निष्ठानां मृत्यनन्तरमपि विश्वस्यानिवृत्तत्वात् भेदनिष्ठ एवैकजीव इत्यापतति ।
तस्य च तत्रैवाग्रहान्न कदाचिद्भेदनिवृत्तिरित्यनिवृत्तिरेव भवति ।
न चैकजीवाज्ञानपरिकल्पितास्समस्ता इत्यत्र किञ्चिन्मानम् ।
अतो मुक्तेभ्योऽप्यन्य एव समस्तगुणपरिपूर्णो भगवान् विष्णुरिति सिद्धम् ।

‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरेः ॥’

‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९)

सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते ।
नमो नारायणायार्यवृन्दवन्दितपद्द्वय ॥

आनन्दतीर्थपुंसिहो मायावादिदितेः सुतान् ।
विदार्य युक्तिनखरैरप्रतीपोऽभिभासते ॥

पलायध्वं पलायध्वं त्वरया मायिदानवाः ।
सर्वज्ञहरिरायाति तर्कागमदरारिभृत् ॥

द्रवत द्रवताऽशु मायिनः प्रविशध्वमतन्द्रिता गुहाः ।
कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः ॥

नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् ।
प्रपलायनमत्र तत्क्षमं त्वरया (वो) वसतिर्गुहासु च ॥

जयत्यानन्दतीर्थेष्टदेवता नरकेसरी ।
विपाटिताज्ञानतमःकपाटात्युरुहुङ्कृतः ॥

जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः ।
अजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः ॥

सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः(पङ्कजाश्रयः) ।
अजितो जयति श्रीशो रमाबाहुलताश्रयः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वोद्योतः